________________
१४२
[ पार्श्वाभ्युदये
Oh cloud! if you are desirous of seeing (or hearing) the very wonderful conference ( or talk ) of those that are dead, then appro ching the Mahakala forest at any time other than night-time, you should wait there only for a while because the meetings of those that are dead are always held even in day-time which, being dark owing to the flights of vultures above, is as good as night.
तस्माज्जीर्णद्रुमशतबृहत्कोटरान्तः प्रबद्धध्वानोलक प्रतिभयरवे प्रेतशोफातिरौद्रे । तस्योपान्ते परिणत शिवारब्धसांराविणाये स्थातव्यं ते नयनविषयं यावदत्येति भानुः ॥ ६ ॥
अन्वयः तस्मात् यावत् भानुः ते नयनविषयं अत्येति ( तावत् ) तस्य जीर्णद्रुमशतवृहत्कोट रान्तः प्रबद्धध्वानो लुकप्रतिभयरये प्रेतशोकातिरौद्रे परिणतशिवारब्धसांराविण उपान्ते स्थातव्यम् ।
"
तस्मादित्यादि । तस्मात् यस्मात्कारणाद्दिवाऽपि प्रेतगोष्ठीदर्शनश्रवणे सम्भवतः तस्मात्कारणात् । यावत् यावता कालेन । अत्र मानार्थे यावच्छन्दः । ' यावन्मानेऽ वधारणे। सीनि कान्यें परिच्छिदे' इति विश्वलोचने । भानुः सहस्ररश्मिः ते तव नयनविषयं नेत्रगोचरं । नयनयोः नेत्रयोः विषयः गोचरः नयनविषयः । तम् । ' विषयो गोचरे देशे इन्द्रियार्थेऽपि नीवृति' इति विश्वलोचने । अत्येति अतिक्रामति। तावता कालेन तस्य महाकालवनस्य । जीर्णद्रुमशतबृहत्कोटरान्तःप्रबद्धध्वानोलूकप्रतिभयर वे जीर्णवृक्षशतवृहद्विलान्तर्विरचितध्वनिपेचकभयङ्करण्वनो । जीर्णाश्च ते द्रुमाश्च जीर्णद्रुमाः । तेषां शतं जीर्णद्रुमशतं । अत्र सङ्ख्यावाची शतशब्दः वैपुल्यार्थे प्रयुक्तः । बृहतो विशालाश्च ते कोटराः निष्कुहाश्च बृहत्कोटराः । जीर्णद्रुमशतस्य बृहत्कोटरा : जीर्णद्रुमशतबृहत्कोटराः । तेषामन्तर्मध्ये प्रबद्धः निरुद्धः ध्वानः ध्वनिः येषां ते । ते च ते उलूकाः पेचकाः । तेषां प्रतिभयाः भयजनकाः रवाः ध्वनयः यस्मिन् । तस्मिन् । उलूकानामपि भयजनकाः ध्वनयस्तत्र सन्तीति भावः । निष्कुहः कोटरं वा ना इत्यमरः । ' उलूकः पेचक्रे शक्रे कुरुयोधेऽपि सम्मतः इति ' क्लीवं प्रतिभयं भीतौ वाच्यवत्त भयानके ' इति च विश्वलोचने । ' भयङ्करं प्रतिभयं ' इत्यमरः । प्रेतशोफातिरौद्रे शवश्वयथुनाऽतिभयङ्करे । प्रेतानां शवानां शोफेनातिरौद्रे अतिभयङ्करे । ' शोफस्तु श्वयथुः शोथः ' इत्यमरः । परिणत शिवा
"
3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org