Page #1
--------------------------------------------------------------------------
________________
[ग्रन्थाङ्कः ५
श्रीक्षान्तिसूरि-जैन-प्रन्थमाला] श्रीमन्मोहनहर्षक्षान्तिसूरीश्वरसद्गुरुभ्यो नमः ।
श्रीमज्जिनहर्षगणिप्रणीतं श्रीवस्तुपालचरितं [पद्यात्मकम्]
इदं पुस्तकं सुगृहीतनामधेय-पू०-शान्तमूर्ति-ख०-आचार्यदेव-श्रीक्षान्तिसूरीश्वरशिष्यरत्न-पू०-पन्यासश्रीकीर्तिमुनिमहाराजसदुपदेशतो मरुदेशान्तर्गतदयालपुरावास्तव्यश्रेष्ठिनां द्रव्यसाहाय्येन श्रीक्षान्तिसरिजैनग्रन्थमालायाः कार्यवाहकाभ्यां दोशी फुल्लचन्द्र छोटालाल,
दोशी शान्तिलाल कालीदास इत्येताभ्यां प्रकटीकृतम् । वीरसंवत् २४६७ विक्रमसंवत् १९९७
ईस्वीसन् १९४१ किं. रु. २-१३-० मुद्रक-हीरालाल देवचंद शाह "श्री शारदा मुद्रणालय" पानकोर नाका, जुमामसीद सामे अमदावाद.
Page #2
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
निवेदन
चरितम् ।।
प्रकाशकनु निवेदन
॥१॥
अमारी ग्रन्थमालाना पांचमा अंक तरिके आ "वस्तुपालचरित" नामनो ग्रंथ जनता समक्ष धरतां अमने घणोज आनंद थाय छे. अत्यार | सुधीनां अहिंथी प्रकाशन पामेला पुस्तकोमा आ श्रेष्ठ छे, एम कहे, अस्थाने न ज गणाय, कारण के आ ग्रंथ घणोज रसिक होवाथी वाचकने * वारंवार वाचवो गमे तेम छे. भाषा पण धणी ज रसिक छे. आ ग्रंथ- संपादनकार्य पूज्यपाद पंन्यास श्री कीर्तिमुनिजी महाराज एओश्रीए |घणोज परिश्रम लइ करेलुं छे, अने घणुंज शुद्ध छे. आथी तेमनो मोटो आभार मानीए छीए. वळी आ ग्रंथमाळाना निभाव सारु अमने नीचे | लखेला मरुदेशना रहीश गृहस्थोए मदद करेली तेथी ज अमे आ ग्रन्थनुं प्रकाशन करवा भाग्यशाळी थया छीए, माटे आ प्रकाशन अंगेर्नु मान तो |ते सद्गृहस्थोने ज घटे छे. अने अमे पण एमनो मोटो आभार मानीए छीए.
॥१॥
Page #3
--------------------------------------------------------------------------
________________
ग्रन्थमालामां मदद आपनार गृहस्थोनां नाम. शाह जवारमल्ल पन्नाजी (दयालपुरा) (७) शाह चंदनमल जोधाजी मोतीलाल (दयालपुरा) (१३) शाह देवीचंद्र जोधाजी (दयालपुरा) (२) , कर्पूरचंद्रजी वर्धाजी , (८) , गेनाजी ओखाजी
(१४) , वीरचंद्र सुरतींगजी , (३) , रघुनाथजी जसाजी , (९) , सवाजी पनाजी , (१५) , अचलाजी वनाजी ,
(४), शीरेमल हजारीमल , (१०), जीताजी मकनाजी , (१६) , कर्पूरचंद्र नरसिंहजी , E (५) , दानाजी कस्तूरजी , (११) , जेठाजी मूलचंद दीपचंद , (१७) , दयालपुरा ज्ञानखातुं ,
, तगराज सरुपजी , (१२) , जोयलानो संघ
आ ग्रन्थमालामां मदद मळवा छतां भेट माटेनां केटलांक शान्तिनाथचरित्र, विक्रमचरित्र भाषान्तर वगेरे बाद करतां बाकीना ग्रन्थोनी जे || | मध्यम किंमत राखेली छे ते आ ग्रन्थमाळानु कार्य उत्तरोत्तर वृद्धिंगत थाय ते कारणथी ज छे. तो आ बाबतमा कोइने अनिष्ट शंका न उद्भवे | *एवी आशा छे.
ली. नम्रसेवको. संवत् १९९७ श्रावण पूर्णिमा.
दोशी. फुलचंद छोटालाल. मु. महुधा
दोशी. शान्तिलाल कालीदास. वाया-नडियाद.
श्री. क्षा. सू. जै. अं. कार्यवाहक तथा आ ग्रंथना प्रकाशक.
Page #4
--------------------------------------------------------------------------
________________
प्रस्तावना
श्रीवस्तुपाल चरितम् ।
॥प्रस्तावना॥
॥२॥
***898488*
श्रीजिनहर्षगणिना चित्रकूटे रचितमिदं पद्यबद्धं वस्तुपालचरितं रसिकतमं वरिवर्त्ति । तत्सदृशमन्यदस्मिन्समये क्वचिदेव प्राप्येत । गुर्जरेषु बहव एतादृशा जैनमन्त्रिण आसन् , ये केवलं मन्त्रिण एव न, किन्तु महान्तो योद्धारो वदान्याश्च, तेषु चरितस्यास्य नायको वस्तुपाल-तेजःपाल- | | नामानौ अग्रगण्यावभूताम् , तयोश्च वस्तुपालः । एनयोश्च पत्नीषु तेजःपालस्यानुपमादेवी बुद्धिचातुर्येण सर्वा अत्यवर्तिष्ट समये समये मन्त्रिणोरपि | मार्ग प्रादर्शत् । __अस्मिंश्चरित्रे गुरूणां वस्तुपालं प्रत्युपदेशोऽनेकश आयाति । तस्मिंश्च प्रतिसमयं भिन्नभिन्नविषयाणामुपर्युपदिष्टम् । दृष्टान्ता अपि दत्ताः । तेषु | द्रव्योपकारलाभे भरतराजकथा, पुष्पपूजायां सुन्दरश्रेष्ठिपुत्रकथा, सम्यक्त्वगुणस्योपरि नरधर्मनृपकथा, मुनिदाने टीलाश्रावकोक्ता सागरकथा चातीव प्रशस्याः सन्ति।
प्रारम्भेऽत्र वीररसस्य प्राधान्यम् । तस्मिन्वस्तुपालतेजःपालाभ्यां स्वकीयपराक्रमेण वीरधवलराज्यं व्यस्तारि इत्यादि वृत्तान्तो दर्शितः। यद्यपि । बहूनि युद्धान्यजायन्त तथापि तत्र मुख्यानि पञ्चैव । चामुण्डेन, भद्रेश्वरराजभीमसिंहेन, गोधकराजघुघुलेन, स्तम्भनपुरवास्तव्य-सदीकश्रेष्टिपरममित्रवदूयनगरस्वामिशंखराजेन, योगिनीपुरपादशाहमोजदीनेन च साकमिति ।
**
॥२॥
****
Page #5
--------------------------------------------------------------------------
________________
83-84388888 - 8488888888888888%
असीमं तयोरौदार्यं मादृशैर्वर्णयितुं न पार्यते । ताभ्यां व्ययितस्य धनस्य गणनाऽपि नास्ति । कवीनां काव्यानि श्रुत्वा प्रीतिं बिभ्राणाभ्यामाभ्यां बहु द्रव्यदानेन लक्ष्मीवन्तः कृतास्ते । मन्त्रित्वे नियुक्तावपि धर्मकार्यं विशेषतश्राकाम् । अनेकेषु तीर्थग्रामनगरेषु जिनचैत्यानि, जीर्णोद्धारान् पौषधशाला, ज्ञानभाण्डागाराणि, प्रपाशालाः सत्रशालाच निरमीमपताम्, जैनबन्धूंश्चोदधाम् । मुनिराजेभ्योऽन्नवस्त्राणि बहुशोऽदाताम् । तीर्थयात्रा अकाम् । उद्यापनान्यारप्साताम् । तपांस्यताप्ताम् । ज्ञानाभ्यासेन विद्वत्तामप्यलप्सातांश्च ।
नृपप्रीत्यर्थे जैनेन सताऽपि मन्त्रिणा अन्यधर्मस्थानान्यपि कारितानि । दिल्हिनगरपादशाहमात्रा साकं मक्कायात्रार्थं गतेन तत्राऽपि आरसीतोरणं बद्धम् । अहो ! अस्य निष्पक्षपातित्वम् ।
अस्य समग्रस्यापि चरित्रस्य रहस्यं ज्ञातुं किञ्चित्प्रतिप्रस्तावसारभूतं प्रकाश्यते । अस्याष्टौ प्रस्तावास्सन्ति तत्रः-
प्रथम प्रस्तावे – अश्वराजपत्न्याः कुमारदेव्याः कुक्षेः मल्लदेववस्तुपालतेजःपालानां जन्म । वस्तुपालतेजः पालयोः पाणिग्रहणम् । नरचन्द्रसूरि देशनानुसारेण यात्रातः पश्चाद् वलयित्वा धवलकपुरे गमनम् । तत्र राजगुरुणा सोमेश्वरेण साकं मैत्री । कान्यकुब्जनृपभुवडपुत्र्या वीरधवलमात्रा मृत्वा व्यन्तरीभूतया गुर्जरभूमेरधिष्ठायिकया महणल्लया दत्तस्वमानुसारेण पितृपुत्रयोरकमध्येन सोमेश्वरानुमोदनेन च मन्त्रित्वार्थमामन्त्रितयोस्तयोस्तत्पदस्वीकारव (पत्र. १ - ९ )
द्वितीयप्रस्तावे —–— उपाश्रये देवप्रभसूरिकृतो द्रव्यभावोपकारोपदेशस्तदुपरि भरतराजदृष्टान्तः । मन्त्रिकृतः परोपकारतत्परतोपदेशस्वीकारः । राज्यकार्ये प्रकटिता निपुणता । राज्ञः प्रापितः प्रभूतद्रव्यसञ्चयः । वीरधवलमादाय सौराष्ट्रगमनम् । तत्र वनस्थलीस्थौ राजश्यालौ साङ्गणचामुंडी युद्धेन वशीकृत्य चामुंडपुत्राय राज्यार्पणम् । गिरिनारतीर्थं प्रणम्य पश्चाद्धबलक्कं प्रत्यागमनं च ।
88888888888888888888888884
Page #6
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥३॥
ॐ* 888888888888888X8K-38-28-36
आज्ञाममन्वानेन भद्रेश्वरराजभीमसिंहेन सह युद्धस्य सज्जता । मरुस्थजालोरनगरात्सामन्तपालादित्रयाणां क्षत्रियाणां वृत्यर्थं वीरधवलपार्श्व | आगमनम् | वेतनाधिक्यकथनेन कृपणेन राज्ञा कृतोऽस्वीकारः । तेषां भीमसिंहसभायां गमनम् । तत्र वृत्त्यर्थं वासः, द्वयो राज्ञेोर्युद्धम् । तत्र सामन्तपालादियोद्धृत्रयाणां पराक्रमदर्शनम् । वीरधवलस्य पराजयः । पश्चाद्वस्तुपालचातुर्येण द्वयोः सन्धिः । राज्ञः समीपे तेजःपालं विमुच्य वस्तुपालस्य | सत्यपुरं प्रति यात्रार्थं गमनम् । पश्चान्मार्गे राज्ञो मिलनम् । धवलक आगमनम् । सामन्तपालादीन्स्वीकृत्य तेषां साहाय्येन भीमसिंहस्य मूलोच्छेदन| मन्ये च वशीकृता राजानः । (पत्र. १०-२७ )
तृतीय प्रस्तावे —– गोधकनगरनृपं घुघुलं प्रति आज्ञां मानयितुं दूतप्रेषणम् । युद्धस्य निमन्त्रणम् । घुघुलेन शूरदेवभट्टेन उपहारकारिते कञ्चु - ककज्जले । तत्र युद्धार्थं तेजःपालस्य पर्णबीटकग्रहणम् । पश्चान्मन्त्रिभ्यां कृता जिनपूजा । उपाश्रये पूजोपरि दत्ता मुनिभिर्देशना सुन्दर श्रेष्ठिपुत्रकथा च ( पत्र. २९ - ३४) । तेजःपालस्य युद्धार्थ प्रयाणं कपर्द्दियक्षाम्बिकादेवीसाहाय्येन घुघुलं पराजित्य काष्ठपञ्जरे प्रक्षिप्य धवलक्कं प्रत्यागमनम् । राज्ञा कृतं तेजः पालस्य सन्मानम् । घुघुलस्यापमानासहतयाऽऽत्मघातश्च । (पत्र. २७-४० )
चतुर्थ प्रस्तावे – वस्तुपालस्य स्तम्भतीर्थं प्रति प्रयाणम् । तत्र दुर्जनानां कृतो दण्डः । एकेन व्यापारिणा कृता सदिकस्यौद्धत्यवार्ता । वारं वारं सूचनेनापि सदिकस्योपेक्षा । वदूयबन्दिरनृपेण शंखेन सदिकमित्रेण मित्रसाहाय्यार्थ योदधुकामेन सह मन्त्रिणोर्युद्धम् । देवप्रभावेण रणभूमेः शंखस्य पलायनम् । पश्चात्स्तम्भपुरस्थसदिकगृहे गमनम् । रक्षकान्पराजित्य गृहस्थधनस्वायत्तीकरणम् । धवलक्कं गत्वा नृपस्य तुष्टिकरणं राज्ञा दत्तं पदवीत्रयदानं च । पुनः स्तम्भनतीर्थगमनम् । वेलाकुलदेशनृपाणां शत्रून्पराजित्य राज्ये पुनः स्थापनम् । कपर्दियक्षदर्शितनिधानेनानेकशुभकार्यकरणम् । नरचन्द्रगुरूपदेशेन नानाविधव्यवस्थायुतदानशालादीनां निर्मापणम् । स्तम्भनतीर्थं प्रति समादाय गमनम् । तत्र मठाधिपमल्लवादिनः समा
*X€8888888884838XC8X888888
प्रस्तावना
॥३॥
Page #7
--------------------------------------------------------------------------
________________
गमः । पश्चाद् भृगुकच्छं गत्वा धवलक्कं प्रत्यागमनम् । पुनः स्तम्भनपुरगमनं च । (पत्र. ४१-६२)
पञ्चम प्रस्तावे-एकदा दर्पणदृष्टपलितस्य वस्तुपालस्य नरचन्द्रगुरोः समीपे गमनम् । तेषामुपदेशेन द्वाभ्यां मन्त्रिभ्यां स्वीकृतः सम्यक्त्वयुक्तः श्राद्धधर्मः गुरुणोक्ता नरवर्मनृपकथा (पत्र. ६४-६९) । सम्यक्त्वनैर्मल्याथै मन्त्रिणा कृताऽपूर्वा संघभक्तिः । तथा च तत्कृतं स्वामिवात्सल्यं सम्यक्त्वोद्यापनं च । राज्याभिषेकार्थ मन्त्रिणा राज्ञः कृता प्रार्थना युक्त्या राज्ञा कृतोऽस्वीकारः । वस्तुपालसमागमेन राज्ञि प्रकटिता धर्मभावना देवप्रभगुरूपदेशेन राज्ञो जाता त्यागवृत्तिः । मन्त्रिणस्तीर्थयात्राविधिश्च । (पत्र. ६२-८०)
षष्ठ प्रस्तावे—गुरूपदेशतो मन्त्रिणा कृता सङ्घपतिपदप्रार्थना । नरचन्द्रसूरिणा युक्त्या निर्दिष्टा कुलक्रमागतगुरोरावश्यकता। कुलगुरोविजय* सेनसूरेरागमनम् । सूरिणा कृतः सङ्घपतिपदस्य वासक्षेपः । सङ्घस्य प्रयाणम् । वर्धमानपुरे गमनम् । तत्र रत्नश्रेष्ठिना कृतः सत्कारः । तथा च
स्वगृहस्थदक्षिणावर्तशंखाधिष्ठायकसूचनेन श्रेष्ठिना तच्छंखस्वीकारार्थ मन्त्रिणः कृता प्रार्थना । तेन कृतः स्वीकारः । क्रमेण शत्रुजयप्राप्तिः। तदुप-* | र्यारोहणम् । मन्त्रिणा प्रथमं कृतः प्रभोः स्नात्रोत्सवः । प्रभोरर्पितान्याभूषणानि । इन्द्रमालामहोत्सवः । टीमाणकस्थटीमाश्रावकेणसर्वस्वव्ययेन कृतमि
न्द्रमालापरिधानम् । शिल्पिदर्शितमातृमूर्तिदर्शनजातखेदस्य मन्त्रिणो गुरुणा दत्त उपदेशः । गिरिनारयात्रामार्गे प्रभासपत्तने मन्त्रिकृतः सोमेश्वरमहादे| वमहिमा । समुद्रस्य प्रशंसा । तदधिष्ठायकेन कृतं दक्षिणावर्तशंखदानम् । जीर्णदुर्गगमनम् । उज्जयन्तगिरेर्दर्शनम् । मन्त्रिपुत्रजैत्रसिंहेन परिहितेन्द्रमाला। | नेमिप्रभोः सर्वैरर्पितान्याभूषणानि । मन्त्रिकृतपुण्यकार्याणां गणना । धवलक्कपुरं प्रतिप्रयाणम् । तत्र गमनम्। वीरधवलस्य संमुखागमनम्। पुरप्रवेश| महोत्सवः । राज्ञा कृता संघभक्तिः । मन्त्रिकृता सर्वेषां द्रव्यव्ययपृच्छा। आभडशाहपुत्रस्यासपालस्यायोग्यव्ययेन तस्य कृतस्तिरस्कारः। पश्चादत्ता क्षमा। संघभक्तिमुख्यकार्याणि च (पत्र. ८०-१०४)
Page #8
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥४॥
सप्तम प्रस्तावे—योगिनीपुरपादशाहचरागमनत उत्पन्नचिन्सस्य वीरधवलस्य मन्त्रिकृतमाश्वासनम्। सेनामादाय वस्तुपालस्य पादशाहसम्मुखगमनम् । पत्तनप्राप्त्यनन्तरं महणल्लादत्तस्वप्नसूचितयुक्त्यनुसारेणाने प्रयाणं कृत्वाऽर्बुदाचलसन्निधौ यवनैः साकं मन्त्रिणो युद्धम् । तत्र यवनानां पराजयः । पश्चान्मन्त्रिणो धवलक्कं प्रत्यागमनम् । माणिक्यसूरिसम्बन्धः । नागपुरवास्तव्यपुण्यशाहस्य शत्रुञ्जययात्रार्थ सकसहितस्य प्रयाणम्। मार्गे तेजःपालाग्रहेण धवलकपुर आगमनम् । मन्त्रिकृता सञ्चभक्तिः । मन्त्रिणोऽपि सङ्घन सह गमनम् । पुण्यसिंहसकाशे कृता मम्माणीपाषाणमार्गणा ।। पश्चात्स्वस्वनगरगमनम् । तेजःपालस्य यात्रार्थ भृगुकच्छादिषु गमनम् । ____ मोजदीनपादशाहमातुर्यात्रार्थ मक्कानगरगमनम् । मार्गे मन्त्रिणा गुप्तरीत्या कारितं तस्य लुण्टनम् । मन्त्रिणः सकाशे पादशाहमातुः प्रार्थना।। मन्त्रिणा कृतस्तस्याः सत्कारः। लुण्टितधनस्य प्रत्यर्पणम् । तया साकं च मक्कागमनम् । तत्र मन्त्रिणा बद्धमारसनीयप्रस्तरतोरणम् । तस्या आग्रहेण मन्त्रिणो योगिनीपुरगमनम् । तत्र पादशाहकृतो भव्यो मन्त्रिसत्कारः। मम्माणीप्रस्तरार्पणं च । मार्ग आच्छता मन्त्रिणा कृतः कपिलकोदुनृपजयः । श्रुतनागेन्द्राचार्यजगच्चन्द्रसूरिप्रशंसस्य मन्त्रिणो वन्दनाथै स्तम्भनपुरगमनम् , वृद्धगच्छस्य मन्त्रिकृतं तपोगच्छनामधेयम् । पञ्चमीतपः प्रान्ते मन्त्रिणा कृतमुद्यापनम् । उदयप्रभसूर्यादीनामाचार्यपददानमहोत्सवश्च [पत्र. १०५-११६] ।
अष्टमप्रस्तावे-नागेन्द्रगुरूणामधंदाचलमाहात्म्यान्तर्गतविमलमन्त्रिकृततीर्थोद्धारवार्ताऽनन्तरं श्रीनेमिनाथचैत्यनिर्मापणकथनं श्रुत्वा मन्त्रिकृतस्तत्कार्यस्वीकारः । तेजःपालेन कृतमनुमोदनम् । चन्द्रावतीनरेशेन सह तेजःपालस्यार्बुदाचलरोहणम् । चैत्यभूमेनिर्णयः । आरासणे आरासनिष्कास- | नप्रबन्धः, चैत्यस्य खातमुहूर्तम् । शोभनादिपञ्चशतशिल्पिनां नियुक्तिः । पश्चाद्धवलक्कपुरमागत्य वस्तुपालेन संगमः । मन्त्रिणा निकषोपलस्य कारितं * नेमिनाथबिम्बम् । तदादाय तेजःपालस्य पुनर्बुदे गमनम् । तत्र चैत्यकार्ये जातां शिथिलतां दृष्ट्वा नियोगिनः पृच्छा । तच्यालेन दत्तो मृषोत्तरः,
Page #9
--------------------------------------------------------------------------
________________
88888888888888888888888888
तस्य तिरस्कारकरणम् । शोभनमन्त्रिविचारितया अनुपमादेवीसूचितया रीत्या चैत्यकार्यकरणम् । तेजःपालस्य धवलक्कं प्रत्यागमनम्। चैत्यपूर्णताया आगता वर्धापना । मन्त्रिणो वीरधवलेन साकं प्रतिष्ठार्थं तत्र गमनम् । तत्र यशोवीरवस्तुपालयोर्वाग्विनोदः । शिल्पशास्त्रनिष्णातयशोवीरं प्रति चैत्यगुणदोषसम्बन्धी प्रश्नः । तद्दत्तं संक्षिप्तं प्रत्युत्तरं च ।
मन्त्रिकृतं विंशतिस्थानकतपउद्यापनम् । केनचित्कर्णेजपेन राज्ञोऽग्रे कृता मन्त्रिणो निन्दा | वस्तुपालगृहे कार्पटिकवेषेण राज्ञो निरीक्षणार्थ| मागमनम् । मुनीन् विहारयन्त्या अनुपमादेव्या वचनेन नृपस्य प्रसन्नता । ज्ञातराजेन मन्त्रिणा कृतो नृपसत्कारः । राज्ञा कृताऽनुपमादेव्याः प्रशंसा च । एकदा प्रभूतद्रव्यव्ययविषये राज्ञा सहासं कृतः प्रश्नः । मन्त्रिणा स्वललाटच्छायाया यत्र पातस्तत्र निधानप्रादुर्भाव इति दत्तं प्रत्युत्तरम् । तस्य च कारितं प्रत्यायनम् । ललितादेव्यादीनां तत्तद्व्रतान्तोद्यापनानि ।
वीरधवलराजपुत्रवीरमेणैकस्य वणिज उपरि कृता क्रूरता । राज्ञस्तिरस्कारतो ऽन्यत्र गत्वा वीरमग्रामस्य कृता स्थापना । राज्ञो मरणानन्तरं पुन| रागमनं निराशया निवर्तनं च । विसलस्य राज्याभिषेकः वीरमेण सह तस्य युद्धम् । वीरमस्य पराजयेन श्वशुरगृहस्याश्रयः । तत्कृतो राज्यस्योपद्रवः । | स्तोककालानन्तरं तस्य मृत्युः । विसलस्य राज्यवृद्धिः । तत्स्थापितं विसलपुरम् । डाहलेश्वरनरसिंहेन सह विरोधः । तेन सह विसलस्य युद्धम् । तेजः पालसाहाय्येन संधिः ।
वस्तुपालस्य यात्रागमनानन्तरं प्राप्तराज्यसत्ताकेन लिसलदेवमातृभ्रात्रा सिंहेन जैनमुनेः कृतस्तिरस्कारः । मन्त्रिणा कारितस्तस्य करच्छेदः । तेन सह तस्य युद्धम् सन्धिव, मुनीनामपमानं कोऽपि न कुर्यादिति कृतो नियमः ।
एकदा ज्वरार्तस्य मन्त्रिणो यात्राऽर्थं शत्रुञ्जयं प्रति गमनम् । मार्गे विशेषव्याधितोऽनशनेन मृत्युः । शत्रुञ्जये नीत्वा कृतोऽग्निसंस्कारः । पश्चा
88888888888888888488888888
Page #10
--------------------------------------------------------------------------
________________
प्रस्तावना
श्रीवस्तुपाल चरितम् ।
॥५॥
तेजःपालस्य गृह आगमनम् । राज्ञा कृतं सन्मानम् । शंखेश्वर प्रति यात्रार्थ गच्छतस्तस्य मरणम् । वर्धमानसुरीणां शंखेश्वरयात्राभिग्रहः । मार्गे तेषां स्वर्गवासः, शंखेश्वराधिष्ठायकप्रदप्राप्तिश्च । तदधिष्ठायकपृष्टेन सीमन्धरस्वामिना वस्तुपालादीनामुक्ता गतिः । नागपुरस्थसुभटशाहस्य शंखेश्वरयात्रार्थ प्रस्थितस्य मार्गे लुण्टनम् । अधिष्ठायकस्य प्रकटीभवनम् । सर्ववस्तूनां पुनः प्राप्तिश्च । वस्तुपालतेजःपालकृतकार्याणां संख्या । कर्तुश्चरित्र| रचनाकथनम् , तस्य प्रशस्तिश्चेति । (पत्र. ११६-१३५)
अस्या ग्रन्थमालाया निर्वाहहेतोर्मरुस्थलान्तर्गतदयालपुराग्रामवास्तव्यानां श्रेष्ठिनां द्रव्यसाहाय्येन ग्रन्थमालायाः पञ्चमपुस्तकरूपेणैतत्पुस्तक| प्रकाशनं समभूत् । यद्यपीदं चरितं पुरा जामनगरवास्तव्य पं. हीरालालमहोदयेन मुद्रितं, तथापि तद्दुरापमशुद्धिसम्भिन्नं च, एतदर्थमिदं ( ) | चिह्नान्तर्गत प्रत्यन्तरभिन्नपाठनिक्षेपपूर्वकमस्माभिः सम्पादितम् । ग्रन्थस्यास्य संशोधनकार्य शान्ततपोमूर्त्तिवयोवृद्धाचार्यदेव-विजयसिद्धिसूरीश्वराणां | | साहाय्यतो विद्याशालाज्ञानभाण्डागारादतिशुद्धप्रतिलाभेन सरलं समजनीति तेषामुपकारोऽस्माकमुपरि चिरस्मरणीयः । संशोधनकार्ये चुंवाल डांगरवा
वास्तव्य-पं. हरिशङ्कर अम्बाराम शास्त्रिमहोदयैरस्माकं बहु साहाय्य दत्तं तेन तेऽप्यत्र नो विस्मरणीयाः । यद्यपि दत्तचित्तर्बहु शोधितं शुद्धिपत्रमप्यग्रे | निक्षिप्त तथापि दृष्टिदोषाद्यन्त्रदोषाच्च जनितत्रुटयर्थ क्षम्यतां साधुभिरेष जन इति प्रार्थयते ।
| संवत् १९९७ श्रावण पूर्णिमा । ) वीरविजयोपाश्रयः।
अमदावाद । )
भवदीयः पन्यासः कीर्तिमुनिः।
Page #11
--------------------------------------------------------------------------
________________
&%88% 488XXX8XX88*4833883%
पत्रम्
२
= চr ঔ g ur 9922
लोक
३५
के तुम तो कल के 29* 99* ° €
५१
७३
३८
३९
७१
९७
१०
६३
१०
९१
८०
८९
अशुदम्
लक्ष्मीलक्ष्मी
(सतीव)
चरिताद्रुतम् जगत्ग्गोचरे
अत्यासन्न। केवलि
तं
तः
स्याद्यया
प्रतिभूः
खलिता
कमात्
च्युत्वा यदाभिमतम्
धीसरवाधीप
शुद्धम्
लक्ष्मीर्लक्ष्मी ( सा सतीव)
चरिताद्भुतम् जगद्ग्गोचरे
अत्यासन्ना
केलि
युतं
ततः
स्याद्यथा
प्रतिभूः
स्खलिता
क्रमात्
प्रच्युत्वा यदभिमतम् धीसरवाधीश
शुद्धिपत्रम्
पत्रम्
२१
२३
२८
३२
३२
३२
३३
३४
३४
३५
३५
३६
३६
३६
३७
लोक
* * * * * * * * * * * * * * * *
अशुद्धम्
तततान्
कर
परमात्प्राप्त आगमत्मंत्रिणः
७७ स्वामिन
स्मरतिस्म पारे वाग्वृत्ति श्वेतछत्रेण
घनवद्धनम्
सैन्या
रिव
बल्लोला
सचिवेश्वरः
मन्दरोपम्
शुद्धम्
ततस्तान्
क्रूर
परस्मात्प्राप्त आगमन्मंत्रिणः
स्वामिन्यद्य
गुञ्जा स्मरति स्म पारेवाग्वृत्ति श्वेतच्छत्रेण
घनवद्धनम्
सेना
रिव ॥
बलोल्ला
सचिवेश्वरः
मन्दरोपमम्
*83XX488888888888888888888
Page #12
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
३९ ४०
३२ ५२
५६
शुद्धिपत्रम्
मत्यद्भुतम् पदम् पशुसंकाशा स्वरूपं स्वकार्याय
॥६॥
४२ કર
४७ દુર
धिक्
५६ ५७
४५ ક૭
४४ ૨૨
चाणिक्यो मुज्झासय वणिम्सूः पश्चाद्दुर्लाप भयोज्जितः मागधाधिप श्यक नोज्जितो मिमिषोज्जित मण्डपायधनं महर्घ्य पट्पञ्चाशत् उद्धियन्ते तत्त्व प्रकाशकम् करोतिस्म कुरुतःस्म पतधोरतरं सम्यग्
चाणक्यो मुज्जासय वणिक्सुः पश्चाद् दुर्लाप भयोज्झितः मागधाधिपम् वश्यक नोज्झितो निमिषोज्झित मण्डपाय धनं महार्य षट्पञ्चाशत उध्रियन्ते तत्त्वप्रकाशकम् करोति स्म कुरुतः स्म पतद् घोरतरं सम्यक्
मत्यद्भूतम् ३७ पदं
पशुसंकाशाः स्वरूप
स्वकार्याथ ६१ धिग ७३ यतः
दृष्टव्य वितार्थ पिशेषतः तद्विष ऊवाचतम वदतिस्म
सीत्रिदशा ५७ विहा
हेमबिबं व्ययतिस्म अष्टापादो
३३
४८
८३
यतःद्रष्टव्य वित्तार्थ विशेषतः तद् द्विष उवाच तम वदति स्म सीत् त्रिदशा विहार हेमबिंब व्ययति स्म अष्टापदो
५२ ५३
४०० ३८
५९
॥६॥
५४ ५५
९० ९७
Page #13
--------------------------------------------------------------------------
________________
७७
व्यधाम् कोटी रैः पृथगू पृथग् देव कुलिकं वासवीय सौधो जैनेन्द्र मत
૮૪
૨૩
कारयतिस्म पण्डपे कारयतिस्म सम्यम् परीणामो सम्यग् प्रसादान्सु वदन्तिस्म हग्पथा श्रुत्वातद्वचनं यथातथा क्षणाद्भूत्वा सगुरु यद्भुते यावदलं चक्रे तादग्प्रभावक प्राय चके रवैता
कारयति स्म मण्डपे कारयति स्म सम्यक् परिणामो सम्यक् प्रसादात्सु वदन्ति स्म दृक्पथा. थुत्वा तद्वचनं यथा तथा क्षणाद् भूत्वा
श्रेष्टिन्
ताम् पूर्वकम् कुप्यतिस्म
व्यधात् कोटीरैः पृथक् पृथग् देवकुलिकं वासवीयसौधो जैनेन्द्रमत श्रेष्ठिन् ताक् पूर्वकम् कुप्यति स्म मूर्तिम् त्रिजगद्धिपतेः विजयतां दान सोमेश्वरः-स कटरे मनोवाञ्छा मन्त्रीन्द्रस्य तादृक्पुण्याद्य
मूर्ति
९१
५९
यद् भुञ्जते यावदलंचक्रे तादृक्प्रभावक प्राक् चके
त्रिजगद्धिपतेः विजयतांदान सोमेश्वरः स कट रे मनोवांछा मन्त्रीद्रस्य तादृग्पुण्याद्य
रैवता
९५
५००
५००
ना
Page #14
--------------------------------------------------------------------------
________________
पुरीम्
३०
श्रीवस्तुपाल चरितम् ।
स
| शुद्धिपत्रम्
शत्या रोपिते
९७
६३
विविधा
११२ ११३
८८
॥७॥
वासोवृत प्रधानः मतांशुमान् नुतनाकुर
पुम् शत्यास रोषिते बिविधा वासो वृंत पधानः मतांशुमान् नूतनाकुंर मन्त्र्यो नाथस्थ वाञ्च्छया धर्मव्यनेन गृहीता वन्दनविधि सर्वेप्यन्ना लिखसि विषमान्युल्लचन्यन् बालेन्दु
सृजन्नतां मानयत् श नाक्रम्य माणिक्यपदक पयः सेका सम्यम् निवेदयाभास मघुरस्वराः ववर्षः विशति भुङ्क्त सर्वेऽपि रक्षा
सृजन्नेतां मानयन् शत्रूनाक्रम्य माणिक्यपदकं पयासेका सम्यक् निवेदयामास मधुरस्वराः ववृषुः विशति भुञ्जते तेऽपि
मूत्यों
१२४ १२७
९२
६
रक्षा किल
नाथस्य वाञ्छया धर्मव्ययेन ग्रहीता वन्दनविधि सर्वेप्यन्न ल्लिखसि विषमाण्युल्लयन् बालेन्दु
१३१ ४४ मुक्त्य १३१ ४७ निर्मिता १३२
जगत्रय ७६ सन्मतियो १३५ ७७ कलिलिता
मुक्त्यै निर्मिता जगत्त्रय सन्मतियों कलिता
१३५
||७||
Page #15
--------------------------------------------------------------------------
________________
*7832843% *8384883% %83% *%88%
॥ श्रीजिनाय नमः ॥
श्रीजिनहर्षगणीप्रणीतम् ।
श्रीवस्तुपालचरितम् ।
प्रकाशाय,
श्रीमानर्हन् शिवः स्वामी, नाभिभूः पुरुषोत्तमः । पुष्णातु भक्तिनिष्णानां श्रियं सर्वातिशायिनीम् ॥ १॥ सार्वाः सर्वेऽजित - स्वामिप्रमुखाः सुखसन्ततिम् । प्रथयन्तु पुमर्थस्य, चतुर्थस्य प्रदेशिनः ॥ २ ॥ खगवीभिस्तमोव्यूहं व्यपोहत्यर्यमेव यः । सम्यक्तत्व - तस्मै श्रीगुरवे नमः ॥ ३ ॥ श्रीसर्वज्ञमुखाम्भोजराजहंसी सितद्युतिः । जीयात् सरस्वती देवी, भवता पसरखती ||४|| सम्प्रतिप्रतिमाः ख्याताः, प्रभावकतया क्षितौ । भूयांसः श्रावका आसन्, श्रीवीरजिनशासने ||५|| लक्ष्मीसरखतीली लानानासत्पुण्यकर्मभिः । कोsपि श्रीवस्तुपालस्य, न परं सदृशोऽभवत् || ६ || यतः - अन्वयेन विनयेन विद्यया, विक्रमेण सुकृतक्रमेण च । क्वापि कोऽपि न | पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥७॥
त्रिंशत्कोटिशतानि सप्ततिरथो कोट्यस्त्रिभिः साधिका - लक्षाः सप्त शतानि विंशतिरहो द्रव्यस्य जैनालयैः । निःशेषाद्भुतमन्दिरैः
१ सर्वज्ञाः
*83%883888888888838848378
ALL
Page #16
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल ॐ सुरगणस्थानैश्च दानैः प्रपायात्राभिर्व्ययितानि शुद्धयशसा पुण्यार्थिना मन्त्रिणा ||८|| प्राचां पुण्यवतां कुलेऽतिविमले जातः प्रभावाचरितम् । द्भुतः, श्रीजैनेन्द्र मतप्रभावकतया यो विश्वतो विश्रुतः । येनौदार्यवता कृताः कृतिजनाः श्रीदोपमाः सम्पदा, स श्रीमान् सचिवेश्वरो विजयतां श्रीवस्तुपालश्चिरम् ॥ ९ ॥ सोऽयं मत्री गुरुमतितरामुद्धरन् धर्मभारं, श्लाघाभूमिं व्रजति न कथं वस्तुपालः सहेलम् । | तेजःपालः स्वकुलधवलः सर्वकर्माप्त (कर्मीण) बुद्धिर्द्वतीयीकः कलयतितरां यस्य धौरेयकत्वम् ||१०|| अतः श्रीवस्तुपालस्य, सत्पुण्याम्बुमहोदधेः । प्रबन्धः श्लोकबन्धेन यथाबोधं विधीयते ॥ ११॥ तथाहि - अत्रैव भरतक्षेत्रे, क्षेत्रे सत्कृत्यशाखिनाम् । दिव्यानन्तसुखास्वाद (ध्यायि ) शस्यसम्पत्समन्विते ||१२||
॥१॥
*%$838% 2883%8€388888888888888
अजर्जरश्रियो जन्मवसतिर्गुर्जराभिधः । अस्ति श्रीपतिसंशोभी, देशः खर्गनिवेशवत् ॥ १३॥ युग्मम् ॥ यत्र क्षेत्रोर्वरा सर्वा, चेतोवृत्तिर्महीयसाम् । दृश्यते सरसा नित्यं, बहुधान्योपकारिणी ||१४|| प्रतिग्रामं जिनेन्द्राणां भवनानि वनानि च । सुमनोभिर्मनोज्ञानि, श्रयन्ते नन्दनश्रियम् ||१५|| तत्रास्ति स्वस्तिकप्रख्यं भुवोऽभिनववैभवम् । अणहिल्लमिति ख्यातं, पत्तनं भुवनाद्भुतम् ।। १६ ।। अदृष्टपूर्वमाजन्म, द्वयं यत्र निवासिनाम् । परेषु प्रार्थनादैन्यं, प्रार्थितानां च खण्डनम् ॥१७॥ यत्र लोका विवेकेन, विनयेन नयेन च । सदानेन धनेनापि विश्रुता विश्वमण्डनम् ॥ १८ ॥ रसालङ्करणे तस्मिन्नालवालानुकारिणि । प्रांशुः प्राग्वाटवंशोऽभूत्, पुरे गुर्जरभूभुजाम् ||१९|| त्वचिसाराः परे वंशाः सदा पत्राणि विभ्रति । क्रियासारस्तु वंशोऽयं धत्ते पात्र परम्पराम् ॥ २०॥ नररत्नैर्यदुत्पन्नैः, | सद्भुताद्भुतकान्तिभिः । विभूषिता विशेषेण, जगतीव सरस्वती ॥ २१ ॥ मत्रीशचण्डपस्तस्मिन् मण्डपः कीर्तिवीरुधः । अभूचौलुक्यभूपालराज्यभारधुरन्धरः ||२२|| चाणाक्यादिव चातुर्य, वाचं वाचस्पतेरिव । समुद्रादिव गाम्भीर्य, यः शुभैकग्रहोऽग्रहीत् ॥२३॥
3% %88% %88% 88% 8888888888888+
प्रथमः
| प्रस्तावः ।
॥१॥
Page #17
--------------------------------------------------------------------------
________________
चण्डप्रसादनामासीदसीममहिमोदधिः । तदङ्गजो जगत्ख्यातो, नृपव्यापारसम्पदा ॥२४॥ कदाचिदपि न त्यक्तः, पाणिपद्मगृहीतया।
गृहिण्येव वदान्योऽयं, राजव्यापारमुद्रया ॥२५।। सोमः समुद्रतस्तस्मात्प्रादुरासीन्महोदयः। सवित्री जातमात्रेण, येन द्यौरिख दिद्युते Rel२६॥ अपूर्वः कोऽपि सोमोऽयं, कलङ्कविकलोदयः। पद्माकरेषु सर्वत्र, यः प्रकाशं समार्पयत् ॥२७॥
निदधे गुणरत्नानां, यत्र कोशः स्वयम्भुवा । अतः श्रीसिद्धराजोऽपि, रत्नकोशं न्यवीविशत् ॥२८॥ तस्य पुत्रः पवित्रश्रीमंत्री सुत्रामविक्रमः । अश्वराजोऽभवनशासनाम्भोजभानुमान् ॥२९॥ आवालकालादपि यो विशुद्धसम्यक्त्वमू लेन जगद्धितेन । जिनेन्द्रधर्मेण समं बभार, चौलुक्यराज्यस्य धुरन्धरत्वम् ।।३०।। वंशोन्नतिमता येन, सदालिस्थितिशालिना । नित्यं दानाहस्तेन, हस्तिराजोऽप्यजीयत ॥३१॥ इतश्चासीद्गुणश्रेणिप्रीणिताखिलसज्जनः । श्रीचौलुक्यचमूखामी, प्राग्वाटान्वयमण्डनम् ॥३२॥ खण्डितानेकभूपालगर्वः शर्व इवौजसा । आभूविभूकृताशेषमार्गणस्त्यागलीलया ॥३३॥ युग्मम् ।। प्राग्वाटान्वयभूस्तथाजनि पुरा सामन्तसिंहः पुमांस्तद्भः शान्तिरिति प्रशान्तचरितोऽस्माद्ब्रह्मनागः सुतः । तत्पुत्रोऽभवदामदत्त इति तद्भूर्नागडोऽभूत्ततो, दण्डेशः समभृत्प्रभूताधिषणासम्भृतिराभूरिति ॥३४॥ श्रीआभूमत्रिणो भार्या, लक्ष्मीलक्ष्मीरिवाभवत् । सृजन्ती श्रीजिने भक्ति, निर्णिक्तां निजशक्तितः ॥३५॥ यस्याः सुपात्रदानेन, पत्युर्मन्दिरमिन्दिरा। वशीकृतेव नात्याक्षीत्कदाचिद्गुणशालिनः॥३६॥ विश्वविश्रुतलावण्यविनया तनया तयोः । कुमारदेवी नाम्नाभृभूमिभूः शीललीलया ॥३७॥ याचनेन जिनेन्द्राणां, मुनीनां वन्दनेन च । सदा सत्पात्रदानेन, गङ्गेव विमलाजनि॥३८॥ अथ सूरिमहामन्त्रजापमाहात्म्यतेजसा । अतीतानागताशेषवस्तुविज्ञानशालिनः ॥३९॥
दधाना धुर्यतां वर्यचातुर्वैद्यविदां भुवि । सूरयो हरिभद्राख्या, अजिह्मब्रह्मभूमयः ॥४०॥ तादृग्प्रभावकाभावान्निष्प्रभं मतमा.
