________________
द्वितीयः सर्गः ]
१५३
भिलाषं । मा स्म हर विफलां मा कुरु । 'सस्मे लङ् च' इति सस्मे माङि लुङ्लडोविधाने कृते सत्यपि 'स्में लोट्' इति प्रेषेऽधीष्टे वा लोट् । प्रेषः बलान्नियोगः । अधीष्टमिच्छा । प्रत्यग्रनागकेसरकुसुमार्थी त्वदीयां इच्छां, प्रत्यग्रनागकेसरमूलानां त्वजलार्थोमिच्छां, जलपरिपूर्णानां त्वादृशामन्येषां मेघानां जिनेन्द्रपूजनेच्छां मा विफलां कुरु । जलवृष्टया नागकेसरकुसुमम्बन्धिनी स्वामिच्छां नागकेसरमूलानां स्वजलामिच्छां वा सफलां कुरु । तन्मन्दिरं विहायाकाशमार्गेणालकां यियासुर्जलवृष्टिं कृत्वा शीघ्रं याया इत्यर्थः । यद्वाऽऽत्मानं तन्मदिरादपसार्य त्वादृशोऽन्यान्मेघाञ्जिनपूजनावसरं प्रदायानतोऽ लकाध्वनि शीघ्र बजेति भावः।
Worshipping the protector of animals (i. e. Jina ) like Indra, possessing excellent beauty becoming manifest (of its own accord ), having your body endowed with a new form modified according to your liking (i. e. taste ) or with lustre like that of the neck of a peacock, winning high praise expressed with a cry of well done, well done' at the time of the performance of a danco, do not give up your very strong desire for the fresh flowers of Nagakesara ( Mesua Roxburghii ) ( for worship ) ( or do not frustrate the strong desire of the fresh or young Nagakosara trees ).
नाट्यं तन्वन्सुरुचिरतनुर्नाटय व्योमरङ्गे
तारापुष्पप्रकररुचिरे सौम्यविद्युन्नटी तां । नायं रौद्रो मृदुरिति चिरं साधुवादैः प्रियान्ते
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ १६ ॥ अन्वयः- नाट्यं तन्वन् 'न अयं रौद्रः (अपि तु) मृदुः' इति प्रियान्ते साधुवादैः भवान्या शान्तोद्वेगस्तिमितनयनं चिरं दृष्टभक्तिः, सुरुचिरतनुः, तारापुष्पप्रकररुचिरे व्योमरङ्गे तां सौम्यविद्युन्नटी नाटय । .. नाट्यमित्यादि । नाट्यं गीतवादित्रानुगतं नृत्यं । 'ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने । तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्' इत्यमरः । 'नाट्य तौर्यत्रिके लास्ये' इति विश्वलोचने । तन्वन् विदधानः 'न अयं रौद्रः (अपि तु) मृदुः' अयं नृत्यं कुर्वाणो न रोद्रः भयङ्करः, अपि तु मृदुः मनोहरः । 'मृद्वतीक्ष्णे त्रिषु लक्ष्णे' इति विश्वलोचने । इति अमुना प्रकोरण । ' इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org