________________
.
५८
.. [पार्धाभ्युदये
अन्यय :-वा प्रौढमानः मयि वैरीन्धनदहि एतत् न अभिप्रेयाः किं ? कि अपरं ? नो विलम्बेन तिष्ठ । त्वां अद्य एव अन्तकमुखबिलं प्रापयामि । मे कथयतः त्वत्प्रयाणानुरूपं मार्ग मत्तः त्वकं ाणु।।
किं वेत्यादि । वा अथवा । प्रौढमानः। प्रौढः वृद्धिंगतः मानः अभिमानः बलगर्वः यस्य सः। वृद्धिंगतगर्वः इत्यर्थः । 'प्रादूहोढोढ्यषैष्ये' इति प्रादूढे परतः ऐप् । त्वं भवान् मरुभूतिचरः पार्श्वनाथः मयि कमठचरे यक्षे मयि । वैरीधनदहि । वैरी एव इन्धनं दाह्य वैरीन्धनं । तद्दहतीति वैरीन्धनधक् । किम् । तस्मिन् । वैरीन्धनदाहक मामनादृत्येत्यर्थः । ' ता चाऽनादरे' इत्यनादरे ईप् । एतत् पूर्वोक्तं किं न अभिप्रेयाः न
अभिजानीयाः। नाभिप्रेयाश्चेन्न क्षमेऽहमित्यभिप्रायः । 'अश्रद्धामर्षे लिङ्' इत्यमर्षे लिङ् । किं अपरम् किमन्यत् ? किमन्यदत्र वक्तव्यामिति भावः । नो विलम्बेन तिष्ठ! अकालहीनं युद्धार्थ सन्नद्धो भव । कालयापनं मा कुर्वित्यर्थः । त्वां भवन्तं अद्यैव अस्मिन्नेव दिने । अन्तकमुखबिलं । अन्तकस्य कृतान्तस्य मुखं बिलमिव अन्तकमुखबिलं । कृतान्तमुखविवरमित्यर्थः। प्रापयामि प्रेषयामि । गमयामीत्यर्थः । त्वयि कृतान्तमुखविवरं मया प्रापिते सति स्वर्गमभिमुखीभूय प्रस्थितस्य ते। त्वत्प्रयाणा. नुरूपं । त्वत् तव प्रयाणस्य अनुरूपं अनुकूल मार्ग स्वर्गगमनपदवीं मे मम कथयतः प्रीतपादयतः मत्तः मत्सकाशात् । त्वक। अनुकम्पितः त्वं त्वकं । 'युष्मदस्मदोः सुपोऽभोसि' इति युष्मदो वान्तात् प्राक्टरक् । शणु कर्णगोंचरतां प्रापय । 'मार्गेऽग्रहायणे वाटे कस्तूरीविषयोरपि' इति विश्वलोचने । यदि त्वं मदुक्तमुररीकर्तुं नेच्छसि त्वां. स्वर्गातिथिभूयमिदानीमेव प्रापयामीति भेदनीतिं प्रयुङ्क्ते कमठचरः ।
Or, would you, with your pride fully developed (puffed up with pride ) not be willing to accept thuis, even though I have the capacity for reducing the fuel in the form of enemies to ashes, then I would not bear it. What else then ? Do not delay at all. ( Be ready very soon for a figlit ). I shall just to-day drive you into the caviiy of (formed by ) the jaws of the god of death. Learn from me the path fit for your journey while I wonld be describing it.
श्रेयोमार्गान हि जिनमताभ्रंशितस्यैक एव
मार्गोऽसह्यादसुखविषधेारकात्तारको यः । तं मुक्त्वा ते श्रुतिसुखपदं वच्मि यत्र प्रियायाः
सन्देशं मे तदनु जलद श्रोष्यसि श्रव्यबन्धम् ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org