________________
प्रथमः सर्गः]
नैवं दाक्ष्यं यदि तव ततः प्रेष्यतामेत्य तूष्णीं
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।। २६ ॥ अन्वयः-- मदसिहतिभिः मृत्यु प्राप्य निकारात् मुक्तः (त्वं) स्वर्गलोके अप्सरेभिः वीरश्रियं अनुभव ( इति ) देवं याचे । यदि तव एवं दाक्ष्यं न ततः तूष्णीं प्रेष्यतां एत्य धनतिक्रोधविश्लेषितस्य मे सन्देशं हर।
याचे देवमित्यादि । मदसिहतिभिः । मम असिः खङ्गः, मदसिः । तस्य हतिभिः आघातः। मृत्यु प्राप्य मरणं सम्प्राप्य निकारात् परिभवात् मुक्तः सञ्जातमोक्षः । 'निकारो विप्रकारः स्यात्' इत्यमरः । स्वर्गलोके देवलोके अप्सरोभिः देवाङ्गनाभिः सह । देवस्त्रियेत्यर्थः । 'स्त्रियां बहुष्वप्सरसः' इत्यमरः । वीरश्रियं वीरलक्ष्मी अनुभव निर्विश । सङ्ग्रामे सञ्जातमृतेः स्वर्गप्राप्तिर्भवतीत्यन्ये तार्थिकाः । यक्षस्यासञ्जातसम्यक्वादियमुक्तिः समीचीना । यदि तव एवं एवंविधं दाक्ष्यं सामर्थ्य न नास्ति चेत् ततः तदा तूष्णीं जोषं प्रेष्यतां भुजिष्यत्वं । 'नियोज्यकिङ्करप्रेष्यपरिचारकाः ' इत्यमरः । एत्य सम्प्राप्य । धनपतिक्रोधविश्लेषितस्य । धनपतिरिव धनपतिः । ' देवपथादिभ्यः , इतीवार्थस्य कस्योस्। कुबेरसदृशस्यारविन्दमहाराजस्य क्रोधेन कोपेन विश्लेषितस्य प्रेयस्याः दूरीकृतस्य मे मम यक्षस्य कमठचरस्य सन्देशं वार्ता हर नय । मत्प्रेयसी प्रति प्रापयेत्यर्थः । यद्वा धनपतिः कुबेरः। तस्य क्रोधेन कोपेन विश्लेषितस्य विश्लेषं वियोगं प्रापितस्य मम यक्षस्य कमठचरस्य सन्देशं वार्ता हर नय । धनपतितुल्येनाविन्दमहाराजेन वसुन्धरागमनकोधितेन वसुन्धराया वियोजितस्य मम तस्याश्च विभिन्नदेशोद्भवाद्वियोग. स्यान्यभवेऽपि पूर्ववदेव विद्यमानत्वादसञ्जातमीलनत्वात् मत्तो वियुक्तां तां मम प्रेयसी प्रति सन्देशं नयेति भावः ।
I request you that you, got clear away from humiliation by putting an end to your life by the strokes of my sword, should enjoy happiness derived from the highest position of a warrior along with the heavenly damsels in the heavenly world. If you have not got ( if you are devoid of ) such a capacity, then, having become my messengesr silently (i. e. without any grudge ) convey a message of mine whose separation (from the beloved ) is caused by the anger of the Kubera - like King ( Aravinla.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org