________________
प्रथमः सर्गः]
त्समुत्पद्यते । 'सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः साभ्रे । वियति धनुःसंस्थानाः ये दृश्यन्ते तदिन्द्रधनुः ॥” इति वराहमिहिरः । निश्चयान्तेयं सन्देहालङ्कृतिः। 'स्यातां विषयतद्वन्तौ सन्देहविषयौ कवेः । सादृश्यात्सन्मद्यतात्र सन्देहालङ्कृतिर्मता ॥ शुद्धा निश्चयगर्भा च निश्चयान्तेति सा त्रिधा। शुद्धा यथा च सन्देहमात्रपर्यवसायिनि ।' इत्यलङ्कारचिन्तामणौ।
Is this, that is being manifested very high up in the sky in front of us and that is worthy of being enjoyed sight of like a commixture of the lustres of various jewels, a garland tied high up at the time of your departure (or a canopy, a lofty construction erected at the time of your departure ) or is this the loosened girdle of the celestial Laxmi (the heavenly beautiful lady or the beauty of heaven in-carnate) or is this a multicoloured low ? Is this, that is being seen emanating from this hole of the earth and rising high up in the sky, verily a prismatic circlo formed by the lustre issuing from the head-jewel of a cobra de capello, the expansion of which is prevented by the eartb ? That this which originates from the top of the ant-hill is,most probably, a piece of Indra's bow resorting to the clouds intermixed (or intermingled ) with the rays of the sun.
खड्गस्यैकं कथमपि दृढं मे सहस्व प्रहारं
वक्षोभागे कुलिशकठिने प्रोच्छलद्रक्तधारम् । विद्युद्दण्डस्फुरितरुचिना वारिदस्येव भूयो
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते ॥५९॥ अन्वयः- कुलिशकठिने वक्षोभागे प्रोच्छलद्रक्तधार में खड्गस्य एकं दृढं प्रहारं कथं अपि सहस्व, येन ते श्यामं वपुः विद्युद्दण्डस्फुरितरुचिना वारिदस्य वपुः इव
अतितरां कान्ति भूयः आपत्स्यते। - खड्गस्येत्यादि । कुलिशकठिने । कुलिशस्य वज्रस्य इब कठिने कर्कशे ।
दुर्भद्ये इत्यर्थः । 'कुलिशं पवौ' इति विश्वलोचने । 'वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः' इत्यमरः । वक्षोभागे । वक्षः उरः एव भागः एकदेशः शरीरस्य । तस्मिन् । 'भागो रूपार्थकांशयोः । एकदेशे च भाग्ये च विपूर्वस्तु विभञ्जने' इति विश्वलोचने । प्रोच्छलद्रक्तधारम् । प्रोच्छलन्ती रक्तस्य रुधिरस्य धारा प्रवाहः येन यस्मात् वा हेतुभूतात् । मे मम खड्गस्य निस्त्रिंशस्य । 'खड्गः खड्गिनि निस्त्रिंशे खड्गिशृङ्गे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org