________________
द्वितीयः सर्गः]
२३३
___दृष्टेत्यादि। कामचारिन् भो यथेच्छविहारिन् । कामं यथेच्छं चरतीति कामचारी। तस्य किः । 'शीलेऽजातो णिन्' इति शीले णिन् । योगाभ्यासात् पौन:पुन्थेन समाचरिताद्ध्यानात् । हेतावत्र का। पुनः पुनः करणमभ्यासः। 'योगः सन्नाहसन्धानसङ्गतिध्यानकर्मणि' इति विश्वलोचने । दृष्टाध्यात्मस्थितिः अनुभूतशुद्धात्मस्वभावः । दृष्टा अनुभूता अध्यात्म स्थितिः येन सः। आत्मनि अधि अध्यात्म। भात्मनीत्यर्थः । अधिगताशेषवेद्यः ज्ञातनिखिलज्ञेयार्थः । अधिगतानि ज्ञातानि अशेषाणि निखिलानि वेद्यानि शेयार्थाः येन सः। विश्वदृश्वेत्यर्थः। सविद्यः सम्पादितकेवलज्ञानः । विद्यया सहितः सविद्यः। 'वा नीचः' इति सहस्य सः। अखिलं सकलं मुवनं भूमण्डलं सञ्चरन् विहरन् दूरदर्शी सूक्ष्मान्तरितदूरार्थानां साक्षादृष्टा । तत्र हिमशिखरिशिखरे लक्ष्म्याः सम्पदः सूर्ति प्रभवस्थानं भुवनविदितां भूमण्डले प्रसिद्धिं गतां अलकापुरी भलकाभिधानां यक्षनगरी त्वं भवान् पुनः भूयः साक्षात् प्रत्यक्षतः न दृष्टा अपश्यन् । पश्यतीति दृष्टा । 'मन्वन्कनिब्विचः क्वचित् ' इति कनिम्। तां अलकां न ज्ञास्यसे न वेत्स्यसि। अनुमानबलात्सम्पादितालंकापुरीज्ञानोऽपि तत्साक्षाद्दर्शनमन्तरेण तां यथार्थतया विज्ञातुमसमर्थोसीति तां साक्षाद्विलोकयेत्यविज्ञाताजनागमरहस्यशम्बरासुराभिप्रायः ।
O wanderer-at-will! You, experiencing the pure nature of the pure soul through repeated practice of concentration (upon the pure nature of the soul. knowing all the knowables, possessing pure knowledge, roaming over the whole of the world, possessing foresight (or knowing all the periodically and spatially remote objects ), would not know well the city of Alaka, there, known in the whole world, the source of wealth (or a place where wealth is acquired in abundance ), unless you would see it actually.
निर्वाणार्थ तितपसिषवोऽमी स्वयं क्लेशयन्ति
व्यर्थोद्योगा मयि तु वितृषः, किन्नु मत्तोऽधिकं तत् । इत्याकूताद्विहसितमिवाम्भोमुचामिन्दुशुभ्रं
____ या वः काले वहति सलिलोगारमुच्चैर्विमाना ।। ८३ ॥
अन्वयः-- या उच्चैर्विमाना 'निर्वाणार्थ तितपसिषवः व्यर्थोद्योगाः अमी स्वयं क्लेशयन्ति; मयि तु वितृषः; किंनु तत् मत्तः अधिकम् ?' इति आकूतात् वः अम्भोमुचा काले इन्दुशुभं सलिलोद्गार विहसितं इव वहति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org