________________
प्रथमः सर्गः]
यौनसम्बन्धस्य अभावादनुपोऽसम्भवात् । भ्रातृशब्देनाऽत्र कमठचरो लक्ष्यते । कमठचरगामिन्यपि वसुन्धरा मरुभूतिचरभार्या कमठस्य धर्मपत्नी नासीत् । अतस्ताषसेन कमठधर्मपत्नीत्वाभावः प्रकटीकृतः । द्रक्ष्यसि अपश्यः। स्वभायाँ स्वभ्रातृकमठचरभार्याभूयं गतामपश्यः। भ्रातृगामिनीमपश्य इत्यर्थः ।
Do you remember that you, going along with the lord of the earth (i. e. the King Aravinda ), went away abandoning her who was very recently married and accepted (by you ) in her very childhood and that you, whose progress was not arrested, saw her, who arrosted the escape of her own ) life from her body with a great difficulty and so who was not dead, turned into your brother's chaste wife?
चित्रं तन्मे यदुपयमनानन्तरं विप्रयुक्ता __ त्वत्तः साध्वी सुरतरसिका सा तदा जीवति स्म । मन्ये रक्षत्यसुनिरसनाद्धातुमापद्गतानां
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम् ॥ ३५॥ अन्वयः --- उपयमनान्तरं त्वत्तः विप्रयुक्ता सा सुरतरसिका तदा साध्वी ( सती) यत् जीवति स्म तत् मे चित्रं । आपद्गतानां अङ्गनानां हि कुसुमसदृशं धातुं असुनिरसनात् प्रायशः आशाबन्धः रक्षति (इति) मन्ये ।
चित्रं तदित्यादि । उपयमनानन्तरं विवाहोत्तरकाले । त्वतः भवत्तः । विप्रयुक्ता सञ्जातविप्रयोगा सा वसुन्धरा सुरतरसिका। रसः अभिलाषः अस्याः
अस्तीति सुरतरसिका । ' अतः इनिठनौ' इति ठन् । सुरताभिलाषा सत्यपि तदा । विप्रयोगकाले साध्वी साध्वाचारा। अनाचरितदुराचारेत्यर्थः। यत् जीवति स्म अजीवत् तत् मे मम चित्रं विस्मयावहं । 'विस्मयोऽन्दुतमाश्चर्य चित्रं ' इत्यमरः । आपद्तानां आपदं विपत्तिं गतानां प्राप्तानां, आपदा विपत्त्या गतानां प्रस्तानां वा । आपन्नानामित्यर्थः । अङ्गनानां वनितानां । 'स्त्री नारी वनिता मुग्धा भामिनी भीरङ्गना' इति धनञ्जयः । हि अवधारणे । ' हि विशेषेऽवधारणे' इति विश्वलोचने । कु.सुमसदृशं सुमनस्तुल्यं । कुसुमवदतिसुकुमारमित्यर्थः । धातुं आत्मानं मनः इत्यर्थः । असुनिरसनात् असूनां प्राणानां निरसनात् परिहरणात् । परित्यागादित्ययः । प्रायशः प्रायेण आशाबन्धः । बध्यते अनेन इति बन्धः। आशा एव बन्धः बन्धनरज्जुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org