________________
२४८
[पार्धाभ्युदये गलितकबरीबन्धभुक्तैः श्लथीभूतकेशवेशमुक्तैः। कचर्याः केशवेशस्य बन्धः विरचना कारीबन्धः। गलितः श्लथीभूतश्चासौ कबरीबन्धश्च गलितकवरीबन्धः । तस्मात् मुक्तैः गलितैः । काण: आस्तीर्णैः सभः भ्रमरसहितैः। भ्रमराकाणैः इत्यर्थः । कुसुमधनुषः पुष्पधन्वनः कामस्य बाणपातायमानैः शरपातसङ्काशैः। बाणपातः इव आचरतीति बाणपातायते। शानच् । 'क्यङ् च ' इति गौणादाचारेऽर्थे क्यङ् । पुष्पैः कुसुमैः ।
अधिक्षोणि भूमौ । 'झिः सब'- इत्यादिना सुबर्थे हसः। चरणनिहितैः लाक्षारागलिप्तत्वाच्चरणयुगलैर्भूमौ स्थापितैः । लाक्षारागैः अलक्तकरसरागैः । अपि कामिनीनां रिरसुनारीणां नैशः निशिभवः मार्गः अध्वा सवितुः भानोः उदये उदयसमये सूच्यते प्रकटीक्रियते ।
Wherein the path, ( traversed) at night, of love-lorn ladies is indicated at the time of the rise of the sun by flowers scattered here and there owing to their being dropped down from the braided hair, slackened owing to their being tossed by their gait, possessing bees, imitating the discharged arrows of the flower-arrowed god (i. e. of the god of love ) and by the lac-dyes deposited on the ground by their feet.
मन्ये यस्या जगति सकलेऽप्यस्ति नौपम्यमन्य
त्सर्वोपम्यप्रणिहितधिया वेधसा निर्मितायाः। यामध्यास्ते कमलनिलया सम्पदश्च प्रजाना- मानन्द्रोत्थं नयनसलिलं यत्र नाऽन्यैर्निमित्तैः ॥ ९७ ॥
अन्वयः - सौपम्यप्रणिहितधिया वेधसा निर्मितायाः यस्याः सकले अपि जगति अन्यत् औपम्यं नास्ति [इति ] मन्ये । यां कमलनिलया अध्यास्ते । [ यां] च प्रजानां सम्पदः [ अध्यासत ] । यत्र नयनसलिलं आनन्दोत्थं, न अन्यैः निमित्तैः ।
मन्ये इत्यादि । सर्वोपम्यप्रणिहितधिया सर्वोपमानदत्तावधानधिषणेन । सर्वाणि च तानि औपम्यानि उपमानानि च सौपम्यानि । तेषु प्रणिहिता दत्तवधाना धीः शेमुषी यस्य सः । तेन । वेधसा ब्रह्मणा । निर्मितायाः प्रादुर्भावितायाः । अत्र वेधसा निर्मितत्वं कविसमयमनुसृत्योक्तं, न युक्त्यनुशासनमनुसृत्येति मनसि विधेयम् । यस्याः अलकायाः सकले अपि जगति निखिलेऽपि भूमण्डले औपम्यं उपमानार्ह वस्तु । उपमानमित्यर्थः। नास्ति न विद्यते इति मन्ये शम्बरासुरोऽहं जाने । यां यस्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org