________________
[ पार्श्वाभ्युदये
सा । तैर्भिन्ना विनष्टा वीचिमाला यस्यां सेति व्याख्याने गिरितटभवगजानां क्षोभैरिति विग्रह एवोररी कर्तव्यः गिरितटसञ्जनितक्षोभैर्वीचिमालाभङ्ग स्वासम्भवात् गजकृतक्षोभैरेव तत्सम्भवात् । भक्तिच्छेदैः वर्णविनिर्मितचित्राकृतिविभागैः । भक्तीनां वर्णविरचितमनोहराकृतीनां छेदाः विभागाः । तैः । गजस्य अङ्गे गजशरीरे विरचितां विनिर्मितां भूर्ति इव मातङ्गाङ्गारमिव तां नर्मदां प्रीत्या सन्तोषेण पश्य प्रेक्षस्व । शीघ्रं द्रक्ष्यसि । ‘लिङ् चौर्ध्वमौहूर्तिके' इति और्ध्वमौहूर्तिकार्थे ' अधीष्टे' इति सम्भावनायां वा लोट् । ' भूतिर्मातङ्गशृङ्गारे भस्मसम्पत्तिजन्मसु ' इति विश्वलोचने ।
८८
I hope, you would see delightfully the river, Narmada, having her flow scattered or increased abundantly in the vicinity of the forests grown on the slopes of that mountain, having her foam increased vehcmently owing to the dashing of her flow against the skirts of her banks, abounding in fish, having series of waves brought into being by the agitation of the elephants dwelling on the slopes of the mountain (Vindhya) (or having her water stirred into series of waves by the elephants and on account of the slopes of the mountain), and looking like decoration on the body of an elephant, formad in variously coloured stripes.
दत्तं वन्यैरिव कलभकैः पुष्करेणोत्क्षिपं द्भिः प्रायोग्यं ते मुनिमत चिरं वासनावासितस्य । ग्रावक्षुण्णोच्चलितमथवा त्वं हरेवर्यवार्य
यस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः ॥ ७७ ॥
अन्वयः • भो मुनिमत ! तिक्तैः वनगजमदैः वासितं पुष्करेण उत्क्षिपद्भिः वन्यैः कलभकैः दत्तं इव ( वारि) चिरं वासनावासितस्य ते प्रायोग्यं । अथवा ग्रावक्षुणोच्चलितं अवार्य तस्याः वारि वान्तवृष्टिः त्वं हरेः ।
-
दत्तमित्यादि । भो मुनिमत । मुनिरिति मतः अभिमतः मुनिभिर्मतः वा मुनिमतः । तस्य सम्बोधनं । तिक्तैः सुगन्धिभिः सुरभिभिः । 'तिक्तो रससुगन्धयोः इति विश्वलोचने । वनगजमदैः । वने भवाः गजाः हस्तिनः वनगजाः । तेषां मदैः दानवारिभिः वासितं सञ्जनितसौगन्ध्यं । सुरभीकृतमित्यर्थः । 'वासितं विहगारवे । दाने त्रिष्वेव वसनवेष्टिते सुरभीकृते ' इति विश्वलोचने । पुष्करेण गुण्डाग्रेण । ' पुष्करं व्योम्नि पानीये हस्तिहस्ताम्रपद्मयोः । रोगोरगौषधिद्वीपतीर्थभेदेऽपि सारसे । काण्डे खड्ङ्गफले वाद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org