________________
प्रथमः सर्गः]
३३ अनुभव । तत् तस्मात् कारणात् यस्यां अलकाख्यनगर्या या रात्रेः निशायाः विगमे अवसाने दम्पतीनां जायापतीनां । ' दम्पती जम्पती जायापती भार्यापती च तौ' इत्यमरः । जाया च पतिश्च जम्पती' राजदन्तादित्वाज्जायाशब्दस्य जम्निपातः। प्रातस्तननिधुवनग्लानिं । प्रातर्भवं जातं वा प्रातस्तनं । 'सायंचिरंप्राणेप्रगझेः' इति भवार्थे जातार्थे वा तनट् । प्रातस्तनं निधुवनं मैथुनं च प्रातस्तननिधुवनं मैथुनं च प्रातस्तननिधुवनं । 'मैथुनं निधुवनं रतम्' इत्यमरः । तस्य ग्लानिः आयासः । प्रातस्तननिधुवग्लानिः । ताम् । ' ग्लाज्याहो निः' इति भावे निः । उच्चैः अत्यर्थं हरन्ती विनाशयन्ती प्रीतिं सुखं । ' मुत्प्रीतिः प्रमदो हर्षः' इत्यमरः । विधत्ते जनयति । सा धौतहम्यों धौतानि धवलीकृतानि होणि प्रासादाः यया सा धौतहा । बाह्योद्यानस्थितहरशिरश्चन्द्रिका बाह्यं च तत् उद्यानं च बाह्योद्यानं । तत्र स्थितश्चासौ हरश्च । तस्य शिरसि शिरोभागे स्थिता चन्द्रिका बाह्योद्यानस्थितहरशिर. श्वन्द्रिका । । सेव चन्द्रिका चन्द्रोद्योतः । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । चन्द्रिकायाः प्रशस्ततरत्वख्यापनार्थ बाह्योद्यानस्थितहरशिरश्चन्द्रिकया साम्यं वर्णितमिति विज्ञेयं । सततविरहोत्कण्ठितः सततमविरतं विरहेण स्वजायायाः वियोगेन उत्कण्ठितैः सञ्जातोत्कठैः । 'सततानारताश्रांतसन्तताविरतानिशम् ' इति 'उत्कण्ठोकलिके समे' इति चाऽमरः । उत्कण्ठा सजाता येषां ते उत्कण्ठिताः । तैः । तदस्य सञ्जातं तारकादिभ्य इतच' इततिच् । चक्रवाकैः कोकैः । 'कोकश्चक्रश्चक्रवाकरथाङ्गाह्वायनामकः ' इत्यमरः । सास्रं अश्रुपातेन सह यथा स्यात् तथा दृष्टा अवलोकिता सा यक्षेश्वराणां । यक्षाणामीश्वराः यक्षेश्वराः । तेषां । अलकानाम अलकाभिधाना वसतिः निवासस्थानम् । 'वसती. रात्रिवेश्मनोः' इत्यमरः । ते, त्वया गन्तव्या यातव्या । त्वया तत्र गन्तव्यमित्यर्थः 'व्यस्य वा कर्तरि ता इति कर्तरि व्यस्य प्रयोगात् ।
Oh you, praised by sages I the first alternative being very difficult to give effect to is not easy to be achieved by you and the last one is not appreciable owing to humiliation. A recourse to the middle alternative is, therefore, better for you. Enjoy happiness there (in the heaven) along with the heavenly damsels. Alaka, the place of residence of the lords of the Yakshas, wherein the moonlight, very bright like the one emanating from the forehead of Hara staying in the external garden, looked at with tears by the Chakrawaka birds miserable owing to their being continuously separated (from their beloveds ), brightening the palatial buildings
पार्श्वभ्युदये...३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org