________________
१०६
[ पार्श्वाभ्युदये
ताम् । शरीराकारधारिणीं । मत्वर्थीयः इन् । मत्वर्थश्चात्र प्रशंसा संसर्गो वा । सालोदयां सालेन प्राकारेण उदग्रामौन्नत्यं प्राप्तां श्रियं शोभां लक्ष्मी वा । नाभिभूतां शरीरस्थनाभिकमलमिव दशार्णमध्यभागस्थायिनीं दिक्षु सर्वासु दिशासु प्रथितविदिशा लक्षणां । प्रथितं प्रसिद्धिं प्राप्तं विदिशेति लक्षणं अभिधानं यस्याः सा । तां । ' लक्षणं नाम्नि चिह्न च रामभ्रातरि लक्षणः ' इति विश्वलोचने । तेषां दशार्णानां राजधानीं । धीयते अस्यां इति धानी | निवासस्थानमित्यर्थः । ' करणाधारे चानट् ' इत्याधारे अनट् । राज्ञःधानी राजधानी । अत्र तायाः कृद्योगलक्षणत्वात्सः । उक्तं वार्तिककृता कात्यायनेन ' कृद्योगलक्षणा षष्ठी समस्यते' इति । प्रधाननगरीमित्यर्थः । 'प्रधाननगरी राज्ञां राजधानीति कथ्यते' इति शब्दार्णवे । गत्वा प्राप्य पश्येः अवलोकयेः ।
Having approached you should see the capital of that country which is as good as a navel (i. e. situated at the centre of it), with its appellation Vidisha well-khown in all the quarters over, the beauty as if of the earth incarnate magnified owing to its rampart (or to the Sala trees), inviting you as if very much again and again from a long distance through the topmost parts of the mansions with the hands in the from of flags set in motion by the wind (or with the hand-like flags set in motion ).
सौधोत्सङ्गे क्षणमुपनिषत्तृष्ण तूष्णीं निषण्णो जालोद्गीर्णैः सुरभिततनुर्धूपधूमैर्मनोज्ञैः ! वारस्त्रीणां निधुवनरतिं प्रेक्षमाणस्त्वमेनां
गत्वा सद्यः फलमपि महत्कामुकत्वस्य लब्धा ॥ ९४ ॥
अन्वयः --- उपनिषत्तृष्ण त्वं एनां गत्वा सोधोत्सङ्गे क्षणं तूष्णीं निषष्णः जालोद्गीर्णैः मनोज्ञैः धूपधूमैः सुरभिततनुः वारस्त्रीणां निधुवनरतिं प्रेक्षमाणः कामुकत्वस्य महत् अपि फलं सद्यः लब्धा ।
सौधेत्यादि । उपनिषत्तृष्ण समुत्पन्नाभिलाष । उपनिषीदति इत्युपनिषत् । क्विप् । उपनिषत् तृष्णा अभिलाषः यस्मिन् असौ उपनिषत्तृष्णः । तस्य किः । त्वं भवान् एनां विदिशाभिधानां राजधानीं गत्वा सम्प्राप्य सौधोत्सङ्गे हयपरितनतले । सौधानां हर्म्याणां प्रासादानां वा उत्सङ्गे वलभिप्रदेशे सौधोत्सङ्गे । क्षणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org