Page #18
--------------------------------------------------------------------------
________________
चरितम् ।
| प्रथमः प्रस्तावः।
श्रीवस्तुपाल
हतम् । दृष्टा कालानुभावेन, दुर्दिनेनेव वारिजम् ॥४१॥ ध्यानधौतधियोऽन्येयुः, स्थिताः श्रीमति पत्तने । स्मरणावसरे रात्री, चिन्तामेवं दधुर्हदि ।।४२॥ चतुर्भिः कलापकम् ।। पुण्यकृत्यैः कृतज्ञानामग्रणीर्जिनशासने । आसीत्प्रभावकः प्रौढः, सम्प्रतिर्नृपतिर्यथा
॥४३॥ कुमारपालभूपालः, कृपालुः सर्वजन्तुषु । तखालोकसहस्रांशुर्यथासीत्परमार्हतः॥४४॥ यथाच मत्रिणः सर्वे, शासनोद्योत॥२॥ भानवः। आसन् प्रभावकाहा(प्रष्टा), वाग्भट्टाम्रभटादयः॥४५।। अतःपरं तथा कोऽत्र, भविता भारता(भरता)वनौ । मते वीरजिने
न्द्रस्य, धर्माधारधुरन्धरः ॥४६॥ ततस्तेषां शुभध्यानाकृष्टा तुष्टा च तत्क्षणात् । साक्षादिति समाचख्यौ, कापि शासनदेवता ॥४७॥ अस्त्यत्रैव पवित्रण, चरित्रेण सतां मतः । आभूविभृतिभिः ख्यातो, दण्डेशोऽखण्डविक्रमः ॥४८॥ समस्ति तनया तस्य, प्रशस्यविन
यान्विता । नाम्ना कुमारदेवीति, देवीव भुवमागता ॥४९॥ सतीमतल्लिका शीललीलया ललितोदया। पद्मिनी पद्मसौरभ्यनिभृताङ्गी bel मृगीक्षणा ॥५०॥ पिकीव मधुरालापा, राजहंसीव सद्गतिः । रोहिणीव सदाचारा, कमलेव(सतीव) मनोहरा ॥५१॥ त्रिभिविशेषकम् ।।
पुत्ररूपेण तत्कुक्षौ, पुष्पदन्तौ महायुती । सार्वधर्मप्रकाशायावतारं प्राप्स्यतो ध्रुवम् ॥५२॥ क्रमेण वर्धमानौ तौ, वर्धमानजिनेशितुः । सम्प्रतिप्रतिमौ प्रौढिं, शासनं नेष्यतः क्षितौ ॥५३॥ प्रातः श्रीअश्वराजस्य, मत्रिराजस्य सा पुनः । दर्शनीया मदादेशप्रकाशनपुरस्सरम् ॥५४॥ इत्युदीर्य क्षणादेव, तिरोऽभूद्देवता पुनः । तेऽपि ध्यानं परित्यज्य, धर्मकर्माण्यसूत्रयन् ॥५५॥ अथ प्रातः समायाते,
श्रोतुं सद्धर्मदेशनाम् । विलोक्य योषितां वर्ग, गुरवस्तां तथाविधाम् ।।५६।। तस्या निस्सीमसौभाग्यभाग्यशीलकलोदयम् । निमित्तवे * दिनो ज्ञाखा, विस्मिताः सूरयोऽधिकम् ॥५७॥ स्वरूपं देवतादिष्टं, सत्प्रतिष्टशिरोमणेः । जगुः श्रीअश्वराजस्य, तद्गुणाकृष्टचेतसः ||५८॥ त्रिभिर्विशेषकम् ॥ ततः सूरिवरादिष्टदेवतादेशतोऽभवत् । भार्या कुमारदेवीति, प्रथिता तस्य मत्रिणः॥५९॥ अनया प्रियया
॥२॥
Page #19
--------------------------------------------------------------------------
________________
मन्त्री, श्रियेव पुरुषोत्तमः। लेभे सुमनसां मध्ये, ख्यातिं लोकातिशायिनीम् ॥६०॥ * मातुः पितुश्च पत्युश्च, कुलत्रयमियं सती । गुणैः पवित्रयामास, जाह्नवीव जगत्रयम् ॥६१॥ तामादाय स्फुरद्भाग्यभङ्गी वस्या*ङ्गिनीमिव । समं स्वपरिवारेण, खजनानुमतेस्ततः ॥६२॥ प्रसन्न क्रमाद्दत्ते, भूभा चुलुकोद्भुवा । अश्वराजो व्यधाद्वासं, पुरे | सुहालकाभिधे ॥६३॥ युग्मम् ॥ तत्रापि ववृधे कल्पलतयेव तया स्त्रिया । सर्वाङ्गसम्पदा मत्री, त्रिवर्गोदयमिश्रया ॥६४॥ अथाद्भुतेन | | शौचेन, श्लाघ्याः सुमनसामपि । प्रवाहा इव गङ्गायास्तया सूताः सुतात्रयः॥६५॥ मुख्यः श्रीमल्लदेवाख्यः, ख्यातः सङ्ख्यावतां धुरि । | पुंरत्नेनाभवद्येन, रत्नगर्भा वसुन्धरा ॥६६॥ इयती मल्लदेवस्य, कौस्तुभेन विभिन्नता । जिनो हृदि यदेतस्य, जिनस्य त्वपरः सदा॥ *॥६७॥ परः श्रीवस्तुपालोऽभूत, साक्षादिव परः पुमान् । बलिबन्धकलाशाली, सुमन श्रेणिपालकः ॥६॥
वस्तुत्वं वस्तुपालस्य, सैव वेत्ति सरस्वती । तदीयवदनाम्भोजे, या वसत्यनुवासरम् ॥६९॥ किमस्तु वस्तुपालस्य, मन्त्रीन्दोः । | साम्यमिन्दुना । यद्दत्ते वसुधामेष, सुधामेवापरः पुनः ॥७०।। षड्भिरेव गुणैर्येन, कापि कीर्तिपटीकृता । वसुन्धरा धराम्भोधिसहिता पिहिता यया ॥७१॥ तृतीयस्तेजःपालश्च, राज्यभारधुरोद्वहः । प्रजायाः किल सर्वस्या, मूर्तिमान् सुकृतोदयः ॥७२॥ तेजःपालस्य | विष्णोश्च, को वेत्ति चरिताद्रुतम् । स्थितं जगत्त्रयीसूत्रं, यदीयोदरकन्दरे ॥७३॥ अश्वराजसुता आसन् , भाग्यसौभाग्यसम्पदा । सप्त * सप्तावनीख्याता, जा(ना)हमांउपुरस्सराः॥७४॥ चक्रतुर्वस्तुपालश्च, तेजःपालश्च मत्रिणौ । वर्धमानौ क्रमाद्वृद्धिं, पक्षयोरुभयोरपि ||७५|| न्यायधर्मकलाविद्याभाग्यसौभाग्यतेजसाम् । प्रापतुश्च जगन्मध्ये, प्रियमेलकतीर्थताम् ।।७६॥ युग्मम् ॥
१ गुणा यथा-विद्यादानशौर्यबलबुद्रितपांसि ।
Page #20
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
प्रथमः प्रस्तावः।
॥३॥
भुवनाद्भुतसौन्दर्या, वस्तुपालस्य मत्रिणः । दयितासील्ललितादेवी, भुवि दैवी(देव)गवी नवा ॥७७|| अन्या सौख्यलता कल्पलतेवार्थितदायिनी । रम्भयैव परं लेमे, सख्यं या रूपसम्पदा ॥७८|| सर्वत्राप्रतिमप्रज्ञाऽनुपमा ऽनुपमा तथा । आसीत् सधर्मिणी धा, तेजःपालस्य मत्रिणः ॥७९॥ सम्यग्देवगुरूपास्तिराजहंस्या युतोऽनिशम् । उवास मानसे यस्याः सद्विवेकसितच्छदः ।।८०॥ सद्विचारगृहाचार-धर्माधारक्रियादिषु । तयोर्वेश्मन्यभून्मान्या, याध्यक्षेव सरस्वती ॥८॥ अर्हत्पूजादयादानतीर्थोद्धाराय॑पूजनैः । गृहस्थोचितसत्कृत्यैरश्वराजो वचो(रजो)ऽतिगैः ॥८॥स्वर्गाचार्यस्य साहाय्य, निजव्यापारकर्मसु । स्वर्ग स्वर्गाधिपाहूतः, कर्तुकाम इवागमत् ॥८३॥ युग्मम् । त्यक्त्वा तातवियोगार्तिपिशुनं तत्पुरं ततः। सुकृतश्रेणितननी(जननी), जननी जननीतिवित् ॥८४॥ वस्तुपालः समादाय, विदधे बन्धुभिः समम् । मण्डलीनगरे वासं, भूमिमण्डलमण्डने ॥८५॥ सर्वातिशायिसत्कृत्यैस्तौ तत्रापि स्फुरत्प्रभौ। प्रसिद्धिं * | परमां लोके, प्रापतुस्तापवर्जितौ ॥८६॥ मातापितुरपि प्रायो, गौरवेणातिरिच्यते । इतीव पूजयामास, वस्तुपालः स्वमातरम् ॥८७॥ यतः ___ माता प्रपूजिता येन, नित्यमत्यक्तभक्तिना | पुण्यराशेरमेयस्य, माता तन्निर्मितस्य कः ।।८८॥ धन्यैव सा जगति तज्जननी | प्रकृष्टा, दृष्टा यया प्रतिदिनं तनयस्य भक्तिः । श्लाघ्यः स सूनुरपि मातृपदे प्रणम्य, यः सर्वतीर्थफलमेकपदे प्रपेदे ॥८९॥ प्राग्कृतं रेणुकाबन्धं, स्मरन्ननुशयादिव । मातुर्विशेषतश्चक्रे, भक्तिं यः पुरुषोत्तमः॥९०॥ अनेक पुण्यकृत्यानि, कृत्वा कुमारदेव्यपि । के | स्वर्जगाम कमात्तस्य, भर्तुभक्तिं चिकीरिख ।।९१॥ अथ तत्र समाजग्मुस्तिग्मभासस्तपःश्रिया। गुरवो मातृपक्षीया नरचन्द्रमुनीश्वराः | ॥९२।। किञ्चिन्मातृवियोगातिविधुरीकृतचेतसोः । मत्रिणोरुभयोर्वन्दापनार्थ सकुटुम्बयोः ॥९३।। धर्मशालामुपागत्य, पञ्चाङ्गनति
१ कातिगैः । २ प्रमाता-मापनार ।
॥३॥
Page #21
--------------------------------------------------------------------------
________________
पूर्वकम् । नेमतुस्तान्महामात्यौ, सत्कृत्य स्थितितत्परौ ॥९४॥
तेऽपि धर्माशिष दचा, सद्यः सौख्यावलीपुषम् । पप्रच्छुः पुण्यकार्येषु, योगक्षेमौ तयोः पुनः ॥९५॥ यथास्थितभवारण्यस्वरूपैकनिरूपिणीम् । गततापावभूतां तौ, श्रुत्वा तद्देशनां ततः ॥१६॥ अन्यदा मत्रिणोरग्रे, शुश्रूषान्वितचेतसोः। तैरेवं देशनाकारि, CE मनोहारिरसश्रवा ॥९७।। भवेषु स भवः श्लाध्यश्चिन्तामणिरिवाश्मसु । भक्तिर्यत्र जिनेन्द्रस्य, विधिपूर्व विधीयते ॥९८॥ दत्ते |
चित्तेप्सिता भक्तिः, सम्पदः श्रीमदर्हतां । दौर्गत्यं द्राग् तिरस्कृत्य, कल्पवल्लीव देहिनः ॥९९॥ यतः-जिनेन्द्रभक्तिरेकापि, विवेकेन
कृता सती । निवार्य दुर्गतीः सर्वा, दत्ते सौख्यं शिवावधि ॥१००॥ एषा पञ्चविधा पूर्वशास्त्रविद्भिरुदीरिता । कुसुमाद्यर्चनाभेदैर्दुःख* दौर्गत्यभेदिनी ॥१॥ यदुक्तं-पुष्पाद्यर्चा तदाज्ञा च, सद्व्यपरिरक्षणं । उत्सवास्तीर्थयात्रा च, भक्तिः पञ्चविधा जिने ॥२॥ तत्राष्ट
धाहतां पूजा, पुष्पगन्धादिवस्तुभिः । सुधिया तु विधातव्या, जगत्पूज्यत्वमिच्छता ॥३॥ शतपत्रादिभिः पुष्पैः, सद्यस्कैः सौरभोधुरैः। येनाचिंतो जगद्भर्ता, स भर्ता स्यान्नृपश्रियः ॥४॥
गन्धधुपादिभिस्त्वेवं, रचयन्नहतोर्चनां । भुते कोटीगुणं प्राणी, तत्तत्पूजानुगं फलम् ॥५॥ विधिशुद्धं जिनेन्द्रोक्तं, सम्यग्श्रद्धानपूर्वकम् । क्रियते यदनुष्ठानं, तदाज्ञाभक्तिरुच्यते ॥६।। क्षणमात्रमपि स्वान्ते, यस्यासौ कुरुते स्थितिं । अवश्यं निवृतेर्लाभो, He भावी तस्य शुभात्मनः ॥७॥ अनया रहितं सर्व, धर्मानुष्ठानपालनं । आममृत्कलशन्यस्ततोयतुल्यं विदुर्बुधाः ॥८॥ यस्य मौलौ
जिनस्याज्ञा, सततं पुष्पमाल्यति । शीर्षे शेषामिवाशेषं, तदाज्ञां भजते जगत् ॥९॥ देवद्रव्यं प्रयत्नेन, रक्षणीयं विपश्चिता । तद्रक्षणाद्भवेजन्तोनूनमासन्नसिद्धिता ॥१०॥ व्रती वा गृहमेधी वा, देवद्रव्यापहारकः । रौरवं नरकं याति, श्वपाक इव निन्दितः।।११।। यत:
Page #22
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
11811
888884888888888888882848
देवद्रव्येण या वृद्धिर्गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय, मृतोऽपि नरकं व्रजेत् ॥ १२ ॥ देवखनाशजं पापं, सर्वांघेभ्योऽतिरिच्यते । यतितव्यमतो देवद्रव्यरक्षाविधौ सदा ||१३|| उत्सवान यो जिनाधीशशासने विश्वपावने । विधत्ते स भवत्येव, जगन्नेत्रमहोत्सवः ॥ १४ ॥ स एव श्लाध्यते प्राणी, भानुमानिव ऋद्धिमान् । जिनेन्द्रशासनं येन, दीप्यते विविधोत्सवैः || १५ || विधेया | विबुधैर्यात्रा, सत्रागारं शिव श्रियः । शत्रुञ्जयादितीर्थेषु, प्रथितेषु जगत्यपि ॥ १६ ॥ जन्तोः श्रीतीर्थयात्रायां भवेद्यः सुकृतोदयः । तस्य पारं परं वेत्ति, भगवानेव केवली ॥१७॥ यतः - सदा शुभध्यानमसारलक्ष्म्याः फलं चतुर्धासुकृताप्तिरुच्चैः । तीर्थोन्नतिस्तीर्थकृतां पदा| प्तिर्गुणा हि यात्राप्रभवाः स्युरेते || १८ || इत्याकर्ण्य गुरोर्वाचः सचिवः शुचिभावभृत् । चिकीर्षुस्तीर्थयोर्यात्रां वन्दित्वेत्यवदद्रहः ॥ १९ ॥ साम्प्रतं तीर्थयोर्यात्रा, मया यदि विधीयते । तदास्त्यभ्युदयः कश्चिदायतावायतो मम ||२०|| सोऽवग् निर्माय यात्रां सं, | धवलक्कं यदैष्यसि । राजव्यापारलाभाते, तदा भाव्युदयो महान् ||२१|| ततो नित्योदयत्प्रज्ञातेजस्तर्जितभाखता । सम्मतिं सचिवश्चक्रे, तेजःपालेन मन्त्रिणा ||२२|| सर्वस्वं वेश्मतो लाखा, मत्री तेन समं ततः । अचलत्तीर्थयात्रायै, शकुनैः सिद्धिशंसिभिः ||२३|| विधिना शास्त्रदृष्टेन, व्रजन्तौ पथि सोदरौ हडालकपुरं प्राप्तौ बन्धुभिस्तौ समन्वितौ ||२४|| किश्चिदस्वास्थ्यमालोक्य, सुराष्ट्रासु तदग्रतः । सायं कृत्खार्हतः पूजां, विचारमिति चक्रतुः ||२५|| कियदत्र भुवो मध्ये, योगक्षेमार्थमायतौ । निधीयते धनं यस्मात्तदाधारा गृहस्थितिः ||२६|| यतः - यस्थास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ||२७|| विलोक्य गृहसर्वस्वं जातं लक्षत्रयीमितम् । एकं लक्षं ततो लाखा, निधातुं निशि तौ गतौ ||२८|| चखनतुः पृथ्वीं यावन्निशीथे स्वच्छभूरुहः । अधः शनैः शनैस्तावज्जाग्रत्पुण्यानुभावतः ॥ २९ ॥ सुवर्णश्रेणिसम्पूर्णः, पूर्णकुम्भः
%83%$88K X£38 X€BB X£3% %83%
प्रथमः प्रस्तावः ।
॥४॥
Page #23
--------------------------------------------------------------------------
________________
*-*
-*-*
-*-*
शुभप्रदः । आविरासीत्क्षणादेव, देवकुम्भनिभस्ततः ॥३०॥ दृष्ट्वा तं विस्मितस्वान्तौ, चिन्तयामासतुश्च तौ । अहो पुण्यानुभावोऽयं, यन्निधिः प्रकटोजनि ॥३१॥ सत्यकार ततः सिद्धेः,स्मृना पश्चनमस्कृतिम् । तमादाय मुदागत्य, स्वपदं सोदरावुभौ ॥३२॥ सरस्वतीमिवोदारसारबुद्धिप्रदायिनीम् । पृच्छतःस सदा मान्यां, देवीमनुपमाभिधाम् ॥३३॥ निधानं निजमाधातुं, प्राप्तयोरावयोरिह । प्रत्युत प्रकटीभृतो, निधिरेष सुवर्णभृत् ॥३४॥आवाभ्यां निधिनानेन, किं कर्तव्यमतः परम् । मनखिनि! मतिं हि, परिणामगुणावहां।
सेति मत्रिगिरः पीना, सुधामाधुर्यजित्वरीः । गततापाऽलपल्लज्जाभरनम्रानना ततः ॥३६॥ द्रव्योपार्जनसञ्जातरजोभारादिवागिनः। अधः क्षिपन्ति सर्वस्वं, गन्तुकामा अधोगतिम् ॥३७॥ अतो गरीयसि स्थाने, स्थापनीयं निजं धनम् । जगवदृग्गोचरे प्रोच्चैः, पदवीं स्पृहयालुभिः ॥३८॥ शत्रुञ्जयोजयन्ताख्यौ, गरीयांसौ गिरी स्मृतौ । अत्यासन्न। भवेन्मुक्तिर्यत्रारूढस्य देहिनः ॥३९॥ | यतः-एकशोऽपि कृता यात्रा, वित्तै यसमर्जितैः । भवकोटिसहस्राणां, हन्ति पापं न संशयः ॥४०॥ अनयोस्तीर्थयोर्लक्ष्मीनिहिता हि हितार्थिभिः । परोलक्षैः पुरोवर्षेनैव सम्पद्यतेऽज्यसात् ॥४१॥ स्वादु पथ्यमिवावाद्य, तदुक्तं मुदितौ ततः। सर्व धनं समादाय, प्रास्थिषातामुभावपि ॥४२॥ नमस्यन्तौ जिनेन्द्राणां, प्रतिमा अमितप्रभाः । पालयन्तौ त्रिधा शीलं, सृजन्तौ विविधोत्सवान् ॥४३॥ वन्दमानौ प्रतिग्राम, मुनीन्मान्यतपःस्थितीन् । साधर्मिकेषु वात्सल्यं, कुर्वन्तौ च सगौरवम् ॥४४॥ क्रमात् शत्रुञ्जये तीर्थे, तथा रैवतके गिरौ । विधाय विधिना यात्रा, तद्धनव्ययपूर्वकम् ॥४५॥ धवलक्कपुरं धाम, धर्मकामार्थसम्पदाम् । श्रीवीरधवलाधीशराज|धानीमुपागतौ ॥४६॥ चतुर्भिः कलापकम् ॥
श्रीकपर्दिसुरादेशात्तत्रैव स्थितयोस्तयोः। श्रीचौलुक्यमहीपालगुरुणा गुरुणा गुणैः ॥४७॥ सोमेश्वराभिधानेन,निधानेनेव सन्मतेः।।
-**
-*-
****
Page #24
--------------------------------------------------------------------------
________________
प्रथमः प्रस्तावः।
श्रीवस्तुपाला द्विजन्मना(षट्कर्मणा) समं प्रीतिः, क्षीरनीरोपमाऽभवत् ॥४८॥ युग्मम् ।। यतः-क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः, चरितम् ।
* क्षीरे तापमवेक्ष्य तेन पयसा स्वात्मा कृशानी हुतः । गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा च मित्रापदं, युक्तं तेन जलेन शाम्यति पुन
* मैत्री सतामीदृशी ॥४९॥ इतश्च कन्यकुब्जाख्ये, देशे श्रीतिलकोपमे । कल्याणकटकाख्याने, पुरे परमसम्पदि ॥५०॥ पत्रिंशद्रा॥५॥ मलक्षाणामैश्वर्येण पुरन्दरः। श्रीभूयोऽजनि भूपालो, भूयसां तेजसां निधिः॥५१॥ तेन राज्ञा प्रसन्नेन, दत्तेयं गुर्जरावनी । पुत्र्या
महणलाहायाः, कञ्चुकार्थमनामतः ॥५२॥
खामिनीपदमासाद्य, सा पुनर्बुभुजे चिरम् । इमां महीमहीनाभा, प्रसादेन पितुर्भुवम् (निजात् ) ॥५३॥ सा क्रमेण शुभभ्या| नान्मृखाऽभूत्यन्तरी सुरी। अधिष्ठात्री भुवस्तस्याः, पूर्वनाम्नैव विश्रुता ॥५४॥ सान्यदा सुखशय्यायां, सुषुप्तं सुखनिद्रया । श्रीमन्तं नृपति वीरधवलं धवलोदयम् ॥५५॥ आकृष्टा प्राच्यपुण्येन, प्रत्यक्षीभूय भूयसा । उवाच स्पष्टवाचेति, द्योतितान्तःपुरावनिः॥५६॥ राजन् राजा बभूव प्राग् , चापोत्कटकुलांशुमान् । तेजस्वी गुर्जरावन्यां, वनराजो महाभुजः ॥५७।। द्वाभ्यां समधिकैवर्षे गतैरष्टशतै| रिह । विक्रमार्कमहीपालानाम्नाणहिल्लपाटकम् ।।५८।। स्वर्गशोभा समादाय, दायाद इव वज्रिणः । योऽतिष्ठिपन्महीपीठे, पत्तनं विश्वविश्रुतम् ॥५९॥ युग्मम् ।। योऽचीकरत्काञ्चनकुम्भशोभिपञ्चासराख्यं जिनचैत्यमुच्चैः । श्रीपार्श्वनाथप्रतिमासनाथं, श्रीशीलसूरीशगिरा पुरेत्र ॥६०॥ यः षष्टिवत्सरी राज्यं, कुर्वन् वसुमतीमिमाम् ॥ चक्रे राजन्वतीं न्यायनिधिरुच्छिद्य कण्टकान् ॥६॥ | पञ्चत्रिंशत्समा भूमान् , योगराजस्तदङ्गजः। बिडोजा इव विख्यातः, शशास पृथिवीमिमाम् ॥६२॥ पुपोष क्षेमराजः क्षमा, | | क्षमाभृत्क्षतविद्विषम् । ततो धर्मनयोत्कर्षाणां पञ्चविंशतिम् ॥६३॥ एकोनत्रिंशतं वर्षाण्यभृद्भयडभूपतिः । वैरिसिंहस्ततोऽप्यासी
॥५॥
Page #25
--------------------------------------------------------------------------
________________
द्वत्सराणां च विंशतिम् ॥६४॥ आदित्य इव तेजस्वी, रत्नादित्यः क्षितीश्वरः। अपालयन्महीमेता, वर्षाणि दश पञ्च च ॥६५॥ वर्षाणि सप्त सामन्तसिंहोऽभूभृपतिस्ततः । इत्यासन भूभुजः सप्तचापोत्कटकुलोद्भवाः॥६६॥ इतश्च-कन्यकुब्जपुरस्वामी, श्रीमद्भूय| डभूपतेः। तनुजन्माऽभवद्भूपः, कर्णादित्यस्तु कर्णवत् ॥६७॥ चन्द्रादित्यः सुतस्तस्य, सोमादित्यस्तदङ्गजः । तत्सूनुर्भुवनादित्यः, एतेऽभूवन्नृपाः क्रमात् ।।६८॥ राजबीनडलक्काख्यास्तत्पुत्राः सोदरास्त्रयः। अजायन्त जगजन्तुजातजीवातुसम्पदः ॥६९॥ तेष्वाद्यो निरवद्यात्मा, विद्यावान् कौतुकी पुनः । भ्रमन् भूमि क्रमात्प्राप्तः, पत्तनं पुरुषोत्तमः ॥७०॥ तस्मै सामन्तसिंहोऽदाद्वाजिकेवलिचमत्कृतः । लीलावतीशिरोरत्नं, लीलादेवीं स्वसोदरीम् ॥७१॥ यतः- अभणन्ताणवि नजइ, माहप्पसुपुरिसाण चरिएण । किं बुल्लन्ति
मणीओ, जाओ सहस्सेहिं धिप्पन्ति ॥शा तयोः सनुरनूनश्रीर्मूलराजो महीपतिः । अयोनिसम्भवत्वेन, ख्यातः शम्भुरिवाभवत् ।।७२।। * विक्रमार्कमहीपालान्नवस्वन्दशतेष्वसौ। त्रिधा वीराग्रणीजज्ञे, चौलुक्यकुलचन्द्रमाः ॥७३॥ पञ्चपञ्चाशतं वर्षाण्यकार्षीद्धर्षितप्रजः । | मूलराजो महाराज्यं, स्वाराज्यमिव वासवः ॥७४॥ ततश्चामुण्डराजोऽभून्मार्तण्ड इव तेजसा । त्रयोदशसमा भूमान् , कलाभृत्कान्तिपोषकः ॥७५॥ आसीदासीकृतारातिस्ततो बल्लभभूपतिः। षण्मास्याप्याप यो लोके, वाल्लभ्यं रामवद्गुणैः ॥७७॥
षण्मासैरधिकान्येकादश वर्षाणि सौख्यभृत् । दुर्लभः समभृद्भूपः, कामरूपतरूपमः ।।७८॥ सोमवंशमलङ्कर्तु, पुनर्भीम इवाभवत् । भूपतिस्त्यागिनां सीमा, भीमो भीमपराक्रमः ॥७९॥ द्विचत्वारिंशता परिवंशपरम्पराम् । येनोच्छिद्य कृतं राज्यमेकच्छ
मनोहरम् ॥८०॥ एकोनत्रिंशतं तस्य, समाः पट्टमभूषयत् । नृदेवः कर्णदेवस्तु, सकर्णत्रिदशद्रुमः ॥८१|| अभिग्रहविशेषेण, श्लाघ्यः सुमनसामपि । देवभक्तिरसो यस्य, मानसं व्यानशेऽमितः॥८२॥ ततः श्रीजयसिंहोऽभृद्भूभारपुरुषोत्तमः । न चक्रे बलिबन्धाय,
Page #26
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
प्रथमः प्रस्तावः ।
॥६॥
चित्रं यो वामनस्थितिम् ।।८३॥ शत्रुञ्जये महातीर्थे, पूजार्थ यो जिनेशितुः । देवदाये कृतिश्रेष्ठो, ग्रामद्वादशकं ददौ ॥४॥
एकत्र दर्शनायेव, जगत्सौन्दर्यसम्पदाम् । त्रैलोक्यसुन्दरं नाम्ना, मन्दिरं योज पत्तने ॥८५।। तथा चक्रे महेशस्य, कैलाशा- चलसोदरम् । प्रासादं च प्रजानन्दप्रदं सिद्धपुरे पुरे ॥८६॥ युग्मम् ॥ यतः- यः कोटीळयमुन्नतो विरचयन् षट्नन्दसङ्ख्या गुरुद्रम्माणां मदनभ्रमावनिभृता दण्डेऽपिता निर्ममे । शम्भोरायतनं चतुर्दशशतैः पाञ्चालिकानां युतम् । दिव्यं सिद्धपुरे स सिद्धनृपतिर्जीयाजगन्मण्डनम् ॥८७॥ गिरिनारगिरौ तीर्थे, सजनव्यवहारिणा । नेमेर्जगत्रयोत्कृष्ट, यश्च चैत्यमचीकरत् ॥८८॥ [श्रीसिद्धपु| रे रम्ये,सिद्धनृपो देवमूरिगुरुवचसा । वेदद्वारं चैत्यं कारितवान् तूर्यगत्यर्थम् ॥१॥] द्रम्माणां कोटिरेकात्र, लक्षा द्वासप्ततिस्तथा । व्ययीकृता गुरुवर्णरीरिविम्बे मनोहरे (रीरिबिम्ब मनोहरैः)॥८९॥ [सं. ११९८ वर्षेचैत्यमिदं जातम् । सरः सहस्रलिङ्गाख्याख्यातं नन्दी सरोनिभम् । शम्भुवेश्म सहस्रेण तयोनिरमीमपत् ॥] पञ्चाशत्समा भूमान् , कुर्वन् राज्यमसौ भुवि । बभार सिद्धराजेति, विरुदं | वरदोऽर्थिषु ॥१०॥ कुमारपालभूपालः, कृपापीयूषसागरः । पट्टे तस्याभवत् श्रीमान् , विक्रमादित्यसन्निभः ॥९१॥ यतः-आज्ञावर्तिषु | मण्डलेषु विपुलेष्वष्टादशस्वादरादब्दान्येव चतुर्दश प्रसृमरी मारिं निवार्योजसा। कीर्तिस्तम्भनिभांश्चतुर्दशशतीसङ्ख्याविहारांस्तथा,
कुला निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम् ॥१२॥ त्रिंशद्वर्षाणि कुर्वाणो, राज्यं मासाष्टकं तथा । एकातपत्रमैश्वर्य, जैनधर्मस्य | यो व्यधात् ॥९३॥ भूपालोजयपालोऽभूत्सप्तविंशतिवत्सरान् । अस्यां भुवि भयभ्रान्तीकृतविद्वेषिमण्डलः ॥९४॥ मासाष्टकं ततो* | वर्षत्रयं दिनद्वयं तथा । मूलराजाभिधो राजा, जज्ञे विज्ञेषु विश्रुतः ।।९५॥ एकं मासाधिकं वर्ष, चतुर्विंशतिवासरान् । भीमराजोऽभवद्राजा, रजोऽतीतयशास्ततः ॥१६॥
॥६॥
Page #27
--------------------------------------------------------------------------
________________
%%€3% 8888888888888888%€B8%
अर्णोराज इति ख्यातः सञ्जातः क्ष्मापतिस्तः । धामाधिकश्रियां धाम, कामरूपो वपुः श्रिया ॥९७॥ | युवां सम्प्रति राजानौ, पितापुत्रौ महौजसौ । लवणप्रसादवीरधवलौ स्थः स्थिरोदयौ ॥ ९८ ॥ कलिकालवशात्पापैर्मात्स्यन्यायपरैः परम् । पीड्यते गौरिव म्लेच्छैरधुनासौ वसुन्धरा ॥९९॥ युवां यदि तु कुर्वाथे, सचिवौ शुचिचेतसौ । श्रीमन्तं वस्तुपालं च, तेजःपालं च सोदरौ ॥ २०० ॥ राज्यप्रतापधर्माणां तदा वृद्धिदिने दिने । चतुरङ्गबलैः सार्धं, निःसन्देहं भवेत्तव ॥१॥ यतः - राजा नयज्ञः सचिवो विवेकी, यतिः क्षमावान् विनयी धनाढ्यः । विद्वान् क्रियावान् युवती सती च भवन्ति सर्वत्र महोदयाय || २ || अहं महणला देवी, ख्याताधिष्टायिका भ्रुवः । वदन्त्यस्मि भवत्पुण्यैराकृष्टा सर्वतोमुखैः ||३|| निगद्यैवं ततो देवी, तत्क्षणेन तिरोदधे । विद्युल्लतेव विद्योत्य, देहद्युत्या दिवस्तलम् ||४|| एवं खझोपलम्भेन, शुभंयुः पृथिवीपतिः । निद्रामुद्रां परित्यज्य, समुच्चिन्तितवानिति ॥५॥ अहो महोज्ज्वलैः | पुण्यैः, सद्यः कर्तव्य एव मे । दत्तो देव्योपदेशोऽयं, निवेश इव सम्पदाम् ||६|| यथा नेत्रं विना वक्त्रं, विना स्तम्भं यथा गृहम् । न राजते तथा राज्यं, कदाचिन्मन्त्रिणं विना ||७|| वेदविद्योज्झिता विप्राः, शीलहीना महर्षयः । मत्रिहीनाश्च भूपाला योऽमी मूलहारिणः ॥८॥ यतः
दृप्यद्भुजाः क्षितिभुजः श्रियमर्जयन्ति, नीत्या समुन्नयति मत्रिजनः पुनस्ताम् । रत्नावलिं जलधयो जनयन्ति किन्तु, संस्कारमत्र मैणिकारगणः करोति || ९ || सकलत्रे सुपुत्रे स्वाद्यया गेहे महोन्नतिः । प्राज्यकार्ये तथा राज्ये, सकलत्रे सुमत्रिणि ॥ १०॥ | वन्दिनां विजयध्वानैरातोद्यानां च निःखनैः । साकं ततः समुत्तस्थौ, राजा स्मेरमुखाम्बुजः || ११||| प्रातर्देवार्चनं पात्रदानं दीनानु१ शुभान्वितः । २ झवेरी ।
8888888888382888883X-X8388
Page #28
--------------------------------------------------------------------------
________________
प्रथमः प्रस्तावः।
श्रीवस्तुपाल कम्पनम् । पित्रोभक्तिः कृपालुख, प्राज्यपुण्याय पञ्चकम् ॥१२॥ एतत्सूक्तमनुस्मरन्नरपतिः कारुण्यवारान्निधिः, शौचाचारविधानचरितम् ।
निर्मलवपुर्देवार्चनं निर्ममे । दानं पात्रगणे ददौ निरुपमां दीनेषु चक्रे कृपा, नन्तुं पादयुगं जगाम विरजास्तातस्य गेहाङ्गणे ॥१३॥
ततश्चौलुक्यभूपालः, प्रणयी विनयी नयी । पितुः पादाम्बुजं नत्वा, निविश्य च तदग्रतः ॥१४॥ देवतादत्तमादेशमाचचक्षे यथा॥७॥ स्थितम् । श्रुत्वाभाषिष्ट लावण्यप्रसादनृपतिनृपम् ॥१५॥ युग्मम् ॥ आदेशोऽयं ममाप्यासीद्दत्तो देवतया तया । द्विधा निशान्ते
सुप्तस्य, मनाग्निद्रामुपेयुषः ॥१६॥ परस्परेण संवादाद्वेदवाक्यमिवानघम् । तं ज्ञाना मुमुदाते तौ, राजानौ जातविस्मयौ ॥१७॥
तस्मिन्नवसरे श्रीमान् , सोमेश्वर इति श्रुतः । तयोः कुलगुरुः प्रापत् , स्वस्त्यर्पणाय भूभुजोः ॥१८॥ यथार्हप्रतिपत्त्या तौ, सत्कृत्य * स्वपुरोहितम् । उदन्तं मुदितवान्ती, देवतादत्तमचतुः ॥१९॥ नृपादिष्टं तदाकर्ण्य, हृष्टोऽभाषिष्ट तद्गुरुः । युष्मत्पुण्यानुभावोऽयमु-*
दियाय पुरातनः ॥२०॥ साक्षादाक्षायणी देवी, यद्दबा दर्शनं निजम् । प्रसन्नीभूय वक्तिम, कार्यमार्यजनोचितम् ॥२१॥ यतःप्रत्यक्षतां यत्रिदशा व्रजन्ति, नित्यं प्रसन्नाश्च महीभुजो यत् । यत्सम्पदो वेश्मनि सर्वकामास्तद्धर्ममाहात्म्यमुशन्ति सन्त (सम्यक्)॥ | ॥२२॥ अभङ्गभाग्यसौभाग्य, तदिम मत्रिणोद्वयम् । क्रियते देवतादिष्टं, भवद्राज्योदयप्रदम् ॥२३॥ न्यायनिष्ठो गुणैर्येष्टो, विशिष्टो बुद्धिसम्पदा। सचिवः प्राप्यते पुण्यैः, पृथुभिः पार्थिवैः परम् ॥२४॥ श्रियो देव क्षणात्पीते, क्षरन्ति क्षारवारिणी । यथा देहस्य लोकस्य, तथा न्यस्ते कुमत्रिणि ॥२५॥ न प्रजासु न भूपाले, धनं दुरधिकारिणि । नास्ये सर्पस्य रुधिरं, न च दष्टकलेवरे॥ | ॥२६॥ महामात्यबलादेव, देवस्याप्यतिदुर्लभाः । लेभे श्रीवनराजोऽपि, गुजरैश्वर्यसम्पदः ॥२७॥ देव्या निवेदितौ मत्रिपुङ्गवौ यौ | भवत्पुरः । राजव्यापारधौरेयौ, न्यायशास्त्रविचक्षणौ ॥२८॥ द्वासप्ततिकलादक्षौ, सर्वदर्शनवत्सलौ । जिनेन्द्रधर्मधौरेयौ, पुरुषोत्त
॥७॥
Page #29
--------------------------------------------------------------------------
________________
ॐ*
मसन्निभौ ॥२९॥ शत्रुञ्जयोजयन्तादौ, यात्रां कुखात्र साम्प्रतम् । राजसेवार्थमायातौ, पुरा तौ मिलितौ मम ॥३०॥ त्रिभिविंशे
पकम् ।। साम्प्रतं देवपादै, यद्यादेशः प्रदीयते । तदानीय तयोर्देव, दर्शनं कार्यते मया ॥३१॥ ततो नृपयुगादेश, समासाद्य * पुरोधसा। तयोः समीपमानीतौ तौ विनीतौ सुसंवृतौ ॥३२॥ प्राभृतीकृत्य सद्वस्तु, वस्तुपालोऽनुजान्वितः। प्रसादमधुराकार, सतातं नृपमानमत् ॥३३॥
सन्मानासनदानाभ्यां, तयोगौरवमान्तरम् । निर्मायेत्यवदद्वीरधवलो जनकाज्ञया ॥३४॥ आकृतिगुणसमृद्धिसूचिनी, नम्रता | कुलविशुद्धिशंसिनी । वाक्क्रमः कथितशास्त्रसङ्क्रमः, संयमश्च युवयोर्वयोऽधिकः ॥३५॥ श्लाध्यतां कुलमुपैति पैतृकं, स्यान्मनोरथतरुः फलेग्रहिः। उन्नमन्ति यशसा सह श्रियः, स्वामिनां च पुरुषैर्भवादृशैः ॥३६॥ यौवनेऽपि मदनान विक्रिया, नो धनेऽपि विनये व्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं, केन वामिति नवाकृतिः कृता ॥३७॥ येन केन च न धर्मकर्मणा, भृतलेत्र सुलभा विभूतयः। दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥३८॥ न्यायधर्मनिपुणौ भवादृशौ, सूर्यचन्द्रसदृशौ महौजसौ । आवयोनयनगौरवं(गोचरम् ) गतौ, पूर्वपुण्यपरिपाकतोऽधुना ॥३९॥
अस्मदावसथपुण्यविवर्तः, प्रादुरास सहसाद्य समन्तात् । राज्यभारधरणैकधुरीणौ, यावां मम पुरेऽत्र समेतौ ॥४०॥ आवयोश्च | पितृपुत्रयोर्महानाहितः क्षितिभरः पुरद्रुहा । तधुवां सचिवपुङ्गवावहं, योक्तुमत्र युगपत्समुत्सहे ॥४१॥ इदं राज्यं माद्यत्करितरगपादातनिभृतं, श्रियः सर्वा एता नयविनयधर्मप्रतिभुवः। असौ व्यापाराली त्रिजगदुपकारप्रणयिनी, समस्तं न्यस्तं वां करसरसिजेऽस्माभिरधुना ॥४२॥ प्रसादमधुरा वाचः, पीलानन्दसुधामुचः । नृपानननदोद्भूतास्तावचिन्तयतामिति ॥४३॥ध्रुवं धर्मप्रभावोऽयमम
Page #30
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल के नृपतिपुङ्गवौ । यद्दत्तो नौ महामानमदृष्टश्रुतपूर्वयोः ॥४४॥ यतः - पत्नी प्रेमवती सुतः सविनयो आता गुणालङ्कृतः, स्निग्धो बन्धुचरितम् । जनः सखातिचतुरो नित्यं प्रसन्नः प्रभुः । निर्लोभोऽनुचरः सुबन्धुसुमुनिप्रायोपभोग्यं धनं, पुण्यानामुदयेन सन्ततिरियं कस्यापि सम्पद्यते ||४५ || दन्तद्युतिभरैः कुर्वन् वसुधां सुप्रभान्विताम् । अथ श्रीवस्तुपालोऽपि व्याजहार धराधरम् ||४६ || देव सेवकजनः स गण्यते, पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना, स्वामिना मधुरमेवमुच्यते ॥४७॥ नास्ति तीर्थमिह पार्थिवा | त्परं, यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं, सम्पदेति च समीहिता सताम् ||४८ || सप्रसादवदनस्य भूपतेर्यत्र यत्र | विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता । दक्षता सुभगता च वल्गति ॥ ४९ ॥ किन्तु विज्ञपयितास्मि किश्चन, खामिना तदवधार्यतां हृदा । न्यायनिष्ठुरतरा गिरः सतां, श्रोतुमप्यधिकृतिस्तवैव यत् ||५०॥ सा गता शुभमयी युगत्रयी, देव सम्प्रति युगं | कलेः पुनः । सेवकेषु न तथा कृतज्ञता, नापि भूपतिषु यत्र दृश्यते ॥ ५१ ॥ दृष्टिर्नष्टा भूपतीनां तमोभिस्ते लोभान्धान् साम्प्रतं कुर्वतेऽग्रे । तैर्नीयन्ते वर्त्मना तेन यत्र, भ्रश्यंत्याशु व्याकुलास्तेऽपि तेऽपि ।। ५२ ।।
न सर्वथा कश्चन लोभवर्जितः, करोति सेवां समताश्चितां (सेवामनुवासरम् ) विभोः । तथापि कार्यः स तथा मनीषिभिः, परत्र बाधा न यथात्र वाच्यता ॥ ५३ ॥ सुहृदामुपकारकारणाद्, द्विषतां चाप्यपकारकारणात् । नृपसंश्रय ईष्यते बुधैर्जठरं को न बिभर्ति केवलम् ||५४ || पुरस्कृत्य न्यायं खलजनमपाकृत्य सहजानरीनिर्जित्य श्रीपतिचरितमादृत्य च यदि । समुद्धर्तु धात्रीमभिलषसि तत्सैष शिरसा, धृतो देवादेशः स्फुटमपरथा स्वस्ति भवते ॥ ५५ ॥ प्रजावृद्धिर्नया नृपभवनकोशादिभिरमा, समुच्छेद्यो राजा
१ निन्दा !
