________________
[पार्धाभ्युदये
रन्धं विवरं स्रोतोरन्धं । स्रोतोरन्ध्रे नासिकाकुहरे यद्ध्वनितं शब्दः तेन मधुरं यथा स्यात्तथा । 'स्रोतोऽम्बुवेगेन्द्रिययोः' इत्यमरः । इन्द्रियवाचिना स्रोतःशब्देन नासिकाऽत्र लक्ष्यते । यद्वा स्रोतोरन्धे कर्णविवरे यद्ध्वनितं समीरणपानध्वनिः तेन मधुरं यथा स्यात्तथा। 'स्रोतोऽम्बुलेशे कर्णे च स्रोतो देहशिरास्वपि' इति विश्वलोचने । पीयमानः आघायमाणः । मेघवर्षोच्छुसितवसुधासुगन्धलोंभेन नासिकाकुहरेणाघ्रायमाणः इत्यर्थः । असौ एषः सुगन्धः सुरभिः । शोभनः गन्धः यस्य सः। ‘सुपूत्युत्सुरभेर्गुणे गन्धस्यः' इत्यस्य बसत्वादिकारादेशेन सान्तेन भाव्यामिति चेत्, न, सान्तविधरनित्यत्वाद्गन्धशब्दस्य द्रव्यवचनत्वाद्वा । शोभनाः गन्धद्रव्यकणाः सन्त्यस्येति सुगन्धः। गन्धवाहः समीरणः । गन्धं सुगन्धं वहतीति गन्धवाहः । 'कर्मण्यण्' इति कर्मणि वाचि धोरण् । 'पृषदश्वो गन्धवहो गन्धवाहाऽनिलाऽऽशुगाः। समीरमारुतमरुजगत्प्राणसमीरणाः' इत्यमरः। त्वां भवन्तं अनुवन वने। 'झिः सुब्-' इत्यादिना विभक्त्यर्थे हसः । उन्नेष्यति प्रापयिष्यति ।
This wind, pregnant with fragrance, drunk by elephants in a manner charming owing to the low gruff sound produced in the apertures of their trunks, charming on account of its contact with the odour emitted by the earth sending out vapour on account of your discharge of rain, would convey you, who would be trying to proceed on from that place after having crossed the river anyirow, to the interior part of a forest.
गत्वा किञ्चिच्छ्रमपरिजुषस्त्वत्क्लमच्छेददक्षः
प्रत्युद्यासुः प्रियसुहृदिवारूढसौगन्ध्ययोगः। नीचैर्वास्यत्युपजिगमिषोदेवपूर्व गिरिं ते
शीतो वातः परिणमयिता काननोदुम्बराणाम् ॥ ३०॥ अन्वयः- किञ्चित् गत्वा देवपूर्व गिरि उपजिगमिषोः श्रमपरिजुषः ते प्रियसुहृत् इव प्रत्युद्यासुः त्वक्लमच्छेददक्षः आरूढसौगन्ध्ययोगः काननोदुम्बराणा परिणमयिता शीतः वातः नीचैः वास्यति।
गत्वेत्यादि । किश्चित् ईषदूरं गत्वा यात्वा देवपूर्वं देवशब्दपूर्व । देवशब्दः पूर्वस्मिन् यस्य सः । तम् । गिरि पर्वतं । देवगिरिमित्यर्थः । उपजिगमिषोः उपगन्तुमिच्छोः । 'समिक्षाशंसादुः' इति सन्नन्ताद्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org