________________
२८४
[ पार्श्वाभ्युदये
प्रत्यादिष्टाः प्रत्याख्याता आभरणस्य रुचयः इच्छाः याभिस्ताः । संयुगे युद्धे । रणभूमावित्यर्थः । प्रतिदशमुखं दशमुखप्रतिपन्थिपक्षे । दश मुखानि यस्य सः दशमुखः रावणः । दशमुखं प्रति अभिमुखं प्रतिदशमुखं । 'लक्षणेनाभिमुख्येऽभिप्रती ' इति आभिमुख्येऽर्थे प्रतिशब्दस्य लक्षणवाचिना सह हसः । तस्थिवांसः पूर्वकाले स्थिताः । तस्थुरिति तस्थिवांसः । वसुः । अमी ते योधाप्रण्यः युयुधानाग्रेसराः । योधानां अग्रण्यः योधाग्रण्यः । अग्रे नयतीति अग्रणीः । ' क्विप्' इति क्विप् । 'ग्रामाग्रान्नीः ' इति नीनकारस्य णः । के कियन्तः । यत्र धीधनमुनयोऽपि कामवासना व्याकुलीभूतमनसः भवन्ति तत्राप्रत्याख्यातकषायाणां योधाग्रेसराणां का कथा ? ते तत्र अवश्यं स्मरपरवशाः भवेयुरिति भावः ।
Of what account would there be the foremost warriors, come into antagonism with the ten-mouthed one (i. e. Ravana) in the battle (lit. stood against the ten-mouthed one in the battle), repudiating desire for ornaments owing to the scars of wounds inflicted (upon them) by swords (or by the Chandrahasa), where other sages, possessing wealth in the form of knowledge like you, are under a spell of love on account of their being pierced through by the arrows in the form of the glances cast by the love-lorn ladies ?
कामस्यैवं प्रजननभुवं तां पुरीं पश्य गत्वा मिथ्या लोको वदति जडधीर्नन्विदं लोकमूढम् ।
मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ॥ १० ॥
अन्वयः - यत्र धनपतिसखं देवं साक्षात् वसन्तं मत्वा भयात् मन्मथः षट्पदज्यं चापं प्रायः न वहति ( इति ) लोक: मिथ्या वदति । ननु इदं लोकमृढम् । एवं कामस्य प्रजननभुवं तां पुरीं गत्वा पश्य ।
कामस्येत्यादि । aa कौर्या धनपतेः कुबेरस्य सखा धनपतिसखः । देवं त्रिनयनं रुद्रं साक्षात् प्रत्यक्षेण । वसन्तं स्थितिमन्तं मत्वा ज्ञात्वा भयात् रुद्राद्भीतेः मन्मथः कामदेवः । मननं
८
साक्षात्
"
मत् । चेतनेत्यर्थः । हन्मन्यम्रम्नम्गम्वनतितनादेर्डखं झलि ' इति डखे तुक्
Jain Education International
राजधान्यां घनपतिसखं कुबेरमित्र
1
(
राजाहः सखेष्टः ' इति षात् टः ।
>
प्रत्यक्षतुल्ययोः इत्यमरः ।
तम् ।
For Private & Personal Use Only
www.jainelibrary.org