॥८॥
8888888
**883XXCCBK 8888888888888888
प्रथमः
प्रस्तावः ।
॥८॥
Page #31
--------------------------------------------------------------------------
________________
888888888888888888888888824
ङ्गजमुखजनानां व कुनयः । तथा पूज्या नानार्चनपरिचयाद्देवगुरवो, मयाऽऽप्य व्यापारस्थितिमनुपमां नाथ भवतः ॥ ५६ ॥ किन्तु सम्प्रति सेवायै, देवयोः पार्श्वमागतौ । मण्डलीनगरादावां, कुटुम्बधनसंयुतौ ॥५७॥ रत्नत्रयी यथा साधोः, शम्भोरिख गुणत्रयी । द्रव्यलक्षत्रयी वेश्मन्यावयोरस्ति साम्प्रतम् ||५८ || यदा पिशुनवाक्येन, क्षुण्णमाभाति वां हृदि । यदृच्छया तदा दिव्यं, कारयिला सुदुस्सहम् ||५९|| आवामुक्तधनोपेतौ, मोक्तव्यौ सपरिच्छदौ । अत्रार्थे दीयतां धीरो, भवद्भयां गुरुणा सह ॥६०॥
इत्युक्त्वा विरते मत्रिराजे राजेश्वरोऽब्रवीत् । वर्षन् प्रसादपीयूषं, सस्नेहः स्मितकैतवात् ॥ ६१ ॥ इदं सर्वाङ्गसाम्राज्यमिमा व्यापारसम्पदः । अस्माभिर्भवदायत्चीकृतानि निखिलान्यपि ॥६२॥ आज्ञा श्रीनीलकण्ठस्य, धीरायां प्रतिभूः सदा । ममास्तु तातपादानां, सोमेश्वरगुरोस्तथा ॥ ६३ ॥ इति विकसितचेता वाचमुच्चार्य सत्यां, चुलुकनृपतिरन्तः प्रीतिमानात्मनैव । अकृत सुकृतभाजः स्वर्णमुद्रा| सशोभं, करसरसिजयुग्मं मत्रियुग्मस्य तस्य || ६४ || श्रीस्तम्भतीर्थस्य महाद्भुतश्रियः, पुरस्य नाम्ना धवलक्ककस्य च । श्रीवस्तुपालस्य महौजसस्तथा, प्रभुः प्रसन्नः प्रभुतां समार्पयत् || ६५ || अथ स्वाभाविकप्रज्ञोन्मेषनिस्तुषतेजसोः । देवतोद्भुतमाहात्म्यात्तथा पुण्यानुभावतः || ६६ ॥ उल्ललास तयोः काचित्, स्फुर्तिर्विश्वातिशायिनी । सर्वव्यापारमुद्रायां प्राप्तायां पृथिवीभुजः || ६७ || युग्मम् || आससाद परमं तदोच्छ्रयं, जन्मनीव जगतीजगद्गुरोः । जीवलोक इव भानुमण्डले, राजवेश्मनि महोदयोऽजनि ||६८ || देशकोशहयहस्तिसम्पदा, भूपतिर्जिनवरेन्द्रशासनम् । प्रापदर्थिजनतामनोरथश्रेणिभिः सह महोदयं तदा ॥ ६९ ॥
ततो दखा सुपात्रेषु, दानं विघ्नौघशान्तये । प्रीणयिला च निःशेषं, पुरीलोकं विवेकतः ॥७०॥ राज्ञोपढौकिते प्रौढे, पूजिता१ कोल । २ जामिन ।
-X@DXX@DE SEDE SADEXEDEXED**@
Page #32
--------------------------------------------------------------------------
________________
प्रथमः प्रस्तावः।
श्रीवस्तुपाल
M तिथिदेवतौ । मन्दिरे तस्थतुर्मत्रिराजौ राजन्यसेवितौ ॥७१॥ युग्मम् ॥ पौरैः प्रवर्धितोत्साहैर्वर्धापनमहोत्सवः । निर्मितप्राभृतैस्तेने,
प्रवेशे वेश्मनस्तयोः ॥७२॥ वेदविद्याविदो विप्रा, वेदोच्चारपुरस्सरम् । शान्तिकं कर्म कुर्वाणा, आशीर्वाद ददुर्मुदा ॥७३॥ जगुर्जयजJakl यारावं, बन्दिनो विश्वनन्दिनः । सधवा धवलान्युच्चैर्मङ्गलार्थ मृगेक्षणाः ॥७॥
सानुजः सचिवाधीशो, मनोरथपरम्पराम् । सर्वेषां पूरयामास, कल्पद्रुरिव जङ्गमः ॥७५॥ एवं प्राप्य नरेन्द्रराज्यकमलां सर्वाऽधिकारस्थिति, श्रीमांश्चण्डपवंशमौक्तिकमणिः श्रीवस्तुपालः कृती । तेजःपालसुबन्धुवतिमहाः सप्ताङ्गराज्योदयं, कुर्वाणः कलिकालकुञ्जरहरिहर्ष प्रजासु व्यधात् ॥७६॥
॥९॥
5834-30-06
ge-N-SHARERe-N-ANDARDPRESE-10-08-04-04-08-10RRESPONSHIRSAREER-80-9000-34-30-34-30-De-SPRERNAREIN ॥ इति श्रीमहामात्यश्रीवस्तुपालचरित्रे तपागच्छाधिपश्रीसोमसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते
हर्षाके मन्त्रिनरेन्द्रवंशदेवतादेशराज्यव्यापारप्राप्तिवर्णननामा प्रथमः प्रस्तावः समाप्तः ॥ BR-RHANNESSINGERIENTRANSPIRINARIESNINNEANINTERNATIONAIRTERSNES-NESHWARINAKARANE
C- 33-
23
॥९॥
Page #33
--------------------------------------------------------------------------
________________
द्वितीयः प्रस्तावः
अथ मन्त्री शुचीभूय, भृतो भावेन भूयसा । श्रीजिनं पूजयामास, सर्वाभीष्टफलप्रदम् ॥१॥ यतः- विपुलमञ्जुलमङ्गलकारणं, दुरितसन्ततितापनिवारणम् । जनितजन्तुमनोरथपूरणं, सृजत भव्यजना जिनपूजनम् ॥२॥ आगत्य पौषधागारं, मत्रीशः सपरिच्छदः। सद्बुद्धिसिन्धुना युक्तस्तेजःपालेन बन्धुना ॥३॥ देवप्रभगुरून् भक्त्या, ववन्दे विदितागमान् । पूजा गुणवतां सम्यग् , यद्विवेकतरोः फलम् ॥४॥ युग्मम् ॥ पुण्यारामसुधाकुल्यातुल्यां कश्मलहारिणीम् । तदने विदधुस्तेऽपि, देशनां मार्गदेशनाम् ॥५॥ आरोग्यभाग्याभ्युदयाः प्रभुत्वं, खके शरीरे भुवने महत्त्वम् । चित्ते विवेकः सदने च वित्तं, पुण्यानुभावेन भवन्ति पुंसाम् ॥६॥ अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्तिक्लान्तानां धनमधनभावार्तमनसाम् । अनाथानां नाथो गुणविरहितानां गुणनिधिर्जयत्येको धर्मः परम इह हितवातजनकः ॥७॥
सर्वेषामपि धर्माणामुपकारः परः स्मृतः। धर्मः शर्मकरः सर्वदर्शनानां च सम्मतः॥८॥ द्रव्यभावप्रकाराभ्यामुपकारो द्विधा मतः। यथाशक्ति विधातव्यः, सर्वेषामङ्गिनां बुधैः ॥९॥ तपः कुर्वन्ति दुःखार्ता, नीचा अपि यथातथा । उपकर्तुं परं लोके, गरी* यांसो भवन्त्यलम् ॥१०॥ यतः- विधातुमपकारं हि, क्षमा विषधरा अपि । उपकारः परं कर्तु, शक्रेणापि हि दुष्करः॥११॥ विद्वांसः * कति योगिनः कति गुणैर्वेदग्ध्यभाजः कति, प्रौढा मत्तकरीन्द्रकुम्भदलने वीराः प्रसिद्धाः कति । स्वाचाराः कति सुन्दराः कति कति
प्राज्यप्रतिष्ठावराः, किं त्वेको विरलः परोपकरणे यस्यास्ति शक्तिः सदा ॥१२॥ दीननिःस्वनिराधारदुःखितेषु शरीरिषु । भृशं च
Page #34
--------------------------------------------------------------------------
________________
द्वितीयः प्रस्तावः।
श्रीवस्तुपालापीडितानेषु, क्षुत्पिपासादिपीडया ॥१३॥ पुण्यकारुण्यमाधाय, स्वसामर्थ्यानुसारतः । अन्नपानादिदानेन, समाधिर्यविधीयते ॥१४॥ चरितम् । द्रव्योपकार एषोत्र, गदितस्तत्ववेदिमिः। भुवनाद्भुतसौभाग्यसम्पदामास्पदं परम् ॥१५॥ ज्ञानदर्शनचारित्रतपःक्षान्तिमतां पुनः ।
* सम्यक्त्वशीलयुक्तानां, भक्तिरागेण भूयसा ॥१६॥ सम्यग्ज्ञानक्रियादीनां गुणानामधिरोपतः । भवेद्भावोपकारस्तु, निःस्पृहाशयशा॥१०॥
लिनाम् ॥१७॥ कुर्वन्त्युपकृति प्रायो, धन्या एवान्यदेहिनाम् । प्रौढमैश्वर्यमासाद्य, सम्पदा वपुषापि च ॥१८॥
वर्गापवर्गसौख्यानि, चक्रवादिसम्पदः। द्विविधस्योपकारस्य, फलमाहुर्मनीषिणः ॥१९॥ द्रव्योपकारमात्रस्याप्यनेकाः | सुखसम्पदः । भूभृतो भरतस्येव भवन्त्यत्र परत्र च॥२०॥ तथाहि भरतक्षेत्रे, पुरन्दरपुरोपमम् । अस्ति भोगपुरं नाम, धाम सर्वा
द्भुतश्रियः ॥२१॥ तत्राभृद्भरतो भूमान् , भाग्यसौभाग्यसेवधिः(सौभाग्याद्भरतात्प्रति)। कीर्तिकर्पूरसौरभ्यैर्वासयन् भरतावनिम् ।। * ॥२२॥ द्विधा धर्मकलाशाली(कर्मकलाशाली), द्विधा समिति तत्परः। द्विधा क्षमाभृतां मुख्यो, योऽभूद्वीरः परं त्रिधा ॥२३॥
यस्य स्वान्ते भुवो भतुयं तृणगणायते । सङ्ग्रामे विद्विषां वृन्द, दाने च कनकोत्करः ॥२४॥ आसीत्सीमन्तिनीसीमा, तस्य शस्यागसम्पदाम् । सुलोचना महादेवी, नीलोत्पलविलोचना ॥२५॥ विशुद्धोभयपक्षश्रीर्मरालीव लसद्गतिः । उवास मानसे भर्तुर्या विवेकवती सती ॥२६॥ तदङ्गजो रजोऽतीतैः, प्रतीतो भुवि सद्गुणैः । महीचन्द्रोऽभवद्भद्रगजेन्द्र इव विक्रमी ॥२७॥ कुलीना मत्रिणो|ऽभूवन , भूयलप्रमुखाः पुनः। तस्य राजप्रजाकार्यधुरीणा धीरधीभृतः ॥२८॥ वाजिकुञ्जरकेलीषु, गीतकाव्यकथादिषु । लीलासु युव* तीनां च, नाटकप्रेक्षणादिषु ॥२९॥ असौ भरतभूपालः, सर्वैश्वर्यसुखोदधिः । परोपकारादन्यत्र, नारज्यत मनाक् क्वचित् ॥३०॥
१ धर्म-दान-अंगीकृतनिर्वाहेषु ।
॥१०॥
Page #35
--------------------------------------------------------------------------
________________
F-%£3X%83%2£3KX43K8838888888
युग्मम् ॥ सोऽन्यदा मन्त्रिणः स्माह, प्रवाहः सुकृताम्बुनः । महीचन्द्रकुमारेण, युवराजेन संयुताः ॥ ३१ ॥ यूयं तथाखिले राज्ये, चिन्तां कुरुत सद्धियः । यथा न जायते लोके, विबाधा न्यायधर्मयोः ||३२|| युग्मम् ।। यथाशक्ति करिष्येऽहमुपकारं शरीरिणाम् । निर्निदानेन दानेन, हृदयाभीष्टवस्तुनः ||३३|| स्वार्थादप्यधिको यत्र, परार्थः प्रतिभासते । स एव पुरुषो लोके, श्लाध्यते त्रिदशैरपि ॥ | ||३४|| परोपकारः कर्तव्यः, प्राणैरपि धनैरपि । परोपकारजं पुण्यं, न स्यात् क्रतुशतैरपि ॥ ३५ ॥ एवमुक्त्वा महामात्यपुङ्गवान नृप - पुङ्गवः । विन्यस्य राज्यकार्यालीधुराधौरेयतापदे || ३६ || स्वयं परोपकारैकदीक्षितो दक्षिणाग्रणीः । पूरयामास सर्वेषां यथायोगं मनोरथान् || ||३७|| युग्मम् !
अन्यदा नृपतिः प्रेक्ष्य, नानाप्राणिपरम्पराम् । विविधैर्व्याधिभिर्ग्रस्तामितिचिन्तापरोऽभवत् ॥ ३८ ॥ जातोऽहं नृपतिः स्फुरद्गु| ततिः केनापि सत्कर्मणा, सामर्थ्यं पुनरस्ति नैव किमपि त्राणाय मे प्राणिनाम् । मृत्युव्याधिवियोगविह्वलधियां सामान्यजन्तोखि, | प्रौढैश्वर्यमिदं ततो हि विफलं मे ही (सर्व) समं सम्पदा || ३९॥ ततो मे नाममात्रेण, जातेयं नरनाथता । मुधा वञ्चापरस्येव (चञ्चा| नरस्येव ), योगक्षेमविवर्जिता ||४०|| रक्षितुं नैव शक्तिर्मे ( शक्रोमि), यदसुं प्राकृतं जनम् । व्रजन्तं विवशं धर्मराजवेश्मनि रोगतः ॥ ॥ ४१ ॥ इति चिन्तातुरो यावत् शय्यामनु नरेश्वरः । खापार्थमुपरि प्रापत्, सप्तभ्रमस्य वेश्मनः ॥४२॥ तावचत्र वराकारं सुषुप्तं सुखनिद्रया । अद्राक्षीत्पुरुषं कश्चित् काश्वनद्युतिभासुरम् ||४३|| अपश्यत्पतितां तस्य समीपे गुटिकामसौ । प्रस्फुरत्काश्चनज्यो तिरुद्योतितगृहाङ्गणाम् ||४४ || आदाय विस्मयावेशविवशोऽथ विशाम्पतिः । गुटिकां कृपया तस्य, वातक्षेपं व्यधात्स्वयं ॥ ४५ ॥ अत्रान्तरे तिरस्कृत्य स निद्रां लु(ग्ल) पितेन्द्रियाम् । अविद्यामिव योगीन्द्र, उत्पपात जवादिवि ||४६ ||
*88% 8888888888888888888888
Page #36
--------------------------------------------------------------------------
________________
द्वितीयः प्रस्तावः।
पश्चात्तत्रैव पर्यङ्के, पतितोऽसौ नभस्तलात् । पुरःस्थं नृपति प्रेक्ष्य, भयभ्रान्तोऽभवभृशम् ॥४७॥ तथावस्थं तमालोक्य, भूपतिः सदयोऽवदत् । माकार्षीस्वं भयं भद्र! परं कोऽस्यागमः कुतः॥४८॥ सोऽप्यवग् गुटिकासिद्धो, दूरदेशनिवासवान् । अनङ्गकेतुना| मास्मि, पुमान् क्षत्रियवंशजः॥४९॥ गुटिकायाः प्रयोगेण, स्वैरं व्योनि व्रजन्नहम् । श्रीपर्वते यियासुस्तु, श्रान्तो भूयोऽध्वलङ्घनात ॥५०॥ विश्रामार्थ भवच्छय्यां, रक्षकैः परिवर्जितां । प्रेक्ष्य निद्रासुखं भेजे, दुर्विनीतो जडाग्रणीः ॥५१॥ प्रबुद्धः साम्प्रतं राजन् ! नभोऽध्वनि समुत्पतन् । गुटिकाया अभावेन, पश्चादेवापतं द्रुतम् ॥५२॥ ततो मे सापराधस्य, प्रसद्य करुणार्णव! । जीवदानं विभो!
देहि, देहिनां परमं प्रियम् ॥५३॥ तन्निशम्य क्षमापालः, कृपालुः साञ्जसं जगौ । निरातङ्कश्चिरं निद्रां, कुरु शय्यामिमां श्रितः॥५४॥ Pe| निविष्टोऽग्रे करिष्येऽहं, वातक्षेपं पुनस्तव । अनाहूतोतिर्वेिश्मन्यागच्छत्सुकृतोदयात् ॥५५॥ युग्मम् ।। सोऽप्युत्थाय द्रुतं तस्य,
विनयाद्वामनीभवन् । भूभुजश्चरणाम्भोज, नमस्कृत्याब्रवीदिति ॥५६॥ नैतद्युक्तं महाराज! भवानत्र भवान् यतः। सुरासुरनरश्रेणिस्पृहणीयगुणाकरः ॥५७॥
निःकृत्रिमोपकारित्वात् , सर्वेषां तु विशेषतः । महतां भरतावन्या, त्वमेव तिलकायसे ॥५८॥ तदुक्तिरञ्जितो राजा, गुटिका
समार्पयत् । यदन्यसम्पदि नैव, स्पृहयालुर्महान् पुनः ॥५९॥ सोऽवदद् गृह्यतां देव, देवधेनुमिवानघाम् । मयि प्रसादमाधाय, * गुटिका कामदायिनीम् ।।६०॥ एतस्या अनुभावेन, खैरं नभसि गम्यते । व्याधयो विविधाश्चास्या, विलीयन्तेऽम्बुसेकतः ॥६१।।
नृपोऽवादीन गृह्णामि, परकीयं किमप्यहम्। परमस्यास्तु सद्भावपदं वद विदाम्वर! ॥६२।। राजादेशं समासाद्य, विद्यासिद्धोऽभ्यधादिति । दक्षिणस्यां दिशि स्वामिन् , मलयाचलमण्डनम् ॥६३॥ शशाङ्कमण्डलाकारं, नानातरुविराजितम् । रामशेखरदेवस्य, भवनं
॥११॥
Page #37
--------------------------------------------------------------------------
________________
भुवनाद्भुतम् ॥६४॥ अस्ति खर्गवधृवृन्दक्रीडासङ्केतवेश्मभम् । दिव्याश्चर्यश्रिया सारं, पूरितार्थिमनोरथम् ॥६५॥ त्रिभिर्विशेषकम् ॥
शिरसा तनुभृत्वासकारि स्नात्रजलं वहेत् । षण्मासी यो वसंस्तत्र, तप्तत्रपुरसोपमम् ॥६६॥ स प्राप्नोति तदन्ते द्राग् , गुटि| कामीदृशीं विभो । सत्वहीनो ज्वलत्येव, वहिनेव तदम्बुना ॥६७॥ इति श्रुत्वा धराधीशः, पुमांसं विससर्ज तम् । अन्वभूच क्षणं | निद्रासुखं तस्यां समाहितः ॥६८॥ यथास्थिततया मखा, तस्य वाचं क्षितीश्वरः । अज्ञातः परिवारेण, केनाप्यञ्जनयोगतः ॥६९॥ कृतरूपपरावर्तः, प्रथमः सत्वशालिनाम् । खड्गपाणिनिशीथेऽथ, प्रतस्थ दक्षिणाम्प्रति ॥७०॥ नमस्यन्नैकतीर्थानि, वनीः (वन्याः) पश्यन्ननेकशः। व्रजन् क्रमेण स प्राप, मलयाचलचूलिकाम् ॥७१॥ अद्राक्षीत्सर्वतस्तस्य, पर्वतस्य श्रियं नृपः। सुरभीभूतसर्वाङ्गः, | सौरभैश्चान्दनद्रुमैः ॥७२॥ आससाद क्रमाद्रामशेखरस्वग्वेिश्म सः। जगदानंदिसौन्दर्यरमणीयमणीमयम् ॥७३॥ स्नाखातिविमले | वापिजले स कमलावलीः। आदाय पूजयामास, रामशेखरमादरात् ॥७४॥ तत्र धात्रीप्रभुदृष्ट्वा, गुटिकाप्राप्तये पुरा । भूयसस्तस्थुषः पुंसस्ताम्यतः सत्ववर्जितान् ॥७५।। स्नानाम्भस्तापसञ्जातव्रणाङ्कितशरीरकान् । नरं कश्चन पप्रच्छ, कति सन्ति भवादृशाः ॥७६॥ शतमत्र वयं वर्तामहे तेनोदितो नृपः । दुःसाध्या कार्यसंसिद्धिर्ममाप्येवमचिन्तयत् ॥७७। तथापि सत्वमालम्ब्य, गाङ्गपूरमिवेश्वरः। | धतुं स्नानपयःक्ष्मापः, शिरो न्यास्थत्प्रणाल्यधः ॥७८॥ विद्युदुद्योतसङ्काशं, पतच्छिरसि भूभृतः । चमत्कारं करोतिस्म, कातरत्रा* सकारणम् ॥७९॥ स्थिरासनतया तत्र, तस्थुषस्तस्य भूपतेः । प्रादुरासीत्पयःपूराद्गुटिका प्रस्फुरत्प्रभा ।।८०॥ तामादाय नृपो दध्यौ,
दुःखिताङ्गिषु वत्सलः। अमीष्वपूर्णवाञ्च्छेषु, कथं खार्थः प्रसाध्यते ॥८१॥ यथा दृक्पथमायातं, क्षुत्पिपासातिपीडितम् । विमुच्य | महतां भोक्तुं, निराशं नैव युज्यते ॥८२॥
Page #38
--------------------------------------------------------------------------
________________
द्वितीयः प्रस्तावः।
श्रीवस्तुपाल
तथा निजमनोऽभीष्टलिप्साचिन्ताभरार्दितान् । उपेक्ष्यामृन युज्येत, मम खाभीष्टसाधनम् ।।८३॥ इति ध्यात्वा नृपः प्रादा-1 चरितम् ।। देतामेकस्य कस्यचित् । द्वितीयां पुनरासाद्य, द्वितीयस्य तथार्पयत् ॥८४॥ अत्रान्तरे नरेन्द्रस्य, तुष्टः सत्वेन भूयसा । प्रत्यक्षः
स्पष्टमाचष्ट, देवः (यक्षः) श्रीरामशेखरः ॥८५॥ अहो सत्वमहो धैर्यमहो कारुण्यमान्तरम् । भवतो भूपमूर्धन्य, दृश्यते विश्वतोऽ-* ॥१२॥
धिकम् ॥८६॥ यस्येदृशी मनोवृत्तिः, परोपकरणोद्यता, लोके शास्त्रे च कुत्रापि, या न दृष्टा श्रुताप्यहो ।।८७॥ न प्राप्यते षण्मा-|
स्येयं, गुटिकैकापि कष्टतः । तद्द्यं भवतासादि, दिनेनैकेन सत्वतः ॥८८॥ तद्यं भवता दत्तमर्थिनोस्तृणवत्क्षणात् । तेन सत्वेन aal तुष्टोऽस्मि, देवोऽहं रामशेखरः ॥८९॥ वरं वृणीष्व तद्राजन्! मनोऽभीष्टफलप्रदं । न भवेत्कस्यचिन्मोघमनघं देवदर्शनम् ॥९॥
विनीतस्तं नमस्कृत्य, ततः स्माह महीपतिः। पुण्यपुण्योदयाद्देवप्रष्ठ! तुष्टो भवान् यदि ॥९१॥ तत्स्वकीयांहिकल्पद्रुसेवाहेबाकिनः कुरु । पूर्णकामानरान् सर्वानमृन्मौनावलम्बिनः ॥१२॥ ____ आचख्यौ यक्षराजोऽपि, राजानं रञ्जितोऽधिकम् । मम प्रसादं नार्हन्ति, सत्वाः सत्वोज्झिता इमे ॥१३॥ परं भवद्वचः | स्वर्गवामिनोऽप्यनतिक्रमम् । किं पुनर्मादृशः स्वर्गिसामान्यस्य नरेश्वर! ।।९।। इत्युक्त्वा पूरयामास, सुरस्तेषां मनोरथान् । भूभुजोऽनुग्रहादेव, प्रत्येकं गुटिकार्पणात् ॥९५॥ ततोऽधिकं प्रसन्नेन, नाकिना तेन भूपतेः । गुटिका प्रददे दिव्या, सर्वाभीष्टार्थसाधनी॥९६॥
तं प्रणम्य महीपालो, लीलया व्योममण्डले । तस्याः सम्यग् प्रभावेण, पक्षिराज इव ब्रजन् ।।९७॥ राष्ट्रकूटावनीभालललामाकार* धारिणि । पुरेरिष्टपुरे नाम्ना, सम्प्राप्तः कौतुकाकुलः ॥९८॥ युग्मम् ॥ तस्योद्याने भ्रमन् भृमानमन्दानन्ददायिनि । ददर्श सुव्रताचा
र्यान : सुव्रतश्रेणिसेवितान् ॥९९।। कृत्यवित्वान्नमस्कृत्य, पञ्चाङ्गनतिपूर्वकम् । अग्रे निविश्य शुश्राव, धात्रीशो धर्मदेशनाम्
॥१२॥
Page #39
--------------------------------------------------------------------------
________________
१००॥ अपारे संसारे कथमपि समासाद्य नृभवं, न धर्म यः कुर्याद्विषयसुखतृष्णातरलितः । बुडन् पारावारे प्रवरमपहाय प्रवहणं, * स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥१॥
धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः। कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः॥२॥ स धर्मो द्विविधः प्रोक्तः, साधुश्रावकभेदतः। सद्देवगुरुधर्मादि| तत्त्वश्रद्धानपूर्वकः ॥३॥ इत्यादिदेशनां श्रुत्वा, नृपः श्रीगुरुसन्निधौ । सम्यग्दर्शनसंशुद्धं, श्राद्धधर्म तदाऽग्रहीत् ॥४॥ ततो नखा गुरून् भक्त्या, कौतुकी पृथिवीपतिः। प्रविवेश पुरस्यांतः, पश्यस्तजनसम्पदम् ॥५।। नरेन्द्रपुरुषे रोषारुणैः कञ्चन पूरुषम् । नीयमानं वराकारं, प्रेक्ष्य वध्यावनिं प्रति ॥६॥ पुण्यकारुण्यपीयूषसागरो नागरावलीः। विस्मापयन्महातेजा, व्रजन् वर्त्मनि भूपतिः ॥७॥ | उत्पाठ्य सहसा तेभ्य, उत्पपात नभस्तले । प्रापच्च वायुवेगात्स, (वायुवद्वेगात् ) सत्वशाली पुरे निजे ॥८॥ त्रिभिर्विशेषकम् । उत्तीर्ण नृपतौ तत्र, सप्तभूमे निजे गृहे । ननाश काकनाशं साक् , व्याधिः (शोकः) सर्वोऽपि पूर्जनात् ॥९॥ महीचन्द्रकुमारोऽपि, समत्र्यादिपरिच्छदः । प्रणनाम पितुः पादौ, सम्भ्रमात्खलिताम्बरः॥१०॥ प्रमोदन्ते प्रजाः सर्वा, न्यायधर्माभिवृद्धितः । इत्यपृच्छनृपोऽपि तान्(इत्याख्यात क्षितिभृन्मत्रि)निजाङ्गजमुखान् पुनः॥११॥ ___ अविघ्नेनानुवर्तन्ते सम्पदः सकलाः प्रजाः। तव प्रसादतः स्वामिन्नित्यूचुः सचिवादयः॥१२॥ सत्कृत्याथ सहानीतं, नरं सक्रियया नृपः। तत्स्वरूपं च जिज्ञासुर्यावदाख्याति किञ्चन ॥१३॥ तावत्कश्चिद्वराकार, उत्तीर्य नमसो नरः। तस्मै समर्पयामास, हारं विश्वमनोहरम् ।।१४।। स्वशरीरमिवासाद्य, हारं मुक्तामयं नृपः । तमाख्यत्कोऽसि कं हेतुं, दत्से मुक्तावलीमिमाम् ॥१५॥ स
Page #40
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
द्वितीयः प्रस्तावः।
॥१३॥
प्रणम्यावदद्देव, देवानामपि दुर्लभम् । हारं समर्पयनस्मि, हेतुना येन तं शृणु ॥१६॥ तथाहि-अस्त्यत्र भरतक्षेत्रे, सिंहलद्वीपमण्डने। जयावर्तपुरे रत्नप्रभाख्यः क्षोणिवल्लभः ॥१७॥ तस्य रत्नवती देवी, निःसपत्नप्रभाद्भुता । अस्ति प्रशस्तिवद्विश्वे, वयसौन्दर्यसम्पदः॥ ॥१८॥ पतिव्रतागुणोपेता, जिनधर्मपरायणा । प्राज्यसाम्राज्यसौख्यश्रीसारं सारङ्गलोचना ॥१९॥ युग्मम् ॥ तदालयेऽन्यदाऽऽयासीदसीमप्रशमोदधिः । न दीनतां गुणैबिभ्रत , सुव्रताख्यो महाव्रती ॥२०॥ माखन्तं तं तदालोक्य, कुर्वाणं सुदिनोदयम् । सा स्मेरवदनाम्भोजा, पबिनीवाभवभृशम् ॥२१॥
तं निवेश्यासनेऽवादीद्वन्दिला सा कृताञ्जलिः । कुतोऽद्य भगवन्नत्र, जङ्गमं तीर्थमागमः ॥२२॥ भद्रे! भद्रात्मनस्तीर्थाद्गिरेरष्टा| पदादहम् । चारणः श्रमणः प्रापं, मासक्षपणपारणे ॥२३॥ इत्युक्ते मुनिनामाक्षीत् , स्वरूपं सा महीभृतः । न्यक्षेण तस्य माहात्म्यं,
स तस्यै पुनरादिशत् ॥२४॥ श्रुत्वा तत्तीर्थमाहात्म्यं, यात्रास्नात्रार्चनोद्भवम् । सा ततो वन्दनोत्कण्ठारसेनाकुलिता सती ॥२५॥ | अजिब्रह्मनिष्ठात्मा, तन्नमस्कृतिहेतवे । भोजनादिपरित्यागाभिग्रहं जगृहे तदा ॥२६॥ युग्मम ।। नभोगमनसामर्थ्य, विनाऽष्टापदपवते। न सा शक्नुवती गन्तुं, भावनामित्यभावयत् ॥२७॥ चारणश्रमणा धन्या, धन्या विद्याधरा नृपाः। ये नमस्यन्ति तीर्थेत्र, गखा गखा जिनेश्वरान् ॥२८॥ ते श्लाघ्या वन्दनीयाश्च, तेषां जन्म फलेग्रहि । यात्रां कुर्वन्ति ये नित्यं, तीर्थेषु विविधेष्वपि ॥२९॥ | सैवं चिन्तार्णवे मना, बोधितापि नृपादिभिः। महासबवती नैवाभिग्रहं मुमुचे पुनः॥३०॥ तस्या दुःखं ततो राज्ञो, मानसे विम| लात्मनि । प्रतिबिम्बीभवद् दृष्टं, प्रधानपुरुषादिमिः ॥३१॥ श्रुखा माहात्म्यमुर्वीशो, रामशेखरनाकिनः। तस्या वाञ्छितसिद्ध्यर्थ, गृहेऽगाद्गुटिकाकृते ॥३२॥ तस्मिन्नस्मन्महीभर्तुः, प्राप्तस्य पुरुषोत्तमः । तृतीये दिवसे कश्चिद्गुटिका कामदामदात् ।।३३॥ गृहमागा
॥१३॥
Page #41
--------------------------------------------------------------------------
________________
ततो वेगात् , पूर्णकामो नरेश्वरः । गुटिकां दिव्यमाहात्म्यां, पट्टदेव्याः समार्पयत् ॥३४॥ तद्बलात्सा जिनानन्तुं, पर्वतेऽष्टापदेगमत् । ततः प्राप्ता पुरे धर्मोन्नत्यै चक्रे महोत्सवान् ॥३५॥
यथोक्तवर्णमानाभिः, प्रतिमाभिरलतम् । कृतप्राणिगणानन्दं, गाङ्गेयकलशाञ्चितम् ॥३६॥ अष्टापदावताराख्यं, चन्द्राश्मैश्चैत्यमुच्चकैः । वपुरे कारयामास, वासवावाससन्निभम् ॥३७॥ युग्मम् ।। नानादेशागतैस्तत्र, मात्रातिगमहोत्सवैः । प्रावर्त्यत महायात्रा, | जनैराहतपुङ्गवैः ॥३८॥ चारणश्रमणास्तवान्यदा नन्तुं जिनेश्वरान् । शान्तपापाः समाजग्मुस्तिग्मद्युतिविडम्बिनः ॥३९॥ नत्वा तान् विनयी राजा, पप्रच्छाछद्मशक्तिभृत् । केनेयमर्पिता स्वामिन् , गुटिका व्योमगामिनी ॥४०॥ मुनयोऽपि जगू राजस्तदने चरितं तव ।। त्रिजगञ्जनिताश्चर्य, गुटिकाढौकनावधि ॥४॥ विषापहारिणं हारं, प्राभृतं मम पाणिना। भवतो ढोकयामास, कृतज्ञोऽसौ ततो नृपः ॥४२॥ अमुं गृहाण तद्राजन् , रत्नप्रभनृपोपरि। प्रसादविशदो भूखा, प्रीतिपल्लवकारणम् ॥४३॥ तच्छ्खा भरताधीशो, विस्मयादित्यचिन्तयत् । अहो रत्नप्रभो राजा, कृतज्ञजनमण्डनम् ॥४४॥ मनागप्युपकारं यो, व्यसान्निव मत्कृतम् । सुमेरुसदृशं प्रत्युपकारं च चिकीर्षति ॥४५॥ अथावक् वसुधाधीशस्तं पुमांसं प्रमोदयन् । धन्यानामवधे(मन् , प्रभोस्तव किमुच्यते ॥४६॥ लघु| मप्युपकारं यो, गुरोरपि गुरुं सृजन् । एतं राज्यश्रियः सारं, हारं मम प्रयच्छति ॥४७॥ परं परस्य सदस्तु, नाहं गृह्णामि कस्यचित् । दिव्यस्यास्य समुत्पत्ति, निवेदय तथापि मे ॥४८॥
सोऽप्यूचे श्रूयतां देव, सचिवो मतिसागरः । जिनेन्द्रशासनाम्भोजप्रकाशतपनोपमः ॥४९॥ राज्यकार्यधुराधारः, प्रजापालनतत्परः । आसीदस्मत्प्रभो राज्ये, ज्यायान् न्यायाध्वदीपकः ॥५०॥ युग्मम् ॥ स श्राद्धधर्ममाराध्य, क्रमात्सम्यक्त्वपूर्वकम् । देवोऽ
Page #42
--------------------------------------------------------------------------
________________
**
चरितम् ।
श्रीवस्तुपाल भूत्प्रथमे कल्पे, सुपर्वेश्वरसन्निभः ॥५१॥ स परीक्ष्य विधा शुद्धं, सम्यक्त्वस्थिरतागुणम् । प्रत्यक्षीभूय भूपाय, तुष्टो हारममुं ददौ ॥ द्वितीयः
| ॥५२॥ तेनेति प्रोक्तमाकर्ण्य, हृष्टो वर्णगुरुः पुनः। तस्मै हारं ददौ पश्चानिःस्पृहैकशिरोमणिः॥५३॥ विसृष्टोऽथ नरेन्द्रेण, निजं | प्रस्तावः।
| धाम जगाम सः। नखा दत्त्वा च तं राज्ञस्तत्वरूपं न्यवेदयत् ॥५४॥ अन्यदारिष्टनगरात् , सहानीतं नरं नृपः । कस्वमीदृगवस्था * ॥१४॥ | ते, कस्मादित्यब्रवीद्रहः ॥५५॥ सोऽपि माह महाराज! द्विजः पारासरोऽस्म्यहम् । आम्नाती भारतग्रन्थे, पुराणेष्वपरेष्वपि ॥५६॥
यत्किञ्चिद्वम्यहं देवादेशादाख्यानमिच्छया। तत्प्रायः सत्यतां याति, ततो मम भवेद्धनम् ॥५७॥ __ अन्यदा राजपुत्रस्य, सरुजो रोगशान्तये । मत्रोपचारः पारेभे, विधातुं विधिना मया ॥५८॥ परासुः समभूदैवयोगाद्राजागजो रुजा । अपवादो ममाप्यासीत् , पौरलोकेषु दुःस्सहः ॥५९॥ वधार्थ नीयमानोऽहं, नृपादेशात्ततो नरैः । खया भूप समुत्पाव्यानीतोत्र करुणाब्धिना ॥६०॥ भवत्प्रसादपीयूषरस(यूष)स्वादनतोऽधुना । जीवितं मेऽभवद्भूभृत्शृङ्गारसुकृतोद्भवात् ॥६१॥ अथाभ्यधाद्धराधीशो, यद्येवं कथकोऽसि तत् । आख्यानं किञ्चिदाख्याहि, पुरो मम यथारुचि ॥६२॥ नृपादेशं समासाद्य, विप्रः पारासरस्ततः । अवधारय हे स्वामिन्नित्युक्त्वोवाच तद्यथा ॥६३॥ अत्रैव भरतक्षेत्रे, गान्धारविषयेऽजनि । गान्धाराख्यपुरे नाना, विनोदः कुलपुत्रकः ॥६४॥ तस्य भार्याऽभवत् शम्बा, हेमकम्बामलद्युतिः । सीमन्तिनीषु या सीमा, वर्यसौन्दर्यसम्पदा ॥६५।।
मनोऽनुकूललीलाभिः, प्ररोहत्स्नेहयोस्तयोः । अनेहा अगमद्भूयानन्योन्यं सुखमग्नयोः ॥६६॥ धृममार्गविनोदस्तु, मन्वानोऽपि ॥१४॥ * दयापरः । चौरेभ्यो मृत्युमासाद्य, नन्दिग्रामेऽभवद् द्विजः ॥६७॥ दामोदराभिधो धीमान् , वेदविद्याविदग्रणीः। शम्बापि तापसी |
जाता, शीललीलातिनिर्मला ॥६८॥
Page #43
--------------------------------------------------------------------------
________________
488888888888888888888888
भ्रमन्ती सा प्रतिग्रामं, तत्रागात्कर्मयोगतः । गृहे दामोदरस्यैव, भिक्षार्थं प्राविशत्तथा ॥६९॥ अभङ्गरूपसौभाग्यां, तामालोक्य | तपस्विनीम् । सस्मार प्राक्तनीं जातिं, क्षणाद्दामोदरो द्विजः ॥ ७० ॥ प्राग्जन्मवल्लभां ज्ञाखा, स तां स्नेहेन मोहितः । पुनः प्रणयिनीं | चक्रे, कामस्याहो दुरन्तता ॥ ७१ ॥ लोकद्वयविरुद्धं तद्विभाव्य जनकादिभिः । निष्कासिता च सा गेहाद्देहादिव दुरामयः ॥ ७२ ॥ तदुःखेन मृतो विप्रः कानने समभून्मृगः । दैवात्तत्रागतां दृष्ट्वा, तामसौ कामविह्वलः ॥७३॥ धावन्ननुपदं मोहात्, किरातैर्मारितोऽभवत् । वानरो विपिने तत्र, तामालोक्य पुनस्तथा ||७४ || अनुव्रजन् दृढस्नेहपाशबद्धोऽधिकं जनैः । निषिद्धः प्राप पश्चलं, तीव्र| दुःखोदयार्दितः ॥७५॥ वाणारसीपुरासने, ग्रामे मालूरनामनि । भूदेवो दिननामाऽभूद्दारिद्रयैक ( दरिद्रैक ) निदर्शनम् ॥ ७६ ॥ षट्कर्मा| भिरतो वेदविद्यापारङ्गमी शमी । दक्षिणायै गतो वाणारस्यां कस्यापि वेश्मनि ||७७ || प्राप्तां तत्रापि (तत्रैव) तां दृष्ट्वा, शम्बा लम्बा|लकां प्रियाम् । स्वजातिं प्राक्तनीं स्मृला, मुमुदे मोहमूढहृत् ॥७८॥ प्रपेदेऽनशनं साकं, तया गङ्गासरित्तटे । स्वजनैर्वार्यमाणोऽपि, | मोहवैराग्यपूरितः ॥ ७९ ॥ तस्मिन्नवसरे तत्र, संयतः श्रुतसागरः । आगादगारिणां प्रष्ठ, आकृष्टः सुकृतैस्तयोः ॥८०॥
ववन्दे मुदितस्वान्त॒स्तं दिन्नः सहितस्तया । तेनापि विदधे मोहनाशिनी देशना तयोः || ८१ ॥ ततोऽसौ गतरागोऽभून्मृत्वा पुण्यानुभावतः । नृपतिर्भरतः शम्बा, तत्प्रिया च सुलोचना ॥८२॥ इत्याख्यानं नृपः श्रुखा सस्मार प्राग्भवं निजम् । अहो भवान् | ममैवैतान्, विप्रः स्माहेत्यचिन्तयत् ||८३ || अहो किमपि संसारस्वरूपं (गहनं), वचनातिगम् । सोऽन्वहं भावयामास, भावनामिति चेतसि ॥८४॥ ततो भरतभूपालो रङ्गसंवेगसागरः । सम्यग्दर्शनसंशुद्धां धारयन् द्वादशवतीम् ||८५||
जिनेन्द्रमन्दिरश्रेणिमण्डितं भूमिमण्डलम् । कुर्वन् कल्पद्रुवत्प्रीणन्नुपकारैर्जगञ्जनान् ॥ ८६॥ गुटिकास्नात्रनीरेण, नानार्तिव्रात
4883% 48388888883%%83%¥€ॐ**
Page #44
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥१५॥
*8888888888888838-888% 8888
| हारिणा । निखिलाभिरुजवके, मानवान्नगरे निजे ॥८७॥ यथेप्सितान्नदानाद्यैर्यथेष्टद्रविणार्पणैः । सोपचक्रे स्थिरं चक्रे, स्वयशश्च | जगत्यपि ॥ ८८ ॥ संख्यातुं खलु शक्यन्ते, समुद्रोदकबिन्दवः । न पुनस्तस्य भूभर्तुरुपकारपरम्पराः || ८९ ॥ सुखप्राज्यं चिरं राज्यं, भुक्त्वा मुक्तपरिग्रहः । युगन्धरसूरीणां समीपे प्राप्य संयमम् ॥ ९० ॥ अधीत्य द्वादशाङ्गानि, लब्ध्वा सूरिपदं ततः । स कमाद् | द्वादशे कल्पे, देवोऽजनि महर्द्धिकः ॥ ९१ ॥ युग्मम् ॥ ततश्युत्वा विदेहेषु, षट्खण्डपृथिवीपतिः । भूत्वा श्रीभरतो भूभृत् सिद्धि| सौधं गमिष्यति ॥ ९२ ॥ प्रजल्पतु जनः किमप्युपदिशन्तु सन्तो मतं फलं भवतु वामुतः किमपि नास्तु वा मन्त्रिराट् । न पुण्यमपरं परोपकृतितोऽस्ति विश्वत्रये, विशङ्कमिदमुद्यताङ्गुलिकरं वयं ब्रूमहे ॥ ९३ ॥ इति भरतनरेन्द्रप्रष्ठवृत्तं निशम्योपकृतिकृतिफलालिप्राप्तिदृष्टान्तरूपम् ॥ सचिवतिलक नित्यं प्राणिवर्गे समग्रे, निरुपममुपकारं प्राप्य राज्यं विधेहि ॥ ९४ ॥ निपीयेति गुरोर्वाचः, सम्यग्धर्मसुधामुचः । मनः परोपकारेषु स जीमूत इव व्यधात् ॥ ९५ ॥
ततो गुरुं नमस्कृत्य, सुकृति गृहमागतः । विममर्श क्षणं खान्ते तत्वं मन्त्री विवेकवान् ॥ ९६ ॥ उच्चैर्गवं समालोक्य नरं श्रीराशु नश्यति । दैत्यदत्तावलम्बोऽथ स तस्मादवरोहति ||१७|| अन्धा एव धनान्धाः स्युरिति सत्यं तथाहि ये । अन्योक्तेनाध्वना गच्छत्यन्यहस्तावलम्बिनः ||१८|| धने धनात्यये जाते, दूरं दुःखेन दूयते । दीपहस्तः प्रदीपेऽस्ते, तमसा बाध्यतेऽधिकम् ॥९९॥ छन्नच्छायाच्छलेनामी, धात्रा चक्रे निवेशिताः । भ्रमन्तोऽपि खमात्मानं मन्यन्ते स्थिरमीश्वराः ॥ २००॥ कालेन शौनिके| नेव, नीयमानो जनः पशुः । क्षिपत्येव धिगासने, मुखं विषयशावले ||१|| कायः कर्मकरोऽयं तन्नात्र कार्यातिलालना । भृतिमात्रोचितोऽप्येष प्रपुष्टो विचिकीर्षति ||२|| विषयामिषमुत्सृज्य, दण्डमादाय ये स्थिताः । संसारसारमेयोऽसौ बिभ्यत्तेभ्यः पलायते ।।
488388888888888888888888
द्वितीयः
प्रस्तावः ।
॥१५॥
Page #45
--------------------------------------------------------------------------
________________
48888888888888888883% %88%28
लोभाग्निर्वा स्मराग्निर्वा क्रोधाग्निर्वा हृदि ज्वलन् । न हन्त शान्तिमायाति देहिनामविवेकिनाम् ||४|| विधौ विध्यति सक्रोधे, वर्म धर्मः शरीरिणाम् । स एव केवलं तस्मादस्माकं जायतां गतिः ||५|| इति ध्याला परावृत्य, धौतवस्त्राणि मत्रिराट् । दानं वितीर्य | पात्रेषु, बुभुजे सपरिच्छदः ॥६॥ ततो गृहीतताम्बूलोऽलङ्कृत्य क्षितिभृद्गृहम् । अग्रहीत्सर्वकार्याणि यथायोगं निजे करे ||७|| पूज्येषु पूजनं कुर्वन्, सृजन्मान्येषु माननां । राज्यवृद्धान्निजौचित्या, रञ्जयंश्च पदे पदे ||८|| सोमेश्वरं गुरुं प्रीणन्, मनोऽभीष्टार्पणादिभिः। | गुणवद्बहुमानेनानन्दयन्निखिलाः प्रजाः ||९|| वर्धयन् धार्मिक श्रेणीः, प्रवीणान् गणयन् धुरि । नरान् भापयमानश्च, दुर्वृत्तानन्तरा| न्तरा ॥१०॥ राजहंस इव क्रीडन्, सद्गुणैर्नृपमानसे । पोषयन् शासनं जैनं, गौरवक्रिययादरात् ||११|| व्यापारं भूभुजः कुर्वन्, वसुधायां दुराशयान् । गवेषयन् विशेषज्ञस्तेजः पालेन बन्धुना ||१२|| सुमित्रानन्दिना मन्त्री, लक्ष्मणेनेव संयुतः । लेभे स्वसिद्धिं | ( प्रसिद्धि) श्रीराम देववत्सर्वतोमुखीम् ॥१३॥ षड्भिः कुलकम् । सतां पूजाऽसतां दण्डो, वृद्धिश्व धनधर्मयोः । सर्वलोकोपकारश्च, राजव्यापारजं फलम् ||१४|| ध्यात्वेति सचिवो ज्येष्ठो, दुष्टं जीर्णाधिकारिणम् । लञ्चाप्रपञ्चितश्रीकं, कर्णेजपगणाधिपम् ॥१५॥ | दण्डयित्वा बृहद्रम्मशताना (लक्षाणा ) मेकविंशतिम् । विनयं ग्राहयामास, कुशिष्यमिव सद्गुरुः ॥ १६ ॥ तद्व्ययेनाकरोत्सारभटाश्वादि| बलं कियत् । निजे वेश्मनि मन्त्रीशः, शोभायै यत्परिच्छदः ||१७|| ततश्च सैन्यसामर्थ्याद्धनमन्यायकारिणः । अमोचयदयं ग्राम| ग्रामण्याश्चिरसञ्चितम् || १८ || आतुराणामिवापथ्यं, पापानां सम्पदां बलम् । दूरीकृतं भवत्येव, परिणामगुणावहम् ॥ १९ ॥ यतः - राजदण्डभयात्पापं, नाचरत्यधमो जनः । परलोकभयान्मध्यः, स्वभावादेव चोत्तमः ॥२०॥ उपेक्षते समर्थोऽपि यः प्रभुः पापचेष्टितम् । बध्यते सोऽपि तत्कर्म, कियद्भागानुषङ्गतः ॥२१॥ प्रजाया धर्मषड्भागो, राज्ञो भवति रक्षितुः । अधर्मस्यापि षद्भागो, जायते
88% %83%%C3%%83%%88% 888888881
Page #46
--------------------------------------------------------------------------
________________
द्वितीयः प्रस्तावः।
Meta ग्रामपुराधीशमालीचालयनचलानपि ॥३०॥ प्रति
श्रीवस्तुपाल
यो न रक्षति ॥२२॥ आगमेऽप्युक्तम्-चक्की वीसइभागं, सव्वेवि अ केसवा दसइभागे । मण्डलिया छन्भागं, आयरिया अद्धमद्धेणं चरितम् । | ॥२३॥ प्रजातङ्ककृतां तेषां, श्रीमदोन्मत्तचेतसाम् । ततो धनमदध्वंसाच्चिकित्सा तेन निर्ममे ॥२४॥
। एवं धनबले जाते, कृते सैन्यबलेऽधिके । नीते खायत्ततां सर्वराजवर्गकदम्बके ॥२५॥ व्यापारभारसर्वस्वं, तेजःपाले निधाय ||* ॥१६॥
|सः। श्रीवीरधवलाधीशमन्यदैवं व्यजिज्ञपत् ॥२६॥ युग्मम् ।। धर्मः क्षमाभृतां शिष्टपालनं दुष्टनिग्रहः । मात्स्यो न्यायोऽन्यथा | लोके, भवेद्धर्मनयापहः ॥२७॥ न कोशवृद्धिर्भूभर्तुर्दुष्टनिग्रहमन्तरा । महातरुरिव ख्यातो, राजा नाम्नैव तां विना ॥२८॥ तत्तद्| ग्रामपुराधीशसमीपेऽस्ति स्थितं चिरात् । राजकीयं धनं भूरि, गृह्यते तेन तद्विभो ! ॥२९॥ अदैन्यं सैन्यमादाय, ततश्चौलुक्यभृभुजा। | सनाथः सचिवोञ्चालीचालयनचलानपि ॥३०॥ प्रतिग्राम प्रतिपुरं, मत्री प्रस्थापयन्नुपम् । सामदानाद्युपायज्ञः, क्रियां कुर्वन् यथो* चिताम् ॥३१॥ कुत्रचित्ताभृतव्याजाद्दोषोद्घाटनतः क्वचित् । कुत्रापि नगरपामजीर्णलेखकमार्गणात् ॥३२॥ निजेच्छोद्ग्रहणप्राप्तBI द्युम्नोन्मादान्धचेतसाम् । दण्डं जग्राह सर्वत्र, पुरग्रामाधिकारिणाम् ॥३३॥ त्रिभिर्विशेषकम् । एवं कोशबलोपेतं, निर्माय नृपतिं | | निजम् । तीर्थानां सुवहं मार्ग, कर्तुकामोऽब्रवीदयम् ॥३४॥
महाराज! सुराष्ट्रासु, राष्ट्रेषु द्विष्टचेतसः । भूभृतः सन्ति पापिष्ठा, द्रव्यकोटिमदोद्धताः ॥३५॥ दण्डमर्हन्त्यमी तीर्थपांथसार्थविमोषिणः । ज्वरातस्य गुणो यन्नो, विना कटुकमौषधम् ॥३६॥ एतत् श्रुखोत्सुको राजा, लब्धास्वादतया वजन् । अखण्डमण्डलः * श्रीमान् , प्रतीच्यामपि दिद्युते ॥३७॥ मानेन वर्धमानाङ्ग, वर्धमानपुराधिपम् । गोहिलावलिभूपांश्च, राजान्वयभुवस्तथा ॥३८॥
बलेन करदीकृत्य, मोचयिता महद्धनम् । जगाम वामनस्थल्यां, कर्षन् शल्यानि शोभितः ॥३९॥ सरस्तटे स्फुटाटोपान् , दत्त्वा.
