________________
[ पार्श्वाभ्युदये
इति पूर्वाद्भुवी डुव । तस्य । आदिदेवस्य आदिब्रह्मणः ऋषभेश्वरस्य भर्तुः त्रैलोक्याधिपतेः । केशग्रहणं अकरोत् इन्दुलमोर्मिहस्तेन जिनबिम्बमूर्धदेशविरचितजटाजूटं जग्राह । गङ्गादेवी प्रासादशिखरस्थ कमलकर्णिकास्थितजटाजूटालङ्कृतादिदेवप्रतिबिम्बमूर्ध्नि गङ्गामहानदी पपातेति तात्पर्यम् । तां एव तां महतीं गङ्गार्नदीमेव एनां सरितं एनां गङ्गाभिधानां तत्प्रतिनिधिरूपां तरङ्गिणीं त्वं भवान् कलय अभिनीतात् । एषा मानससरस्सम्भूता गङ्गाभिधाना या नदी सा महागङ्गानद्येवेति त्वयाभिमन्तव्यमिति भावः ।
२००
Take this river for that very one who, having her hands in the form of waves clinging to the moon, possessing a white complexion, having as if laughed at the crooked formation of eye-brows by the masses of foam, took hold of the hair of the idol of lord Arhat, the first God (Tirthakara-) belonging to the goddess Ganga, existing at the place over which the water, flowing down from the Himavat mountain, falls.
स्वादु स्वच्छं शुचि हिमशिला सम्भवं हारि नीरं प्राप्तमोदं तटवनपतत्पुष्प किञ्जल्कवासैः अवश्रान्ति रथयितुमधः प्राप्तमात्रोऽध्यवस्येः
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी ॥ ५४ ॥
अन्वयः - अध्वनान्ति रथयितुं तस्याः स्वादु, स्वच्छं, शुचि, हिमशिला - सम्भवं, हारि, तटवनपतत्पुष्प किञ्जल्कवासैः प्राप्तामोदं नीरं अधः प्राप्तमात्रः व्योम्नि पश्चार्धलम्बी सुरगजः इव पातुं अध्यवस्येः ।
स्वाद्वित्यादि । अध्वश्रान्ति मार्गाक्रमणखेदं । अध्वनः मार्गाक्रमणस्य श्रान्तिः श्रमः अध्वश्रान्तिः । ताम् । थयितुं शिथिलीकर्तुं । अपनेतुमित्यर्थः । तस्याः भागीरथ्याः । स्वादु सुरुचिरं स्वच्छं निर्मलं शुचि स्फटिकोपमं पवित्र वा हिमशिलासम्भवं प्रालेयपाषाणनिष्यन्दि । हिमस्य प्रालेयस्य शिला हिमशिला । तस्याः सम्भवः जन्म यस्य तत् । व्यधिकरणो बसः । हारि मनोहरम् । ' हृद्यं हारि मनोहरं च रुचिरम् ' इति हलायुधः । सटवनपतत्पुष्पा कञ्जल्कवासैः । तटे तीरे विद्यमानं वनमरण्यं तटवनं । तत्र पतन्ति च तानि पुष्पाणि कुसुमानि च तटवनपतत्पुष्पाणि । तेषां किञ्जल्काः केसराः । तेषां वासैः गन्धैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org