________________
प्रथमः सर्गः]
भाण्डवक्त्रे च पुष्करम्' इति विश्वलोचने । उत्क्षिपद्भिः ऊर्ध्वं क्षिपद्भिः वन्यैः वनेभवः कलभकैः करिशावकैः । कलभाः एव कलभकाः । स्वार्थे कः। 'कलभः करिशावक :' इत्यमरः । दत्तं इव वितीर्ण इव। नर्मदाजलस्य स्वयं ग्रहणे देशभङ्गरूपाचौर्यमहाव्रतातिचारभयं तेऽस्ति चेत्, न तत् त्वया स्वयं ग्राह्य । तत्तु ऊर्च प्रक्षिपद्भिः करिशावकैदत्तमिवेति तद्ग्रहणे न कोऽपि दोषः । पुनश्च करितत्कलभकान्तःसञ्चारसञ्जनितक्षोभत्वात् हस्तिहस्तिपोतहस्तसन्ताडितत्वाच्च प्रासुकत्वात्ते प्रयोगयोग्यमस्ति । अतोऽपि तद्ग्रहणे नास्ति कोऽपि दोषः । तस्य तादृशस्य प्रासुकत्वेऽपि पुष्करान्तर्गतमलमलिनीकृतत्वादशुद्धत्वान्न तद्ग्राह्यं यतीनामिति चेत्, प्रावक्षुण्णोच्चलितमत एव प्रासुकत्वान्नदीप्रदत्तत्वाच्चावार्यमपरिहरणीयं जलं त्वया ग्राह्यमेवेत्यग्रे वक्ष्यत्यत्रैव । चिरं चिरकालं यावत् । वासनावासितस्य परित्यक्तेच्छस्य उबुद्धेच्छस्य वा। वासना आ समन्तात् वासिता दूरीकृता येन सः । वाहिताग्न्यादित्वात्सः । यद्वा वासनया अभिलाषेण वासितस्य कृतसंस्कारस्य । जलार्थ सञ्जाताभिलाषस्येत्यर्थः । यद्वा आवासिता संस्कृता उबुद्धा वा वासना इच्छा यस्य सः। वाहिताम्न्यादित्वात्सः । ते तव मुनेः प्रायोग्य प्रयोगार्ह । उपयोगयोग्यमित्यर्थः । प्रयोगे साधु प्रयोग्यं । प्रयोग्यमेव प्रायोग्यं । 'तत्र साधुः' इति यः स्वार्थिकोऽण् च । अथवा तदपि न ग्राह्यमिति चेत्, पावक्षुण्णोच्चलितं तस्याः वारि अवार्य। तवेति शेषः । ग्राणि ग्राव्णा वा क्षुण्णं विदितं अत एवोच्चलितं आकाशप्रदेशे उत्क्रान्तं प्रावक्षुण्णोच्चलितं । ग्राव्णा पाषाणेन क्षुण्णत्वात् प्रासुकं उच्चलितत्वाच्च नद्या स्वयं दीयमानमिति प्रासुकत्वादत्तादानदोषरहितत्वाच्च तस्याः नर्मदानद्याः वारि जलं अवार्य दोषादुष्टत्वात्त्वया अपरिहरणीयं, अपि तु तव ग्राह्यमेव तत् । अत एव वान्तवृष्टिः कृतवर्षः त्वं भवान् हरेः गृहाण । त्वं गृहिष्यसीति संम्भावये । 'अधीष्ट' इति सम्भावनायां लोट् ।
Oh! a recognised sage, the water ( of the Narmada) scented by the fragrant ichor of wild young elephants and offered as if by the wild elephants throwing it up with their trunks, deserves to be utilised by you who are free from desires since a very long time. If you do not agree upon what I say, you, having poured forth showers, should accept that water of that river which is not at all worthy of being rejected owing to its being dashed against her rocks and so thrown up thereby.
तत्स्वादीयः सुरभि शिशिरं प्रार्थनीयं मुनीनां
निर्जन्तुत्वादुपलनिपतन्निर्झराम्भ:प्रकाशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org