________________
प्रथमः सर्गः] भूतिविरहकाले कमठस्य कामसेवनं तदातत्वनिबन्धनमिति स्वदोषसमर्थन करोत्यत्र कमठचरो यक्षः । किमुत सुहृदां। यो जनः सामान्यपुरुषाणामपि सरणिमनुसत्मार्तत्वान्न समर्थः सः साधुमनस्काराणां महापुरुषाणां चातुर्य शान्तमनस्कत्वं चानुकतु कथं समर्थो भवेदित्यभिप्रायमाविष्करोति कमठचरो यक्षः । विप्रयोगे विरहे जाते सति पुनःसनामाशा। 'विप्रयुक्तेन मे पुनरमि समागमो भविष्यति' इत्यभिलाषः । पाति । पातः पतनं विहितमार्गाच्च्यवनं अस्याऽस्तीति पाति । 'अतोऽनेकाचः' इति इन् । विशेषण भ्रान्तं भवदित्यर्थः । प्रणयिहृदयं । प्रणयः प्रेम अस्यास्तीति प्रणयि। अदन्तत्वादनेकाचः प्रणयशब्दस्य ततः इन् । प्रणयिनः हृदयं प्रणयिहृदयं । हृदयं मनः । सद्यः शीघ्रं । रुणद्धि प्रतिबध्नाति । प्रपतनात त्रायते किम् ? अपि तु न त्रायते इत्यर्थः । भवत्सङ्गमाशा मध्दृदये समुत्पन्नाऽपि मदीयमनसोऽधःपातं प्रतिबध्दुं न शक्नोति स्मेति कमठचरः स्वदुराचारसमर्थन कर्तुमत्र यतते ।
It is a matter of great wonder that I, though separated from you, enjoyed the objects of sense - organs. Can the world of living beings wlien it is disappointed and when its mental abilities are affected, adapt to the calmness of mind of the ordinary men ? What to that of those who arc affectionate ? Can a hope for reunion withhold at once the heart of the affectionate which is on the point of being failon off (i. e. sunk )? ।
इत्युक्ताऽथो पुनरपि सुरः सामभेदौ व्यतानीत्। . योऽन्तःस्नेहस्त्वयि चिरमभूत्पूर्वबन्धोस्तदा मे। धिक्कारस्तं तिरयतितरां त्वत्कृतोऽस्मान् स हन्तुं
__ मन्द मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् ॥ ३७॥ अन्वयः- इति उक्त्वा सुरः पुनः अपि सामभेदौ व्यतानीत् - अथो पूर्वबन्धोः मे अन्तः यः स्नेहः त्वयि तदा चिर अभूत् तं त्वत्कृतः धिक्कारः तिरयतितरां । स (च) अनुकूल: पवनः यथा त्वां हन्तुं अस्मान् मन्दं मन्दं नुदति।
__ इत्युक्त्वेत्यादि । इति उक्तप्रकारेण उक्त्वा प्रोच्य सुरः शम्बरासुरः पुनरपि भूयोऽपि सामभेदी सामभेदवचने । स्यति वैरं सामयति वा साम । प्रियवचनादित्यर्थः । साम सान्त्वने । भेदनं भेदः । द्वैधीभावः इत्यर्थः 'भेदो द्वैधविशेषयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org