________________
द्वितीयः सर्गः ]
तत्र कर्णप्रदेशे तद्वई निवेशयतीति भावः । सः अपि तस्य स्कन्दाभिधानविघ्नहर - देवविशेषस्य भर्तुः विभोः वाहनं यानभूतः । नित्यनपुंसकलिङ्गत्वात् नपुंसकत्वम् । बर्ही मयूरः । बर्हाणि पिच्छानि सन्त्यस्येति बहीं । 'अतोऽनेकाचः' इति इन् । त्वत्तः भवत्सकाशात् । श्रुतिपथसुखं । श्रुत्योः श्रोत्रयोः पन्थाः श्रुतिपथः । 'ऋक्पूरप्पथोऽत् ' इत्यकारः सान्तः । श्रुतिपथस्य श्रोत्रविवरस्य सुखं सुखकरं श्रुतिपथसुखं । गर्जितं स्तनितं प्राप्य लब्ध्वा । श्रुत्वेत्यर्थः । तुष्टः सन्तुष्टः सन् केकाः के कारवान् । 'केका वाणी मयूरस्य' इत्यमरः । प्रतिविकुरुते प्रत्युक्तिरूपेण जनयति । त्वगर्जितं श्रुत्वा केकारवान् कुरुते इत्यर्थः ।
Even that peacock, the conveyance of that lord ( Skanda ), satisfied on receiving (through ears) your thundering pleasing to the ears, a dropped feather of whom possessing circles formed by streaks of lustre, does Bhavani ( lit. the beloved of the Rudra ), ( owing to her affection towards him taken by her into a relationship of a son, put on her ear in such a way as to make it come into contact with the petal of the blue lotus, gives out crackling sounds in response ( to your thundering ).
यः सद्धर्मात्सकलजगतां पावकाल्लब्धजन्मा
तस्य प्रीत्या प्रथममुचितां सत्सपर्या विधेहि । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ३४ ॥
१७५
अन्वय- यः सकलजगतां पावकात् सद्धर्मात् लब्धजन्मा तस्य प्रीत्या उचितां सत्सपर्या प्रथमं विधेहि । पश्चात् हरशशिरुचा धौतापाङ्गं पावके: तं मयूरं अद्रिग्रहणगुरुभिः गर्जितैः नर्तयेथाः ।
य इत्यादि । यः स्कन्दाभिधानो देवः सकलजगतां सकलानां जगन्निवासिनां लोकानां । जगतामित्यनेन तन्निवासिनां लोकानां ग्रहणं, तात्स्थ्यालोकानां जगद्यपदेशात् । पावकात् । पुनातीति पावकः । ' ण्वतृच् ' इति ण्वः । सद्धर्मात् शोभनाद्धर्मात् । संश्चाऽसौ धर्मश्व सद्धर्मः । तस्मात् । लब्धजन्मा प्राप्तसम्भवः । लब्धं प्राप्त जन्म सम्भवः येन सः लब्धजन्मा । तस्य पुण्योदयादेवभूयं प्रातस्य स्कन्दस्य प्रीत्या अनुरागेण । भक्त्येत्यर्थः उचितां योग्यां । तदमित्यर्थः । सत्सपर्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org