________________
तृतीयः सर्गः ]
२८५
>
,
मनातीति मथः । मत्तः मनसः मथः मन्मथः । मदनो मन्मथो मारः प्रद्युम्नो मनिकेतनः । कन्दप दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः इत्यमरः । षट्पदज्यं भ्रमरमौर्वीकं । षट्पदाः भ्रमराः एव ज्या मौर्वी यस्य सः । तम् । ' षट्पद भ्रमरालयः ' इति 'मौर्वी ज्या शिञ्जिनीगुणः इति चामरः । चापं कोदण्डं प्रायः बाहुल्येन न वहति न धारयति इति लोकः जनः [ प्रायः बाहुल्येन ] मिथ्या असत्यं वदति कथयति । ननु निश्चयेन | ननु प्रभेऽवधारणे ' इति विश्वलोचने । इदं अलकावासिनः रुद्रस्व भयात् कामः कुसुमकोदण्डं न धारयतीतीदं लोकमूढं लोकानां भ्रमः प्रमादः वा । 'नब्भावे क्तोऽभ्यादिभ्यः' इति भावे क्तः नप् च । तेन मौढ्यमित्यर्थः । एवं प्रोक्तप्रकारण कामस्य कामवासनायाः प्रजननभुवं उत्पत्तिस्थानभूतां तां पुरीं अलकाख्यां तां प्रसिद्धां नगरीं गत्वा प्राप्य पश्य प्रत्यक्षेण विलोकय |
6
Visit and see that city, a place where feelings of love are excited The statment • It is a place where god of love, generally, does not wield a bow having bees for its string through fear provoked on knowing the god, the friend of the lord of wealth, dwelling actually there, ' is falsely made by the people. This is silliness, indeed, of the people.
स्याद्वा सत्यं कुकविरचितं काव्यधर्मानुरोधात्
सत्यप्येवं सकलमुदितं जाघटीत्येव यस्मात् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघैस्तस्याऽऽरम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ११ ॥
वा सभ्रूभङ्ग प्रहितनयनैः, कामिलक्ष्येषु अमोघैः चतुरवनिताविभ्रमैः एव तस्य आरम्भः सिद्धः इति एवं अपि यस्मात् कुकविरचितं सकलं उदितं काव्यधर्मानुरोधात् जाघटीति एव ( तस्मात् तत् ) सत्यं स्यात् ।
अन्वयः -
--
स्यादित्यादि । वा अथवा सभ्रूभङ्गप्रहितनयनैः सभ्रकुटिविरचन प्रयुक्तदृष्टिभिः । भुवः भ्रकुट्याः भङ्गः विरचना भ्रूभङ्गः । तेन सहितं यथा स्यात् तथा सभ्रूभङ्गम् । ‘झिः सुब्— ' इत्यादिना यौगपद्ये हसः । सभ्रूभङ्ग प्रहितानि प्रयुक्तानि नयनानि दृष्टयः येषु तैः । कामिलक्ष्येषु । कामिनः कामाकुलाः एव लक्ष्याणि कामिलक्ष्याणि । तेषु । अमोघैः सफलप्रक्षेपैः चतुरवनिताविभ्रमैः एव चतुरकामिनीजनदृगन्तविलासैः । चतुराः कुशलाश्च ताः वनिताश्च चतुरवनिताः । तासां विभ्रमाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org