________________
द्वितीयः सर्गः]
२०३
प्रवाहे सपदि शीघ्रं संसर्पन्त्या प्रचलन्त्या भवतः तव च्छायया प्रतिबिम्बेन । 'छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु । प्रतिबिम्बेऽर्ककान्तायां तथा पङ्क्तौ च पालने' इति विश्वलोचने । सा गङ्गानदी। अस्थानोपगतयमुनासङ्गामा इव । अस्थानं गङ्गायमुनास्थानात् प्रयागाख्याद्भिन्नं स्थानं अस्थानं । 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नअर्थाः षट्प्रकीर्तिताः' इत्यन्यार्थे नत्र । अस्थाने उपगतः प्राप्तः यमुनासङ्गमः यया सा। भागीरथीत्यर्थः । सा इव । अभिरामा मनोहरा स्यात् भवेत् । भागीरथीशुभ्रवर्णाणसि प्रतिफलितत्वदाकारस्य यमुना!वर्णसवर्णत्वात् मेघच्छायाकुलायाः गङ्गायाः प्रयागादन्यत्रापि कालिन्दीसमागमसम्पत्तिरिति तात्पर्यम् ।
You, diffusing lustre like that of sapphire throughout your body, should wait only for a moment, though you would have drunk up abundent water. She would thereby become charming as if having a union with the Yamuna brought about at a wrong place owing to your image moving speedily through her flow of water (Or - She, owing to your image proceeding burriedly in her flow of water, would become as charming as she herself having her own stream united with that of the Yamuna at a wrong place.)
पुण्याम्बूनामिति भृतितरं चर्मपूरं प्रपूर्णः ।
किञ्चिद्गत्वा हिमवदचलस्याऽनुपादं निषीद । तत्पर्यन्ते वनपरिकरं प्रेक्षणीयं प्रपश्य
नासीनानां सुरभितशिलं नाभिगन्धैमगाणाम् ।। ५७ ॥ अन्वयः- इति पुण्याम्बूनां भृतितरं चर्मपूरं प्रपूर्णः किञ्चित् गत्वा हिमवदचलस्य अनुपादं तत्पर्यन्ते आप्तीनानां मृगाणां नाभिगन्धैः सुरभितशिलं प्रेक्षणीयं वनपरिकर प्रपश्यन् निषीद ।
पुण्याम्बूनामित्यादि। इति एवंप्रकारेण पुण्याम्बूनां मनोज्ञसलिलानाम् । 'पुण्यं तु सुकृते धर्मे त्रिषु मध्यमनोज्ञयोः' इति विश्वलोचने । 'प्रपूर्णः' इति पाठस्य वर्तमानार्थकक्तान्तत्वात् 'क्तस्याधारसतोः' इति ता । पुण्यानि मनोज्ञानि च तानि अम्बूनि जलानि च पुण्याम्बूनि । तेषाम् । पुण्याम्बुभिारत्यर्थः भृतितरम् । भृतिः भरणम् । 'स्त्रियां क्तिः ' इति भावेऽकर्तरि स्त्रियां क्तिः । प्रकृष्टा भृतिः भरणं यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org