________________
प्रथमः सर्गः ]
श्लोक एव सद्भावात् तस्योत्तरत्रान्वयासम्भवात् प्रकृतश्लोकोक्तवर्णनस्य कविप्रोक्तत्वात्कमठचरयक्षप्रोक्तत्वासंभवाच्च प्रकृतश्लोकप्रयुक्तानां 'तदा' इति ' तस्मिञ्जलदसमये' इति चैषां पदानामनद्यतनभूतार्थप्रतिपादनपरत्वात् ' योगिन् ' इंति 'प्रस्खलेः ' इति च पदयोरनद्यतनभूतार्थप्रतिपादनानर्हत्वाच्च परिवर्तितावित्यध्यवसेयं सुधीभिः ।
At that time on account of the delicate Indragopa worms the earth became beautiful at once; the caves of the mountains resounding with the cries of the peacocks became worthy of being resorted to (or being enjoyed). At that time, when there were clouds (in the sky ), the sage, owing to the courageousness of his mind, did not deviate from his right course (i.e. meditation). Those only, who are naturally timid (low spirited ), have their minds disturbed (excited) with respect.to the sentient and the non - sentient.
ऊर्ध्वखं तं मुनिमतिघनैः कालमेघैः प्रयुक्तो
धारासारो भुवि नमयितुं नाशकद्दुःसहोऽपि । जात्याश्वानामिव बहुगुणे भूभृतामुग्रनाम्नां
जातं वंशे भुवनविदिते पुष्कलावर्तकानां ॥ २१ ॥ अन्वय :- अतिघनैः कालमेघैः प्रयुक्तः धारासारः दुःसहः अपि पुष्कलावर्तकानां जात्याश्वानां भुवनविदिते बहुगुणे वंशे जातं ऊर्ध्वहूं इव पुष्कलावर्तकानां उग्रनाम्नां भुवनविदिते बहुगुणे वंशे जातं त ऊर्ध्वजु मुनि भुवि नमयितुं न अशकत् ।
ऊर्ध्वक्षुमित्यादि । अतिघनैः अतिसान्द्रैः कालमेघैः कृष्णवर्णमेघैः । जलपूर्णत्वात् संजातकृष्णवर्णरित्यर्थः । प्रयुक्तः विहितः धारासारः धाराणां जलधाराणां आसारः वेगवद्वर्षः। 'आसारो वेगवद्वर्षम्' इत्यमरः । दुःसहः अपि। दुःखेन कृच्छ्रण सह्यते इति दुःसद्दः । अशक्यसहन इत्यर्थः । पुष्कलावतकानां । पुष्कलाः निर्दोषाः आवर्ताः लक्षणविशेषाः येषां ते पुष्कलावतकाः । तेषां । 'विशदे पुष्कलामलम्' इति धनञ्जयः । जलावर्तसदृशाकारः केशविरचितः लक्षणविशेषः आवर्तः । जात्याश्वानां। जात्याः कुलीनाश्च ते अश्वाश्च जात्याश्वाः । 'जात्यं कुलीने श्रेष्ठऽपि' इति विश्वलोचने । तेषां । भुवनविदिते। भुवनेषु विदिते भुवनविदिते । लोकप्रसिद्ध इत्यर्थः । 'बुद्धं बुधितं विदितं मनितं प्रतिपन्नमवसितावगते' इत्यमरः । 'मतिबुद्धिपूजार्थेभ्यः क्तः' इत्यादिना क्तान्तस्य वर्तमानार्थत्वे 'क्तस्य चाधारसतोः' इति भुवनशब्दस्य तान्ततानियमात् समासः न स्यात् ‘कर्तरि क्तेन' इति षसो निषेधात् । बहुगुणे । बहवः
Jain Education International
For Private & Personal Use Only
• www.jainelibrary.org