________________
२०८
[ पार्धाभ्युदये
'मृदो ध्वर्थे णिज्बहुलं' इति णिचि क्तः । त्वां भवन्तं। औल्लध्ये अवश्यमुल्लङ्घनीये मार्गे । 'व्या' इत्यावश्यकार्थस्य गम्यमानत्वाद् व्याः । उल्लङ्घ्य : एवौलध्यः । स्वार्थिकोऽण् । घटयितुं प्रेयितुं मार्गक्रमणार्थ बलाधानं कर्तुं वा शक्नुयादेव समर्थः भवेदेव । निश्चयेन समर्थो भविष्यतीत्यर्थः । तमिति पाठे तस्य हिमाचलमित्यर्थः 'अतिवर्षन् तं न उपेयाश्चेत्' इत्यन्वयश्च ।
If you would not approach it pouring heavy showers of rain at the same time when the wind would be blowing, the fire, produced by the friction of the branches of the Sarala (pine ) trees, would certainly be able to infuse spirit into you, emaciated owing to the fatigue of your jouruey, with your body enfeebled by your upward movement on the way running through the ranges of the mouutain, to resume your jouruey by the clustered columns of smoke generated by the trees grown in the forests.
आशृङ्गाग्रं कवचितमिवारूढमूर्ति हिमान्या
त्वत्सानिध्यादुपहितरसैश्वौषधीनां सहस्रैः। आकीर्णान्तं सरसगहनं शैलराज न चैनं
बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ॥ ६१॥ अन्वयः- हिमान्या आशृङ्गागं कवचितं इव आरूढमूर्ति, उपहितरसैः ओषधीनां सहस्त्रैः च आकीर्णान्तं, सरसगहनं च एनं शैलराजं उस्काक्षपितचमरीबालभारः दवामिः त्वत्सान्निध्यात् न बाधेत ।
आशृङ्गायमित्यदि। हिमान्या हिमसंहत्या । ' हिमानी हिमसंहतिः ' . इत्यमरः । ' हिमारण्यादुरौ' इति महत्यर्थे हिमशब्दात् डी आनुक् च । आशङ्गाग्रं शिखराममभिव्याप्य । 'आङ् मर्यादाभिविध्योः' इति अभिविधावाङत्र । '.पर्यपाङ्न. बहिरञ्चः ' इति सः । कवचितं इव कवचाच्छन्नीमव आरूढमूर्ति समन्ताद्व्याप्तदेहं । आ समन्तात् रूढा अध्यासिता मूर्तिहो यस्य सः । तम् । 'मूर्तिः कायेऽपि काठिन्ये मृत्युयाचितयोर्मतम् ' इति विश्वलोचने । आगूढमूर्तिमिति पाठे तु समन्ततश्छन्नविग्रहमित्यर्थः । उपहितरसैः धृताम्बुभिः । अत्यक्तार्दीभावैरित्यर्थः। 'रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे । पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ' इति विश्वलोचने। ओषधीनां फलपाकान्तजातीनां सहस्रः अनेकदेशशतकैः च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org