कुत्रापि नगरप्रामजीर्णलेखकमा
कोशबलोपेतं, निर्माय नृपति ।
॥१६॥
Page #47
--------------------------------------------------------------------------
________________
*888% 84888888328468% 188448837
वासांस्ततो नृपः । चमूं विरचयित्वा च (चमूविरचनां कृत्वा), तस्थौ मन्त्रिपुरस्कृतः ॥४०॥ तदा तु वामनस्थल्यां, वनस्थल्यामिवोद्धतौ । गजेन्द्र धनगर्वेण, सोदरौ दरवर्जितौ ॥ ४१ ॥ साङ्गणः प्राङ्गणं लक्ष्म्याचामुण्डश्च प्रचण्डरुक् । भूभुजः शालकौ राज्यं कुरुतः करुगोज्झितौ ||४२ ॥ युग्मम् ॥ तयोर्वाचिकमाख्यातुं, सस्नेहालापकोमलम् । भट्टः प्रकटवाक् त्रैषि, नृपमापृच्छ्य मन्त्रिणा ||४३|| ततः सभामुपासीनं, साङ्गण राणकेश्वरम् । अन्वितं भूभृतां वृन्दैरनुजेन विराजितम् ||४४ || गला स भट्टराडाह, नत्वा वाक्पटुरञ्जसा । श्रीवीरधवलश्चन्डदोर्दण्डः सेनयान्वितः ॥ ४५ ॥ [ गत्वा स भट्टराजोऽपि समीपं सुप्रन्नवाक् । आनन्द्याशीः प्रदानेन, कार्यमेवमभाषत ॥ श्रीवीरधवलस्वामी, स्वामिन् कवलयभरीन् । अदण्डदण्डनोद्दण्डे, दोर्दण्डः सेनयान्वितः ॥ ४६ ॥ ] मंत्रिणा वस्तुपालेन वायुनेव हुताशनः । दुस्सहोत्र पुरासने, स्थितः स्थितिमतां गुरुः ॥४७॥ अभङ्गभञ्जनोजस्वी, दण्डयन् दुष्टभूभुजः । भवतः प्राभृतं प्रौढं, | चेतः प्रीत्यै समीहते ॥ ४८ ॥ त्रिभिर्विशेषकम् ॥
इत्याकर्ण्य वचस्तस्य, भृकुटिस्य पुटाननः । अवादीन्मेदिनीपालः कूर्चालुकुलकेशरी ॥ ४९ ॥ वणिग्बलमदोन्मत्तः प्रमत्त इव संयतः । भ्रष्टस्थितिर्भवद्भूपः, किं वदत्यधमोचितम् ॥५०॥ क्षुद्रदण्डनसञ्जातपापजातावृतात्मने । असिरेष गुरुस्तस्मै, प्रायश्चित्तं प्रदास्यति ॥ ५१ ॥ एतावन्ति दिनानि त्वं सम्बन्धिखादुपेक्षितः । इदानीमागतो मंत्रिकीटकेनोत्सुकीकृतः ॥ ५२ ॥ सञ्जीभवाजये शीघ्रं दूरीभव पुरोऽथवा । मदीयवचनादेवं गत्वा वाच्यः प्रभुर्निजः ॥ ५३ ॥ इत्युक्त्वा मुक्तमानेन दानेनानन्द्य तं नृपः । विससर्ज स्वयं युद्धसामग्रीमसुसूत्रयत् ॥ ५४ ॥ पश्चादागत्य भट्टोऽपि मत्रियुक्ताय भूभुजे । व्याजहार तदीयोक्तं, तत्कीर्तिव्यक्तिपूर्वकम् ॥ ॥५५॥ अथाग्रमहिषी राज्ञः श्रुत्वा तद् बन्धुमोदितम् । नाना जयतला देवी, विचारचतुराशया ॥ ५६ ॥ नृपादेशं समासाद्य, सद्यः
*1888 188% 100% 2033 2032 203%
Page #48
--------------------------------------------------------------------------
________________
द्वितीयः प्रस्तावः।
श्रीवस्तुपाल सारपरिच्छदा । आजगाम पितुर्धाम, बन्धू बोधयितुं निजौ ॥५७॥ युग्मम् ॥ कुर्वाणौ सोदरौ प्रीत्या, प्रतिपत्तिं सगौरवम् । साचख्यौ चरितम् । विजनीकृत्य, गिरा स्नेहसुधाकिरा ॥५८।। नैकग्रामपुराधीशान् , मर्यादोज्झितभूपतीन् । शिक्षयन्मुषितारातिर्नृपतिर्वः स्वसुः पतिः॥
| ॥५९॥ आगतोऽस्ति भवद्वेश्म, गौरवाों गुणाधिकः । निःशेषं शेषवद्भारं, खभुजाभ्यां भुवो वहन् ॥६०॥ युग्मम् । तदस्मै प्राभृ- I ॥१७॥ तीकृत्य, सारं वाजिगजादिकम् । खाजन्यपालिने वेश्मप्राप्ताय बलशालिने ॥६१॥ निजान्वयसमायातं, साम्राज्यं सर्वतोद्भुतम् ।
HE भवन्तौ कुरुतां स्फीतप्रीतिसन्ततिसुन्दरम् ॥६२॥ युग्मम् ॥ प्रोचतुस्तौ मदाध्मातौ, श्रुत्वेति भगिनीवचः । श्मश्रुणी पाणिपद्माभ्यां, | स्पृशन्तौ बान्धवावुभौ ॥६३॥ त्रपन्तेऽमी भुजादण्डास्त्रिदशोद्गीतविक्रमाः । क्षत्रियापसदं स्थानौ, (क्षत्रियापसदस्यास्य) प्राभृती| करणे स्वसः ॥६४॥ भूत्वा यः क्षत्रियो दद्यान्नवं दण्डं कुले निजे । म्लानिं दोषाकरः कुर्यात् , स पूर्वजमुखाम्बुजे ॥६५॥ क्षत्रि| याणां वरं जामे, रणक्षोणिरजोबजे । क्रीडनं कीर्तिभिः साकं, न पुनर्मानखण्डनम् ॥६६॥ एतदर्थ खमत्रागाः, सन्धिसम्बन्धहेतवे । हते भर्तरि सङ्ग्रामे, माभूवं निर्धवा यतः ॥६७॥ अग्निदाहविषावेगशस्त्रघातादिसम्भवात् । दुःखाद्वैधव्यवैक्लव्यं, मन्यन्ते योषितोऽधिकम् ॥६८॥ मास्म चिन्तां कृथा भद्रे, हत्वामुं त्वत्पतिं युधि । करिष्यावस्तव प्रौढं, नव्यं भव्यं गृहान्तरम् ॥६९॥ निषिद्धोऽसौ | विधि:व, राजपुत्रान्वयादिषु । सुभ्रवां यौवने प्राचां, श्रूयमाणतया कलौ li७०॥ सीतेव भुवनानन्दिशीलसौरभ्यशालिनी । श्रीवीरधवलप्राणप्रिया प्राह तयोरिति ॥७१॥ नाहं सहोदरौ भर्तुर्वियोगविधुरा सती । ब्रवीमि कृत्रिमं किञ्चिद् , युवयोभूपपूज्ययोः॥७२॥
स कोऽपि नास्ति वो मध्ये, यस्त वीरपुरन्दरम् । अश्वरत्नसमारूढं, मत्रिणाश्रितसन्निधिम् ॥७३।। पार्थवन्मार्गणश्रेणिं, क्षिपन्तं | | समराङ्गणे । वेल्लयन्तं तथा शल्यं, शल्यवत् शत्रुदुःसहम् ।।७४॥ खेलयन्तं निज खड्गरत्नं यत्नात्सपल्यहम् । पाटयन्तं पटाटोपं,
॥१७॥
Page #49
--------------------------------------------------------------------------
________________
श्रयन्तं कुन्तमुन्नतम् ॥७५॥ वक्रचक्राणि मुञ्चन्तं, वहन्तं वा गदायुधम् । कल्पान्तभावदाकारं, द्रष्टुमीष्टे क्षणादपि ॥७६॥ चतुभिः | कलापकम् । अवीक्ष्य परसामर्थ्य, सर्वोऽपि खलु गर्जति । परं वीरमुखे प्रायः, कोऽप्येव युधि तिष्ठति ॥७७॥ प्राणप्रिये मृते मेऽथ,
यद्गृहान्तरनिर्मितिः । युवयोस्तत्स्फुटं भाति, मूर्खशेखरचेष्टितम् ॥७८॥ मृतेऽपि दयिते यान्यं, वणिनी वृणुते वरम् । एकविंशति| वारान् सा, दुर्ग पतति रौरवम् ॥७९॥ यतः
स्कन्धपुराणे काशीखण्डे-शीलभङ्गेन दुर्वृत्ताः, पातयन्ति कुलत्रयम् । पितुर्मातस्तथा पत्युरिहामुत्र च दुःखिताः ॥८०॥ यानुगच्छति भर्तारं, शीलरक्षकतत्परा । सात्मानं शोधयत्यत्र(येन्न्यक्षं), पापपङ्कभरावृतम् ।।८।। पितापुत्रादिसंयुक्ता, सदाचारपरायणा। | सरन्ती गुरुदेवांश्च, यावत्तिष्ठति वेश्मनि ॥८२॥ सह पक्षद्वयेनैषा, सतीसन्ततिमण्डनम् । आत्मानं तारयत्येव, शीललीलायितैनिंजैः।। 11८३॥ उक्तं च तत्रैव-पत्यौ मृतेऽपि या योषिद्वैधव्यं पालयेक्वचित् । सा पुनः प्राप्य भर्तारं, स्वर्गभोगान् समश्नुते ॥८४॥ भूय| सोक्तेन पर्याप्त, सर्वेषां रणसीमनि । चण्डदोर्दण्डशौण्डीय, ज्ञास्यते त्रिदशादिभिः॥८५॥ तयोरेवं निगद्यासौ, ततो निर्गत्य मानिनी। | समीपं पत्युरागत्य, तं वृत्तान्तमवीवदत् ॥८६॥ तन्निशम्य धराधीशः, क्रोधसिन्दूरितद्युतिः। सामग्री कारयामास, रणकर्मणि | तद्यथा ॥८७॥ दानानि विनौषविघातहेतोर्वीरा ददुर्मार्गणयाचितव्यम् । सर्वार्थसिद्धेः प्रथमं निदानं, देवार्चनं दक्षहृदो विदध्युः ।। | ॥४८॥ प्रसादमासाद्य परं नरेन्द्राद् , हृष्टा विपक्षद्विषभञ्जनोत्सुकाः । मृगेन्द्रनादं विदधुश्च वीराः, परं सुरेशद्विपदर्पभाजः ॥८९॥ शृङ्गारयामासुरनेकभङ्गया, सद्बाजिराजीविरजीकृताङ्गीः । दिव्यायुधानामपरे वितेनुः, पूजां जयश्रीवरणादिहेतोः(कर्म)॥१०॥ तूर्यत्रिक त्रासितशत्रुजातं , बभूव भूवल्लभकेतनेषु(गुर्जरेषु) । पदे पदे वीरविलासिनीनां, जनुश्च गीतानि रसावहानि ॥११॥
Page #50
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥ १८॥
*888888888888888888888884
देहेषु सङ्ग्रामरसोच्छ्रितेषु, मधुर्न वर्माणि भटोसमानाम् । वेल्लत्पताकाञ्चलकैतवेन, ननर्त कीर्तिश्च रथोपरिष्टात् ॥९२॥ जक्षु|र्मुदा मोदकमोदकालीः, स्ववल्लभापाणियुगेन केचित् । कर्पूरपूरैः सुरभिं तथान्ये, करम्भकं दाधिकमार्त्तिशान्त्यै ॥९३॥ केचिच्चतुर्जा| तकभावनाढ्यं पयः पपुः स्वीयवपुः सुखाय द्राक्षाद्रवं केचन केऽपि सीधु, सितोपलाम्भः कति चेक्षुयूषम् ||१४|| समभ्यर्च्य जगनाथं, कृतार्थीकृतमार्गणः । मत्रीन्द्रः कृतसन्नाहः, प्रोत्साह इव मूर्तिमान् ॥ ९५ ॥ राजन्य श्रेणिसंशोभी, भूपवेश्म समागमत् । अनि र्वेदः श्रियो मूलमितिनीतिबृहस्पतिः || ९६ || श्रीपतिं शङ्करं नाभिसम्भवं सुमनःप्रभुम् । पूजयिता महापूजाविधिना विधुतारिणा ॥ | ॥९७॥ श्रीवीरधवलो राजा ( शोभि), धवलातपवारणः। ऐरावणमिवोत्तुङ्गं, वारणं समधिष्ठितः ॥ ९८ ॥ बन्दिवृन्दारकोत्साद्यमानोऽसामान्यविक्रमः । गुरुणा मन्त्रिणा युक्तः, शक्रशोभां विडम्बयन् ||१९|| प्रौढसङ्ग्रामसामय्या, सङ्ग्रामाङ्गणमाययौ । मनोरथपथातीतं तन्वंस्त्यागं पदे पदे ॥ १००॥ चतुर्भिः कलापकम् ॥
अथानेकमहावेगवाहिनीभिर्वृतोऽभितः । गर्जन्नब्धिरियौजस्वी, तेजस्विषु धुरि स्थितः ||१|| भ्रातृचामुण्डदेवेन युक्तः प्रव्यक्तमूर्तिना । आजगाम क्षमापालः, साङ्गणः समराङ्गणे ॥२॥ ततोऽजनि तयोर्युद्धमुद्भ्रान्तनृसुरासुरम् । सैन्ययोरुभयोः स्वस्वस्वामिकाकनिष्ठयोः ||३|| वीरा वीरावतंसानामुपरि श्रीणिता इव ॥ मार्गणश्रेणिभिश्चक्रुर्मण्डपं खण्डितातपम् ||४|| सैन्यद्वये विध्वस्ताङ्गा (पि धन्याङ्गा), योधाः क्रोधान्धलोचनाः । निपेतुः शतशः क्षोण्यामहो कष्टा रणस्थितिः || ५ || कबन्धा अपि वीराणां, क्रोधाध्माततया मिथः । वल्गन्त इव दृश्यन्ते, युगपत्पतिता भुवि ॥६॥ खसैन्यं दैन्यवद्वीक्ष्य, वैरिवीरभटार्दितम् । उत्तस्थौ साङ्गणचण्डचा मुण्डेन समं रणे ||७|| इन्द्रजिन्मेघनादाभ्यां यथा कपिवरूथिनी । तथैव ममथे ताभ्यां गुर्जरेन्द्रपताकिनी ॥ ८ ॥
888888888883% X€38888388838
द्वितीयः प्रस्तावः ।
॥१८॥
Page #51
--------------------------------------------------------------------------
________________
अथोपरवटं वाजिरत्नमारुह्य भूपतिः । रणातिथ्यं तयोः कर्नु, समत्री सम्मुखोऽभवत् ॥९।। डुढौके क्षोणिभृत्कनु, साङ्गणेन समं| * रणम् । मत्री चामुण्डराजेन, कल्पान्तस्थितिसूचकम् ॥१०॥ अपरेऽपि समाहूय, स्वाभिख्याख्यातिपूर्वकम् । योधाः क्रोधारुणच्छाया,
मिथो युयुधिरे युधि ॥११॥ कुन्ताकुन्ति तदा तेषां, खड्गाखगि शसशरि । मुष्टामुष्टि बभूवोच्चैर्देवानामपि दुस्सहम् ॥१२॥ नष्ट्वा मा | याहि मा याहि, स्वस्थाने तिष्ठ तिष्ठ भोः । कलङ्कय कुलं मा स्वं, शुशुभे वीरगीरिति ॥१३॥
तेषां वीरावतंसानां, तमालोक्य रणोत्सवम् । सुपर्वभिः फलं लेमे, निमेषोज्झितनेत्रयोः ॥१४॥ सबन्धुं साङ्गणं हवा, क्षणेन | | समराङ्गणे । समत्री गौर्जरस्वामी, जग्राह विजयश्रियम् ॥१५॥ श्रीवीरधवलक्षोणिभुजाशोधि रणावनिः । पालनार्हा भटाः सर्वे, | | पालिताश्च कृपालुना ॥१६॥ तृषातुराणां वीराणां, पयःपानमकारयत् । बुभुक्षितानां मत्रीशः, स्वादुभोज्यान्यदापयत् ॥१७।। शस्त्रा-* | घातव्यथावेगविवशीकृतचेतसाम् । नानोपचारसामय्या, प्रतीकारमचीकरत् ॥१८॥ तथा विभर्तृकाणां च, स्त्रीणां सारां व्यधापयत् । | कदाचिनैव मुञ्चन्ति, कृपां जैना यतो हृदः ॥१९॥ त्रिभिर्विशेषकम् । ततो जयजयारावैर्वाद्यैर्वाचालिताम्बरैः। तथा वीरगुणोद्घोषई|पोत्सवमनोहरम् ॥२०॥ प्राविशद्वामनस्थल्यां, कुल्यायामिव कुञ्जरः । समन्त्री गौर्जराधीशः, सदालिप्रीतिपूरकः॥२१॥ युग्मम् ॥ | कुत्रिकापणवत्प्राप्य, दुष्प्रापं भूपमन्दिरम् । दशकोटिमितं हेम, प्रेमभृन्नृपतिललौ ।।२२।। पूर्वजैः सञ्चितानेका, मणिमाणिक्यमण्डलीः। * दिव्यान्यस्त्राणि वस्त्राणि, स्थूलमुक्ताफलावलीः ॥२३॥ चतुर्दशशतान्युच्चैःश्रवःसोदरतेजसाम् । तथा पञ्चसहस्राणां, सामान्यानां च वाजिनाम् ॥२४॥ त्रिभिर्विशेषकम् ।
असौ मासं निजस्थित्या, सूजस्तत्र पवित्रताम् । उत्खातयोस्तयो राज्ये, स्थापयामास नन्दनौ ॥२५॥ चैत्यं तस्मिन् विनिर्माय,
Page #52
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
द्वितीयः प्रस्तावः।
॥१९॥
हेमकुम्भाकितं नवम् । बिम्बं वीरजिनेन्द्रस्यातिष्ठिपत्सचिवः पुनः॥२६॥ तदासन्नतमं श्रुखा, विश्वत्रितयविश्रुतम् । गिरिनारमहातीर्थ, भवकोटिरजोऽपहम् ॥२७॥ श्रीनेमिनं जिन नन्तुं, स्नातुं गजपदे नदे। उत्तितीर्घर्भवाम्भोधि, स ययौ मत्रिणा समम् ॥२८॥ युग्मम् ॥ दृष्ट्वा श्रीनेमिनो मूर्ति, तत्र लोकत्रयाद्भुताम् । उवाच सचिवं राजा, केनेयं कारिता पुरा ॥२९॥ मत्री विज्ञपयामास, वि-* चारचतुराग्रणीः। तं जिज्ञापयिषुस्तत्त्वमहद्धर्मस्य वास्तवम् ॥३०॥ राजन् मूर्तिरियं दैवी, वज्ररत्नमयी पुनः । नैकाब्धिकोटिकोटिभ्यः, | पूर्वमिन्द्रेण निर्मिता ॥३१॥ यतः-श्रीब्रह्मेन्द्रकृतेयं, श्रीनेमेतिरमरगणपूज्या। विंशतिसागरकोटीः, स जयति गिरिनारगिरिराजः |॥३२॥ माहेश्वरे च जैने च, शासने विदिता भृशम् । मूर्तिरेषा महातीर्थे, सेविता ऋषिपुङ्गवैः ॥३३।। उक्तं च प्रभासे-भवस्य पश्चिमे भागे, वामनेन तपः कृतम् । तेनैव तपसाकृष्टः, शिवः प्रत्यक्षतां गतः ॥३४॥ पद्मासनसमासीनः, श्याममूर्तिदिगम्बरः। नेमिनाथशिवेत्युच्चै म चक्रे च वामनः ॥३५॥
कलिकाले महाघोरे, सर्वकल्पद्रुनाशतः(कल्मषनाशनः)। दर्शनात्स्पर्शनादेव, कोटियज्ञफलप्रदः ॥३६॥ उजयन्तिगिरौ रम्ये, माघकृष्णचतुर्दशी । तस्यां जागरणं कृखा, सञ्जातो निर्मलो हरिः ॥३७॥ अस्याः स्नानकृते देव !, देवेन्द्रेण विनिर्मितम् । गजेन्द्रपदतः कुण्डं, त्रिजगत्तटिनीमयम् ॥३८॥ इति श्रुत्वा पतिः पृथ्व्या, विवेद मुदितोऽधिकम् । सुधीः सत्यतयानादिमत्वमाहेतवमनः॥३९॥ ततः श्रीनेमिमभ्यर्य, भक्तितो भुवनेश्वरम् । वसुधाधिपतिर्लेमे, परमानन्दवर्णिकाम् ॥४०॥ ग्राममेकं ददौ दाये, | देवपूजाकृते कृती। अगाच्च मत्रिणा सार्क, नृदेवो देवपत्तनम् ॥४१॥ अभिषेकं प्रभुः कृत्वा, प्रभासे विधुतागसि । शिवोक्तवि
१ महादेवस्य ॥
॥१९॥
Page #53
--------------------------------------------------------------------------
________________
88-8483%8B%88% 888888888888
धिना दवा, तत्र दानान्यनेकशः ॥ ४२ ॥ सोमेश्वरस्य तस्यासौ (देवस्य), स्वर्णलक्षोपढौकनात् । अकारयन्महापूजां, रजोराजीविघाति|नीम् ||४३|| युग्मम् ॥ कुर्वन् मानगजेन्द्रादीन्, भूमिपालानिरङ्कुशान् । स्वस्य देयकरान् प्रापत्, कौतुकी द्वीपपत्तने ||४४|| कुमारपालभूपालकारितं चैत्यमुन्नतम् । दृष्ट्वा तत्र नृपः प्रापद्विस्मयं मत्रिणा समम् ॥४५॥ तालध्वजपुराधीशा, वाजान्वयभ्रुवो नृपाः । वाजिनः प्राभृतीचक्रे ( कृत्य), वल्गद्वेगविराजिनः ॥ ४६ ॥ चाटूक्तीः शतशः कृत्वा, कथञ्चित्तमतूतुषन् । न हि पुण्योदये कश्चित्प्रति| कूलो भवेद्भुवि ॥४७॥ युग्मम् । एवं सर्वसुराष्ट्रासु, जित्वा दुर्जयभूभुजः । स सम्राजः पदं प्रापद्, दुष्प्रापं मत्रिणो बलात् ||४८|| | उत्तम्भितध्वजश्रेणीं, प्रीणयन्नर्थिनो नृपः । राजधानीमलश्चक्रे, स्फुरद्धबलमङ्गलम् ॥ ४९॥ नत्वा वर्णगुरुं राजगुरुं च गुरुवैभवः । राज्यपूज्यजनोल्लासी, मन्त्री खं वेश्म जग्मिवान् ॥५०॥ त्यागो गुणो वित्तवतां, वित्तं त्यागवतां गुणः । परस्परं विमुक्तौ तु, वित्तत्यागौ | विडम्वना ॥ ५१ ॥ इत्यालोच्य शुचिखान्तः, सानुजः सचिवेश्वरः । विधायाष्टविधां पूजां वेश्मदेवालयेऽनघाम् ॥ ५२॥ अर्हद्वेश्मसु सर्वेषु, पुरालङ्कारकारिषु । कृत्वा च विधिना चैत्यपरिपाटीमहोत्सवम् ||५३|| सुसाधमिंकवात्सल्यं, मुनीन्द्रव्रजपूजनम् । बन्दिमोक्षा| दिकृत्यानि, दीनार्तिदारणानि च ॥५४॥ | सुवर्णानां सहस्राणां बहूनां व्ययपूर्वकम् । निर्माय व्यापृतिप्राप्त सम्पदः फलमाददे ॥ ५५॥ चतुर्भिः कलापकम् ॥
|
श्रीवीरधवलोऽन्येद्युद्युपतिप्रतिमद्युतिः । अभूषयत्सभामध्यं, हैममध्यास्य विष्टरम् ||५६ ॥ विशुद्धोभय पक्षश्रीशालिनो नृप| सूनवः । रणकण्डूलदोर्दण्डखण्डिताखण्डलप्रभाः ॥५७॥ श्रेष्ठिसामन्तमन्त्रीशप्रमुखाश्च सुखोदयम् । समीयुस्तं नमस्कर्तु सुमनःश्रेणि| संश्रितम् ||५८ ॥ तदा नरेश्वरश्रेणिसंकीर्णनृपपर्षदि । अभणच्चारणः कोऽपि, कौतुकीति पदुध्वनिः ॥ ५९ ॥ जीतउ छहिं जणेहिं, साम्भ
483%%88% %&®% %&®%%83% 8888% 46
Page #54
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥२०॥
*80388003888888888888888888
लिसमहरवाजीए। नोत्तरार्धमसौ वक्ति, पठन्नैव पुनः पुनः । केऽमी षडिति विज्ञातुमुक्ता आसंच भूभुजः ॥६०॥
षण्णां मध्ये नृपा नाम, न्यासयितुं निजं निजम् । रात्रौ तस्मै ददुर्लञ्चां प्रत्येकं सोऽपि चाग्रहीत् ॥ ६१ ॥ ग्राहंग्राहमने केषां, | लञ्चां राजाङ्गजन्मनाम् । पुनः प्रस्तावमासाद्य, चारणो भणतिस्म सः || ६२ || बिहु भुजि वीरतणेहिं, चिहुंपगी उपरवटतणे ( णो) । | निशम्य भूभुजः सर्वे, चारणोक्तं चमत्कृताः । अनेन मुषिता पूर्व, लञ्चादानाद्वयं किल ॥ ६३॥ इति चिन्ताभृतस्तस्मै ददुर्दानं विशेषतः । यद्भृत्येषु भवेत् श्रेयो नृपचित्तानुरञ्जनात् ||६४॥ युग्मम् ।। अथ भद्रेश्वरे वेला - कूले लोलेतरश्रिणि । श्रीपतिश्रेणिसङ्कीर्ण, स्वर्गस्थितिविजित्वरे ||६५ || पराक्रमगुणेनोर्व्यामपरः किल भार्गवः । भीमसिंहः प्रतीहारकुल काननमण्डनम् ॥ ६६ ॥ नृपोऽस्ति त्रासितानेकशत्रुसंत तिरुत्कटः । श्रीकोशसैन्यसम्पश्या, तृणवद्गणयन् परान् ॥६७॥ वीरमानी महादानी, लङ्कायामिव रावणः । | समुद्रपरिखाविष्टदुर्गदुर्गमसंस्थितिः ॥ ६८ ॥ चतुर्भिः कलापकम् ॥ अन्यदेत्यादिशद्वीरधवलस्तं क्षितीश्वरम् । भूयास्त्वं सेवकोऽस्माकं, सङ्ग्रामे वातिथिर्भव ॥ ६९ ॥ सोऽपि प्रत्यादिशत्तस्मै, तथैव व्यथितोऽधिकम् । यतः प्रदीयते यादृक् तादृगेवात्र लभ्यते ॥७०॥ ततो गौर्जरभूमीशो, दिगीशोपमविक्रमान् । क्रमेणामेलयद् भूपान् भीमसिंहजिगीषया ॥ ७१ ॥ भद्रेश्वरमहीजानिः सञ्जीकृत्य निजं बलम् । देशसीमानमाक्रम्य, तस्थौ वज्रार्गलोपमः ॥ ७२ ॥ इतो मरुस्थलीभालस्थलीतिलकसन्निभे । जावालिनगरे स्वर्णगिरिशृङ्गारकारिणि ॥ ७३ ॥ राज्ञः समरसिंहस्य, पुत्रः क्षत्रव्रताग्रणीः । श्रीमानुदयसिंहोऽस्ति, प्रथितः पृथिवीपतिः ॥७४॥ चाहुमानकुलाकाशे, यस्मिंस्तपति भाखति । लोके दोषान्धकारस्य, नावकाशोऽभवत्क्वचित् ॥ ७५ ॥ सहोदरास्त्रयस्तस्य प्रशस्यस्थितिशालिनः । प्राप्तरेखाः प्रवीरेषु विख्याताः क्ष्माभृतां धुरि ||७६ ॥ सामन्तपालभूपालः, प्रथमः पार्थविक्रमः । द्वितीयोऽनन्तपालश्च, कलावानिव
I
888888888888888888888888888
द्वितीयः
प्रस्तावः ।
112011
Page #55
--------------------------------------------------------------------------
________________
* सत्कलः ॥७७॥ त्रिलोकसिंहनामान्यो, मान्यश्चासीन्मनस्विनाम् । खौजसा गणयन्त्येते, त्रयोऽपि तृणवजगत् ॥७८॥ त्रिभिर्विशेषकम् ।
ग्रासमात्रे पापात्रे, ज्येष्ठभ्रातापितेऽप्यमी । महेच्छत्वादकुर्वाणा, अपि स्वहृदये धृतिम् ॥७९॥ कल्पस्थायि न जीवितमैश्वर्य | नाप्यते यदाभिमतम् । लोकस्तथाप्यकार्य, कुरुते कार्य समुद्दिश्य ॥८०॥ इति सूक्तं स्मरन्तोन्तायधर्मवतां वराः । स्वबन्धुवध पापं, न चिकीर्षन्ति कहिंचित् ॥८१॥ समाने सोदरत्वे तु, प्रज्ञातेजोबलोज्ज्वले । राजसेवकभावोऽयं, दुस्सहो हि मनस्विनाम् ॥८२॥ अवृत्तिभयमन्त्यानां, मध्यानां मरणाद्भयम् । उत्तमानां च मानामपमानात्परं भयम् ॥८३॥ वरं विदेशगमनं, वरं काननसेवनम् । मध्ये स्वजनवर्गस्य, नापमानेन वर्तनम् ॥८४॥ इति चिन्ताभृतस्ते तु, त्रयोऽप्यल्पपरिच्छदाः । बन्धुराज्यं परित्यज्य, पकांभ इव चातकाः ॥८५॥ श्रीवीरधवलोपास्ति, खमनोऽभीष्टदायिनीम् । चिकीर्षवः समाजग्मुर्धवलकपुरं तदा ।।८६॥ युग्मम् ।। तत्र श्रीवस्तुपालस्य, वैभवं श्रुतपूर्विणः । ते पूर्व प्रापुरावासं, व्यवहारैकवेदिनः॥८७॥ दृष्ट्वा राजकुमारांस्तान् , कुमारस्फारतेजसः । निजगेहाङ्गणे | प्राप्तान , सर्वाङ्गसुभगस्थितीन् ।।८८। आसनादिविधिं भृत्यैः, कारयित्वा सगौरवम् । बभाषे धीसखाधीप, एवं सस्नेहमानसः॥८९।।
युग्मम् ॥ पुण्यवन्तो भवन्तोत्र, कुतः स्थानात्समागताः । किं प्रयोजनमुद्दिश्य, भूभुजः क्षत्रियोत्तमाः ॥९०॥ विनयं राजपुत्रेभ्य, * इति मुक्तस्य सत्यताम् । नयन्तो नम्रमूर्धानोऽधिकं ते मत्रिणः पुरः॥९१।। स्वरूपं भ्रातृभूपस्य, निरूप्य निखिलं निजम् । यथास्थिततया प्रोचु-रेवं भूपालसूनवः ॥९२॥ कृतज्ञविज्ञमाणिक्य, सर्वाङ्गीणगुणोदयम् । श्रुखा भवन्तं चौलुक्यराज्यलक्ष्मीधुरन्धरम् ।।९३।। खदंहिकमलोपास्ति, वयं कर्तुमिहागताः । श्रीवीरधवलस्वामिसेवाकल्पलतां श्रिताः ॥९४॥ इत्याकर्ण्य वचः कर्ण्य, तेषां मत्रिपुरन्दरः। सुप्रसन्नमनाः प्रोचे, यत्सन्तोऽज्यहितैषिणः॥९५॥ फलेग्रहिरभृदय, नृपव्यापारभूरुहः । यद्यूयं मे गृहं प्राप्ता, राजानोऽतीवदुर्लभाः॥
Page #56
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥९६॥ ततो नानाविधैर्भोज्यैर्भोजयित्वा सगौरवम् । सन्तोष्य च विशेषेण, दिव्यवस्त्रविभूषणैः ॥९७॥
कर्पूरपूरसन्मिश्रताम्बूलार्पणपूर्वकम्। हेमरत्नमयीस्तेषां स ददौ यमदंष्ट्रिकोः ॥ ९८ ॥ युग्मम् || आययौ सार्धमाकार्य, तततान्नृपनन्दनान् । सर्वार्यनन्दनो मत्री, चौलुक्य नृपपर्षदि ॥ ९९|| नरेन्द्रं ते नमस्कृत्य, भक्तिपूर्वमवीवदन् । वस्तुपालमहामात्यं, ॥२१॥ स्वरूपं स्वं यथास्थितम् ||४०० ॥ अथाकर्ण्य जगादेवं, प्रमोदी मेदिनीपतिः । दन्तद्युतिसुधासारैः सिश्चंस्तान् भूभुजोङ्गजान् ॥१॥ अयं प्राचीन पुण्यानां, प्ररोहः समभून्मम । युष्मदंहिर जोराजिर्यत्पुनाति गृहाङ्गणम् ॥ २॥ स एव दिवसः श्लाघ्यः, सैव वेला प्रशस्यते । गृहस्थस्य गृहं यत्र, कश्चित्कार्यार्थमाश्रयेत् ||३|| परं शौण्डीरशृङ्गारकारिणां पृथिवीभुजाम् । कीदृशी भवतां वृत्तिः, कर्तव्येति निगद्यताम् ||४|| वृतिः शतसहस्राणां द्वितयं द्वितयं पृथक् । द्रम्माणां दीयतां देव, वदन्तिस्म तदेति ते ॥५॥ तदुक्तं नृपतिः श्रुखा कृपणश्रेणिशेखरः । तान् वीरप्रवरान् प्रोचे, प्रम्लानवदनाम्बुजः || ६ ||
इयद्भिर्धनलक्षैर्मे, भवन्ति शतशो भटाः । सङ्गृहीतास्ततो यूयमधिकं किं करिष्यथ ॥७॥ यूयमेव नृपा नूत, ममेयद्रविणव्ययः । कमर्थं खलु पुष्णाति भृत्यमात्रकृतेऽधुना ॥८॥ तदन्यत्र नृपस्थाने, यूयं यात यथारुचि । इत्युक्त्वा भूपतिर्दवा, ताम्बूलं विससर्ज तान् ॥९॥ अत्रान्तरे महीपालं वस्तुपालोऽब्रवीदिति । महान्तो नैव मुच्यन्ते, खामिनेते मनखिनः || १० || धनं न बहु मन्तव्यं, राजन् पुरुषसङ्ग्रहात् । पदे पदे भवेद्यत् श्री, राज्ञां सद्भृत्यसङ्ग्रहात् ॥११॥ यतः तुङ्गानामपि मेघाः, शैलानामुपरि दधति च्छायाम् । उपकर्तुं हि समर्था भवन्ति महतां महीयांसः ॥ १२ ॥ सचिवेनैवमुक्तोऽपि स्तोकंपचगणाग्रणीः । नादरं नृपतिश्चक्रे, मरु
१ असि ।
888888888% 483837833883% 883
*83% 8488% 43% 84838% 3% *838
द्वितीयः प्रस्तावः ।
॥२१॥
Page #57
--------------------------------------------------------------------------
________________
K8€8*148888888888****%*€?
