________________
[पार्श्वभ्युदये
अयः । अङ्गानि कल्याणानि अस्याः सन्तीत्यङ्गना। लक्ष्णविषुणाङ्गना' इत्यङ्गान्नः निपातितः । मुग्धाः मूढाश्च ताः सिद्धाङ्गनाश्चमुग्धसिद्धाङ्गनाः । ताभिः । 'सुन्दरे वाच्यवन्मुग्धो मुग्धो मूढेऽपि वाच्यवत् ' इति विश्वलोचने । चकितचकितं । चकितप्रकाराः चकितचकिताः यथा स्युस्तथा । 'प्रकारे गुणोक्तेः' इति द्वैधीभावः। भयाकुलिताः भूत्वेत्यर्थः । दृष्टोत्साहः । दृष्टः अवलोकितः उत्साहः उद्यमः उर्ध्वगमनं यस्य सः । 'उत्साहस्तूद्यमे सूत्रतन्तावपि पुमानयम्' इति विश्वलोचने । त्वं लघु शीघ्र व्रज गच्छ ।
I think your behaviour like that of a clond (i. e. assumption of the form of a cloud ) with a view to imitate me would be but quite proper on your part when I, clad in a brilliant mail (arinour ), would be behaving like a black cloud. You assuming the form of a cloud, looked at with great fear by the simple Siddha-women rendered unhappy by the doubt cherished by them of your downfall, should go your journey quickly.
तस्माद्विद्युत्प्रसवसमये प्राप्य सिद्धिं वधूनां
सद्यः कृत्वा समुचितमदो दिव्यजीमूतरूपम् । दिव्यान्भोगान् समनुभवितुं कामुकः कामचारे
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखःखम् ॥५५॥ अन्वयः- तस्मात् अदः समुचितं दिव्यजीमृतरूपं कृत्वा विद्युत्प्रसवसमये वधूनां सिद्धि प्राप्य दिव्यान् भोगान् समनुभवितुं कामचारे कामुकः सरसनिचुलात् अस्मात् स्थानात् उदङ्मुखः (सन् ) खं सद्यः उत्पत । ... तस्मादित्यादि । तस्मात् मुग्वसिद्धाङ्गनाभिः पातशङ्काकुलत्वेन दृष्टत्वात् अदः तत् प्रोक्तं समुचितं सुयोग्यं । 'उचितं तु समञ्जसे | अनुमत्यां मिताभ्यस्तज्ञातेषु त्रिषु च त्रिषु' इति विश्वलोचने । दिव्यजीमूतरूपं । दिव्यं दिविभवमतः एक वल्गु सुन्दरं जीमूतस्य मेघस्य रूपमाकारस्तम् । जीवनस्य जलस्य मूतः बन्धः जीमूतः। पृषोदरादित्वात् साधुः । 'दिव्यं तु वलगौ दिविभवेऽन्यवत्' इति 'जीमूतो जलदे शके घोषेऽपि वृद्धिजीविनि । देवताडेऽपि जीमूतो जीमूतः पर्वतेऽपि च ' इति च विश्वलोचने। कृत्वा विरच्य विद्युत्प्रसवसमये तडिदुत्पत्तिकाले वधूनां कान्तार्थिनीनां सङ्केत यातुकामानां स्त्रीणां । 'वधूः स्नुषायां भार्यायां वधूोषिन्नवाढयोः । शट्यां च सारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org