________________
२२८
[पार्धाभ्युदये
अन्वयः- अधस्तात् सरस्तोयपूर्णो दृति इव इतः च अमुतः च त्वां आकर्षन्त्यः त्रिदशवनिताः क्रीडिष्यन्ति । सखे । ताभ्यः धर्मलब्धस्य तव मोक्षः यदि न स्यात् ताः क्रीडालोलाः श्रवणपरुषैः गर्जितैः भीषयेः ।
__ आकर्षन्त्यः इत्यादि । अधस्तात् अवरस्मिन् भागे। 'अस्ताति' इत्यधरशब्दस्याध्भावोऽस्ताति परतः। सरस्तोयपूर्णा- कासाराम्भःसम्भृताम् । सरसः कासारस्य तोयं पानीयं सरस्तोयं । तेन सम्पूर्णा सम्भृता । ताम् । इति इव कूपादिजलोन्नयनप्रयोजनं चर्मघट इव । ' मोट' इति महाराष्ट्रथां । इतः च अमुतः च अत्रामुत्र च । 'सार्वविभक्तिकस्तसिः' इति तसिरत्र ईबर्थे । त्वां भवन्तं आकर्षन्त्यः नयन्त्यः त्रिदशवनिताः सुराङ्गनाः क्रीडिष्यन्ति क्रीडां विधास्यन्ति । सखे ! भो मित्र ताभ्यः त्रिदशयोषाभ्यः धर्मलब्धस्य औषण्यालब्धात्मलाभस्य । औष्ण्यालब्धजन्मनः इत्यर्थः। धर्मादौष्ण्यालब्धं लाभः यस्य सः। तस्य । 'नन्मावे क्तोऽभ्यादिभ्यः' इति भावे क्तः न च । यद्वा धर्मे प्रावृट्कालेऽपि निर्वातावस्थायां यः धर्मः ऊष्मकाल: तस्मिन् लब्धः प्राप्तः तस्य तव । तव भवतः । मोक्षः विमोचनं याद न स्यात् न भवेचेत् तदा ताः देवाङ्गनाः क्रीडालोलाः क्रीडासक्ताः। 'लोला जिलाश्रियोर्लोलः सतृष्णचलयोस्त्रिषु' इति विश्वलोचने । इब्बहुवचनम् । श्रवणपरुषैः कर्णकठोरैः। श्रवणानां कर्णानां परुषाः निष्ठुराः श्रवणपरुषाः। 'परुषं कर्बुरे रुक्षे त्रिषु निष्ठुरवाच्यपि' इति विश्वलोचने । गर्जितैः स्तनितध्वनिभिः । भीषयः त्रासयः। गार्जध्वनिना तासु भयं जनयेत्यर्थः। 'भाययः' इति पाठं स्वीचिकीर्षोः 'भीषयः' इति पाठं च परिजिहीर्षोः 'अत्र हेनुभयाभावादात्मनेपदं षुगागमश्च न' इति मल्लिनाथस्योक्तिचिन्त्या, मेघस्य साक्षात्प्रयोजकत्वाभावात् भयकारणत्वाभावादूर्जितध्वनेर्भयकारणत्वाच दत्वप्रतिषेधसम्भवेऽपि व्याकरणान्तरेषु 'कुञ्चिकयनं भीषयति' इति प्रत्युदाहरणेपि घुगागम. दर्शनात् षुगागमस्य दत्वाभावेपि णो परतः सद्भावात् । अतो 'भीषयः' इति विधिलिङ्मध्यमपुरुषैकवचनत्यान्तः पाठोऽपि समीचीनः।।
The heavenly damsels, dragging you here and there like a leathern bag (meant for holding water ) filled up with water of a lake below, would be diverting the mselves. O friend ! if there could be no deliverance from them of you, secured by them at the time when there would be excessive heat, you should intimidate them, engaged in sport, by your thundering sounds harsh to the ear.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org