वीरेषु तेष्वहो ॥ १३ ॥ ततोऽमी चुलुकाधीशं मुक्त्वा मुक्ताफलोज्ज्वलाः । बीटकप्राप्तिसन्तुष्टाः कृतज्ञजनमौलयः ॥ १४॥ भीमसिंह प्रतीहारं, भद्रेश्वरपुरेश्वरम् । सपत्नं गौर्जरेन्द्रस्य, शिश्रियुः श्रितवत्सलम् ||१५|| कार्पण्यं चुलुकेशस्य, श्रुखा प्रीतमनास्ततः । तेषामकारयद्वृत्तिं द्विगुणां भीमभूपतिः ॥ १६ ॥ कलावतां नृणां सम्पजायते हि पदे पदे । समुद्रान्निर्गतश्चन्द्रः, शम्भुमौलिमशिश्रियत् ।। | ॥१७॥ अथ प्रवर्द्धितोत्साहः, स्वामिकार्यचिकीर्षुभिः । सामन्तपाल भूपालप्रमुखैर्वीरकुञ्जरैः || १८ || रोषणः प्रेषयामास, प्रतीहारनृपेश्वरः । प्रतिचौलुक्यभूपालं, भट्टं प्रकटवादिनम् ||१९|| युग्मम् ॥ गत्वाऽसौ भट्टराजोऽपि दत्वाशीर्वचनं मुदा । श्रीमद्गौर्जरराजाय, निविष्टो विष्टरेऽवदत् ||२०|| नीते नागपुरं पुरन्दरपरित्राणाय तत्रासुरे, सौहार्देन धनञ्जयस्य निधनं राधा सुते प्रापिते । विश्वं निःस्ववदे - तदीयविरहादालोक्य तद्दुः स्थितिच्छेदायावततार वीरधवलव्याजेन विष्णुः स्वयम् ||२१|| परं निवेद्यते भीमसिंहेनैव महीभुजा । दीप्यमानसमीपेन, चाहुमानभटैस्त्रिभिः ||२२|| आवयोश्विरकालीनो, रणरङ्गमनोरथः । कण्डूलभुजयोर्योऽस्ति, सोऽधुनास्तु फले| ग्रहिः ||२३|| श्रुखा तद्गौर्जरस्वामी, स्फुरद्रोमाश्च कञ्चुकः । यथारुचिप्रदानेन, तमानन्द्याब्रवीदिति ||२४|| पश्चग्रामाभिधे ग्रामे, | क्षेत्रं प्रधनसाधनम् । सृजन्तं मां हि जानीहि (विजानातु), चमूनागत्य ( भवानागत्य ) सखरम् ||२५|| खमपि द्रुतमागच्छ, क्षेत्रे तत्र स्वसैन्यवान् । मरुवीरै स्त्रिभिः साकं, पाकशासनविक्रमैः ||२६|| एवं ज्ञापयते वीरधवलः प्रबलप्रभः । गत्वा निवेदय खस्मै, स्वा मिने भटकुञ्जर ||२७|| त्रिभिर्विशेषकम् ॥ इत्युक्तो भृभृता तेन, गखा वृत्तान्तमादितः । वैतालिकः समाचख्यौ, भद्रेश्वरनरेशितुः । ॥२८॥ अथ प्रयाणसामग्री, समग्रां रणकर्मणे । निर्माय तत्क्षणादेव, नृदेवश्चलुकात्मजः ॥ २९ ॥ महामुहूर्तवेलायां वहन्नाडिपदं पुरः । निधाय गजमारूढः, प्रौढैः परिवृढैः समम् ||३०|| गजानीकहयानीकरथानीकपदातिभिः । राज्यकार्यकृतोत्साहैः सर्वतः परिवा
TEDX-XODETABETEBEDE**
Page #58
--------------------------------------------------------------------------
________________
॥२२॥
* ॐ *ॐ ॐ हैं 888888888888
श्रीवस्तुपाल ॐ रितः ॥३१॥ श्रीअवराजपुत्राभ्यामुभाभ्यां पार्श्वयोर्द्वयोः । स्थिताभ्यां विक्रमन्यायमूर्तिभ्यामिव शोभितः ||३२|| श्वेतातपत्र संशोभी, द्वितीयः चरितम् । चामराभ्यां विराजितः । शकुनेषु समग्रेषु, जयवादानुवादिषु ||३३|| पञ्चग्रामाभिधे ग्रामे, सङ्ग्रामोत्सवकौतुकी । श्रीवीरधवलः प्रापत्, क्रमाद्भामाधिपैर्वृतः ||३४|| षद्भिः कुलकम् ।। भीमसिंहोऽपि तत्रागाच्चाहुमानभटोत्कटः । नागेन्द्रं विगलनिद्रं, सृजन्नातोद्यनिः| स्वनैः ||३५|| ताभ्यां प्रतिष्ठितस्तत्र, सङ्ग्रामस्त्रिदिनान्तरे । भूपानां दीर्घदर्शित्वं यदायति हितावहम् || ३६ || दीयन्ते तत्र दानानि, दुरितत्रातशान्तये । दीनानाथद्विजादिभ्यः, सानन्दैः सुभटोत्तमैः ||३७|| सिंहनादा विधीयन्ते, वृषस्कन्धैर्नृपाङ्गजैः । शस्त्राधिष्ठातृदे वीनां, नानापूजोत्सवैः सह ||३८|| नित्यं नृत्यन्ति पात्राणि, रसपात्राणि सर्वतः । प्रबन्धा वीरसम्बन्धा, निवेद्यन्ते च पण्डितैः ॥ |||३९|| निःस्वानप्रमुखातोद्यवृन्दध्वानप्रतिध्वनिः । पृथिवीं पूरयामास, भट्टाशीर्वादपूर्वकम् ॥४०॥
उत्कण्ठा समभूद्योद्धुं योधानां वागगोचरा । नेदीयानिद्धबाहूनामाहवो हि महामहः || ४१॥ दुर्विगाहां चरैर्ज्ञात्वा प्रत्यर्थिपृतनापगाम् । सङ्ग्रामदिवसादर्वागू, मत्री भूपं व्यजिज्ञपत् ||४२॥ देव कार्पण्यदोषेण, युष्माभिर्नादृताः पुरा । तेजस्विनो महावीर्या, मारवा ये भटास्त्रयः ||४३|| मिलिताः कलितोत्साहास्ते परस्मिन् बले ततः । तद्बलान्निर्भयो भीमसिंहो गर्जति निर्भरम् ॥४४॥ श्रुत्वेति मत्रिराजोक्तं, स्माह श्रीराणकेश्वरः । अलं कातरलीलाभिर्यद्भाव्यं तद्भविष्यति ||४५ || जये वा युधि मृत्यौ वा, लाभ एव महीभुजाम् । जये जयश्रियः प्राप्तिमृतौ च त्रिदशश्रियः ॥ ४६ ॥ उदरम्भरिताधारी, यो जीवत्यवनीपतिः । पराभवपदं यायात्, प्रजाया अपि स क्रमात् ॥ ४७॥ मृतौ चिन्ता भवेत्तस्य, भृभुजो रणसीमनि । राज्यभारैकधौरेया, यस्य न स्युः सुमन्त्रिणः ॥ ४८ ॥ अथोवाच महामात्यश्चातुर्यैकवृहस्पतिः । देवे कार्मुकपाणौ तु परेलक्षास्तु के परे ॥ ४९ ॥ यतः - कोलः केलिमलङ्करोतु करिणः
XBX8088108X8038 X£3K *&&K
प्रस्तावः ।
॥२२॥
Page #59
--------------------------------------------------------------------------
________________
48888883838838 48488888888884539889
| क्रीडन्तु कान्तासखाः, कान्तारे वरकासराः सरभसं गर्जन्त्विह स्वेच्छया । अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि कम्पागतिं, कान्तारान्तरसञ्चरव्यसनवान् यावन्न कण्ठीरवः ||५० || भवदीयबले देव, डोडीयान्वयसम्भवः । जेहुलः क्षत्रियज्येष्ठो, जयत्येको - ऽपि तत्रयम् ॥ ५१ ॥ द्वितीयः सोमवर्मास्ति, वीरवौलुक्यचन्द्रमाः । तृतीयस्त्रिजगज्जेता, क्षेत्रवर्मास्ति गोहिल ः || ५२ | | देवस्तु | वर्णनीयः किं, साक्षात्कलियुगार्जुनः । एकोऽप्यनेकवद्भाति, सङ्ग्रामे योऽरिमानसे ॥५३॥ जायमानासु वार्तासु, तयोरेवं परस्परम् । प्रणम्य वसुधाधीशं द्वारपालोऽभ्यधादिति ॥ ५४ ॥ कोऽप्येकः पुरुषः स्वामिन्, द्वारि तिष्ठति वारितः । ईहमानो | महीनाथदर्शनं विश्वपावनम् ||५५|| निर्देशो देवपादानां कीदृशो मम तम्प्रति । समानय समीपं मे, श्रुवेत्यादिष्टवान्नृपः ॥ ५६ ॥ तदादेशात्समागत्य, सोऽवदन्नतिपूर्वकम् । स्वामिन् सामन्तपालाद्यैश् चाहुमान भटैस्त्रिभिः ॥५७॥ षड्भिः शतसहस्रैर्ये, सङ्ग्रहीता भटास्त्वया। तैरात्मानं रणक्षोण्यां, सम्यग् रक्ष क्षितीश्वर ||५८ || भवितासि प्रगेऽस्माकं त्वमेव प्रथमोऽतिथिः । कुमार्यामी - युषां शीघ्रमारेण्यामिति वोकथि ||५९ ॥ त्रिभिर्विशेषकम् ॥ तदुक्तं चुलुकस्वामी, विधाय श्रवणातिथिम् । दवा यथोचितं दानं, तमुवाच स्मिताननः ॥ ६० ॥ प्राप्तमेव रणे प्रातर्यू जानीत मामपि । सर्वेषामपि तत्रैव द्रक्ष्यते भुजसौष्ठवम् ॥ ६१॥ तेषामपि त्वयाख्येय, एवं सन्देशको मम । सोऽपि गल्ला समाचख्यौ तेभ्यस्तद्भूभुजोदितम् ॥ ६२ ॥ समग्राप्यथ सामग्री, राजादेशा| द्वलद्वये । रजन्यामेव राजन्यैर्निर्ममे रणकर्मणे || ६३॥ अथोदिते जगत्कर्मसाक्षिणि द्वादशात्मनि । उभयोः सैन्ययोस्तुल्यं, दध्वान | रणदुन्दुभिः ||६४|| तद्ध्वानश्रवणोद्भूतभुजकण्डूकरालिताः । योद्धुं संवर्मयामा सुस्तत्कालं वीरपुङ्गवाः ॥ ६५ ॥ प्रातःकृत्यं समाधाय,
१ रणभूम्याम् ।
*83%%88% 4838383888888888284
Page #60
--------------------------------------------------------------------------
________________
**
श्रीवस्तुपाल
चरितम् ।।
॥२३॥
H-28-48 39-8-09
श्रीवीरधवलः प्रभुः । सर्वात्तिशान्तये दानं, ददानो मार्गणबजे ॥६६॥ क्षयादित्य इवाप्रेक्ष्यो, लक्षसंख्यैर्नृपैर्वृतः(भृतः)। गीयमान- द्वितीयः |गुणग्राम, आजगाम रणावनिम् ॥६७। युग्मम् ॥ जेहुलप्रमुखा वीरा, हयारूढा महौजसः। नरेन्द्र परितस्तस्थुर्विविधायुधपाणयः॥१८॥ प्रस्तावः।
कृखा प्राभातिकी पूजा, सौवर्णकवचाङ्कितौ । वहन्तावायुधश्रेणिमश्वराजात्मजौ जवात् ॥६९॥ मत्रिराजौ रणक्षोणिं, प्राप्य जात्याश्व| संस्थितौ(यायिनौ)। राज्ञश्चौलुक्यचन्द्रस्य, पार्श्वयोस्तस्थतुः स्थिरम् ।।७०|| युग्मम् ॥ भीमोऽपि भीमवद्धीमः, सीमा निःशेषदोष्म| ताम् । श्रेयःस्थानं ददद्दानं, याचकेषु पदे पदे ॥७॥ युतो राजन्यचक्रेण, चक्रपाणिरिवोल्वणः। रणक्षोणिमलश्चक्रे, बक्रेक्षणविभी| षणः ॥७२।। युग्मम् ॥ तदा सामन्तपालाद्याः, सोदराः शक्रसोदराः । स्वकीयद्रम्मलक्षाणि, गृहीखा भीमभूपतेः ॥७३॥ निधायाव्ययकोशेषु, पात्रेषु विविधेष्वपि । नानायुधधृतः कुन्तपाणयः कवचोज्ज्वलाः ॥७४॥ प्रक्षरैर्गरुडाकारधारिणो जात्यवाजिनः । आरुह्यासह्यधामान, आजिसीमानमाययुः ॥७५॥ त्रिभिर्विशेषकम् । रणतूगजव्यूहबृंहणैर्हयहेषितैः । वीरकोटीरहुङ्कारैः, शब्दाद्वैतं तदा- iadel | जनि ॥७६।। नामग्राहं गुणग्राहं वंशग्राहं च बन्दिनः। व्यधुर्जयजयारावं, प्रतिवीरमतल्लिकाः ॥७७॥ कोमलस्तुमुलारम्भो, जयश्रीवरणोपमः । मिथःखखामिसन्तोषी, ततोऽभूदलयोस्तयोः(द्वयोः)॥७८॥ प्रावर्तन्त महायोधा, योद्धं क्रोधान्धदृष्टयः । मर्मणि करकर्माणः, प्रहरन्तः परस्परम् ॥७९॥ गलदुधिरधाराभिर्वषि विदधुर्भटाः । कुङ्कुमद्रवरक्तानि, वरितुं स्वःश्रियङ्किल ॥८॥
शरौधैर्मण्डपं वीरास्तेनुराकाशमण्डले । अन्योन्यं भानुसन्तापसंहारस्य विधित्सया ॥८॥ तस्थुषोंरान्धकाराभ, रजोभिर्विस्तृ. | तैस्तदा । दुःखभारादिवाच्छाद्य, स्वाननानि दिगङ्गनाः ।।८।। अथाजनि जगत्साक्षी, ललाटन्तपमण्डलः । निपेतुः शतशो योधाः,* | शस्त्रघातादिता भुवि ॥८३॥ भूमण्डलमिवालोक्य, विच्छायं खबलं तदा । सावधानोऽभवदीरधवलः प्रेरयन् भटान् ॥८४॥ तस्थुः
Y2-3927-3-9424*488
॥२३॥
Page #61
--------------------------------------------------------------------------
________________
*8388883838388883%2B%283%
1
स्वस्वामिरक्षायै, दक्षा दक्षतयाधिकम् । मन्त्रथादिसुभटाग्रण्यः कुर्वन्तः शरदुर्दिनम् ||८५|| अत्रान्तरे तिरस्कृत्य, भटस्थङ्कं बलोत्कटाः । मारवास्ते महावीर भैरवा भल्लपाणयः ॥ ८६॥ अवोचन् सन्निधिं प्राप्तं ( प्राप्य), श्रीवीरधवलप्रभुम् । अमी वयं त्वसौ देवः, सावधानो | भवाधुना ||८७|| रक्षणीयस्त्वया स्वात्मा, यत्नतो वीरशेखर । तद्धनैः स्वीकृता योधा, अपि त्वां पालयन्तु भोः (त्वलम् ) ॥८८॥ त्रिभिर्विशेषकम् । श्रीवीरधवलः स्माह, किं मुधात्र विकत्थनैः । क्रिययैव खदोःस्थाम, महद्भिर्हि ( महतांहि ) प्रकाश्यते ॥ ८९ ॥ तेषां | ततोऽभवद्धोरं युद्धं क्रोधान्धचक्षुषाम् । भुवि प्रहारवेगार्ता, निपेतुर्जेहुलादयः ॥ ९० ॥ यतः - पुष्पैरपि न योद्धव्यं, किं पुनर्निशितैः शरैः । युद्धे विजयसन्देहः, प्रधानपुरुषक्षयः ॥ ९१ ॥ नानाराजकुमारेषु, मत्रीन्द्रद्वितये तथा । यत्नतो निकटस्थेषु, रक्षत्स्वपि निजं नृपम् ||१२|| कुन्तत्रयं तदा भालस्थले चौलुक्यभूभुजः । प्रदत्तं प्रकटीभूय, तैर्वदद्भिरिति द्रुतम् ॥ ९३ ॥ एवं हन्मो वयं देव, त्वामेकं किन्तु बीटकम् । अस्माभिश्च तदाखादि, त्वया दत्तं स्वपाणिना ||१४|| अनृणीकर्तुमस्माभिः साम्प्रतं तन्नराधिप । जीवन्मुक्तोऽसि याहि त्वं, बहूनामुदरम्भरिः || ९५ ॥ यथा तथा न हन्तव्यो भूयसामुपकारकः । अस्तं गते रखौ यस्माद्विश्व तमसि मज्जति ॥ ९६ ॥ यतः - सेणावई पसत्थारं, भत्तारं वा विहिंसह । रिट्ठस्स वाविनिगमस्स, नायगं सिट्ठिमेव य ॥९७॥ अप्पस्समाणे पस्सामि, अहदेवत्ति वा वए। अवन्त्रेण च देवाणं, महामोहं पकुव्व ॥ ९८ ॥ इतः - सन्त्रास्य सुभटश्रेणिं, स्वौजसैव तटस्थिताम् । ते वीरधवलं | वेगाद्, भूपीठेऽश्वादलोठयन् ॥ ९९ ॥ अथोपरवटं वाजिरत्नमादाय ते गताः । सन्ध्यायां च भटाः सर्वे, विरेनू रणकर्मणः || ५०० || | उत्पाट्य नृपतिं लब्धलक्षा मत्रीश्वरादयः । जवादुत्तारकं प्रापुः, सचिन्ताः खचमूवृताः ॥ १ ॥ जितकासी निजावासं, भीमसिंहोऽपि | जग्मिवान् । समं सामन्तपालाद्यैः, प्रमोदद्विगुणप्रभैः ॥२॥ रजन्यां विवदन्तेऽथ, भीमसिंहभटा मिथः । श्रीवीरधवलोऽस्माभिरस्मा
2838883888888888888888
Page #62
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
|भिर्भुवि पातितः ॥ ३|| मारवास्ते भटाः प्रोचुर्युष्माभिर्यदि पातितः । वादापहमभिज्ञानं, तदा किञ्चित्प्रदर्श्यताम् ||४|| एवं जयविधौ वादे, भटानां कोटिमागते. आनीय दर्शयामासुरचं ते भीमभूभुजः ||५|| उच्चैः श्रवः समाकारं, स्वर्णपर्याणशालिनम् । वल्गुवल्गामनोज्ञास्यं, रत्नमालाविभूषितम् ||६|| श्री चौलुक्यनराधीशतेजोराशिमिवापरम् । तदुपरवटं वाजिरनं सल्लक्षणान्वितम् ||७|| वीक्ष्य भद्रेश्व॥२४॥ रस्वामी, कामीवयुवतीमुखम् । तुष्टोऽतीवसुधावृष्टिं वचोव्याजाद्विनिर्ममे || ८ || त्रिभिर्विशेषकम् ।
*4388483-8483848888888888
विशुद्ध भयपक्षेषु न्यस्ता श्रीनृपसूनुषु । अनेकधा फलत्यत्र सुपात्रे दानवद् ध्रुवम् ॥९॥ उदघोषि नृपैः सर्वैर्मरुवीरैर्जितं जितम् । प्रमाणं हय एवात्र, श्रीवीरधवलासनम् ॥१०॥ ( क्षत्रियाणां रणक्षोण्यां दृप्यद्वैरिनरेशितुः । हठाद्धयापहरणं श्रृंगारः परमः स्मृतः ॥ ) नयेन नेता विनयेन शिष्यः, शीलेन नारी प्रशमेन लिङ्गी । प्रौढावदातेन भटः प्रचण्डो ( प्रकाण्डं), धर्मेण जन्तुश्च सदा विभाति ॥ ११ ॥ एवं भीमबले वार्तासुधास्वादं वितन्वताम् । त्रियामाप्यगमत्तेषां क्षणवत्पृथिवीभुजाम् ||१२|| रात्रौ किञ्चित् प्रतीकारैः सज्जीभृतोऽतिसाहसी । गौर्जराधिपतिः प्रातश्विखेल द्यूतलीलया ||१३|| ज्ञात्वा लीलायितं ताडग् श्री चौलुक्य महीभृतः । प्रतीहारनरेन्द्राय, विज्ञप्तिं मत्रिणो व्यधुः || १४ || समृद्धः सप्तराज्याङ्गैर्विशेषान्मन्त्रिसम्पदा | राजन्निबद्धमूलोऽयं देवादेशश्च भूपतिः ||१५|| ततो राज्ञामुना सार्क, नाकपालोपमश्रिया । विरोधो नायतौ श्रेयस्करः कस्यापि दृश्यते | ॥ १६ ॥ यतः - अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्युद्वाराणि चत्वारि ॥१७॥ आगन्तु कबलं प्राप्य, भव्यान्यगृहभुक्तिवत्। नाहङ्कृतिः सतां कर्तुं युज्यते जनगर्हिता ॥ १८ ॥ तदनेन समं सन्धिः, कर्तव्यो देव | साम्प्रतम् । आलोकय स्वयं सम्यगू, युक्तायुक्तविचारणाम् ||१९|| सत्यं मन्त्रिवचो मत्वा, सन्धि भीमोऽप्यमन्यत । हितोपदेश
408884688638 XCPK2432283% 1
द्वितीयः
प्रस्तावः ।
॥२४॥
Page #63
--------------------------------------------------------------------------
________________
पीयूषं, प्राप्तं कोहि जिहासति ॥२०॥ परं भयङ्करस्तेनाकारि संग्रामडम्बरः। अन्यत्कुर्वन्ति भूपालाश्चिकीर्षन्त्यन्यदेव हि ॥२१॥
योदुप्रचक्रमे वीरैर्यावदन्योन्यमुत्कटैः। तावद्भटैः कृतो मेलः, प्रमोदी मेदिनीभुजोः ॥२२॥ तथोपरवटं वाजिराज राजेन्द्रवाहनम् । * पश्चात्समर्पयामासुस्ते वीरा गौ रेशितः॥२३॥ भद्रेश्वरपुरेणैव,शुद्धोञ्च्छेनेव साधुना । करणीया धृतिर्भीमसिंहेनापि क्षमाभृता ॥२४॥ पाठनीया न हि क्वापि, स्वात्मनो विरुदावली । व्यवस्थेति स्थिरीचक्रे, वस्तुपालेन मन्त्रिणा ॥२५॥
ततः पश्चात्समागच्छन् , चौलुक्यः सपरिच्छदः। कर्करायां पुरि प्राप, स्वर्गसोदरसम्पदि ॥२६॥ तस्थौ तत्र दिनान्येष. मत्रि*वाचा कियन्त्यपि । स्वदेशसीमालुण्टाकं, दण्डयंश्चरटव्रजम् ॥२७॥ तत्र प्रान्तयुगवासी, पवित्र मत्रिपुङ्गवः । प्रासादं कारयामास,
श्रीमदादिजिनेशितुः ॥२८॥ तत्र मूर्ति नरेन्द्रस्य, स्वीयमूर्त्या विराजिताम् । खत्तके स्थापयामास, धातुभिर्निर्मितामसौ ॥२९॥ भीम| पल्लयां तथा पार्श्वप्रभोमन्दिरमुन्नतम् । स्वर्णकुम्भयुतं मन्त्री, निर्ममे स्वस्थ शर्मणे ॥३०॥ गौरीशङ्करसंयुक्तं, प्रासादं राणकेश्वरम् ।
अकारयच्च तस्यां स प्रीणयन् राणकेश्वरम् ॥३१॥ आदित्यपाटके चैत्यं, तथा झेरण्डके पुरे । पृथग् पृथग् व्यधात् शुद्धधातुबिम्बम| नोहरम् ॥३२॥ उद्दधार पुनश्चैत्यं, मन्त्री वीरजगद्गुरोः । जीर्ण श्रीवायडग्रामे, सप्तलक्षधनव्ययात् ॥३३॥ उद्दधे भास्वतो वेश्म, मन्त्री *सूर्यपुरे पुरे। ब्रह्मशाला व्यधानन्यां, वेदपाठकृते तथा ॥३४॥ तत्रैवाकारयत्सत्रागारद्वन्द्वमसौ नवम् । एकं विद्यार्थिभुक्त्यर्थ, द्वितीय ICE) सर्वदेहिनाम् ॥३५॥ मरुस्थलमहीप्राणिपवित्रीकरणं परम् । शास्त्र तीर्थतया ख्यातं, सत्यं सत्यपुराभिधम् ॥३६॥ पञ्चरात्रं पुरा विश्व-|
विश्ववयनमस्कृतः। चन्द्रप्रभजिनाधीशो, विहरबध्युवासयत् ॥३७॥ पुनानः पृथिवीं यत्र, श्रीवीरस्तीर्थनायकः । सर्वज्ञः समवासापति, ततस्तीर्थमिदं स्मृतम् ॥३८॥ सप्तत्या वत्सरैर्यत्र, श्रीवीरवामिनिवृतेः । श्रीनाहडनृपश्चक्रे, चैत्यं काञ्चनविम्बयुक् ॥३९॥ यतः
**480 38**48**48*
189**
**
Page #64
--------------------------------------------------------------------------
________________
चरितम् ।
श्रीवस्तुपाल | सप्तत्या वत्सराणां चरमजिनपतेर्मुक्तिजातस्य माघे, पञ्चम्यां शुक्लपक्षे सुरगुरुदिवसे ब्रह्मणः सन्मुहूर्ते । रत्नाचार्यैरिहार्यप्रतिमगुणयुतैः सर्वसङ्घानुयातैः, श्रीमद्वीरस्य बिम्बे भवशतमथने निर्मितेयं प्रतिष्ठा ||४०|| वीरबिम्बं नमस्कुर्वन्, सत्यशीलयुतो जनः । एकरात्रं वसन्नत्र, भूयः पापं व्यपोहति ॥ ४१ ॥ विशाखायां गते चन्द्रे, वैशाखे पूर्णिमादिने । हैमं वीरविभोर्बिम्बं संतप्य पयसा द्विधा ॥ | ॥४२॥ भक्त्याचेति नयोपात्तवित्तप्राप्तसुमादिभिः । आगामिनि भवे भूमान्, सार्वभौमो भवत्यसौ ||४३|| तदेतत्परमं तीर्थ, वन्दनीयं मयाधुना ॥ स किं विवेकी यो धर्म, नादत्ते समये सति ||४४ ||
॥२५॥
EBKIEBKIEBE-FEDEX€3£XHBK1
नूनं तक्षशिलास्वामी, प्रमादी नैव कर्हिचित्। जिनेन्द्रदर्शनानन्दसुधाखादमविन्दत ||४५ || इत्यालोच्य स्वयं स्वान्ते, तेज:पालं निजानुजम् । नियोज्य खामिकार्येषु, मन्त्री सर्वकुटुम्बयुग् ||४६ || समृद्ध श्रावकैः साकं ततः सत्यपुरम्प्रति । ब्रजन् श्रीतीर्थयात्रायै, पात्रायत्ताः श्रियः सृजन् ||४७|| कारयन्नव्यचैत्यानि, जीर्णानि प्रोद्धरन् पथि । दीनानाथजनान् सर्वान् प्रीणयंश्च यथोचितम् ||४८ || विनयं ग्राहयन् भूपैर्विनेयैरिव सद्गुरुः । शासनं श्रीजिनेन्द्रस्य, सर्वाङ्गं च प्रभावयन् ||४९|| थारापद्रपुरे प्राप, क्रमेणाक्रान्तशात्रवः । हेमकुम्भध्वज भ्राजिजैन चैत्यमनोहरे ॥५०॥ पञ्चभिः कुलकम् । तत्र श्रीसङ्घलोकोऽपि, विवेकाद्विश्वविश्रुतः । अकार्षीन्मत्रिराजस्य, प्रवेशोत्सवमादरात् ॥५१॥ अथौन्नत्येन निर्जित्य, हिमाचलगिरीश्वरम् । केतुकैतवतो नित्यं, विभ्राणं जयपत्रकम् ॥ | ॥५२॥ कुमारपाल भूपाल पुण्यश्रीकेलिमन्दिरम् । मन्दिरं तत्र जैनेन्द्रं दृष्ट्वा सद्दृष्टिमोहनम् ||५३|| अमन्दानन्दनिस्पन्दसागरे सचि| वेश्वरः । ममज्ज विस्मयाविष्टः स्वं जन्म सफलं विदन् ||५४ || त्रिभिर्विशेषकम् । स्नात्रं तत्र जिनेन्द्रस्य, पवित्रामात्रवारिभिः । संसूत्र्य रचयामास, मन्त्री स्वात्मानमुज्ज्वलम् ||५५ ॥ प्रासादेषु समग्रेषु ददौ दौर्गत्यनाशिनः । महाध्वजान् प्रजानन्ददायी हेममयानसौ ॥
*888874688898888888888883K
द्वितीयः
प्रस्तावः ।
॥२५॥
Page #65
--------------------------------------------------------------------------
________________
*48*****4698****6-22489-8*8
| ॥५६॥ सन्तोष्य पोष्यपात्राणि, नानादाननिरर्गलैः । प्राचः प्रासाददायांश्च, स्थिरीचक्रे स्थिरोदयः ॥५७॥ युग्मम् ॥ तत्र श्रीसङ्घवात्सल्यं, वत्सलो व्यतनोदयम् । परोलक्षमनुष्याणां, नानाभोज्यादिदानतः ॥५८॥ सर्वेषां जैनसाधूनां, वस्त्रदानान्यसौ व्यधात् । | तदीया विविधा धर्मशाला उद्धृतवांस्तथा ॥५९॥ अपरं मन्दिरं जैन, नवीनं तत्र निर्ममे । मन्त्री कुमारभूपालविहारस्य सहोदरम् ॥ | ॥६०॥ धर्मार्थी धार्मिकादिनामृणमोक्षं व्यधात्पुनः । सर्वप्रकारपुण्येषु, यतन्ते यद्विवेकिनः ॥६१।। ततस्तत्रत्यसङ्घन, समेतः शान्त| कल्मषः । आससाद महातीर्थ, मत्री सत्यपुराभिधम् ॥६२॥ प्रासाददर्शनानन्दसंविभागकृते कृती। स ददौ विविधं दानं, मार्ग*णेभ्यो यथारुचि ॥६३।। मत्री सत्यपुरे जिनेन्द्रभवनालोके विवेकी ददौ, लक्षाणां दशकं प्रमोदविशदखान्तोऽर्थिनां लीलया । अ
श्वानां शतमेकमुत्तममहः कच्छाधिपैः प्राभृतं, दत्ते श्रीललितापतिर्जिनमतोल्लासैकवाचस्पतिः ॥६४॥ अतुच्छोत्सवसम्भारपूर्व पूर्वा| धिपप्रभः । प्रासादं प्राविशन् मत्री, नमन् भक्तिभरादिव ॥६५॥ तिस्रः प्रदक्षिणाः कृता, पञ्चाङ्गप्रणति सृजन् । नालिकेरादिभिर्नानाफलैः कौसुमदामभिः ॥६६॥ सोऽहम्प्रथमिकाव्यग्रैः, समग्रैः श्रावकैः समम् । आधौतचरणां पूजा, चक्रे सर्वाघघातिनीम् ॥६७॥ निर्माय मङ्गलस्नानं, सुगन्धिचन्दनद्रवैः। ततोऽसौ कर्तुमारेमे, विधिना मजनोत्सवम् ।।६८॥ तद्यथा-पञ्चवर्णकुसुमाञ्जलिमुच्चैः, सूत्रपाठसुभगां सचिवेशः। निर्ममे जिनपुरः सह सङ्घः, पञ्चशब्दमधुरध्वनिरम्याम् ॥६९॥ कर्पूरागुरुमृगमदधूपं निर्दग्धसर्वपापरजः। के भक्त्या भुवनगुरोः साक्, चक्रुस्तिलकैः समं श्राद्धाः ॥७०॥ जन्माभिषेककलशादिकसूत्रपाठं, दक्षास्तिका विदधुराहतभक्तिभाजः । | सद्गीतनृत्यरचनारचितप्रमोदं, श्रीवीरमजनमहं च ततो वितेनुः ॥७१॥
श्रीवस्तुपालसचिवः कविकल्पशालः, सौवर्णकुम्भमभितोऽचिंतमम्बुपूर्णम् । आदाय पाणिकमलेन पठंश्च सूत्रं, स्नात्रं चकार
Page #66
--------------------------------------------------------------------------
________________
| द्वितीयः प्रस्तावः।
श्रीवस्तुपाल विधिना त्रिशलाङ्गजस्य ।।७२।। विधायाष्टविधां पूजा, ततोऽसौ विरजा ददौ । जाम्बूनदमयं चैत्यशृङ्गे रङ्गान्महाध्वजम् ।।७३॥ चरितम् । उत्तार्यारात्रिकं मत्री, चर्चित चन्दनादिभिः। विदधे मङ्गलं दीपं, मङ्गलाय निजात्मनः ॥७४॥ भावार्चना पुनः कृत्वा, ददद्दान
मवारितम् । अर्थिनां प्रार्थनाभङ्गं, नासौ चक्रे मनागपि ॥७५॥ तिष्ठन्नष्टदिनीं तत्र, जिनभक्तितरङ्गितः। स देवकुलिकायुग्मं, पार्श्व॥२६॥ योरुभयोर्व्यधात् ।।७६॥ अनिषिद्धान्नदानेन, सन्तोष्य निखिलं जनम् । गौरवं सङ्घलोकस्य, विदधे विधुतैनसः॥७७॥ युग्मम् ॥
देवपूजाकृते दायं, दत्त्वा मण्डपिकापदे । धर्मसाम्राज्यमारोप्य, सर्वत्र न्यायपूर्वकम् ॥७८॥ अन्यायकारिणां तीक्ष्णां, दर्शयन् दण्डतः | क्रियाम् । कटु प्रान्ते गुणाधायि, सरोगाणामिवौषधम् ।।७९॥ श्रीवीरधवलखामिशासनं मरुभूभुजाम् । सर्वेषां मौलिषु प्रौढ्या, नयन्
पुष्पावतंसताम् ।।८०॥ तत्कदेशप्रजापाले ठद्भिर्मेदिनीतटे । उपदीकृतसर्वस्वैः, सेव्यमानो निरन्तरम् ॥८१॥ स पश्चाद्वलितः प्राप्तः, | कर्करानगरेऽनमत् । श्रीवीरधवलाधीश, प्रौढप्राभूतपूर्वकम् ।।८२॥ पश्चभिः कुलकम् । ततो मत्रियुतो राजा, राजधानी निजां ययौ। आहादयन् प्रतिग्राम, स्वप्रजा मानदानतः ॥८३॥ मीमसिंहात्पृथक् कृखा दानभेदाधुपायतः । वीरान सामन्तपालादीन् , विधाय निजसेवकान् ॥८४॥ मत्री प्राप्तपरप्राणक्रमाद्वाणरिपूपमः। दुष्टं चौलुक्यदेवायापराध्यन्तमनेकधा ॥८५॥ भीमसिंह समुच्छिद्य, का समूलं कूलवृक्षवत् । नरेन्द्रशासनं चक्रे, सर्वत्रास्खलितप्रभम् ।।८६॥ त्रिभिर्विशेषकम् ॥ श्रीवीरधवलाधीशो, नरसिंहं पुराजयत् ॥ *वीरः श्रीवस्तुपालस्तु,राजसिंह सुदुस्सहम।।८७।। (श्रीवीरो नरसिंहोपि, पशुसिंह पुराजयत् । श्रीवीरवस्तुपालस्तु राजसिंहसुदुस्सहम् ।।) | पञ्चकोटीः सुवर्णस्य, वाजिनामयुतं तथा । मन्त्री भद्रेश्वराधीशसङ्ग्रामफलमाप्तवान् ।।८८॥ ददौ सामन्तपालाय, स्थित्यै सत्यपुरं पुरम् । खभूपशासनान्मन्त्री, शूराचन्द्रं द्वयोः पुनः ।।८९॥ अमाम्बुहेमवत्राणां, दातारः स्युः पदे पदे । वस्तुपालः परं राज्ञां, पुरग्रामप्रदो
॥२६॥
Page #67
--------------------------------------------------------------------------
________________
888888883863% 8882848888888888
ऽभवत् ||१०|| भयभ्रान्तैस्ततो भूपैः प्राभृतानि वितेनिरे । वाजिराजिमणिग्रामप्रमुखैः सारवस्तुभिः ॥ ९१ ॥ महामात्यबलोपेतं, श्रीवीरधवलम्प्रति । समुद्गते प्रभाधीशे, को हि नार्थ प्रयच्छति ॥९२॥ युग्मम् || प्रतापश्रुलुकेन्द्रस्य, कराक्रान्तमहीभृतः । प्रासरत्परितो नित्यं विश्वविश्वोपकारिणः || ९३ ॥ इत्थं सृजन्नरिनरेन्द्रजयं यशस्वी, राजन्यराजिषु जगजनहर्षवर्षी || श्रीवस्तुपालसचिवे - श्वरराजमानो, लेमे कलामनुपमां चुलुकान्वयेन्दुः ||९४ ||
---------------------~~~-~
॥ इति श्रीमहामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्य प्रकाशके तपागच्छाधिपश्रीसोमसुन्दरसूरि श्रीजयचन्द्रसूरि श्रीमुनिचंद्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षा द्वितीयः प्रस्तावः ॥
तृतीयः प्रस्तावः ।
इतश्चास्त्यवनी भालशृङ्गारतिलकोपमम् । गोधानामपुरं धाम, रामणीयकसम्पदः ॥ १ ॥ महेन्द्रीतटिनीवीचिबाहुभिर्मृदुशीतलैः । यदालिङ्गति कान्तेव, तटपल्यङ्कसंस्थितम् ||२|| स्थाने तत्तद्भटाङ्गानां पतितानां रणाङ्गणे । अत्राभूवन् स्वयम्भूनि, शम्भुलिङ्गान्य| नेकशः ॥ ३ ॥ इत्याद्यैश्वित्रदैश्वित्रप्रवादैर्बिरुदावली । यत्रागन्तुकलोकानां चेतो रमयति स्फुटम् ||४|| युग्मम् || गुर्जरत्राव| नीपान्थसार्थानां मालवम्प्रति । व्रजतां जायते यतु, विश्रामाय श्रमापहम् ॥५॥ तत्रास्ति घूघुलो घोरकर्मा धर्मातिगस्थितिः ।
*@3%%88888888888 188% 4683 कैरी
Page #68
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥२७॥
*E*K*KHGBKEKEK JEJ HI
मण्डलीको महातेजा भूपतिर्गर्वपर्वतः || ६ || विश्वासवधलश्चादिभूयः पातकतत्परः । यो वणिग्जनसार्थानां, लुण्टाको विकटाकृतिः ॥७॥ युग्मम् ॥ नित्यं परार्थसार्थस्य ग्रहणे तस्य तत्परा । सत्पदन्यासनिष्ठस्य, स्वान्तष्वृत्तिः कवेरिव ॥ ८ ॥ शीर्षे शेषामिवाशेषसुखोन्मेषविशेषिकाम् । सर्वेऽपि पूर्वजा दधुर्यामानन्दवशंवदाः ॥९॥ तां चौलुक्यविभोराज्ञामन्यायसुभटाग्रणीः । बिभर्त्ति शिरसा वन, नासौ दुःशासनोपमः ॥ १०॥ युग्मम् ॥ भट्टः प्रकटवाग् तस्मै, मत्रिभ्यां राजशासनात् । प्रैषि रेवन्तदेवाख्यः, संदेश| कसखान्यदा || ११ || राजधानीं जवादेष, आसाद्य वदतां वरः । आशीर्वादमदादेवं, घूघुलाय क्षमाभुजे ॥१२॥ मूर्ती वीररसः क्षिती - |श्वरगुरुर्जीयाञ्जय श्रीपरिष्वङ्गोत्तुङ्गभुजः प्रचण्डमहिमा गोधाधिपो घूघुलः । यः श्रीगौर्जरराजमालवनृपद्वन्द्वान्तरे कन्दरे, हप्ता रिद्विप - कोटिपाटनपटुः पश्चाननो गर्जति ॥ १३ ॥ अलङ्कृत्य यथौचित्यं नृपानुज्ञातमासनम् । असौ निवेदयामास, मत्रिवासववाचिकम् ॥ १४ ॥ | राजन् गौर्जरराजेन्द्रः, श्रीवीरधवलो नृपः । मूर्धाभिषिक्ततां धत्ते, सेव्यमानोऽखिलैर्नृपैः ॥ १५ ॥
1
सत्यभामान्वितः कुर्वन्, लीलया बलिबन्धनम् । यशोदयाकृतानन्दः, श्रीमान् यः पुरुषोत्तमः ॥ १६ ॥ दीर्घनिद्रां द्रुतं दत्त्वा, | द्विषतां युधि मार्गणैः । यः समृद्धियुतं धत्ते ( यः समृद्धिकमादत्ते), जीवितं जयसम्पदा ॥१७॥ तस्यास्ति सचिवाधीशचक्रपाणेरिवो| द्भवः । वस्तुपालः स्फुरत्प्रज्ञावैभवाद् भुवनाद्भुतः ||१८|| तस्यानुजो जगजेता, तेजः पालोऽस्ति धीसखः । अपि खर्गगुरुर्यस्य, प्रेक्षामधिजिगांसते ||१९|| मन्मुखेन क्षमापाल ताभ्यामेवं निवेदितम् । बिभ्रद्भ्यामान्तरप्रीतिं भवतो हितहेतवे ॥२०॥ भवान् सर्वनृपश्रेणौ, मणिवद्विश्रुतो गुणैः। विदधाति कुतो घोरं कर्म धर्मनयापहम् ॥२१॥ तदन्यायं द्रुतं मुञ्च, न्यायमार्गाध्वगो भव । अत्युग्रपुण्यपापानां यतोऽत्रैव फलं स्मृतम् ||२२|| श्रीवीरधवलाधीशशासनं विश्वपावनम् । श्रेयोऽभिवृद्धये शश्वत्, शीर्षे शेषामिवाश्रय ॥
