________________
१२०
[पा भ्युदये
वृत्तिः येन सः । तास्थ्यात् मनसोऽपि आकृतत्वं । तेन प्रकटितमनोव्यापारः इत्यर्थः। स्रोत: प्रवाहं पश्यन् अवलोकयन् व्रज गच्छ ।
You, seeing the flow of the Nirvindhyā, to which you would have evinced your emotions inexpressibly, which would be possessing rolling eyes in the form of wallowing fish, having a girdle-string in the form of birds chirping loudly on account of the agitation of the waves, manifesting her navel in the form of eddies, moving in a way charmful owing to her stumblings, should proceed on your journey.
त्वय्यौत्सुक्यं स्फुटमिव विनाऽप्यक्षरैर्व्यञ्जयन्त्याः
किञ्चिल्लञ्जावलितमिव सन्दर्शिताप्तागमायाः निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य
स्त्रीणामाधं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ १०६ ॥ अन्वयः- पथि सन्निपत्य अक्षरैः विना अपि स्फुटं इव त्वयि औत्सुक्यं । व्यञ्जयन्त्याः किञ्चिल्लजावलितं इव सन्दर्शिताप्तागमायाः निर्विन्ध्यायाः रसाभ्यन्तरः भव, हि ( यतः ) स्त्रीणां प्रियेषु विभ्रमः आद्यं प्रणयवचनम् ।
स्वयीत्यादि । पथि उजयिन्याः मार्गे सन्निपत्य तां निर्विन्ध्यानीं प्राप्य अक्षरैः विना अपि शब्दानुच्चारणपूर्वकं अपि स्फुटं इव प्रव्यक्तमिव त्वयि भवति । भवद्विषये इत्यर्थः । औत्सुक्यं उत्कण्ठां व्यञ्जयन्त्याः व्यक्तीकुर्वत्याः किञ्चिलजावलितं । किञ्चिदीषत् लजया ब्रीडया अपत्रपया आवलितं स्वशरीरवक्रीभवनं यथा स्यात् तथा । निर्विन्ध्यानद्याः वक्रिमाणमपेक्ष्योत्प्रेक्षितमेतत् । इव इवशब्दोऽयमत्रोत्प्रेक्षायां प्रयुक्तः । सन्दर्शिताप्तागमायाः। सन्दर्शितः प्रकटीकृतः आप्तस्य बान्धवस्य आगमः आगमनं यया सा । तस्याः । बसः । अत्र बान्धवाभिधेयाप्तशब्देन प्रियस्य ग्रहणं कर्तव्यम् । निर्विन्ध्यायाः निर्विन्ध्यासरितः रसाभ्यन्तरः आपातसलिल: अनुभूतशृङ्गाररसजनितानुभावव्यभिचारिभावः वा । रसः जलं शृङ्गारादिर्वा अभ्यन्तरे यस्य सः । भव तन्नदीरसं सम्यक्तयाऽनुभव । हि यतः स्त्रीणां अङ्गनानां प्रियेषु विषये विभ्रमः नाभिसन्दर्शनादिरूपः विलासः आचं आदौ भवं । प्रणयवचनं प्रार्थनावाक्यं प्रणयगर्भाक्यं वा । 'प्रणयः प्रेमविशम्भप्रश्रयप्रसरेऽर्थने ' इति विश्वलोचने । कामिनीनां लज्जालुत्वात् सञ्जातस्वाभिप्रायविवक्षाणामपि तदर्थगर्भवचनन्याहारे सामर्थ्याभावात्ताः स्वाभिप्रायं नाभिप्रदर्शनादिरूपैविलासरेव व्यञ्जयन्तीति त्वया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org