________________
[ पार्श्वाभ्युदये
:
नायुधवार्तेत्यर्थः । पूर्वश्लोकोक्ता 'मे सहस्व प्रहारं ' इत्येवंजातीयाऽऽयुधकथा | 'आयुधं तु प्रहरणं ' इत्यमरः । तावत् आस्तां इदानीं परिहरतु भवान् । अयं स्वर्ज ः मार्गः यः भवन्तं स्वर्ग प्रापयिष्यति स मार्गः अयं । स्वर्जः स्वर्गे जायते इति स्वर्जः । कृषिफलं । कृषिः इलादिना भुवः कर्षणं । तस्याः फलं सस्योत्पत्त्यादिकं । त्वयि भवति आयत्तं अधीनं । ' अधीनो निघ्न आयत्तः' इत्यमरः । हलादिना क्षेत्रेषु कृष्टेष्वपि भवत्कृपामन्तरेण सस्योत्पत्त्यसम्भवात्कृषिफलं भवदधीनमेव । इति इति हेतोः ।' इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः ' इति विश्वलोचने । भ्रूविलासानभिज्ञैः । भ्रुवोः भ्रुकुट्योः विलासाः सङ्कोचविक्रासादिक्रीडाः । तासां अनभिज्ञैः ज्ञानेन विकलैः । अज्ञातसङ्कोच विकाशैः । अनिमिषैरित्यर्थः । क्षेत्रिणां क्षेत्राजीवानां कृषीवलानां । दृष्टिपातैः नायनैर्व्यापारैः । अनुगतः अनुसृतः। जीमूतत्वं मेघत्वं । जीवनस्य मूतः बन्धः जीमूतः । पृषोदरादित्वात्साधुः । दधत् धारयन् । मेघाकारपरिणतिस्त्वं । अमुष्मात् प्रदेशात् एतस्मात् भुवो भागात् । वियत् अभिपतेः आकाशप्रदेशं प्रत्यभिमुखीभूय तत्र गच्छेः ।
७२
Let the talk of a fight by means of which heaven is to be attained be aside for a while. This is the way leading to the heaven. First of all, you, assuming the from of a cloud followed by the farmer's eyes ignorant of the sportive movements of the eyebrows with the idea that the fruit of the agricultural labour is dependent on you, should fly up to the sky from this place.
विद्युन्मालाकृतपरिकरो भास्वदिन्द्रायुधश्रीरुद्यन्मन्द्रस्तनितसुभगः स्निग्धनीलाञ्जनाभः | शीघ्रं यायाः कृतकजलद त्वत्पयोबिन्दुपातप्रीतिस्निग्धैर्जनपद व धूलोचनैः पीयमानः ॥ ६२ ॥
अन्वयः
हे कृतकजलद ! विद्युन्मालाकृतपरिकरः, भास्वदिन्द्रायुधश्रीः, उद्यन्मन्द्रस्तनिसुभगः, स्निग्धनीलाञ्जनाभः, त्वत्पयोबिन्दुपातप्रीतिस्निग्धैः जनपदबधूलोचनैः पीयमानः ( त्वं ) शीघ्रं यायाः ।
-----
विद्युदित्यादि । हे कृतकजलद भो कृत्रिममेघ । अनैसर्गिकमेघ । प्रकृतमेघस्य मरुभूतिचरपार्श्वजिनाविकारत्वेन कल्पितत्वात्कृतकत्वम् । जलदेतितञ्ज्ञाविधानं भाविनैगमनयापेक्षं द्रव्यनिक्षपापेक्षं वा । विद्युन्मालाकृतपरिकरः । विद्युतां सौदामनीनां माला परम्परा विद्युन्माला । तया कृतः विहितः परिकरः व्यतिषङ्गः येन सः । विद्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org