84888888% T€3% X€888838 1838
तृतीयः प्रस्तावः ।
॥२७॥
Page #69
--------------------------------------------------------------------------
________________
--*CAND
॥२३॥ अन्यथा भीमचामुण्डसाङ्गणादिमहीभुजाम्। पतौ निवेशयात्मानं, विधाय कृतकृत्यताम् ॥२४॥ एवं भट्टवचः श्रुखा, घूघुलो घोरविक्रमः । कोपेन तप्यमानाङ्गो, व्याजहार धराधवः ॥२५॥ अहो दुरात्मनोः कीदृग् , वणिजोरपि साहसम् । अस्माकमपि दूतेन, | यदादेशनिवेदनम् ॥२६॥ अनयोविस्मृता नूनं, निजावस्था पुरातनी। राज्ञोऽपि क्रियते यस्मात्तिरस्कारविडम्बना ॥२७॥ यतःनीचवंशोभृतो राजा(अवंशपतितो), मूर्खपुत्रो हि पण्डितः। अधनेन धनं प्राप्त, तृणवन्मन्यते जगत् ॥२८॥ सचिवब्रुवयोब्रूहि(कवयोब्रूहि), तदिदं मदुदीरितम् । मृगस्य शासनं किं हि, मृगेन्द्रो मौलितां नयेत् ।।२९।। परं राजमदोन्मादविवशीभूतचेतसौ । वदतःस्म दुराचारौ, नीचावेतौ यथा तथा ॥३०॥ यतः-परमात्प्राप्तलक्ष्मीको, नीचस्तपति निभरम् । भानुमण्डलजातोष्मा, वालुकानिकरो यथा ॥३१॥ तदा तयोध्रुवं भाविन्यासन्ना पतयालुता । सरितटदुमस्येव, कृतानुचितकर्मणोः॥३२॥ यतः-औचित्यस्खलनं बुद्धेविपर्यासो | विरोधिता। महद्भिः सह सर्वखविनाशे कारणत्रयम् ॥३३॥ इत्युक्त्वा विरते तस्मिन् , भट्टोऽभाषिष्ट तम्प्रति । वणिकपुत्रतयावज्ञां, माकार्षीन्मत्रिणोस्तयोः ॥३४॥ सन्मार्गदर्शनायैव, सर्वेषां हि महीभुजाम् । पुष्पदन्ताविवोत्तीर्णी, पृथिव्यां तौ पृथुप्रभौ ॥३५॥ दन्धिा धरणीनाथाः, कथं यान्तु नयाध्वनि । यदि न स्युगुणाधारा, मत्रिदीपाः प्रभामयाः॥३६॥ आम्रदेवो न किं राजन् , श्रीमानुदयनाङ्गजः । मत्री कुमारपालस्य, वणिग्मात्रोऽपि विक्रमी ॥३७॥ मल्लिकार्जुनराजेन्द्र, राजराजिपितामहम् । निर्जित्य साहसी युद्धे, वेश्मसर्वखमग्रहीत् ॥३८॥ युग्मम् ॥ घुघुलोऽप्येतदाकर्ण्य, कोपताम्राननो जगौ । वणिग्भ्यां युद्धमाधातुं, लज्जते मे भुजो जयी ॥३९॥ को मे पूरयितास्ति शंस समरे दोर्दण्डकण्डूरसं, खड्गाखङ्गिकलासु कौशलमिदं को वाथ मे विन्दति । एते प्रौढनरेन्द्रसान्द्रसमरारंभैकहेवाकिनो, लज्जन्ते मम बाहवो हि विजयोत्साहे वणिक्पुत्रयोः ॥४०॥ तथापि सत्त्वरं गत्वा, तौ प्रेषय दुराशयो।
Page #70
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।।
RESH 21-2248381
॥२८॥
824638-3928-362*1-24
विश्वेषां भुजमाहात्म्यमाहवो हि वदिष्यति ॥४१॥ इत्युदीर्य स सन्तोष्य, स्वर्णश्रेणिप्रदानतः। प्रेषितो घूघुलेनाख्यद्गत्वा सर्व खम- तीयः | त्रिणोः ॥४२॥ अथ गोधाधिपः प्रैषीत् , श्रीवीरधवलान्तिके । तस्यैवानुपदं भट्ट, शूरदेवाभिधं हठी ॥४३॥ आगत्य सोऽपि भूपाल- प्रस्तावः ।
भाललालितशासनम् । मत्रिराजोभयीराजमानपार्श्व महौजसम् ॥४४॥ निरीक्ष्य क्षणदाधीशवंशमुक्तामणिं नृपम् । आशीर्वादमिति |* | साह, विस्मयानन्दमेदुरः ॥४५॥ युक्तो जेतल्लदेव्या सकलमपि कलाकोशमुल्लासयन्त्या, राज्यं निष्कण्टकोर्वीभरमुपनयता वस्तुपालेन साकम् । तेजःपालेन च श्रीकरणपरिणतप्रातिभेनानुयातो, धत्तां चौलुक्यदेवः क्षितिवलयमयं यावदम्भोजिनीशः ॥४६॥ श्रीवीरधवलाधीश, भवता रविनन्दनः । साक्षात्कृतः कृतिवाते, त्यागलीलायितैः कलौ ॥४७॥ ततोऽवादीन्महीनाथमर्थिसार्थाग्रणीरिति । | अंतःपुरपदे शेषं, कुर्वता नृपपेटकम् ॥४८|| शाटिका कजलस्थानकञ्चुकाभ्यां समन्विता । प्राभृतं भवतश्चक्रे, गोध्रोर्वीचक्रवर्तिना ।। | ॥४९॥ युग्मम् ॥ सभ्या दृग्गोचरीकृत्य, प्राभृतं तन्नृपावली । विस्मिता विकलीभावं, तस्यामन्यत मन्युभृत् ॥५०॥ स्मितपीयूषसं-ale सिक्तां, संसदं सकलां सृजन् । गिरं विस्तारयामास, तदा चौलुक्यचन्द्रमाः ॥५१॥ प्राभृतं युक्तमेवैतद्भवतो भूभृता कृतम् । निजवंशोचिताचारं, साक्षात्सूचयता सता ॥५२॥ निर्माय मत्रिणा कोशागारे तद्भूभृताज्ञया। आनन्द्य दानमानाभ्यां विसृष्टो भट्टपुङ्गवः ॥५३।। भूपतेर्मितभापित्वं, पर्षदश्च नयस्थितिम् । ज्ञात्वा चमत्कृतवान्तो, गत्वाख्यत्सोऽपि तत्प्रभोः ॥५४॥ युग्मम् ॥ ___ अथ चौलुक्यभूपालश्चिन्ताचांतमना मनाक् । उच्छेत्तुं घूघुल भूमेरघसङ्घमिवोत्कटम् ॥५५॥ सिंहासनमलङ्कृत्य, पूर्वाद्रिमिव ॥२८॥ चन्द्रमाः । मत्रिभ्यां गुरुकाव्याभ्यां, विराजन् पार्श्वयोर्द्वयोः ॥५६॥ परःशतैः सदाचारैर्भास्वद्भिपसनुभिः। संश्रितः सर्वतस्तारैरिव विश्रुतविक्रमः ॥५७॥ नानादेशसमायातैरुन्नतैः कविकुञ्जरैः । गीयमानगुणग्रामश्चकोरैखि सस्पृहैः ॥५८॥ मुञ्जविक्रमभोजादिभृभुजां |
Page #71
--------------------------------------------------------------------------
________________
भुजशालिनान् । पण्डिताखण्डलैः श्राव्यमानो दानाद्भुतानि च ॥५९॥ अथ सर्वेषु पश्यत्सु, तेष्वसौ स्वयमब्रवीत् । गोध्राधिपति| युद्धाय, बीटकं को ग्रहीष्यति ॥६०॥ षभिः कुलकम् । यदा न कोऽपि भूपालस्तद् गृह्णाति चिरादपि । अधःकृतमुखाम्भोजो लज्जया | सजयाधिकम् ॥६१॥ तदा दत्तद्विषत्कम्पस्तदादत्त भुजोद्धतः। तेजःपालो निजज्येष्ठसोदरानुमतेः क्षणात् ॥६२॥ तस्य प्रसादमाधाय, पञ्चाङ्गं प्रीणितोऽधिकम् । श्रीवीरधवलोऽवादीत्तदैवं निजसंसदि ॥६३॥ निष्कन्दामरविन्दिनी स्थपुटितोद्देशां कुसेरुस्थली, जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां प्रलयार्णवोर्मिसलिलैराप्लावितायामिय, यस्या एव शिशोः स्थिता विपदि भूः, |सा पुत्रिणी पोत्रिणी ॥६४॥ विचार्य राज्यकार्याणि, ततोय॑मसमप्रभः। स्वावासमाययौ मन्त्री, निजानुजविराजितः॥६५॥ अथ | प्रयाणसामग्र्यै, नियोज्य निजबाहुजान् । कल्याणविधिना स्नानं, विधाय तनुशुद्धये ॥६६॥ प्रावृत्य धौतवासांसि, यशांसीव सुसंवृतौ । उल्लसद्भक्तिसंयुक्तौ, रत्नाभरणभूषितौ ॥६७॥ रचयामासतुर्वेश्मदेवतावसरेऽनघे । पूजामष्टविधां मन्त्रिपुङ्गवौ श्रीजिनेशितुः ॥ ॥६८॥ त्रिभिर्विशेषकम् । ततस्तौ मुदितवान्ती, राजन्यशतसंयुतौ। इन्द्रोपेन्द्राविवोन्निद्रप्रभाप्राग्भारभासुरौ ॥६९॥ ब्रजन्तौ पादचारेण, सदाचारधुरन्धरौ । आगत्य श्रीजिनागारं, पुरालङ्कारसोदरम् ॥७०।। अङ्गाग्रभावसद्भेदविधिवत् त्रिविधार्चनाम् । चक्रतुः शक्र| पूज्यानां, बिम्बानां क्षीणकर्मणाम् ॥७१।। त्रिभिर्विशेषकम् । कर्पूरपरवरकेसरचन्दनाः , पुष्पैः सुवर्णशुचिचम्पककेतकाद्यैः। सर्वेषु | देवभवनेषु ततो विधाय, पूजा(मम्) प्रभोनिजजनुः सफलं व्यधत्ताम् ।।७२।। ततः स्तुत्वा जगन्नाथं पाथोनाथं पृथुश्रियाम् । यथाकामं | सदाऽऽनंद्य, दानैरथिंपरम्पराम् ॥७३॥ आगत्य धर्मशालायां, गुरून् कल्पतरूनिव । असेविष्ट नमस्कृत्य, विशिष्टेष्टफलप्रदान् ॥७४॥ * गुरवोऽपि तयोरेवं, विदधुर्धर्मदेशनाम् । भवाटवीभवानन्ततापनिर्वापणप्रपाम् ॥७५॥ स्वर्गस्तस्य गृहाङ्गणे सहचरी साम्राज्यलक्ष्मीः
Page #72
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
तृतीयः प्रस्तावः।
॥२९॥
शुभा, सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि ॥ संसारः सुतरः शिवं करतलकोडे लुठत्यंजसा, यः श्रद्धाभरभाजनं जिनचरितम् ।। पतेः पूजां सृजत्यादृतः ॥७६॥ गन्धेर्माल्यैर्विनिर्यबहुलपरिमलैरक्षतेधूपदीपैनैवेद्यैः प्राज्यभेदैरतिरुचिरतरैः पाकपूतैः फलैश्च । अम्भः
सम्पूर्णपात्रैस्त्रिजगदधिपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते ॥७७॥ वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कतिः, पुष्पैः पूज्यपदं सुगन्धितनुता गन्धैर्जिने पूजिते । दीपैनिमनावृतं निरुपमा भोगरत्नादिमिः, सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ।।७८॥ पुष्पैरप्यर्हतां पूजा, रचिता रुचिपूर्वकम् । दत्तेऽत्रैव भवे राज्यं, सुन्दरश्रेष्ठिसुनुवत् ॥७९॥ तथाहि भरतक्षेत्रे, धरणीतिलकोपमे । धरणीतिलकाहाने, पुरे पौरमनोहरे ॥८०॥ शशीव सुन्दरः श्रेष्ठी, सद्वृत्तः सकलोऽभवत् ।
धनधर्मवतां मान्यो, वदान्योत्तममण्डनम् ।।८।। तस्यासीत्सुन्दरी नाम्ना, प्रिया सर्वाङ्गसुन्दरी । विशुद्धशीलमाणिक्यमाणिक्याचल-* * चूलिका ॥८२॥ प्राच्यपुण्यानुभावेन, समं दयितया तया । सुखसागरमग्नस्य, तस्य कालोऽगमद् बहु ॥८३॥ श्रियो गेहे प्रभा देहे,* मनोज्ञजनसङ्गमः । अनङ्गभोगसंयोगः, प्राचीनसुकृतोदयात् ॥८४॥ यतः
भोज्यं भोजनशक्तिश्च, नरशक्तिर्वरस्त्रियः। विभवो दानशक्तिश्च, विशुद्धतपसः फलम् ॥८५॥ बभार सान्यदा गर्भ, रत्नगर्भव | सनिधिम् । मनाग् सक्लिष्टकर्माणं, पूर्व पश्चान्महोदयम् ।।८६॥ व्यपद्यताथ शूलेन, तस्मिन् गर्भगते पिता । जन्मनस्तु पुनर्माता,
| विषमा कर्मणां गतिः ॥८७॥ क्रमेण सम्पदो नेशुः, कुलटा(कुलेन सह) इव तत्क्षणात् । किं स्फुरन्ति चिरं व्योनि,रवावस्तं गतेऽशवः ।। On८८|| कुलं कला बलं लीला, लावण्यं मानिता तथा। नित्यं यामनुवर्तन्ते, लक्ष्मीः सैवात्र देवता ॥८९॥ प्राग्पुण्यात्वजनैरेव, Jell पालितो वृद्धिमाप सः। दुर्गतः कुलपुत्रश्चेत्यभिधामुद्बहन (द्वयवान्) भुवि ।।९०॥ यतः-यस्य त्राता भवेद्धर्मस्वाता सर्वोऽपि तस्य
॥२९॥
Page #73
--------------------------------------------------------------------------
________________
*10286028ASHA
| हि(तस्य त्राता भवेज्जनः)। यस्य त्राता न (धर्मोऽस्ति) हि धर्मस्तस्य त्राता न कोऽपि हि ॥९१शा क्रमेण यौवनं प्राप्तः, कलाविज्ञान
वानपि । न मानं लभते क्वापि, स पुनः सम्पदं विना ॥९॥ उत्तमा मानमिच्छन्तीत्यादिश्लोकं स्मरन् हृदि । विहाय खजनस्थानं, | पापस्थानमिवात्मनः ॥९३॥ इयं श्रीदाधिपेत्यन्तालोदीच्यां व्रजन् क्रमात् । जगाम शालिनामानं, ग्रामं सद्राममण्डितम्(मण्डनम्)। ॥९४॥ मालाकारेण तत्रासीदानन्देन समं पुनः। प्रीतिः स्फीतिमती तस्य, तिष्ठतः पुष्पकानने ॥९५।। अवचित्य सुमान्येषः, तुर्यभागेन सर्वदा । स्ववृत्तिमतनोत्तत्र, किश्चिद्रव्यार्जनात्किल ॥९६॥ अन्येयुः कानने तस्मिन् , मुनिः कोऽपि कृपार्णवः । प्रपन्नप्रतिमो | मूर्चपुण्यराशिरिवागमत् ।।९७।। कुलपुत्रः पवित्राङ्गं, तं निरीक्ष्य मुनीश्वरम् । हृष्टः कोक इवादित्यं, सन्मार्गस्थितिदर्शकम् ॥९८॥ | ततः प्रदक्षिणीकृत्य, स ननाम यतीश्वरम् । उच्चैःपदं पुनश्चित्रं, लेभे प्रौढोदयान्वितम् ॥१९॥ ततो विज्ञपयामास, स यति रचिताअलिः । मनुजत्वे समानेऽपि, पाणिपादादिभिः प्रभो! ॥१०॥भूपभृत्यसुधीमूर्खनिःस्वेश्वरव्यवस्थितिः । देहिनां हेतुना येन, तं मे नाथ निवेदय ॥१॥ मुनिः स्माह महाभाग्य, विश्वे निःशेषवस्तुषु । निदानभेदतः कार्यभेदस्तत्त्वविदो मतः ॥२॥ निदानं प्राक्तनं कर्म, सर्वेषां सुखदुःखयोः । शुभाशुभप्रकाराभ्यां, द्विविधं तनिवेदितम् ।।३॥ मिथ्यात्वं विषयासक्तिः, प्रमादाविरती तथा । ध्यान| मार्त च रौद्रं चेत्यशुभार्जनहेतवः ॥४॥ यतः कर्मविपाके-नृशंसा नास्तिकाः पापाः, परद्रव्यापहारिणः । द्यूतमद्यादिसंसक्ता, मूर्खाः
पापरताः सदा ॥५॥ हिंसकाः सर्वजीवानां, ये नरा धृतमत्सराः। ते सर्वे क्रमशो राजन् , दुःखिताः स्युभवान्तरे ॥६॥ शमसंवेग* वैराग्यसमतार्जवसंयमाः। दयाहद्गुरुभक्तिश्च, हेतवः शुभकर्मणाम् ।।७॥ यतः-दीनानुकम्पनं पात्रदानं संसारमीरुता। प्रमादहानं
सद्भावार्पणं क्षान्त्यादयोऽपि च ॥८॥
*48
-*-*48
*-*
Page #74
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः।
श्रीवस्तुपाला
दर्शने धार्मिकाणां च, सम्भ्रमः स्वागतक्रिया। आश्रवः शुभनाम्नोऽथ, कथितो ज्ञानदृष्टिमिः॥९॥ भवे प्राच्ये त्वयाऽकारि, चरितम् । शुद्धधर्मविधायिना । अन्येषां वचसा किश्चिद्देवपूजान्तरायकम् ॥१०॥ तत्कर्मोदयतो भद्र,दुःखितोऽभूद्भवानिह । अतः परं समासाद्य,
श्राद्धधर्ममनुत्तरम् ॥११॥ यथाशक्ति विधातव्या, भक्तिः श्रीजिनपुङ्गवे । येन सौख्यं भवेदत्र, भवतो भवतोयधौ ॥१२॥ युग्मम् ॥ ॥३०॥
इति श्रुत्वा मुनेः पार्थे,श्राद्धधर्ममशिश्रियत् । दुर्गतो गतमिथ्यात्वः सम्यक्त्वेन विभूषितम् ॥१३॥ अवादीत्स मुनिर्भद्र, श्राद्धधर्मसुरद्रुमः । सम्यग्दर्शनमूलाढ्यः, सदा तस्य फलप्रदः ॥१४॥ भक्तिः शक्त्यनुसारेण, यस्याईति गरीयसी । सा पुनर्द्विविधा ख्याता, द्रव्यभावविभेदतः ॥१५॥ आद्यायामादरस्तत्र, न्यक्षेण गृहमेधिनाम् । युज्यते यदियं कल्पलतेवाभीष्टदायिनी ॥१६॥ एकमेव नमस्कार, कुरुते भक्तितोऽर्हताम् । सोऽपि दुष्कर्मणां राशि, निरस्यात्र सुखी भवेत् ॥१७॥ यः पुनः श्रीमदर्हन्तमर्चति स्तौति नित्यशः। | नमस्यति च कस्तस्य, पुण्यपारं प्रयात्यहो ॥१८॥ यतः-एकैव हि जिनपूजा, दुर्गतिगमनं नृणां निवारयति । प्रापयति श्रियममलामासक्त(मामुक्तेभक्तितो विहिता ॥१९॥ मनोवाकायवस्त्रार्चा(स्त्रोर्वी)पूजोपकरणस्थितौ । शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे ॥ ॥२०॥ द्रव्यभावमयीं शुद्धि, विना यो जिनमर्चति । स भवेन्नृपति-नजातौ देवोऽथ निष्प्रभः ॥२१॥ यथा यथा प्रशस्तानां, वस्तूनां मेलनादरः। तथा तथा भजेद्भावो, विवृद्धि जिनपूजने ॥२२॥ पूजोपयोगिवस्तूनां, सौन्दर्यातिशयो भवेत् । परेषां बोधिलाभाय, शासनोन्नतये तथा ॥२३॥ यतः-अहो भत्ति अहो राओ, अहो एअस्स आयरो । तिलोअनाहपूआए, पुनवन्तस्स पइदिणं ॥२४॥ धन्ना एअस्स रिद्धिओ, धन्ना वाऽयं परिस्समो । धन्नो परिअणो सयलो, जो एवमणुवत्तइ ।।२५।। एवं पसंसं पकुणन्तयाणं, अणेगसत्ताण दुहाहयाणम् । सम्मत्तरुक्खस्स महाफलस्स, तेसिं तु सो चेव य कारणं तु ॥२६॥ निशम्येति मुनेः पार्श्वे, स शिश्रा
॥३०॥
Page #75
--------------------------------------------------------------------------
________________
येत्यभिग्रहम् । अध्ययैव जिन शक्या, मया भोक्तव्यमन्वहम् ॥२७॥ वार्चयमं नमस्कृत्य, स जगाम निजं पदम् । व्यहाषींद्यतिरन्यत्र, निःसङ्गा मुनयो यतः ॥२८॥ सर्वात्मना शुचीभूय, ततोऽसौ कुसुमैनिजैः । श्रीजिनं पूजयामास, प्रत्यहं भक्तिसङ्गतः ॥२९॥ | कदाचित्कुरुते नृत्य, गुणगानमनोहरम् । कदाचिन्निवृतीभूय, ध्यायत्यन्तर्जिनेश्वरम् ॥३०॥ कदाचिद्विधिपूतात्मा, सृजत्यारात्रिको
त्सवम् । कदाचित्पठति स्तोत्रं, पमित्रं पुरतोऽर्हतः ॥३१॥ एवं पूजानुभावेन, क्षयेणाशुभकर्मणाम् । वर्द्धमानश्रियस्तस्य, साधुवादो| ऽभवजने ॥३२॥ वणिजा सोमदत्तेन, तस्य प्रीतिरभूत्सह । विमुच्य मालिकस्थानं, ततस्तस्थौ स तद्गृहे ॥३३॥ विक्रय धान्यराशीनां, तदादेशात्सृजत्यसौ । तत्रापि तुर्यभागेन, व्यवसायविदग्रणीः ॥३४॥ सोऽक्षतैः कुसुमैनित्यं, महत्यर्हन्तमादरात् । खभुक्तिमध्याच्छुद्धात्मा, पात्रदानं तनोत्यसौ ॥३५।। कृत्वान्यदाईतः पूजा, गृहीत्वा मुद्गपोट्टलम् । सोऽचलाख्यपुरे गच्छन् , विशश्राम तरोरधः ॥३६॥ तत्पुण्यप्रेरितस्तत्र, सिद्धपुत्रः पवित्रधीः। आययौ पुस्तिकापाणिव्रजन् ग्रामान्तरे क्वचित् ॥३७॥ विनयं विभ्रता* तेन, नतेन श्रेष्ठिमनुना । पुस्तिकायां किमस्तीति, प्रोचे सिद्धसुतस्तदा ॥३८॥ निमित्तशकुनादीनां, शुभाशुभविचारणा | अस्त्यस्यां | मुनिभिः प्रोच्चैः, (प्राच्यैः) प्रणि(णी)तेत्ययमूचिवान् ॥३९॥ बभाषे दुर्गतोऽप्येवं, कीदृशाः शकुनाः शुभाः। किं स्मृतं च फलं | तेषां विद्वन्मह्यं निवेदय ॥४०॥ A सिद्धसूनुस्ततः प्रोचे, तत्र पूर्व क्षुतः फलम् । यतः शकुनशास्त्रेषु, फलं तस्याः स्मृतं बदः ॥४१॥ (आदौ क्षुतं चेत् शकुनैस्ततः
किं, पश्चाक्षुतं चेत् शकुनैस्ततः किम् । जातानजातान् शकुनानिहन्ति, क्षुतं क्षणेनात्र न संशयोऽस्ति ॥४२॥) पुत्वदिसा धुव लाभो, की जलणे हाणी जमालए मरणम् । नेरइए उव्हं, पच्छिमे सबसम्पत्ति ॥४३॥ ततो दुर्गाफलं प्रोचे, सिद्धपुत्रस्तदग्रतः । वामदक्षिणभागेन,
**488-8-48-2-24882-8-2483-8- *18-2-848888
Page #76
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
जायते यत् शुभाशुभम् ॥४४॥ निग्गमे सोहणा वामा, पवेसे दाहिणा सुहा। सलिमलिकरा वामा, नरो नेहिं पाविहि तृतीयः चरितम् । *॥४५॥ लाभदश्चिलिचिलीतिनिनादः, शूलिशूलिनिनदोऽपि तथैव । कूजिकूजि इति चापि जलार्थे व्याहृतौ विकुविकुरवयुक्तः प्रस्तावः ।
| ॥४६॥ कष्टदश्चिरिचिरीतिनिनादश्चिकुचिकुरिति दैन्यविधायी। कीतुकीतुरिति यो मधुरोऽसौ, कामवस्तु निनदो विदधाति ।। ॥३१॥
aln४७॥ वामन शब्दं मधुरं विमुञ्चन् , ब्रजख वामन करोति काकः । सर्वार्थसिद्धिं पुनरागमं च, शुभप्रदेशेषु तदन्यरूपः ॥४८॥ * प्रदक्षिणां यः प्रविधाय मार्गे, वामेन काको विनिवर्ततेऽसौ । यातुः करोतीहितकार्यसिद्धिं, क्षेमेण शीघ्रं पुनरागमं च ॥४९॥ इति ।
श्रुबा ननर्तासौ, दुर्गतो मुदितोऽधिकम् । पृष्टश्च सिद्धपुत्रेण, नृत्यहेतुं ततोऽवदत् ॥५०॥ अभूवन शकुना एते, सद्यो मेऽद्य महाशय ।
तेन नृत्याम्यहं हर्षोत्कर्षण(हर्षप्रकर्ष) विवशीकृतः॥५१॥ तमवक् सिद्धसूरेवं यद्यमी शकुनास्तव । जातास्तदाद्य मुद्गानां, लाभो भावी * वचोऽतिगः ॥५२॥ निमित्तमपरं वत्स, सावधानमनाः भृणु । यदयं बलिभुग् वक्ति, सौम्यः क्षीरतरुस्थितः ॥५३॥ पाणौकृत्य |
तमस्त्रिन्यां, राजामात्यसुतायुगम् । प्रभाते लप्स्यसे(वे) नूनं, काश्चनैश्वर्यसम्पदम् ॥५४॥ इत्याकर्ण्य पुनर्हष्टः, पादौ तस्य ननाम सः। विनयः साधनं मुख्य, सर्वकार्येषु देहिनः ॥५५॥ यथास्थानं गते सिद्धपुत्रे तत्रैव स स्थितः । तथैव विदधे नृत्य, यदानन्दवशं जगत् ॥५६॥ यतः-सम्पदि यस्य न हों, विपदि विषादो रणे च धीरखं । तं किल त्रिभुवनतिलकं, जनयति जननी सुतं विरलम् | ॥५७॥ अथाचलपुरस्वामी, विक्रमो वाजिकेलये । तत्रागच्छन् व्यलोकिष्ट, तं तथा नृत्यतत्परम् ।।५८॥ असंस्कृतकलारम्यं, दृष्ट्वा | ॥३१॥ | तन्नृत्यकौतुकम् । अवादीन्मेदिनीनेता, तमेवं विसिताशयः ॥५९॥ केन हेतुना नृत्य, सृजस्येवं तरोरधः । नृपोऽयमिति विज्ञाय, lake सोऽपि स्माह नमन्मुदा ॥६०॥ मुद्गानां पोट्टलो योऽस्ति, ममायं पुरतो महान् । लामो भावी बहुस्तस्य, कन्यायुग्माप्तिसंयुतः ।।६।।
यथास्थानं गते निम् ॥५४॥ इत्या
* ॥१७॥ अथासम्पदि यस्य न हो
Page #77
--------------------------------------------------------------------------
________________
88888864888888888888888888**
ततो राज्यं महाराज, भविता गतसंशयम् । तेन लास्यमयीं लीलां कुर्वेऽहं दुर्गताग्रगः ||६२ || निशम्येति नृपः पुर्यामित्यादेशम | घोषयत् । न मुद्गाः केनचिद् ग्राह्याः, पञ्चाहं दुर्गतार्पिताः ||६३|| मुद्गान् विक्रेतुकामोऽथ, पुरस्यांतः स जग्मिवान् । नानाविधापणश्रेण्यां बभ्राम च दिनावधि ॥ ६४ ॥ आस्तां लाभः परं मुद्गविक्रयोऽपि न चाजनि । राजन्येऽननुकूले हि, सुखाप्तिः कस्य जायते ॥ ||| ६५ ॥ ततः खिन्नमनाः किश्चिद् द्विधा मुद्गाहितोऽप्ययम् । मश्रीश्वरगृहासने, जगाम सुरसद्मनि ||६६ || तत्र कृखा जिनेन्द्राणां स्तोत्रपाठं शठेतरः । यावत् सुष्वाप निष्पापः, स नमस्कारजापतः ||६७ || तावत्तत्र जगनेत्रानन्दना मत्रिनन्दना । अनुरक्ता चिरं | पाणिग्रहं कर्तुं समुत्सुका ॥ ६८ ॥ दूतीमुखेन संकेतं, निर्माय खसखीयुता । विवाहोचितवस्तूनि दधती पाणिपंकजे ॥ ६९ ॥ त्रिभिर्विशेषकम् । आगमत्मत्रिणः पुत्री, भाग्यसौभाग्यमञ्जरी । सौभाग्यमञ्जरी नाम्ना, धाम सर्वगुणश्रियः ॥ ७० ॥ रत्नाभरणदीधित्या, सर्वतो दीप्यमानया । उद्योतितसुरागारा, सा मन्त्रीश्वरकन्यका ॥ ७१ ॥ तं विलोक्य सदाकारं, प्रसुप्तं तत्र निद्रया । कन्दर्पदर्प सर्वखं, हरन्तं रूपसम्पदा ||७२|| सङ्केतितवरप्राप्तिभ्रान्त्या मुदितमानसा । मदनाख्यं फलं तस्य स्राम्बबन्ध कराम्बुजे ||७३ || त्रिभिर्विशेषकम् ॥ उत्थाप्य मृदुभिर्वाक्यैस्ततस्तं मत्रिणः सुता । आलिम्पतान्तरप्रीत्या (आलिलेपान्तरप्रीत्या), कुङ्कुमैश्चन्दनैस्तथा ॥ ७४ ॥ गन्धर्वविधिना पाणौकृत्य तं यक्षसाक्षिकम् । सौभाग्यमञ्जरी कन्या, धन्यंमन्या जहर्ष सा ||७५ || दुर्गतोऽपि मुदोत्थाय, सिद्धवाचं स्मरनिमाम् । मौनवान् संस्थितश्रोज्झेदागच्छन्तीं (नुदवाहोज्झदागच्छन्तीं श्रियं हि कः ॥ ७६ ॥ तस्मिन्नवसरेऽवादीत्, सखी मत्रित - | नूद्भवाम् । पूर्णा मनोरथाः खामिन्नद्य ते पुण्ययोगतः ॥७७॥ अतः परं भवत्कर्म, यत्करिष्यति सुन्दरि । तद्भविष्यत्यसन्देहं, तद्यावो | गृहमञ्जसा ||७८|| नैमित्तिकवचः किञ्चिजानश्चवितथं हृदि । एवमेतद् ध्रुवं भद्रे, दुर्गतोऽप्यूचिवानिति ॥७९॥ अनी डग्शब्दमाधुर्य,
X€3% $833% 8888888888
Page #78
--------------------------------------------------------------------------
________________
चरितम् ।
तृतीयः प्रस्तावः।
श्रीवस्तुपालाक ज्ञाना धीसखपुत्रिका । अमिनोद्योतमाधाय, तं जवेन व्यलोकयत ॥८॥ दुर्गतं तं तथारूपं निरूप्य चकिता सती । सत्वरं खगृहं |
*गत्वा, सखीहस्तावलम्बिनी ॥८१।। निजायां सुखशय्यायां, निद्रामुद्रितलोचना । तादृग्वेषविशेषेण, भूषिता स्वपितिस्म सा ॥२॥
निदध्यौ मुदितखान्तः, सुप्तोऽयं दुर्गतो हृदि । अहो निमित्त विज्ञान, सिद्धपुत्रस्य कीदृशम् ॥८॥ कथं द्वितीयकन्याया, अपि ॥३२॥ (भावि) पाणिग्रहो मम । अथवाचिन्त्यमाहात्म्यो, धर्मः सर्वज्ञभाषितः॥८४॥ इत्यानन्दाकुलखान्तो, दुर्गतो निद्रयोज्झितः।
धीनिधिविदधे जापमिति पञ्चनमस्कृतेः ॥८५।। तथाहि-समारोप्याईतः शीर्षे, शारदेन्दुसमद्युतः । सिद्धान् विशुद्धगुर्धिधाम्नः | स्ववदनाम्बुजे ॥८६॥ आचार्यान् वर्यगाङ्गेयगौरान् सर्वाङ्गसङ्गिनः । वाचकांश्च कराम्भोजे, नीलाम्भोजविराजिनः ॥८७॥ साधून विश्वत्रयीबन्धून् , पादपो घनद्युतीन् । स ध्यायंस्तन्मयीभावं, क्षणं लेने समाधिमान् ॥८८॥ ततस्तअपमाहात्म्यादाकृष्टस्तद्गृहा
धिपः। यक्षः प्रत्यक्षतां प्राप्य, तमाचख्यौ प्रसनहृद् ॥८९॥ एकाक्यपि निशीथिन्यां, स्वेच्छया वत्स निर्भयः । भ्रमन्नस्य पुर* स्यान्तर्मदीयादेशतो भवान् ॥१०॥ परिणीय नरेन्द्रस्य, कन्यां धन्याङ्गसम्पदम् । पश्चादागत्य गेहेच, स्वापं भजतु लीलया ॥११॥
वाचं सुधामुचं साक्षाधक्षराजाननोद्भवाम् । मनोभिनन्दिनीं श्रुत्वा, जहर्ष कुलपुत्रकः ॥१२॥ ततोऽसौ भक्तिसंयुक्तस्तं नमस्कृत्य कृत्यवित् । बभ्राम कौतुकी स्वैरं, मध्ये पुरमितस्ततः ॥९३।। इतश्च विक्रमोर्वीभृत्कन्या रम्याङ्गदीधितिः । अनङ्गसुन्दरी नाम्ना, धाना तु सुरसुन्दरी ॥१४॥ नवीनयौवनोन्मादामोदमोदितमेदिनी । सर्वाङ्गीणगुणोल्लासलीलानिलयसन्निभा ॥९५।। युग्मम् ॥ अनुरक्तानिश वीरसिंहभूपतिनन्दने । शृङ्गारसुन्दराहाने, शृङ्गाररससागरे ॥१६॥ तस्यामेव हि यामिन्यां, सङ्केतं सङ्गमोत्सुका । सख्या निर्माय निर्माय, पाणिग्रहणहेतवे ॥९७॥ निजावासगवाक्षस्याधस्तात्सा किल निर्ममे । लम्बमानं दृढं रज्जुयत्रं निःश्रेणिकोपमम् ॥
R838-69
॥३२॥
Page #79
--------------------------------------------------------------------------
________________
॥९८॥ कुतश्चित्कारणाद्राजसूनुय॒नशुभस्तदा । सोत्कण्ठया तया दृश्यमानमार्गोऽपि नागमत् ।।९९॥ अथ देवाद्भमंस्तत्र, सम्प्राप्तः
सुन्दरात्मजः । तादृशं यत्रमालोक्य, कौतुकात्तमचालयत् ॥२००|| शृङ्गारसुन्दरभ्रान्त्या, सा विक्रमनृपात्मजा । तेन यत्रप्रयोगेणो* परिष्टात्तमनीनयत् ॥१॥ सामग्री प्रगुणीकृत्य, गान्धर्वविधिना ततः। वेगेन दुर्गतं पाणी, चक्रे भूवासवाङ्गजा ॥२॥ सखी चन्द्रानना ool
स्माह, तां तदा मुदितानना । मनोरथतरुः स्वामिन्यद्य तेऽभूत्फलेग्रहिः ॥३॥ अग्रतो भवतीकर्म, प्रमाणं प्राक्तनं पुनः । एवमेवेति तुष्टात्मा, दुर्गतोऽप्यूचिवांस्तदा ॥माधुर्य तद्ध्वनेः पीखा क्षारवारिवदुल्वणम् । अब्जिनीव द्रुतं जज्ञे, सा म्लानमुखपङ्कजा॥५॥ | राजपुत्री चिरं दध्यौ, प्रदीपेन निरीक्ष्य तम् । वर्त्मनाऽमोचयत्तेन, ततोऽधस्तं महाधिभृत् ॥६॥ दुर्गतोऽपि ततः प्राप्य, तमेव त्रिदशालयम् । यक्षराजं नमस्कृत्य, स्मरतिस्म नमस्कृतिम् ॥७॥ निद्रासुखं पुनर्भेजे, निश्चिन्तोऽथ वणिक्सुतः । तातस्येव शिरो न्यस्यो. त्सङ्गे तस्य सुपर्वणः ॥८॥ ____ अथोदयाद्रिमारूढे, मण्डले कर्मसाक्षिणः । सुतास्वरूपमालोक्य, तादृग्मत्रिसधर्मिणी ॥९।। पत्ये निवेदयामास, सचिवाय | सविस्मया । अत्याकुलमनाः सोऽपि, तद् भूपाय न्यवेदयत् ॥१०॥ तन्निशम्य क्षमास्वामी, नानाविध(नल्प)विकल्पवान् । स्वरूपं निजकन्याया, अप्यस्सै मत्रिणेऽवदत् ॥११॥ ततस्तौ विस्मयवन्तौ(विस्मयाचान्तौ), विचारमिति चक्रतुः । कश्चिद्वरयिता नूनं, विद्या |
वान् घटतेऽनयोः ॥१२।। अभव्यमथवा भव्यं, जातमस्त्यनयोरिति । न ज्ञायतेऽथवा जन्तोदुलध्या भवितव्यता ॥१३॥ इति ज्ञाखा | * नृपामात्यौ, क्षमोपेतो मुनी इव । शुद्धोञ्छमिव यत्नेन, ते व्यलोकयतां वरम् ॥१४॥ ततोऽभितस्तदादेशात्पश्यन्तो राजपूरुषाः ।।
रत्नाकर इव प्राप्ताः, केचित्तत्र सुरालये ॥१५॥ चिन्तारत्नमिवानध्य, विश्रान्तं सुखनिद्रया। उत्थाप्य सममादायाऽदर्शयन्नृपम
Page #80
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः।
श्रीवस्तुपाला
|त्रिणोः ॥१६॥ नृपोऽपि तं तदालोक्य, सामान्याकारधारिणम् । नवीनोद्वाहसद्वेषसंश्लेषसुषमाजुषम् ॥१७॥ अभाषिष्टेति रुष्टात्मा, चरितम् । * कोपा(ताम्र)त्ताम्रमुखद्युतिः। सामन्तश्रेष्ठिमुख्येषु, भृण्वत्सु निखिलेष्वपि ॥१८॥ कस्वं रे कस्य पुत्रस्त्वं, क वास्तव्योऽसि दुर्विध ।
| राजमत्रिसुतोद्वाहं, कुतस्त्वं कृतवांस्तथा ॥१९॥ प्रणम्य प्राञ्जलिः प्रोचे, नृश्रेष्ठं श्रेष्टिनन्दनः । विजिज्ञपयिषुः स्वस्थ, जात्यादि विन॥३३॥
| यान्वितः ॥२०॥ वणिगस्मि विभो सूनुः, सुन्दरव्यवहारिणः । निवासी साम्प्रतं शालिग्रामे सर्वज्ञधर्मवित् ॥२१॥ मुद्दान् विक्रेतुमा| यातः, पुरेऽस्मिन् दुर्गताभिधः। तद्विक्रयाद्यभावेन, रात्री देवकुलेऽवसम् ।।२२।। त्रिभिर्विशेषकम् ।। रंहसा सुप्तमुत्थाप्य, कुमारी परिणीय माम् । रात्रौ तत्रागता काचिन्निजस्थानं द्रुतं गता ॥२३॥ ततो भ्रमन् पुरस्यान्तः, कयाचिद्दिव्य कन्यया । आदाय यन्त्रयोगेन, स्वकीये वरवेश्मनि ॥२४॥ गान्धर्वविधिना हस्तेकृत्य सत्कृत्य सज्जया। मुक्तो देवगृहं प्राप्य, निद्रासुखमशिश्रियम् ॥२५॥ जिना निश्चयोद्भूतसुकृतोदयसङ्गतः(सद्भूतसुकृतोदयात् )। नैमित्तिकवचो जज्ञे, सत्यं मे शकुनैः सह ।।२६।। ततः प्रातर्जनेरत्रा. नीतोऽहं राजसंसदि । इदं पुनर्महत्पुण्यं, यत्त्वं दृष्टोऽसि भूपतिः ॥२७॥ यतः-महातीर्थ महौषध्यो, महीनाथा मुनीश्वराः। अल्पभाग्यवतां पुंसां, प्रायो दुर्लभदर्शनाः ॥२८।। इत्युक्तं तेन भूनेता, श्रुत्वा दृष्ट्वा च तं तदा । संस्मरन् प्राक्तनीं वाचं, विचारमिति || निर्ममे ॥२९।। स एवायं भवेन्मुद्वणिग् निःस्खशिरोमणिः । यो मया नगरोपान्तेऽदर्शि नृत्यस्तरोरधः ॥३०॥ अहो नैमित्तकस्यो|क्तिरुपश्रुतिरिवाजनि । सत्यैव दुर्गतस्यापि, सत्कर्मोदययोगतः ॥३१॥ ततोऽस्य दुहितुः पत्युः, पीडां कर्तुं न युज्यते । यादृशस्तादृशो यस्माजामाता मान्य एव हि ॥३२॥ आलीवर्गः समाहूतः, पाणिग्रहविधि तयोः । तथैव कथयामास, पुरतो भूपमत्रिणोः॥ | ॥३३।। ज्ञातपूर्वी सुतोदन्तं, मेदिनीदयितस्तदा । सामात्यश्चिन्तयामास, विस्मयाविष्टमानसः॥३४॥ राजमत्रिसुतौ मुक्त्वा, वरौ स्फु
