________________
द्वितीयः सर्गः]
२२५ क्रीडाशैले यदि च विहरेत्पादचारेण गौरी मा स्म स्फूर्जः, सितिफणिभयान्मा स्म सङ्क्तेदिनी भूत् ॥७५।।
अन्वयः- भुजगवलयं तस्मिन् हित्वा शम्भुना दत्तहस्ता इयं गौरी सम्प्राप्य आनीलरत्नैः उच्चैः विरचिते क्रीडाशैले इव त्वयि यदि च पादचारेण विहरेत् सितिफणिभयात् सङ्क्लेदिनी मा स्म भूत् [ इति] मा स्म स्कूर्जः ।
___ तस्मिन्नित्यादि। भुजगवलयं । भुजगः एव वलयं कटकं भुजगवलयं । यद्वा भुजगः वलयमिव भुजगवलयं । वलयाकारपरिणामितस्वकायमित्यर्थः। 'व्याघ्रादिभिरुपमेयोऽतद्योगे' इत्युपमानभूतवलयशब्देनोपमेयभूतभुजगशब्दस्योपमितसमासाख्यः सः । भुजैर्गच्छतीति भुजगः । 'गमेः खच्खड्डाः' इति डः । डित्त्वाचाभस्यापि टेर्लोपः । तस्मिन् कैलासाचले हित्वा त्यक्त्वा शम्भुना रुद्रतुल्येनेशानदिगीशेन । शम्भुरिव शम्भुः। 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । दत्तहस्ता वितीर्णहस्तावलम्बना । दत्तः वितीर्णः हस्तः करः यस्याः यस्यै वा सा। इयं एषा गौरी गौरीसहशी गौरागी वेशानदिगिन्द्रभार्या । गौरीव गौरी। 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । 'युक्तवदुसि लिङ्गसङ्ख्ये' इति स्त्रीलिङ्गनिर्देशः। सम्प्राप्य समागत्य । आनीलरत्नैः अतिनीलवर्णैः गारुत्मताख्यैर्मणिविशेषैः उच्चैः अत्युन्नतकैलासशिखरसमीपव्योमदेशे विरचिते कल्पिते क्रीडाशैले इव त्वयि क्रीडाद्रिसमाकारे भवति यदि च चेत् च पादचारेण चरणगमनेन विहरेत् सञ्चारं विदध्यात् सितिफणिभयात् कालोरगभीतः। सितिः कालवर्णः । ‘सिती धवलमेचको' इत्यमरः । सितिश्चासौ फणी च सितिफणी । तस्मात्तस्य वा भयं । तस्माद्धेतोः । सल्लेदिनी मानसदुःखवती । सङ्क्लेदः मानस दुःखमस्या अस्तीति सङ्क्लेदिनी। मा स्म भूत् इति न भवत्विति मा स्म स्फूर्जः गर्जितध्वनि मा कुरु । स्फूर्जतेर्लङ्मध्यमपुरुषैकवचनम् । 'सस्मे लङ् च ' इति लङ् लुङ् च । 'लुङ्लङ्ट्टङ्यमाढाट्' इत्यडागमप्रतिषेधः ।
And if, on arriving there, should the white-complexicned one, supported with hand by the lord of the north-east direction resembling Rudra, after throwing off his serpent serving as a bracelet (or twisted into a circular form), be moving about on foot on you resembling a pleasure-mountain boilt up with emeralds high up in the sky, you should not give out a thundering sound so that she should not be distressed through fear of a black-serpent.
पार्श्वभ्युदये....१५
Jain Education International
. For Private & Personal Use Only
www.jainelibrary.org