________________
द्वितीयः सर्गः]
२११
शरभोत्प्लवनमार्ग । मुक्तः परित्यक्तः अध्वा शरभोच्चलनमार्गः येन सः । तम् । भवन्तं त्वाम् । स्वाङ्गभगाय स्वशरीरविघातार्थे । स्वस्य आत्मनः अहं शरीरं स्वाङ्गम् । तस्य भङ्गः विघातः स्वाङ्गभङ्गः । स्वाअगानि भङ्कतुमित्यर्थः। 'तुमर्थाद्भावे' इत्यप् । सपदि शीघ्रं लघयेयुः अभिद्रवेयुः । तेषां शौर्यदर्पोधुराणां शौर्याभिमानोद्धतानाम् । शोर्यस्य वीर्यस्य दर्पः अभिमानः शोर्यदर्पः। तेन उद्धराणामुद्धतानाम्। एषां शरभाणां त्वत् त्वत्तः । त्वत्सकाशादित्यर्थः । असुहर प्राणहरं । प्राणघातकमित्यर्थः । असून प्राणान् हरतीति असुहरं । 'कर्मण्यण' इत्यण् । 'पुसि भूम्न्यसवः प्राणाः' इत्यमरः । भयं भीतिः मा भूत् न भवतु । लुङि रूपम् । 'लुङ्लङ्लुङ्यमाढाट् ' इति लुङि माङ्योगेऽडागमप्रीतषधः । 'माडि लुक्' इति मारयोगे लुङ् । इति हेतोः तत्र हिमाचले अद्रिकुरजे गिरिगड्वरे उच्चैः महतः स्वनिताननदान् गर्जितध्वनीन् । 'शब्दे निनादनिनदध्वनिध्वानरवस्वनाः' इत्यमरः। त्वं भवान् मा तथाः मा कुरु । लुङो दः । 'तनु विस्तोर' इत्यस्माद्धोः थासि परतः सेरुप् । 'हन्मन्यमम्नमूगम्वनतितनादेईखं झलि' इति तनुधोर्डस्य खं यास्थकारस्य झलत्वात् ।
You should not give out very loud thundering sounds there in the caverns of the mountain so that the Sarabhas, there, become ill-mannered owing to their being proud of their valour, possessing rapidity in their act of jumping high up in anger, who might be suddenly surprising you, keeping out of their way, ( only ) to tear down their own bodies, might not have any fear, depriving them of their lives, from you.
यद्यप्येते स्तनितरभसादुत्पतेयुभवन्तं
तैर्यग्योना भृशमपधियः स्वाङ्गभङ्गकनिष्ठाः। . तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्
केषां न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ६४ ॥ अन्वयः- यदि एते भृशं अपधियः स्वाङ्गभङ्गकनिष्ठयः तैर्यग्योनाः स्तनितरभसात् भवन्तं उत्पतेयुः अपि [तदा] तान् तुमुलकरकावृष्टिपातावकीर्णान् कुर्वीथाः । निष्फलारम्भयत्नाः केषां परिभवपदं न स्युः !
यदीत्यादि । यदि एते शरभाः भृशं अत्यर्थं अपधियः विनष्टसमीचीनज्ञानाः। अपगता विनष्टा धीः बुद्धिः येषां ते अपधियः । प्रादिवसः । स्वाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org