॥३३॥
Page #81
--------------------------------------------------------------------------
________________
रदुरुधुती। आभ्यामूढो विमूढाभ्यां, कन्याभ्यां दुर्गतः कथम् ॥३५।। उपक्रमतरुः पुंसां, महानपि फलेग्रहिः। भवेद्भाग्यानभावेन, | बहुधा निर्मितोऽपि हि ॥३६॥ महत्युपाये कृते नूनं, विना भाग्यं फलं न हि । पीयूषरुचिपानेऽपि, राहो वाङ्गपल्लवाः ॥३७॥ मिलिते लोकलक्षेऽपि, येन लभ्यं लभेत सः। सर्वेङ्गावयवा भूषां, लभन्ते चिबुकं तु न ॥३८॥ विना भाग्यं वरं वस्तु, वृद्धत्वेन न लभ्यते । अन्धेर्मन्थोत्थरत्नेषु, भिक्षवासीत्पितामहे ॥३९।। ततो मत्रिविचारेण, महोत्सवपुरस्सरम् । कन्यायुग्मं ददौ तस्मै, स समं | राज्यसम्पदा ॥४०|| प्रतापं भास्करात्तस्माद्भूभृतः प्राप्य दुर्गतः । तादृग् राज्यकलायुक्तः(राज्यकलां लोके), शशीव शुशुभेऽधिकम् ।। ॥४१॥ राज्यश्रीदीक्षितं वीक्ष्य, तं विवेकी जनोऽखिलः । मेने सविस्मयः सम्यग् , जिनधर्मफलं तदा ॥४२॥ प्रौढे परिवृढादेशात् , स तस्थौ वरवेश्मनि । सर्वोपस्करसम्पन्ने, प्रियाभ्यां संयुतः सुखम् ॥४३॥
भुञ्जानः स सुखं ताभ्यां, प्रियाभ्यां सहितोऽन्वहम् । मीनध्वज इव प्रीतिरतिभ्यां विश्रुतोऽभवत् ॥४४॥ प्राग्भवप्रश्रयोल्लासा- Joke चाहकर्मानुभावतः। प्राणप्रियोऽभवद्भूना, तयोरपि वणिक्सुतः ॥४५॥ गरीयसी क्रमाद् राज्यसम्पदं प्राप्य स प्रभुः। पृथिव्यां पप्रथे पुण्यतेजा इत्यभिधानतः॥४६॥ ततोऽनुभूय भूयिष्ठ, धर्मकल्पतरोः फलम् । अत्रैव त्रासितारातिः, प्रियाम्यां सङ्गतो नृपः॥ |॥४७॥ संविग्नमुनिवत्क्षान्तिदयाभ्यां निर्ममेऽनिशम् । नानाविधानि धाणि, कार्याण्यार्योचितानि सः ॥४८॥ युग्मम् ।। नन्तुं
तमन्यदायातं, भूनेता विस्मितोऽवदत् । भवन्ति भूयसा भद्र, शकुना इदृशोङ्गिनः ॥४९॥ न परं केनचित्प्राप्तं, फलमीदग्विधं पुरा। * यादृशं भवता लेमे, तात्कालिकमनुत्तरम् ॥५०॥ युग्मम् ।। स स्माह नृपतिं नत्वा, नेतनैतत्फलाद्भुतम् । केवलं शकुनोद्भूतं, पारे Fail वाग्वृत्तिवैभवम् ॥५१।। किन्तु सर्वज्ञसद्भक्तिकल्पवल्लया इदं फलम् । विश्वातिशायिमाहात्म्यं, न स्यात्सामान्यवस्तुनः ॥५२॥ विह
Page #82
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः।
श्रीवस्तुपाल |
| गादिनिमित्तानां, तुल्यत्वेऽपि शरीरिणाम् । फलं पुण्यानुसारेण, दृश्यते पृथिवीपते ॥५३॥ क्रमाद्विक्रमभूपाय, तत्वजिज्ञासवेऽधिचरितम् ।
| कम् । विशुद्धं श्राद्धधर्मस्य, स स्वरूपं न्यरूपयत् ॥५४॥ तत्संयोगान्नृपोऽप्यासीत्तत्त्वातत्वविचारभृत् । सलिलं विमलं कुर्याच्चूर्ण |
| कतकर्ज यतः॥५५।। पुण्यतेजा महाराजः, क्रमाद्धर्मानुभावतः। आसीदासीकृतारातिः, प्रीतिस्फाति सृजन् भुवि ॥५६॥ त्रिसन्ध्य॥३४॥ | मर्हतां पूजां, कुर्वन् सर्वातिनाशिनीम् । प्रासादैर्मण्डयामास, सकलं भूमिमण्डलम् ॥५७।। क्रमेण संयमं प्राप्य, देवो भूत्वा महर्द्धिकः ।
विधूयाखिलकर्माणि, स राजा सिद्धिमेष्यति ॥५८॥ इत्यादिदेशनां श्रुत्वा, मुदितौ मत्रिपुङ्गवौ । सर्वासां सम्पदां द्वारं, मन्वानावहतोऽर्चनाम् ॥५९॥ त्रिकालं देवपूजाय, निश्चयं निश्चलं तदा । गृहीत्वा श्रीगुरून्नत्वा, जग्मतुनिजवेश्मनि ॥६०॥ सर्व सुपात्रसात्कृखा(कृत्य), षड्रसैः संस्कृतं कृती। नानादेशसमायातसाधर्मिकसमन्वितः ॥६१॥ समं स्वपरिवारेण, भोजनं सुखभाजनम् । विदधे धीसखः श्रीमान् , प्रीणितार्थिजनवजः ॥६२॥ युग्मम् ॥ यतः-अर्हद्भ्यः प्रथमं निवेद्य सकलं सत्साधुवर्गाय च, प्राप्ताय प्रविभा| गतः सुविधिना दत्त्वा यथाशक्तितः। देशायातसुधर्मचारिभिरसौ साधं स्खकाले स्वयम् । भुञ्जीतेति सुभोजनं.गृहवतां शुद्धं जिन
र्भाषितम् ॥६३॥ अथ चौलुक्यभूपालादेशाद्देशाधिपैर्वृतः। हयानीकगजानीकभटानीकसमन्वितः ॥६४॥ असामान्यतमोद्दामचमृसम्भूतरेणुभिः । निरालम्बपथे कुर्वन् , काश्यपीमपरामिव ॥६५|| अतिप्रौढगजारूढश्चलच्चामरराजितः । स्वकीर्तिमण्डलेनेव, श्वेतछत्रेण | शोभितः॥६६।। तेजःपालो महामात्यः, कृतान्त इव दुस्सहः। चचाल चलितारातिर्गोध्राधिपजिगीषया ।। चतुर्भिः कलापकम् ॥ ___अनिर्विण्णः श्रियो मूलमिति सूक्तं स्मरन् सुधीः । वस्तुपालानुजो मन्त्री, प्रयाणैर्गुरुभिद्रुतम् ॥६८।। महेन्द्रीमापगां तीर्खा, क्रमाद्राम इवाम्बुधिम् । अपूर्वान् वानराधीशान् , यथावत्परितोषयन् ॥६९॥ सजीकृत्य निजं सैन्यमदैन्यं कियदप्यथ । स्वस्वामि
॥३४॥
Page #83
--------------------------------------------------------------------------
________________
384838-84888888888888888888883
I
प्रत्यनीकस्य, राज्ञो नगरसीमनि ॥ ७० ॥ गोश्रेणिहरणाद्यर्थं प्रेषयामास सत्वरम् । स्वयं तस्थौ स्थिरः पश्चात्, पाणिरक्षाविचक्षणः ॥ ॥ ७१ ॥ चतुर्भिः कलापकम् ॥ तद्धंलं कलितोत्साहं, कम्पिताखिलभूतलम् । गोधासीमानमाक्रम्य, वेगेनाक्रन्ददायिभिः ॥७२॥ शरैः | प्राणहरैर्गोपान् युद्ध्यमानान्नृपानिव । जर्जरीकृत्य सर्वाङ्ग, वालयामास गोकुलम् ||७३|| युग्मम् || गोपाला भूमिपालाय, तत्कालं |पुरमागताः । पूच्चक्रुर्निर्मिताक्रोशा, एवं शक्रसमौजसे ||७४ || हियन्ते पाप्मभिः कैश्विद्भावो नावोऽथ वारिधौ । विधूय क्षत्रियाचारं, भवतां पश्यतामपि ।। ७५॥ क्षात्रं धर्म पुरस्कृत्य ततो धावत धावत । क्षत्रियाणां परं पुण्यं, गवां रक्षणमेव यत् ॥ ७६ ॥ इत्याकर्ण्य | क्षणं दध्यौ, क्रोधधूसरिताननः । गर्जन्नूर्जविषु ख्यातो, घूघुलो घनवद्धनम् ॥७७॥ अहो अश्रुतपूर्वं हि गोहरणं श्रूयते कथम् । | वैरिभिः पाद्रमागत्य, मयि जीवति भृभुजि ॥ ७८ ॥ स वै वसुमतीनेता, क्षत्रियापसदः स्मृतः । धेनवः स्वर्धुनीप्राया, हियन्ते यत्र | जीवति ॥ ७९ ॥ यतः - वृत्तिच्छेदविधौ द्विजातिमरणे स्वामिग्रहे गोग्रहे, सम्प्राप्ते शरणे कलत्रहरणे मित्रापदां वारणे । आर्त्तत्राणपरायणैकमनसां येषां न शस्त्रग्रहस्तानालोक्य विलोकितुं मृगयते सूर्योऽपि सूर्यान्तरम् ||८०|| इत्यालोच्य झगित्येव, घृघुलो घोरविक्रमः । वीरमानी महामानी, रणावेश वशंवदः ||८१॥ स्वयं गृहीतसन्नाहस्त्रासयंस्त्रिदशानपि । रौद्रातोद्य महाध्वानै, रोदः कन्दरपूरकैः ॥ ||८|| स्फुरत्प्रक्षरपक्षाभ्यां पक्षिराजमिवोद्धतम् । अश्वरलं समारूढः प्ररूढप्रौढमत्सरः ॥ ८३॥ सारैः परः शतैरश्वारोहैर्नृपतिभिर्वृतः । आयातोऽनुपदं तेषां द्विषतां घेनुहारिणाम् ||८४|| हर्तारोऽपि गवां तस्मै ददते दर्शनं निजम् । परं स्थित्वा न युध्यन्ते, कुत्रचित् | त्रासितारये ॥ ८५ ॥ दृष्ट्वा तान् द्विगुणोत्साहः, साहसी घूघुलेश्वरः । आजुहाव महाबाहुराजये तूर्यनिःखनैः || ८६ ॥ संरम्भन्ते कचि - तेऽपि स्थिखा युद्धाय कैतवात् । कुर्वाणास्तुमुलं भूयो, नश्यन्ति खरितक्रमम् ॥८७॥ एवं ते दम्भसंरम्भात्, खेदयन्तः क्षितीश्वरम् ।
88088888888888888888888888
Page #84
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम् ।
॥३५॥
K9%84888888888832 248333
आनिन्युर्मन्युनाक्रान्तं मत्रिसङ्केतितां भुवम् ॥ ८८ ॥ स्वसीमातिक्रमं सोऽपि, रणरङ्गतरङ्गितः । न विवेद महावीरो, वेदस्यार्थमिव | द्विजः ||८९ || प्रादुरासीदथाकस्माद्भास्वानिव सुदुस्सहः । तेजःपालः क्षमापालैरभितः परिवारितः ॥ ९० ॥ गोधाक्षितिपतिर्वीक्ष्य, | तत्सैन्यं सर्वतः स्फुरत् । छद्येदं मत्रिणो नूनमिति निश्चितवान् हृदि ॥ ९१ ॥ तथापि धीरतां वीरः कृत्खा योद्धुं मदोद्धतान् । स्वभटान् | प्रेरयामास, समं मंत्रिबलेन सः ॥९२॥ अभियोगमसौ पुष्णन्, विशेषादधिकं स्वयम् । ततः प्रहर्तुमारेभे, महसा दुस्सहोऽग्निवत् ।। सेनापि मन्त्रिराजस्य, डढौके योद्धुमुत्कटा । जगत्प्रलयसंसूची, रणारम्भस्ततोऽभवत् ॥९४॥ नाराचैर्दुर्दिनं घोरं, घूघुलेन घनाध्वनि । कुर्वतापि द्विषद्वन्दे, तापश्चक्रे महान हो || ९५ ॥ भग्नं मत्रिवलं तेन, भानुनेव तमोऽखिलम् । पलायिष्ट क्षणादेव, कान्दि| शीकमितस्ततः ||१६|| तेजःपालस्तदा मन्त्री, निर्भीर्वीरवराग्रणीः । धीरो मेरुरिव स्थिता, भीमे सङ्ग्रामसागरे ॥ ९७॥ शुद्धवंशसमुद्भूतान् भूभुजो भुजशालिनः । तटस्थानित्यभाषिष्ट, लज्जादाक्षिण्यधारिणः ||९८ ॥ युग्मम् ।। वृत्रासुर इव क्रूरः, पूरः साहससम्पदाम् । अयमस्ति ततोऽस्माकं सैन्यं नूनमनीनशत् (सुरसेनामिवात्मीयां, सैन्यामयमनीनशत् ) || ९९ ॥ नष्टानां तदितः स्थानादात्मनां का | गतिर्भवेत् । सन्तो न ददते पृष्ठं द्विषां वक्षोऽन्ययोषिताम् ॥ ३००॥ नास्त्यत्र साम्प्रतं कोऽपि शरणं रणसीमनि । तदत्र मरणं युक्तं, | वरणं वा जयश्रियः ॥ १ ॥ त एव क्षत्रियाः श्लाघ्याः, शुद्धपक्षद्वया भुवि । धारातीर्थाभिषिक्ता ये यशश्चन्दनचर्चिताः ॥ २ ॥ | देवभूमिं समासाद्य, मोदन्ते स्वर्वधृवृताः । विश्वातिशायिसौभाग्या, अनृणा निजभूभुजः ||२|| अथवा दुर्दमद्वेषिवपुः शोणितकुङ्कुमैः । भूषिताङ्गा रणरङ्गे, भजन्ते विजयश्रियम् ||४|| यतः - मृतानां स्वामिनः कार्ये, भृत्यानामनिवर्तिनाम् । भवेत्स्वर्गेऽक्षयो वासः, कीर्तिश्च धरणीतले ॥५॥ ज्ञानिनोऽपि ( न यज्वानोपि ) हि गच्छन्ति, तां गतिं नैव योगिनः । यां यान्ति प्रोज्झितप्राणाः, स्वाम्यर्थे सेवको
48888888% %83% *838888% 483
तृतीयः
प्रस्तावः ।
॥३५॥
Page #85
--------------------------------------------------------------------------
________________
॥१०॥ त्रिभिर्विशे
माम्बकां च सुरीश्वरीम् ॥२
खांसयोरुपरि स्थितौ ॥१२
| तमाः ।।६।। तस्माद्वयं तथा कुर्मः, साम्प्रतोचितमादृताः। यथा जगजयी ज्यायान् , गुर्जरेन्द्रो न लजते ॥७॥ धर्मादेव जयः पुंसां,
धर्मादेव गुरुः स्मृतः । इत्यालोच्य स्वयं चित्ते, तदानीं सचिवेश्वरः॥८॥ भक्तामरमहास्तोत्रवृत्तयुग्मं गुरूदितम् । द्विषवृन्दजयश्रीणां, | वशीकरणकार्मणम् ॥९॥ अश्वाधिरूढ एवान्तर्मानसं स्मृतवान् क्षणम् । आपद्यालम्बनं जन्तोर्यद्देवस्तुतिसंस्मृतिः ॥१०॥ त्रिभिर्विशेKaal षकम् ॥ तदनु ध्यानमाहात्म्याकृष्टौ सन्तुष्टमानसौ। कपर्दिनं महायक्षमम्बिकां च सुरीश्वरीम् ॥११॥ तेजःपुञ्जपराभूतादित्यमण्डल| दीधितीम् । ददशैष तदाध्यक्षौ, खांसयोरुपरि स्थितौ ॥१२॥ युग्मम् । विजयं स्वस्थ निश्चित्य, तदालोकात् प्रमोदवान् । संवद्धिता
हवोत्साहैः, संयुतो नृपसूनुभिः ॥१३॥ घूघुलेन समं राज्ञा, वस्तुपालानुजः खयम् । अकार्षीद्रोषणो भीष्मं, सङ्ग्रामं सुभटाग्रणीः ॥ ||१४|| प्रसरन्नथ मन्त्रीशः, शत्रुसैन्यमहोदधौ । और्वानल इव द्वेषिमण्डलं समशोषयत् ॥१५॥ गोधेश्वरं समासाद्य, वीरश्रेणिशिरो
मणिम् । उद्दाममहसा दीप्तं, मुमुदेऽसौ महोद्यमी ॥१६॥ धराधारक्षमां पश्यन्नाकृति तस्य भूभृतः । दम्भोलेरपि दुर्भेदां, विस्मितोऽसौ ||* to व्यचिन्तयत् ॥१७|| अहो कान्तिरहो रूपं, कटरे भुजसौष्ठवम् । कीदृग्गोधेशितुः सत्त्वशालिता दृश्यतेऽधुना ॥१८॥ भावन्तं तेज-8
सालोक्य, तेजःपालं तमोऽपहम् । दिदीपे घूघुलः श्रीमानकोंपल इवाधिकम् ॥१९॥ मण्डलेशमथावादीददीनवदनद्युतिः। घनवनिभर गर्जन्नश्वराजात्मजस्तदा ॥२०॥ दुराचारनराधार, सदा दुष्कर्मकारक(धराभारकरस्थिते)। राजन् गौर्जरराजाय, चौलुक्यकुलभास्वते ॥२१॥ येनाञ्जनगृहादीनां, प्राभृतं विदधे बया। अनात्मज्ञ निजं तं मे, करं दर्शय सबरम् ॥२२॥ घूघुलोऽपि तदाकर्ण्य, | कर्णाग्रेडकरं वचः । वभाषे रोपवानेवं, करीषाग्निरिव ज्वलन् ॥२३॥रे रे शिष्टजनद्विष्ट, कूटबुद्धिबलोत्कट । मत्रिब्रुव(वणिग्ब्रुव) सदा | | लंचामिषग्रह(गृद्धि) कलङ्कित ॥२४॥ आः पाप प्राक्तनावस्था, निजां किं विसरबसि । अवजानन्नृपानेवं,निश्चितं न भविष्यसि ॥२५॥
Page #86
--------------------------------------------------------------------------
________________
तृतीयः प्रस्तावः।
श्रीवस्तपाल सोऽयं करः स्फुरद्वैरिजयश्रीकेलिमन्दिरम् । परं खादृग्वणिक्कीटवधाय खलु लजते ॥२६॥ मृगेणेव मृगेन्द्रस्य, द्विकेनेव गरुत्मतः । बया चरितम् । (ऽमा)हो मे रणक्रीडा, न कीत्यै न जयश्रिये ॥२७॥ द्वन्द्वयुद्धं ततो जज्ञे, तयोः कोपकरालयोः । सुरासुरदुरालोकं, किरातार्जुनयोरिख
२८॥ वीरा अन्योन्यमाहूय,परेऽपि प्रकटौजसः। स्वामिकार्योत्सुकाश्चक्रुर्यथायोगं तदा रणम् ।।२९॥ अथ दिव्यवल्लोलासाल्लीलया मत्रि॥३६॥ | पुङ्गवः । अपातयत्क्षणादेव, तमश्वाद्विश्वकण्टकम् ॥३०॥ तादृग्वीररसावेगरसपूरितमानसः । पपात तत्क्षणं तस्योपरि मन्त्री महाभुजः॥
R॥३१॥ भुजोपपीडमापीड्य, तं ततः पापपूरितम् । क्रौञ्चबन्धं बबन्धासौ, जवेन सचिवाग्रणीः ॥३२॥ तं पश्यत्सु भयभ्रान्तसुभटेष्व
| खिलेष्वपि । शार्दूलमिव चिक्षेप, जीवन्तं काष्ठपञ्जरे ॥३३॥ निःस्वाननिःस्वनै रौ ब्रह्माण्डोदरपूरकैः । दिग्दन्तिनामपि त्रासं, रचयन् | | सचिवेश्वरः ॥३४॥ ततो भापयमानो द्राग, दुराचारनराधिपान् । स्कन्धावारपदं प्रापत् , पाणौ कृखा(कृत्य) जयश्रियम् ॥३५॥ युग्मम् ॥ ततो जिनेन्द्रमभ्यर्च्य,प्रकारैरष्टभिः शुभैः। प्रममार्ज रजःपुञ्जमयमाजिभवं निजम् ॥३६॥ स्थामोत्कटैर्भटप्रष्टै, रक्ष्यमाणं ततोऽभितः। कर्मग्रन्थिमिवाभेद्य, गोध्रादुर्ग सुदुर्गमम् ।।३७॥ मत्री प्रचण्डदोर्दण्डैरन्वितो मण्डलेश्वरैः। अपूर्वकरणोद्युक्तः, खण्डयामास खण्डशः॥३८॥ प्रविश्य भूधवावासं, निवासमिव सम्पदाम् । धीसखः प्रमदोत्कर्षाद्भवजयजयारवम् ॥३९॥ तत्रत्याः प्रकृतीः सर्वा, विशेषेण महाजनम् । प्रीणयन् प्रीणितप्राणिगण आश्वासदानतः ॥४०॥ अष्टादश सुवर्णानां कोटीमौक्तिकसङ्ग्रहम् (मूटकम् )। चखार्यश्वसहस्राणि,दिव्यशस्वाणि भूरिशः॥४१नैकानि दिव्यवस्तूनि,शतानि दश वर्मणाम् । हैम सिंहासनं तुङ्ग हैमपर्वतसन्निभम् ॥४२॥ | आन्दोलनमहाखट्वां, पाञ्चालीलीलया ताम् । रत्नादर्शस्फुरच्चन्द्रकान्तकान्तां जगत्प्रियाम् ॥४३॥ सूर्यकान्तमयीं स्थाली, स्थगी माणिक्यनिर्मिताम् । जग्राह विग्रहारूढफलं गोधेशवेश्मनः ॥४४॥ षड्भिः कुलकम् ॥ सोऽतिष्ठिपत्पदे तस्य, नरेन्द्रस्य नयोदधिम् ।।
॥३६॥
Page #87
--------------------------------------------------------------------------
________________
REP-
4688948
| सिंहासनाभिधं भागिनेयं सिंहपराक्रमम् ॥४५॥ श्रीवीरधवलाधीशसौधाङ्गणकुटुम्बिनः । निर्माय परितः पल्लीनृपान् पापाशयांस्ततः॥ ॥४६॥ तस्मिन् प्रासादमुत्तुङ्गं, गजाश्वरचनाङ्कितम् । चतुर्विंशतितीर्थेशमन्दिरैः परितो वृतम् ॥४७॥ अजितस्वामिनः प्रौढबिम्बेन प्रकटप्रभम् । सोऽचीकरगिरीन्द्राम, जयस्तम्भमिवात्मनः॥४८॥ युग्मम् ॥
कतिचिदिवसांस्तत्र, स्थित्ला न्यायाभिवृद्धये । यथोचितं च सन्तोष्य, तन्निवासिप्रजाबजान् ॥४९॥ सेनानीरिव युक्तोऽथ, | सेनया स नयाम्बुधिः।आनन्दितचतुर्वर्णस्त्यागलीलायितैः स्वकैः(पथैः) ॥५०॥ चलन् क्रमात्समायासीवटपद्रामिधं पुरम् । पौरनरेश्वरप्रायैनिर्मितोरुमहोत्सवम् ॥५१॥ त्रिभिर्विशेषकम् ॥ प्राभृतं विदधे तस्मै, तत्रत्यो नृपतिर्नतः। नानारत्नमणिस्वर्णजात्यवाज्यादिवस्तुभिः ॥५२॥ तद्भक्तिरञ्जितस्वान्तः, सोऽपि तस्मै महीभुजे । प्रसादं विशदं चक्रे, स्नेहसम्भ्रमदर्शनात् ॥५३॥ दिनानि कतिचि| त्तत्र, तिष्ठस्तदनुरोधतः । उद्दधार धराधारधर्मार्थ पार्थवत्कृती ॥५४॥ श्रीमत्पार्श्वजिनेन्द्रस्य, मन्दिरं मन्दरोपम् । कारितं सम्प्रतिक्षो- Mas
णिपतिना प्राक्तनं जरत् ॥५५।। उत्कटाख्यपुरे तस्यासन्ने नाभिसुतार्हतः । तेनाकारि पुनः पुण्यं, धाम धर्माभिवृद्धये ॥५६।। असौ* वनाभिधे(असौ वनसर) ग्रामेऽभिरामं चैत्यमर्हतः । निर्माय निर्ममेऽतुल्यवात्सल्यं तन्निवासिनाम् ॥५७॥ जिनेन्द्रशासनाधारान् , | सदाचारान्मुनीश्वरान् । अभ्यर्च्य सचिवश्चक्रे, निजं जन्म फलेग्रहि ॥५८॥ सन्मानधनदानेन, सन्तोष्याहतसन्ततिम् । वात्सल्य विदधे भक्क्या, स पुनर्गुणशालिनाम् ।।५९॥ सीदतो धर्मकृत्येषु, दृढीकृत्य शरीरिणः । मत्रीशो ज्ञापयामास, स्वस्यासन्नशिवोदयम्॥
६०॥ यतः-कपायशैथिल्यमुदारचित्तता, कृतज्ञता सर्वजनेष्वनुग्रहः । प्रपन्नकार्ये दृढताज़पूजनं, गुणादृति विजिनखलक्षणम् ।। ॥६१॥ अथ दर्भावतीं प्रापद्विदर्भामिव ऋद्धिभिः । मण्डितो मण्डलाधीशैरश्वराजात्मजः पुरीम् ॥६२॥ पल्लीपतिनृपातङ्कशङ्काशक
*898*
**489-*-*
॥६१॥ अथ दर्भामुदाचित्तता, कृतकृत्येषु, दृढीकृत्य की
Page #88
--------------------------------------------------------------------------
________________
तृतीयः
प्रस्तावः
श्रीवस्तुपाला
व्यथाकुलान् । तन्निवासिजनान् वीक्ष्य, विस्मृतान्यप्रयोजनान् ॥६३॥ मूलराजादिभूपालमृतिभिः स्फुरितोदयम् । नगर्याः परितो चरितम् । वप्रमभ्रंलिहमसौ सुधीः॥६४॥ विधाय विविधा भङ्गीबिभ्राणं शरणं सताम् । विश्रामायेव देवानाम् , निरालम्बा(धारा)ध्वयायि
नाम् ॥६५। तिरश्चक्रेऽखिला भीति, भानुवद् ध्वान्तसन्ततिम् । तादृशानां यतो जन्म, सुखायैव तनुस्पृशाम् ॥६६॥ चतुभिः ॥३७॥ कलापकम् ॥
तत्राथ चैत्यं रचयाश्चकार, प्रेडद्ध्वजश्रेणिविराजितथि । कैलासशैलेशसमं सुवर्णकुम्भाङ्कितं पार्श्वजिनेश्वरस्य ॥६७॥ सतोरणं पूर्वजमूर्तियुक्तं, जगत्रयीनेत्रसुधाञ्जनाभम् । खसप्तचन्द्रप्रमितैर्जिनेन्द्रगृहैः परीतं परितः स मत्री ॥६८॥ युग्मम् ॥ बलानके यत्र
गजाधिरूढा, कुमारदेवी सचिवेशमाता । विराजते राजतपुष्पमालापाणियुगादीशविभोर्नु माता ॥६९॥ चौलुक्यभूभुजस्तत्र, हृद्यानakol न्दचिकीर्षया । सोऽन्यान्यपि प्रशस्तानि, कीर्तिस्थानानि निर्ममे ॥७॥ यथा-दर्भावतीपुरे वैद्यनाथावसथमण्डपे । तेजःपालो न्य
धात्स्वर्णकुम्भानामेकविंशतिम् ॥७१॥ स्वेशतत्प्रियतमास्वकनिष्ठज्येष्ठमूर्तिनिजमृत्तिसनाथम् । वैद्यनाथहरगर्भगृहाग्रे, जैनचैत्यमकरोत्सुकृतीशः ॥७२॥ नवस्वर्णमयांस्तत्र, पवित्रान् कलशानयम् । नवखण्डधरोद्योतेऽकरोत्प्रद्योतनानिव ॥७३॥ पश्चिमोत्तरयोस्तत्र, शालस्य द्वारयोरयम् । प्रशस्ती न्यस्तवानात्मकीर्तिमङ्गलपाठिके ॥७४॥ स्वयंवरमहावापी, स स्वादुजलशालिनीम् । विधाय वसुधां नव्यसुधास्वादमयीं व्यधात्(सुधास्वादमलम्भयत्) ।।७५॥ उत्तरद्वारपुरतो वैद्यनाथस्य वेश्मनः । असूत्रयदसौ तुझं, तोरणं विशदाश्मभिः ॥७६।। वृषमण्डपिकां द्विभृमिका, विशदैरश्मभिरस्य बान्धवः । इह काश्चनकुम्भशोभितां, पुरतो नृपगृहस्य तेनिवान् ॥ ॥७७॥ तथासौ निजनाथस्य, कालक्षेत्रे तदाख्यया। रेवोरुसङ्गमे वीरेश्वरदेवकुलं व्यधात् ॥७८॥ कुम्भेश्वराभिधे तीर्थे, तपखिमठ
॥३७॥
Page #89
--------------------------------------------------------------------------
________________
पञ्चकम् । सर्वाङ्गधर्मसामग्रीकलितं व्यतनोदयम् ॥७९॥ इति दर्भावतीप्रशस्तौ । अथारुरोह मन्त्रीशः, पावकाख्यं गिरीश्वरम् । नरेवरवरश्रेणिसुम(वेणी)दामार्चितक्रमः ॥८॥ अनेकसिद्धगन्धर्वकिन्नरावलिसेवितम् । तटाकतटिनीकुण्डविटपिव्रजराजितम् ॥८॥ चारुभिश्वारुभिवृक्षः, शश्वत्फलविलासिभिः । कुर्वाणं गौरवं सर्वातिथिभ्यः प्रार्थनां विना ॥८२॥ त्रिभिर्विशेषकम् ।। स तस्यैरावतस्येव, सत्पादस्थितिशालिनः। आरूढः प्रौढिमान शीर्ष, ताविषेश्वरसन्निभः॥८३॥ सर्वतः सुमनःश्रेणिगीयमानगुणवजः। दलयन् दुर्दशा दानैर्मुक्तमानैर्मनीषिणाम् ॥८४॥ पश्यंस्तत्र गिरीन्द्रस्य, शोभासम्भारमद्भुतम् । अन्तःस्वान्तं तदा दध्यौ, धौरेयो धर्मधु ताम् ॥८५॥ त्रिभिर्विशेषकम् ॥ राजसन्मानमासाद्य, राजसं भावमात्मनः । यो विधूय विशेषेण, न धर्मे रमते हिते ॥८६॥ तस्यायतौ कृतघ्नस्य, कथं स्युः सुखसम्पदः । किमालोकमयो लोको, भास्वत्यस्तं गते भवेत् ।।८७॥ यतः-धर्मादधिगतैश्वर्यो, धर्ममेव निहन्ति यः। कथं शुभगतिर्भावी, स स्वामिद्रोहपातकी ॥८८॥ सम्प्राप्य प्रभुतां प्रौढां, विमलो विमलोदयः। मन्त्री सुत्रामजिद्धामा, श्रीमदादिजिने-aks शितुः ॥८९॥ निर्माय जगदानन्ददायकं चैत्यमुन्नतम् । अर्बुदभूधरं चक्रे, विमलो-धरोपमम् ॥१०॥ युग्मम् ।। प्रासादं जगदाह्लादं, प्रसादादम्बिकोद्भवात् । समुद्धृत्य नगोत्तुङ्ग, नेमिनः स्वामिनः पुनः॥९१॥ पुण्यात्मा पासलिमंत्री, चित्रपात्रीकृतामरः । व्यधादारासणक्षोणीधरं रैवतदैवतम् ॥९२॥ कुमारपालदेवेन, जगजीवातुसम्पदा । व्यधायि वसुधाधारस्तीर्थस्तारङ्गभूधरः ॥९३॥ चित्रकूटाचलः श्रीमान्निलदुर्गगिरीश्वरः। सुवर्णशिखरी पारकरः क्षोणिधरस्तथा ॥९४॥ त्रिभिर्विशेषकम् ॥
मयाप्ययं ततस्तीर्थ, भवाम्भोधितितीर्षया । विधातव्योऽर्हतश्चैत्यं, कारयिखा महीधरः ॥९५॥ यादृशस्तादृशस्तीर्थ, क्षमाधार| तया गिरिः। लोके ख्यातः पुनर्जेनवेश्मपूतः किमुच्यते ॥९६॥ यतः-श्रीरेवताचले दृष्टे, नते शत्रुञ्जये गिरौ । स्मृते बष्टापदे तीर्थे,
"
Page #90
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
वतीयः
प्रस्तावः
॥३८॥
ध्याते सम्मेतभूधरे ॥९७॥ आरूढे पावकाद्रौ च, पूजिते चार्बुदाचले। भवकोटिकृतं पापं, क्षीयते शुचिचेतसः ॥९८॥ युग्मम् ।।
स एव गीयते लोकैः, पुण्यश्रीभाजनं जनः । आदौ तीर्थावतारं यः, कुर्यात्सद्भाववान् भुवि ॥९९॥ ये कारयन्ति जिनमन्दिरमाद* रेण, बिम्बानि तत्र विविधानि विधापयन्ति । सम्पूजयन्ति विधिना त्रिजगज्जयन्ति, ते पुण्यभाजनजना जनितप्रमोदाः॥४०॥
इति ध्यात्वा सुधीस्तत्र, जगत्पावित्र्यकारणम् । प्रासादं कारयामास, सर्वतोभद्रमार्हतम् ॥१॥ तस्मिन् कतिपयान्मासान् , स्थिता | स्थितिमतां गुरुः । स श्रीचौलुक्यभूपालशासनंदुष्टशासनैः ॥२॥ पल्लीपतिनरेन्द्राणामुन्निद्रप्रबलौजसाम् । शिरोवतंसतां नीत्वा, सम्पदा पाकशासनः ॥३॥ ततोऽनुमन्दिरश्रेणिभवद्भरिमहोत्सवम् । उत्तम्भितपताकाभिः,शृङ्गारितचतुष्पथम् ॥४॥ धवलकपुरं प्रापत् , प्रौढैः परिवृ?वृतः। पञ्जरस्थं गजारूढं, घूघुलं दर्शयन्नृणाम् ।।५। वाद्यमानमहातोद्यवाचालितदिगाननः। सम्मुखागतनिःशेषराजवर्गपुरस्कृतः॥६।। प्रीत्यादृतो गुरुस्नेहात्पूज्येन ज्येष्ठबन्धुना । गवाक्षारूढपूर्नारीनेत्राणामुत्सवप्रद (मुत्सवावहः) ॥७॥ षड्भिः कुलकम् ॥ तेजःपालो नमश्चक्रे, ज्येष्ठबन्धोः पदाम्बुजम् । तेनाप्यालिङ्गितो भ्राता, सस्नेहेन तदाधिकम् ॥८॥ वस्तुपालं पुरस्कृत्य, सत्कृत्यस्थितिकर्मठः । राजमन्दिरमासाद्य, सानन्दैः स्वजनैर्वृतः ॥९॥ श्रीवीरधवलाधीश, कौमुदीशमिवोदितम् । नक्षत्रैरिव भूपालैः, सदाचारैनिषेवितम् ॥१०॥ दुर्योधनोद्धताकारं, तादृशं घूघुलं नृपम् । मुक्ताफलहयश्रेणिस्वर्णकोव्यादिभिः समम् ॥११॥ पुरो निधाय पञ्चा|संस्पृष्टक्षोणिमण्डलः। आननाम समं सर्वसामन्तैरश्वराजभूः ॥१२॥ त्रिभिर्विशेषकम् । आलिलिङ्ग तमुत्थाय, चौलुक्यकुल | (सच्छायमुख)चन्द्रमाः । श्रीवीरधवलस्वामी, वर्षन् हर्षसुधारसम् ॥१३॥
चमत्कृतस्ततः श्रुखा, नृपतिस्तत्पराक्रमम् । प्रददौ तस्य सन्मानं, कवेर्वाचामगोचरम(वचःकोट्यापि दुर्वचम् ॥१४॥ गोध्राधिपं ।
॥३८॥
Page #91
--------------------------------------------------------------------------
________________
}%88% *8888888888888888488
4888888888888888888888888888
ततो विश्वविश्वद्रोहधुरंधरम् । अतिप्रचण्डदोर्दण्डशौण्डीर्यं विकटाकृतिम् ||१५|| निरीक्ष्य तादृशावस्थमप्यदीनाननद्युतिम् । चिन्तामेवं दधौ स्वान्ते, कलधौतयशा नृपः ॥ १६ ॥ युग्मम् ॥ अहो महोमयं कीदृग् गात्रं गोधामहीभुजः । अहो भुजोर्जितं ज्यायस्त्रिज| गजयलम्पटम् ||१७|| ततः कोशानृपादेशात्तेनैव प्राभृतीकृताम् । शाटिकां कञ्जलस्थानकञ्चुकाभ्यां विराजिताम् ॥१८॥ आनाय्य | सचिवो ज्यायान् नृपेषु सकलेष्वपि । कुतूहलेन पश्यत्सु, घूघुलं पर्यधापयत् ॥ १९ ॥ युग्मम् ॥ कण्ठपीठे हठाद्वद्धं, जयश्रीकेलिशालिनि । तस्य पीडाप्रदं ( वहं ) रेजे, तदञ्जनगृहं तदा ॥ २० ॥ मानभङ्गं तदालोक्य, लज्जासज्जाशयोऽधिकम् । मण्डलाधीश्वरो जिह्वां, | खण्डयित्वा द्विजैर्निजैः ||२१|| प्राणत्यागं तदा कृत्वा, यशः शेषोऽभवद् भुवि । आसीद्वर्धापनं राजधान्यां चौलुक्यभूभृतः ||२२|| आनीतं च धनं सर्व, यथास्थानं निवेश्य सः । आययौ बन्धुना साकं, स्ववेश्म समहं ततः ॥२३॥ अन्यदा मेदिनीपालः कृतज्ञो मण्डलेश्वरैः । नृपैः सञ्जातशोभायां सभायां बहुमानतः ||२४|| आहूय सचिवाधीशं तेजःपालं ससोदरम् । कृला प्रसादं पञ्चांगं, | हेमकोटिं समार्पयत् ||२५|| युग्मम् ॥ ततः कवीश्वरे राजा, सोमेश्वरद्विजोत्तमे । दृष्टिं संचारयामास तेजः पालगुणस्तुतौ ॥२६॥ ऊर्ध्वपाणिस्ततः सोऽपि, स्माह सोत्साहमानसः । सद्भूतसद्गुणोद्भूतां वस्तुपालानुजस्तुतिम् ||२७|| मार्गे कर्दमदुस्तरे जलभृते गर्ताशतैराकुले, खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि । शब्देनैतदहं ब्रवीमि महता कृखोटितां तर्जिनीमीदृक्षे गहने विहाय धवलं वोढुं भरं कः क्षमः ||२८|| पृथ्वी न्यायवती कृता कृतिजनो वृद्धिं परां प्रापितश्चक्रे शक्रसमृद्धि वीरधवलक्षोणिभुजो मन्दि| रम् । संशोध्योत्कटकण्टकालिविकटं भूमण्डलं सर्वत - स्तेजःपालसुमन्त्रिणा निजविभोरेकान्तभक्तात्मना ||२९|| दुःस्थत्वेन प्रापितां कालिमानं, वक्त्रश्रेणि रेणुपुरोपमेन । मन्त्रीनेत्रप्रान्तपातैः प्रसन्नैस्तेजःपालः क्षालयत्याश्रितानाम् ||३०|| भूयाद् भूवलयस्य वीर
Page #92
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम् ।
तृतीयः प्रस्तावः।
॥३९॥
