________________
१८४
[पार्धाभ्युदये त्वम् । स्थूलमध्येन्द्रनीलं । स्थूलः महान् मध्यः मुक्तागुणमध्यदेशस्थितः ‘मध्य न्याय्येऽवकाशे च मध्यं मध्यस्थिते त्रिषु' इति विश्वलोचने । स्थूलः मध्यः इन्द्रनीलो मणिविशेषः यस्य सः। तम् । मध्यदेशस्थितस्थूलकायेन्द्रनीलमणिकमित्यर्थः । भुवः पृथिव्याः एकं एकयाष्टिकं मुक्तागुणं इव मौक्तिकनिबद्धसरमिव अनिमिषाः सुराः । 'सुरे मत्स्येऽप्यनिमिषः सुरे मत्स्येऽनिमेषवत्' इति विश्वलोचने । दृष्टीः नयनानि दूरं आवयं व्यापार्य । प्रक्षिप्येत्यर्थः। अग्रात् उन्नततरादाकाशप्रदेशात् धुवं अवश्यं 'ध्रुवं तु निश्चिते तर्के नित्यनिश्चलयोस्त्रिषु' इति विश्वलोचने । द्रक्ष्यन्ति विलोकयिष्यन्ति । नीलोत्पलतुल्यनीलिमालकृतकार्य चर्मण्यतीवेण्यां प्रतिबिम्बितं भवन्तं हारमध्यमणिनीकाशं गणयित्वा तं प्रवाहं 'भुवो हारयष्टिरिवायं प्रवाहः' इति सर्कयिष्यन्तीति तात्पर्यम् ।
When you, possessing complexion as dark as that of a blue lotus, would, for a moment, be hanging over the stream of the river ( Charmanvati ), carrying on rivalry with the rays of the moon, the . gods, casting their glances at a very long distance, would certainly be looking from the uppermost part of the sky ) upon the current as a single string of pearls worn ( lit. of ) by the earth having a big sapphire at its centre.
एवम्प्रायां सलिलविहृतिं तत्र कृत्वा मुहूर्त
वारां पुण्यां सुरगज इव व्योममार्गानुसारी । लीलां पश्यन् प्रजविपवनोद्धतवीचीचयानां
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणाम् ॥ ४१ ॥ अन्वयः- तत्र एवम्प्रायां सुरगजः इव सलिलविहृतिं मुहूर्तं कृत्वा व्योममार्गानुसारी प्रजविपवनोद्धृतवीचीचयानां परिचितभूलताविभ्रमाणां वारां पुण्या लीलां पश्यन् तां उत्तीर्य प्रज।
एवमित्यादि । तत्र चर्मण्वतीनद्यां एवम्प्रायां एतादृशीं सुरगजः इव ऐरावतः इव सलिलविहृति जलविहारं । सलिले जले विहृतिः विहारः क्रीडा सलिलविहृतिः । ताम् । मुहूर्त मुहूर्तमात्रकालं यावत् । कृत्वा विधाय । व्योममार्गानुसारी विहायसा गच्छन् । व्योम्नः व्योमैव वा मार्गः व्योममार्गः । तमनुसरतीति व्योममार्गानुसारी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org