________________
२१०
[ पार्धाभ्युदये दहतेस्सन्नन्तालिङ् । तदा तस्मिन्काले स्वैः स्वकीयैः वारिधारासहस्रः जलधाराणां सहस्तः । सहस्रसङ्ख्याकाभिः वारिधाराभिरित्यर्थः । एनं प्रालेयादि अलं अत्यर्थ शमयितुं दावदहनजनितालोषसम्भूततदर्तिमपनेतुं अर्हसि योग्यो भवसि । हि यतः । 'हि पादपूरणे हेतौ' इति विश्वलोचने । उत्तमानां महत्तमान सम्पदः समृद्धयः आपन्नार्तिप्रशमनफलाः आर्तातिप्रशमनप्रयोजनाः । आपन्नानामापदुपहतानां याः अर्तयः दुःखसंवेदनानि तासां प्रशमनं परिहरणमेव फलं प्रयोजनं यासां ताः । भवतः वारिसम्पत्तियुक्तत्वात्प्रालयाद्रविद्युजनितजातवेदोविहितप्लोषत्वादापदुपहतत्वात्सम्पन्नेन भवता तदर्तिरवश्यं परिहर्तव्येति भावः । एनमित्यनेन जातवेदसो ग्रहणमयुक्तं तस्यानापन्नत्वात् तद्दःखप्रशमनस्यासम्भवात् । अतः एव मल्लिनाथादिटीकाकृत्कृतव्याख्यानं चिन्त्यम् । · If the fire of lightning, originating from you all at once, would cherish a desire to burn out the Himalaya with its forests possessing (masses of ) snow. then in that case you deserve to soothe it (the mountain ) fully by means of thousands of showers of your water; for the riches of the noblest: ( the best ) have their purpose effected by the alleviation of the sufferings of suffering mortals.
मोच्चैस्तत्र स्तनितनिनदानद्रिकुञ्ज तथास्त्वं
मैषां त्वद्भयमसुहरं शौर्यदर्पोद्धराणाम् । ये सरम्भोत्पतनरभसास्वाङ्गभङ्गाय तस्मिन्
मुक्ताध्वानं सपदि शरभा रखयेयुभवन्तम् ॥ ६३ ॥ - अन्वय :- तस्मिन् संरम्भोत्पतनरभसाः ये शरभाः मुक्तावानं भवन्तं स्वाङ्गभङ्गाय सपदि लङ्येयुः [ तेषां ] शौर्यदद्धराणां एषां त्वत् असुहरं भयं मा भूत् [इति ] तत्र अद्रिकुझे उच्चैः स्तनितनिनदान त्वं मा तथाः ।
मेत्यादि । तस्मिन् हिमवद्रौि संरम्भोत्पतनरभसाः कोपोच्चलनरभसाः ।। संरम्भेण प्रयत्नावेशेन कोपेन वा उत्पतनमुच्चलनं सरम्भोत्पतनं । 'संरम्भः सम्भ्रमे कोपे' इति शब्दार्णवे । संरम्भोत्पतनै रभसो वेगो येषां ते संरम्भोत्पतनरभसाः । 'हर्षे वेगे च रभसः' इति विश्वलोचने । ये शरभाः अष्टापदाख्याः मृगविशेषाः । 'शरभः शलभे चाष्टापदे प्रोक्तो मृगान्तरे' इति विश्वः । मुक्तावानं परित्यक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org