| धवलः स्वामी समुद्रावधेः, श्रीमुद्राधिकृतः कृतः सुकृतिना येनाश्वराजात्मजः । यस्माद्विस्मृतिमाजगाम लिखितः स्रष्टुर्ललाटेषु यः, | श्रीकारस्तमसौ सतां वितनुते विश्वोपकारव्रती ॥३१॥ अस्ति स्वस्तिनिकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलि| कृतामुर्वीतले पालयन् । आत्मीयं बहुमन्यते नहि गुणग्रामं च कामन्दकिश्चाणिक्योऽपि चमत्करोति न हृदि प्रेक्ष्यास्पदं वीक्ष्य यम् | ॥३२॥ स्थूललक्षाग्रणीहेनो भूमान् लक्षत्रयं ददौ । तदौचित्यपदे तस्म, मत्रिस्तुतिप्रसन्नहृत् ॥३३॥ ततो नृपं नमस्कृत्य, तदादेशान्नृपैर्वृतः । प्रौढद्विरदमारूढः, श्वेतच्छत्रविराजितः(सुश्वेतातपवारणः) ॥३४॥ (चलच्चामरसंशोभी, क्षोभयन्नभितोऽप्यरीन् । पदे पदे ददद्दानं, कीर्तिकल्लोलकारिषु । गुरुणा बन्धुना सार्द्धम् , निःस्वानध्वानबन्धुरम् । भवजयजयारावं, निजागारं समागमत् ) भव- के | जयजयारावबधिरीकृतदिङ्मुखः। तेजःपालो युतो भ्रात्रा, निजागारं समागमत् ॥३५॥ सानन्दाः सोदराश्चक्रुस्तस्य नीराजनोत्स| वम् । अपूरयन्महादानैः, सोऽपि तासां मनोरथान् ॥३६।। तेजःपालोऽन्यदा मन्त्री, गुरुपादनिनंसया । धर्मशालामुपायासीद् यो|ऽस्ति सीमारिजेतृषु(सीमा भीमारिजेतृषु)॥३७॥ तस्मै विनयनम्राय, धर्माशीर्वादपूर्वकम् । आतिथ्यं प्रथयन्त्येव, गुरखो धर्मदेशनात् ॥३८॥ इदमेव फलं प्रौढराज्यव्यापारभूरुहः । जिनेन्द्रशासनस्योचैः, सामय्या यत्प्रभावनम् ॥३९॥ प्रासादप्रतिमामहाध्वजमहापूजाप्रतिष्ठोत्सवैः, श्रीसङ्घानघभक्तितीर्थनमनैः दानैश्च मानातिगैः। श्रीजैनेन्द्रमतं प्रभावयति यः साम्राज्यवर्योदयो, विश्वोल्लासविधायिनी स पदर्वी प्रामोति पुण्याद्भुताम् ॥४०॥ राज्यव्यापारमासाद्य, यो न पुष्णाति सत्पथम् । एक एव भवेत्तस्य, भवो दुर्गतिगामिनः॥४१॥ स्यात्कस्याप्ययमेवैकः, परो लोकस्तु कस्यचित् । तावुभौ कस्यचिल्लोको, हतौ कस्यापि तावुभौ ॥४२॥ स्वशक्क्या श्रीजिनाधीशशासनं मत्रिपुङ्गव । त्वया प्रभावनीयं यद्भवेल्लोकद्वयोन्नतिः ॥४३॥ श्रुत्वेति देशनां मत्री, हृष्टः शिष्टजन
॥३९॥
Page #93
--------------------------------------------------------------------------
________________
8884838-8483% *%*E8888888838
| प्रियाम् । उच्चैर्गोत्रफलप्राप्तिकल्पद्रुम धर्मकाम् ||४४ ॥ विदधे गुरुपादानां द्वादशावर्त्तवन्दनम् । महेभ्यश्रावक श्रेणिपुरोगामी विवे | कवान् ॥ ४५ ॥ युग्मम् ॥ ततो दुःस्थितलोकानां स स्वर्णश्रेणिवर्षणैः । दारिद्र्यानलसन्तापं, शमयन् गृहमाययौ ॥ ४६ ॥ देवपूजातिथित्यागभोजनाद्युचितक्रियाः । कृत्वाथैकासनासीनौ, परमानन्दमेदुरौ ||४७ || पीयूषास्वादसंवादसोदरां सोदरावुभौ । विदधानौ चिरं राज्यव्यापारोचितसत्कथाम् ||४८ || आर्यप्राणिगणश्लाघ्यपुण्यकार्यचिकीर्षया । अन्योन्यं चक्रतुः सारं, विचारं चतुराशयौ ॥४९॥ त्रिभिर्विशेषकम् ॥
|
गृहकूपी कृपणानां, लक्ष्मीर्व्यवहारिणां नगरवापी । व्यापारिणां तु सरसी, तरंगिणीव क्षितीशानाम् ||५० || मृत्युः शरीरगोप्तारं रक्षितारं धनं धरा । दुश्चारिणीव हसति, स्वपतिं पुत्रवत्सलम् ॥ ५१ ॥ लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनीसंसर्गा| दिव कण्टकाकुलपदा न कापि धत्ते पदम् । चैतन्यं विषसन्निधेरिव नृणामुज्झासयत्यंजसा, धर्मस्थाननियोजनेन सुधिया ग्राह्यं तदस्याः फलम् ॥५२॥ आवाभ्यां तदसौ सम्पन्नृपसेवालतोद्भवा । कृत्खा सत्पुण्यकृत्यानि, विधेया सफलाधुना ॥ ५३ ॥ जिनभवने जिनबिम्बे, जिनयात्रायां जिनेन्द्रमतशास्त्र । ग्राह्य नियोज्य तूर्ण, चपलरमायाः फलं कृतिभिः (कारंकारं ग्राह्यं, व्ययं रमायाः फलंकृतिभिः), ॥५४॥ इत्यालोच्य शुचिस्वान्तौ तौ तथा कर्तुमुद्यतौ । जातुचिद्धर्मकार्येषु, यद्विवेकी न मुह्यति ॥ ५५ ॥ शत्रुञ्जयावता - राख्यो, धवलकपुरे ततः । निर्ममे वस्तुपालन, प्रासादो नाभिजन्मनः || ५६ ॥ चतुर्विंशतितीर्थेश भवनैः परितो वृतम् । ज्योतीरसरत्न| मयबिम्बेन गुरुणा युतम् ॥५७॥ सौवर्णकलशोपेतम्, ध्वजराजिविराजितम् । कपर्दिदेवतादेशाद्विश्वाश्वर्यविधायकम् ॥५८॥ त्रिभिविशेषकम् । यतः - कपर्दियक्षसान्निध्याद्भवलक्ककपत्तने । शत्रुञ्जयं समुद्धृत्य पावनीमवनीं व्यधात् ॥ ५९ ॥ विभ्राणं परितो जिने
B%%83%88% 34838843&%88% 8483%
Page #94
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
**40 HR 3162
तृतीयः प्रस्तावः।
॥४०॥
*160813-*-*-*--*-*48*488
न्द्रभवनान्युच्चैश्चतुर्विंशतिम् , तापोत्तीर्णसुवर्णदण्डकलशालङ्कारतारश्रियम् । यः शत्रुञ्जयदेवसेवनमनाः शत्रुञ्जयाख्यं जिनप्रासादं
धवलकनामनि पुरे निर्मापयामासिवान् ।।६०॥ उज्जयन्तावताराख्यं, चैत्यं चैव वि(तत्रैव)निर्ममे । त्रैलोक्यसुन्दरं नाम्ना, तेजःपालेन | तादृशम् ॥६१॥ यतः-अम्बिकादेवतादेशाद्रेवतेश्वरमन्दिरम् । वस्तुपालानुजश्चक्रे, शक्रेणापि सुदुर्द्धरम् ॥६२॥ एवं सहोदरौ प्रौढपुण्यकार्यकतत्परौ । सन्तुष्टाव(तुष्टावेष्ट)फलप्राप्त्य, कविः सोमेश्वरोऽनघः(ऽन्यदा) ॥६॥ पन्थानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव सरन्तौ । तौ भ्रातरौ संसृतिमोहवीरौ(चौरे), सम्भूय धर्माध्वनि सम्प्रवृत्तौ ॥६४॥ जनव्यामोहवल्लीयमिन्दिरा मन्दिरा| गता। मत्रिणा वस्तुपालेन, कल्पवल्लीव निर्मिता ॥६५।। श्लाघ्यः स एकः खलु वस्तुपालः, सर्वोत्तमः सर्वगुणाकरश्च । यस्यार्थिनो | वा शरणागता वा, नाशाविनाशाद्विमुखा ब्रजन्ति ॥६६॥ कुत्रापि नोपसर्गो, वर्णविकारोऽथवा निपातो वा । तेजःपालेन कृताऽपूर्वा व्याकरणस्थितिलोंके ॥६७॥ तस्मै तौ ददतः प्रीती, द्रम्मलक्षत्रयं क्षणात् । दक्षिणानां यतो लोके, दानेयत्ता न विद्यते ॥६॥ कियती पञ्चसहस्री, कियन्तो लक्षाश्च कोटिरपि कियती । औदार्योन्नतमनसां, रत्नवती वसुमती कियती॥६९॥ एवं जिनेन्द्रगृह| बिम्पसुसाधुसेवा-श्रीसङ्घपूजनसुपात्रपवित्रदानः । मन्त्रीश्वरौ त्रिदशपूरितकामितौ तौ, हर्षप्रकर्षमखिलेषु जनेष्वकार्टाम् ॥७॥
॥४०॥
॥ इति श्रीमहामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरि शिष्यश्रीमुनिसुन्दरसूरि श्रीजयचंद्र
सूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाले श्रीतेजःपालावदातघूघुलमण्डलाधिपविजयवर्णननामा तृतीयः प्रस्तावः ॥
Page #95
--------------------------------------------------------------------------
________________
18KX8888888883%2C3X XEKXX688*
चतुर्थः प्रस्तावः ।
Cate
अथानेकमहीपालैः, कल्पशाल इवाश्रितः । श्रीवस्तुपालमन्त्रीशः, प्रबलः कलिकालजित् ॥ १॥ प्रसादं पुण्यतः प्राप्य, श्रीवीरधवलेशितुः । सर्वेषु राजकार्येषु विनियोज्य निजानुजम् ॥२॥ श्रीसङ्घलोकमभ्यर्च्य सविशेषसपर्यया । सोदराभिः समोदाभिर्निर्मिताखिलमङ्गलः ||३|| ध्वनन्निः स्वाननिर्घोषैखासयन् दिक्पतीनपि । सर्वोत्तमे मुहूर्ते श्रीस्तम्भतीर्थ पुरं प्रति ||४|| अचलत् श्यामलीकुर्वन्, | वैरिणां मुखदर्पणान् । चलाचलहय श्रेणिखुरोत्खातरजोत्रजैः ॥५॥ पञ्चभिः कुलकम् । तमागच्छन्तमाकर्ण्य, वर्णाः सर्वेऽपि संमुखम् । अहंप्रथमिकाव्यग्राः प्राभृताञ्चितपाणयः || ६ || नानायानसमारूढा, नानालीलाविलासिनः । आगमन्निर्मितानन्दं, समूहा इव सम्प| दाम् ||७|| युग्मम् || प्राभृतं ते पुरस्कृत्य प्रणेमुर्मत्रिपुङ्गवम् । सोऽपि तेषां (तस्मै ददौ मानं, दानं मानाधिकं तथा ॥८॥ तस्याकारं तदालोक्य, पौरा गौरगुणोज्ज्वलम् । मञ्जनं सञ्जयामासुर्विस्मयानन्दवारिधौ || ९ || सन्मानं च प्रदानं च तस्मादैश्वर्यशालिनः । आसाद्य मुदिताश्चक्रुर्नगरे विविधोत्सवान् ||१०|| समहं प्राविशन्मध्येपुरं स पुरुषोत्तमः । बहिर्जगाम तत्कालं, कलिस्तु पिशुनैः सह ॥ ११ ॥ कुमारपालराजेन्द्र चैत्ये नखा जगत्प्रभुम् । आवासं विदधे मन्त्री, दुर्गान्तः सपरिच्छदः || १२ || पुराधिकारिणः प्राच्यान्, प्रपञ्चाश्चितचेतसः । आहूय बहुमानेन, सर्वानुर्वीश्वराज्ञया ॥१३॥ आयव्ययौ नरेन्द्रस्य, विलोक्य सचिवोऽखिलौ । तान् स्वाज्ञावर्त्तिनः | कृत्वा, स्वस्वस्थाने न्यवीविशत् ॥ १४॥ युग्मम् ॥ एकः कोऽपि वणिक्सूनुः, प्रसूनमृदुवाग्नयी। निष्णातः सर्वकार्येषु, विनयी शैशवादपि ||१५|| अग्निशौचं पुरोधाय सिचयं सचिवेशितुः । ववन्देऽथ पदाम्भोजं, गृहाङ्गगनिषेदुषः ॥ १६ ॥ युग्मम् ॥ कोऽसि कुत्रासि |
¥€3**$3* *88%*888888* X£3%%83
Page #96
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥४१॥
$35EER
28038783%
| वास्तव्यः, किं निमित्तमिहागतः । किंनामा कस्य वा सूनुरिति तं मत्रिराट् जगौ ॥१७॥
1
उवाच सचिवाधीश, वणिग्सुः सोऽपि साञ्जलिः । अत्रैवासीदसीम श्रीसागरः सगराह्वयः ॥ १८ ॥ व्यवहारी सदाचारी, जिनेन्द्रो| दितधर्मवित् । विशेषादुपकारी च प्राग्वाटान्वयमण्डनम् ||१९|| युग्मम् ॥ क्रमात् कृशधनो जज्ञे, निजपुण्यक्षयादयम् । अम्बुसेको| ज्झिते क्षेत्रे, किं स्फुरत्यङ्कुरावलिः ॥२०॥ यतः - धर्मः सनातनो येषां दर्शनप्रतिभूरभूत् । परित्यजति किं नाम, तेषां मन्दिरमिन्दिरा ॥ | ॥२१॥ पुण्यमेकमनेकानां, शर्मणां (सौख्यानां) कारणं परम् । यथा संसारकार्येषु, लक्ष्मीः सर्वत्र साधनम् ॥ २२॥ अथात्रैव श्रियः पात्रं, नोडान्वयनभोमणिः । अश्वेभनरनाथानां माननीयो महीभुजाम् ||२३|| अभिमानी धनी नित्यं (सदा दानी), तृणवगणयन् | परान् । निरर्गलाभिः सम्पद्भिर्वलाकूलेषु विश्रुतः ॥ २४॥ व्यवहारी सदीनामा, नदीनार्जितवैभवः । वसत्यदीनः पीनौजा, वीररत्नं रणा| ङ्गणे ||२५|| त्रिभिर्विशेषकम् । चतुर्दशशतान्युच्चैःश्रवः प्राया हयोत्तमाः । यस्य गेहे विराजन्ते स्वर्ण प्रक्षरशालिनः ||२६|| तावन्तः पत्तयोऽप्यासन् सदा सङ्ग्रामदीक्षिताः । कम्पितक्षितयः प्रौढस्वौजसा वीरकुञ्जराः ||२७|| शतानि त्रीणि तद्वारि, मनोहारिगजाः पुनः । गर्जन्ति त्रासयन्तोऽरीन् निजोर्जस्वलगजिभिः ||२८|| सुवर्णमणिमाणिक्यतारमुक्ताफलादिषु । न सङ्ख्या विद्यते तस्य, हर्म्ये | सत्कर्मशालिनि ||२९|| सेवावृत्तिं सृजंस्तस्य, सदीकव्यवहारिणः । निर्वाहहेतवे तस्थौ, मत्पिता निर्धनाग्रणीः ||३०|| अन्यदाखिलवस्तूनां, जल्पित्वा श्रेष्ठिनः पुरः । भागं तुरीयमादास्ये, व्ययहान्यादिवर्जितम् ॥३१॥ स्वतो मात्राधिकं मत्वा, | सागरं सगरः पुनः । प्रपूज्य विधिना यानपात्रैर्यात्रामसूत्रयत् ॥ ३२॥ युग्मम् || अथ प्राचीनपुण्यानुभावादादनबन्दिरे । हेमधूलिः समासाद्य, देवधेनुरिवानघा ॥३३॥ यानपात्रान्तरे गुप्तीकृत्य यत्नशतैरपि । मचातेन समानीता, कियती निजवेश्मनि ॥ ३४ ॥ युग्मम् ॥
•%83%%083%83% %€388838888% 28
चतुर्थः प्रस्तावः ।
॥४१॥
Page #97
--------------------------------------------------------------------------
________________
83%83% X€&&&&&%%83% 883%88%2
•
ज्ञात्वा कुतोऽपि तद्वाता, सदीकः कुपिताशयः । गृहीत्वा गृहसर्वस्वं मारयामास तं रहः ||३५|| तस्य सूनुरहं देवाभिधः सेवां तवान्वहम् । भाग्यलभ्यां चिकीर्षामि महामात्यशिरोमणे ! ||३६|| स्वर्णधूलेस्तुरीयस्य, भागस्य च समीहया। प्रतिकर्तुं समर्थस्यासमर्थस्तस्य पाप्मनः ||३७|| युग्मम् ।। त्वं चासि सांप्रतं स्वामिन् समर्थः सर्वकर्मसु । सर्वज्ञातिसमुद्धारधुरीणः पुरुषोत्तमः ||३८|| इति तद्वचनं श्रुत्वा कृपापीयूषसागरः । विचारं निर्ममे मत्रिपुङ्गवो मानसे निजे ||३९|| अबलः सबलेनाहो, ग्रस्यते यद्दुरात्मना । मात्स्यो न्यायोऽयमद्यापि मयि सत्यपि वर्तते ॥ ४० ॥ पक्षिणोऽपि न किं वर्ष्या, वायसास्ते सतामपि । स्वजातेः पक्षपातं ये, निजशक्त्या वितन्वते ||४१ || दुःखितेषु दया न स्यान्न चैवाश्रितपोषणम् । समर्थस्यापि यस्यासौ ख्यातश्चश्चापुमान् भुवि ॥४२॥ जीमूता इव केऽप्यत्र, परमोदकसंपदः । संतापशान्तयेऽन्येषां जायन्ते प्रार्थनां विना ॥ ४३ ॥ | श्रीशालिवाहनो राजा, दानेन कनकाचलः । विश्वोपष्टम्भधौरेयः कस्य श्लाघापदं न हि ॥ ४४ ॥ ताण पुरो मरिएहिं केलीथंभाणस रिसपुरिसाणं । जे अत्तणो विणासं, फलाई दिंता न चिन्तन्ति ॥ ४५ ॥ कवीनामीदृशी गाथा, पुरुषत्वप्रकाशिनी । दत्वा कोटी सुवर्णानामाददे शतशोऽत्र यः ॥ ४६ ॥ संश्रितान् यो न पुष्णाति प्राप्त (पि)वानधिकारिताम् । पश्चाद्दुर्लापवृन्दानां स यायादधिकारिताम् ॥४७॥ यतः - सुहृदामुपकारकारणाद्, द्विषतामपकारहेतवे । नृपसंश्रय इष्यते बुधैरुदरं को न बिभर्ति केवलम् ||४८ || इति ध्यात्वा चिरं स्वान्ते, शरण्योऽसौ सतां ततः । ईषत्को| पकडारास्य, आचख्यौ सगरात्मजम् ||४९ ॥ महाभाग ! क्षणं धीरो, भव निश्चिन्तमानसः । भवत्कार्यं करिष्यामि, समयं प्राप्य निश्चितम् ||५०॥ इत्याश्वास्य सुधादेश्यवाचा तं सचिवेश्वरः । प्रसन्नहृदयश्चक्रे, स्वकोशागारलेखकम् ॥५१॥
अथ तत्र पुरे सर्वजिन वेश्मसु सोत्सवम् । स सुधीविंदधे पूजां, रजोराजिविघातिनीम् ॥५२॥ अन्येद्युर्वाचिकं किञ्चिन्निवेद्य
KX@BKXÆBETÆDESEBKEDEXERCI
Page #98
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥४२॥
444388888888888888888888888888
वदतां वरः । स्वभङ्कं प्रेषयामास सदीकस्य गृहाङ्गणे ॥५३॥ सम्प्राप्यावसथं तस्मै, महेभ्यप्रवराय सः । मत्रिसुत्रामसंदिष्टं, स्माहाशीर्वादपूर्वकम् ||५४ || मन्मुखेन वदत्येवं भवन्तं श्रीमतां गुरुम् । मत्री चौलुक्यभूभर्तुर्वस्तुपालः सतां गुरुः || ५५ ॥ व्यवहारिधुराधार, वीरवर्गपुरंदर। अधुना वसुधायां खं, धनेन धनदायसे ॥५६॥ तव कर्पूरपारीव, कीर्त्तिः श्रीदानसंभवा । सदा या ( वासय) - त्यभितो वेलाकूलानि निखिलान्यपि ॥५७॥ परं सौहार्द्दतः किंचिद्धितं ते निगदाम्यहम् । सर्वस्य हि हितं वाच्यं, महतस्तु विशेषतः || ५८ || विनयो गीयते राजा, गुणेषु निखिलेष्वपि । व्यवहारिवरप्राज्ञैर्ब्रह्मचर्य व्रतेष्विव ॥ ५९ ॥ निर्लावण्यं यथा रूपं, कस्मैचित्स्वदते न हि । चातुर्यादिगुणाः सर्वे, विनयेन विना तथा ॥ ६० ॥ देहिनः सद्गुणश्रेणिं, द्वेषयत्येव दुर्मदः । दुर्वात इव शस्यालीमुल्लसन्तीं समन्ततः ।। ६१।। ततो वैनयिकीं वृत्तिं कृत्वाभ्युदयदायिनीम् । इहागत्य झगित्येव, मां भजस्व भयोजितः || ६२ ॥ अथ कर्णातिथीकृत्य, सदीकस्तदुदीरितम् । अभ्यधादधिकक्रोधसमिद्धवदनद्युतिः ||६३ || भूयांसो भूभुजो जाता, मत्रिणश्च परःशताः । न कोऽपि प्रोचिवानेवं, पुरा मे निष्ठुरं वचः ॥ ६४ ॥ सर्वः कोऽपि समायाति मिलनाय मदालये । अनाहूतोऽपि कार्यार्थी, नदीश्रोत इवाम्बुधिम् ||६५|| नरेन्द्रस्यापि कस्यापि न गच्छामि गृहाङ्गणम् । चक्रवर्तीव रङ्कस्य, वृद्धत्वादखिलर्द्धिभिः ॥ ६६ ॥ कूपमण्डूकमित्रेण, मन्त्रिणानेन दुर्धिया । नवीनोऽयं कथं पन्थाः, पात्यतेऽत्र पुरेऽधुना ॥ ६७ ॥ यद्यद्विलोक्यते तस्य तत्तद्यच्छामि वाञ्छितम् । स्वावासस्थित एवाहं, कल्पशाखीव नन्दने ॥ ६८ ॥ स्तोकयापि श्रिया नीचा, गर्वायन्ते तथा यथा । आखो : शालिकणप्राप्तौ, | व्यापृतिः करयोर्द्वयोः ॥ ६९ ॥ गुणाधिके महापुंसि, मनखिनि यशखिनि । अहङ्कृतिर्विनाशाय, निर्विवेकस्य जायते ॥ ७० ॥ अखर्व - | गर्वसर्वस्वं तिरस्कृत्य ततो निजम् । मिलनाय त्वयागम्यं, रमारम्ये ममालये ॥ ७१ ॥ पुरेऽत्र व्यापृतिर्येन, निःशङ्का भवतो भवेत् ।
EZUDZZQDK-XCBK-XŒDK-XŒ3%-X€ÐKI
चतुर्थः
प्रस्तावः ।
॥४२॥
Page #99
--------------------------------------------------------------------------
________________
| इति वाच्यस्त्वया धीमन् , वस्तुपालो गिरा मम ॥७२॥ त्रिभिर्विशेषकम् । तेनाप्यागत्य जगदे, जगतीदेवमत्रिणे । सदीकवदनोद्भूतं, मदोद्दारमयं वचः॥७॥ तिरस्करोति चैतन्यं, दत्ते मूढत्वमङ्गिनाम् । इन्दिरा मदिरेवैषा, पापव्यापनिवन्धनम् ।।७४॥ इति ध्याखा महामन्त्री, पुनस्तस्मै न्यवेदयत् । सौहात्तिन्मुखेनैवं, मदावेगचिकित्सया ॥७५॥ अतःपरं निजागारे, सावधानतया खया। | स्थेयं सर्वाभिसारेण, रक्षता मा(रक्षित्वात्मा)नमादरात् ॥७६॥ भवतो दुर्विनीतलं, सर्वेषामपमानदम् । उपहतुं समेतोऽहं, भास्वानिव | तमोभरम् ॥७७॥ नागदष्टमिवाङ्गुष्ठमुच्छिन्दन् दुष्टमीश्वरः । सन्यायधर्मनिष्णातः, पुष्णाति विशदं यशः ॥७८॥ भट्टो गत्वा तथै-* वाख्यत्परं नासावमन्यत । नाशकाले यतः पुसो, विपरीता मतिभवेत् ॥७९॥ अथास्त्यनेकदेशीयलोकलीलाविलासभृत् । उदन्वल्लोलकल्लोलप्लावितोपांतभूतलम् ॥८०॥ संसारसुखसर्वखप्राप्तिसत्रापणोपमम् । वड्याख्यं क्षमाख्यातं, वेलाकूलपुरं भुवि ॥८॥
यस्मिन् सश्रीककोशानि, राजहंसान्वितानि च । दृश्यन्ते कमलान्युच्चैर्विजिगीषुबलानि च ॥८२॥ शङ्खक्षोदयशाः शङ्खः, शङ्क| पाणिरिव श्रिया । तस्मिन्नासीन्महौजखी भूपति रिवाहनः ।।८३॥ पञ्चाशद्वंशमध्यस्थ, मुशलं खादिरं क्षणात् । यश्छिनत्ति स्फुर-100 तेजा, अन्जनालमिवासिना ॥८४॥ प्रभूतसैन्ययुक्तत्वाद्विश्रुतिं सर्वतोमुखीम् । यः स्वाधी(साध)नसमुद्रोऽयमिति लेभे भयोज्झितः॥ ॥८५॥ वस्तुपालोदितं तस्मै, खलेखेन स रोषभृत् । पृथ्वीभुजे समर्थाय, सदीकस्तु न्यवेदयत् ॥८६॥ तत्स्वरूपं ततो ज्ञात्वा, तस्य प्राणप्रियः सुहत । विदग्धभट्टहस्तेन, लेखं क्रोधो(वक्रोक्तिगभिंतम् ॥८७।। भूपालो वस्तुपालाय, प्राहिणोद्विकरा(कोपका)लरुक् । मन्दायन्ते न हि क्वापि, सख्युः कार्ये महौजसः ॥८८॥ युग्मम् ।। मुक्त्वा हस्ताम्बुजे लेख, मत्रीशस्य स मागधः । उत्क्षिप्य पाणि| पद्म स्वमाशीर्वादं ददाविति ॥८९।। यत्रारोप्य भुजङ्गपुङ्गव इव श्रीवत्सवक्ष्माभरं, सानंदं रमया स वीरधवलः खामी सह क्रीडति ।
Page #100
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तानः ।
श्रीवस्तपालास श्रीमान् जयाताजगजनमनोऽभीष्टार्थचिन्तामणिस्तेजस्वी भुवि वस्तुपालसचिमः सीमा महात्यागिनाम् ॥९॥.तथा मार्गान् यः चरितम् । परितोऽवरुध्य गुणिमो यत्र कचिद्गच्छतोयानीय प्रसभं दुकूलतुरमखणैः समस्यर्चति । आहूय द्विपतोऽपि.बन्दिवचनघोर विधत्ते
परणं सोऽयं हन्त बसंतपालसचिव केसां बचोगोचरः॥९॥ तं निवेश्योंचितस्थाने, सन्मानामृतवर्षिमिः।क्षणं.सन्तोष्य च श्रीमान् , 1॥३॥ सचिनोविचनैनिंजः ॥१२॥ लेख लेखाधिपप्रख्य, आदाय करपङ्कजे । अपनीय स्वयं मुद्रा, वाचयामासः तद्यथा ॥९॥ युग्मम् ।।
स्वस्तिः प्रणस्य सर्वज्ञ, ब्रह्माणं पुरुषोत्तमम् । चिदानन्दपदं देव, महेशं सुमनःप्रभुम् ॥१४॥ उपाधिश्रियो धाम, वडूयानामपत्तनं । अस्ति भूम्वस्तिकाकार, मानारत्नविराजितम् ।।९५।। युग्मम् ।। स्थांवरजंगमैनित्य, भूरिभक्तिविभूषितः । राजेन्द्रमन्दिरं यत्र, राजते | मचवारणः॥९॥ प्रासादा देवतानां च, पुण्यभाजां च सूनधः । यत्रोन्नतिजुषो भांति, सर्वतः पृथुलक्षणाः ॥१७॥ तस्मात्पुरानराधीशः, शङ्खः शङ्खधरः श्रिया । सदा व्यवस्थितिं बिभ्रदलभद्रोदयान्वितः ॥९८॥ सकलः सोमवत् श्रीमान् , प्रास्तदोषस्तु सूर्यवत् ।।
बहुधान्योपकारी च, विद्युद्वानिव सज्जनः ॥९९॥ स्तम्भतीर्थपुरे तत्र, पवित्रे देवसद्मभिः । सरित्सागरसंयोगनिर्मलीभूतभृतले.॥ Cal.np००। प्रद्यमासासरस्वत्योायधर्मश्रियोस्तथा । यो याति सांप्रतं लोके, प्रियमेलकतीर्थताम ॥१॥ यो ददाति श्रियं सारां, मार्ग
भ्यो दिने दिने । तेऽपि यस्म वितत्वन्ते, सन्तुष्टा आशिषः शिवाः॥२॥ स्निग्धेः सम्भाषणैरेव, यस्य द्रविणवर्षणैः(पिणः)। अथिनामुपशाम्यन्ति, दौस्थ्यानि श्वासघायवः ।।३स्थानभ्रष्टस्य यः साधोराधारः प्रोन्नतस्थितिः। जटाजूटः सुरस्रोतःप्रवाहस्येव शाम्भवः *un श्रीवस्तुपालमत्रीश, साञ्जसं बहुमानतः। तमालिङ्गयान्तरप्रीत्या, समादिशति तद्यथा ॥५।नवमिरर्थकुलकम् । सप्तखङ्गेषु
सज्यस्य, श्रेयोऽस्माकं प्रवर्धते । गुर्वाशीर्वादमत्राणां,..प्रभावेण-गरीयसा ॥६॥ स्वकल्याणमयोदन्तसुधासेकेननोऽनिशम् । प्रवृद्धि
॥१३॥
Page #101
--------------------------------------------------------------------------
________________
88888888883% X€3&&&&&&&&&&&
भवता नेयः, प्रीतिकल्पलताङ्कुरः ॥७॥ न्यायर्धर्मधुरीणस्य, वीरश्रेणिशिरोमणेः । प्रयोजनमथ स्नेहात् किश्चित्तव निगद्यते ॥८॥ तत्रः नः परमं मित्रममंत्रं सर्वसम्पदाम् । उपकारी सदाचारी, व्यवहारीः सतां मतः ॥९॥ गुणवृद्धवयोवृद्धधनवृद्धेषु चोत्तमः । आधारः पौरलोकानां विशेषाद्वणिजां पुनः ॥ १० ॥ श्रीमान् सदीकनामास्ति, दिवस्पतिरिव श्रिया । पितेव स त्वया नित्यं, माननीयः शिवा | थिंना ॥ ११॥ युग्मम् ॥ मर्यादामार्यनिर्व्यूढां समुद्धत्य पुरातनीम् । नवीना न त्वया कार्या, रीतिः श्रेयोऽभिलाषिणा ॥ १२॥ कृति - नस्तस्य सन्माने, वयमेवात्र मानिताः । अन्यथा भवतः क्षेमं पश्यामो नायतौ पुनः ॥ १३॥ लेखवाच्यमिति ज्ञात्वा, मंत्री दातृवरो ददौ । तस्मै हेमयुतद्वन्द्वं, तथा जात्याश्वविंशतिम् ॥ १४॥ श्री कर्णविक्रमदधीचिसमुञ्जभोजाद्युर्वीश्वरा भुवनमण्डनवस्तुपालं । दानैक| वीरपुरुषाः सममेव नीताः प्रत्यक्षतां कलियुगे भवता कवीनाम् ||१५|| इत्याशीर्वादवैदग्धीं, दधानं मागधाधिपं । सन्मानदानंतो नीखा, गौरवं विससर्ज सः ॥ १६ ॥ कविराजं निजं भट्टं, तस्यानुपदमेव सः 1. सलेख प्रेषयामास शङ्खोवासवं प्रति ॥१७॥
बडयाख्यपुरे प्राप्य, सोऽपि राजसभां गतः । पीनोरस्कं वृपस्कन्धं निविष्टं सिंहविष्टरे || १८ | दृष्ट्वा शंख महाराजं, राजमानं नृपव्रजैः । आशीर्वादमिति प्रादाद्विस्मयस्मेरमानसः ॥ १९॥ युग्मम् ॥ दृष्टः साक्षादसुरविजयी रामचन्द्रो नरेन्द्रः, सूनुर्भानोर्जगदमिमतावाप्तिकल्पद्रुमोऽद्य । क्षोणीनाथे निखिलवसुधाधीशशृङ्गारकल्पे, श्रीमन् शङ्ख ! त्वयि नयनयोर्गोचरं वीर | जाते ||२०|| मुमोच चरणाम्भोजपीठे लेखमसौ ततः । राजापि वाचयामास, निजामात्येन तद्यथा ॥२१॥ महातेजोजनयिता, | संश्लिष्यत्सर्वमङ्गलः । प्रीणन् गणश्रियं भूयाञ्जयाय वृषभध्वजः ||२२|| क्रमहीनोऽप्यहीनोऽभूद्विश्वाधारधुरंधरः । यदंड्रिसेवया स श्रीपार्श्वः स्वार्थ (मी) श्रियेऽस्तु नः ||२३|| स्तम्भतीर्थपुराद्विश्वविश्वाभरणसन्निभात् । अनन्तनयनाभोगराजञ्जनविराजितात् ||२४||
8838283%88% 38388888883483
Page #102
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः।
श्रीवस्तुपाल
श्रीवीरधवलाधीशपादपद्ममधुव्रतः। तेजःपालाग्रजो मत्री, स्वाम्यादेशवशंवदः ॥२५॥ बडूयाख्यपुरे भास्वत्कल्याणोन्नतसम्पदि । चरितम् । हेमाचल इवोत्तुङ्गभद्रशालोपशोभिते ॥२६॥ श्रीमन्तं शङ्खनामानं, मण्डलेश्वरमुत्कटम् । दोर्दण्डमण्डला(पा)रूढजयश्रीकेलिवल्लिकम्
| ॥२७॥ सस्नेहं गाढमालिंग्य, बहुमानपुरस्सरं । एवमादिशति प्रीत्या, कल्याणं सुहृदं यथा ॥२८॥ पञ्चभिः कुलकम् । भवतामाययो ॥४४॥
पूर्व, विज्ञप्तिर्जगतीभृताम् । अवाधार तया वाच्यस्वरूपं च यथास्थितम् ।।२९।। सत्पक्षपातनिष्णातैः, परमन्यायवादिभिः । निवेदितं | | भवद्भिर्यद्, भूतलोपकृतौ रतैः ॥३०॥ युग्मम् ।। सतामेव परं पक्षपातः कत्तुं भवादृशाम् । युज्यते भूभुजांन्यायान्यायमार्गप्रकाशि
नाम् ॥३१॥ असतः पक्षपातेन, समर्थोऽपि विनश्यति । अङ्गराजो महावीयों, यथा दुर्योधनाश्रयाद् ।।३२॥ भवता क्रियते यस्तु, | सदीकस्य दुरात्मनः । पक्षपातो न स श्रेयान् , परिणामे कुपथ्यवत् ॥३३॥ स एव गुणवान् लोके, गौरवाहश्च जायते । पक्षो गुण
| वतां येन, क्रियते सुकृताकरः ॥३४॥ सेवाविधौ सदीकस्य, यदादेशनिवेदनम् । तन्न युक्तं यतो नीचा, एव नीचानुपासते ॥३५॥ Cell यदादेशि च तत्काज्ञाखण्डने भावि नो शुभम् । मशकादेशभङ्गेन, तत्समं हेमपक्षिणः ॥३६॥ बिभेति किमु भृतेभ्यो, वसन् प्रेतनि
केतने । भानुबिम्बाश्रितः किं वा, पीडयते तमसा जनः ॥३७॥ तदेतद् हृदये ध्यात्वा, तथाऽऽधेयं हितावहम् । यथा चौलुक्यभूभर्ता,
न मनागपि यते ॥३८॥ मत्रिलेखभवं वाच्यमित्यास्वाद्य नृपः कटु । अंताक्रुद्धोऽभ्यधार्ट्स, भ्रकुटिं विकटां वहन् ॥३९।। निजो* चितमुवाचैष, किराटकुलपांसनः । वाचो वंशानुसारेण, यत् स्फुरन्ति शरीरिणाम् ॥४०॥ सिन्धुराजात्मजो दानी, दानलीलायितस्ततः।
चक्रे तमीश्वराधीशं, याचकाधीशमप्यहो ॥४१॥ ततो विसृज्य तं शङ्खः, शङ्खासुर इव ज्वलन् । क्रुद्धो युद्धोरुसामग्री, समग्रां विदधे कुधीः ॥४२॥ विज्ञातशङ्खवृत्तान्तो, मत्री वैतालिकाननात् । श्रीवीरधवलादेशादाहूयाखिलभूभृतः ॥४३॥ सैन्यमेलापकं कृत्वा, कृता
॥४४॥
Page #103
--------------------------------------------------------------------------
________________
श्यकसत्क्रियः । चचाल पुरतस्तस्मात् , शङ्खराजजिगीषया ॥४४॥ युग्मम् ॥ ब्रजतो जययात्रायै, पुण्यसत्रस्य मत्रिणः । करस्थाः शकुनाः सर्वे, शंसन्ति स्म जयश्रियम् ।।४५।। अचलच्चलता तेन, समं सिंहासना सुरी । आजौ साहाय्यमाधातुं, पुरोधाय कपर्दिनम् । ॥४६॥ महावलोऽपि तस्यासीदनुकूलगतिमृदुः। साधुलोकानुकूलस्य, महाबलविलासिनः ॥४७॥ ववृधेऽनुपदं तस्य, सर्वतोऽपि पताकिनी । वृद्धिं विधातुकामस्य, जनेषु नयधर्मयोः ॥४८॥ नानातोद्योद्भवै रावैर्वन्दिवर्गजयारवैः । ध्वन्यद्वैतमयं जातं, रोदसीकन्द-| रोदरम् ॥४९॥ स क्रमाद्देशसीमानं, प्राप्य(सीमा) सी(भी)मारिमर्दिनाम् । आक्रम्य शङ्खभूभर्तुः, स्कन्धावारमतिष्ठिपत् ॥५०॥ अथो | भुवनपालाख्यः, क्षमापालः स्फुरदलः । मन्त्र्यादेशात्समायासीत्तत्र क्षत्रकुलांशुमान् ॥५१।। प्राप्ते प्रत्यर्थिनां सैन्ये, कृतदैन्येऽर्थिनां | बजे। असूनां च वसूनां च,गणनां यो न निर्ममे ॥५२॥ तथा सामन्तपालाद्याश्चाहुमानान्वयोद्भवाः । प्रवाहा इव गङ्गायाः, प्रापुस्तत्सैन्यसागरम् ॥५३।। अन्येऽपि नगरग्रामस्वामिनः खबलान्विताः। आययुयुधि सोत्साहाः, श्रीचौलुक्यनृपाज्ञया ॥५४॥ चरप्रचारतः श्रुत्वा, देशसन्धिसमागतम् । सैन्यं श्रीमत्रिराजस्य, राजन्यशतसंयुतम् ॥५५।। सिन्धुराजात्मजः सिन्धुरिव सत्त्ववतां गुरुः । सर्वाङ्ग खौजसा प्रौढवायुनेवोदजम्भत ॥५६।। युग्मम् ॥ कुपितः करवालेन, तदानीं सिन्धुभूर्बभौ । कल्पान्तविप्लुतः शम्भुः, कृतान्तेनेव | सङ्गतः॥५७॥ शस्त्राधिष्ठायिदेवीनां, कृखा पूजामहोत्सवम् । सोत्साहः स ददद्दानं, मागणेषु पदे पदे ॥५८॥ श्रितः सरङ्गया सङ्ख्ये, | || सेनया चतुरङ्गया । प्रतस्थे जययात्रायै,मत्रिसैन्योपरि प्रभुः ॥५९॥ युग्मम् ।। ब्रजन्नेष हयोदस्तै-रजोभिः प्रसृतैर्दिवि । अकाले रा
जहंसानां, कलयामास प्रावृषम् ॥६०॥ झटित्यागत्य साटोपो, वटकूपसरस्तटे । व्याचष्ट पटहध्वानर्द्विषतां स्वं समागतम् ॥६॥ | निःस्वाननिःस्वनानस्य, कर्णाभ्यर्णमुपागतान् । उदस्तभृकुटीभङ्गया, मन्त्री प्रत्युदगादिव ॥६२॥ अथ तत्र स्थितस्यास्य, ववृधे सैन्य
Page #104
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥४५॥
सागरः। वाहिनीभिरनेकाभिर्नानाविषयभूभृताम् ॥६३॥ युधि सान्निध्यमाधातुं, कौङ्कणाधिप आययौ। सिन्धुसूनुनरेन्द्रस्य, भा
चतुर्थः वुको भूरिविक्रमः ॥६॥
प्रस्तावः। __ आभीरा भैरवाकारा, निर्भया भूभृतस्तथा । त्रिनेत्रविक्रमास्तत्र, तदाहृताः समागताः ॥६५॥ निर्निदानस्तदा दानैः, सैन्ययोरुभयोरपि । केचित्कृतार्थयामासुरथिनो वीरकुञ्जराः ॥६६॥ सोत्साहाः पूजयामासुः, सोत्सवं देवतावलीः। केचिन्नरेन्द्रपुन्नागा, नागाधिपपुरस्सराः॥६७॥ मनोरथशतैः प्रार्थ्यः, सङ्ग्रामोत्सववासरः । उत्कण्ठाकुलचित्तानां, वीराणामागमत्तदा ॥६८॥ अथाश्ववारा | दुर्वारबाणधोरणिवर्षिणः । प्रासरन् सङ्गरक्षोण्यां, शङ्खस्याख्यातविक्रमाः ॥६९॥ गजेन्द्रा वाजिगजेन्द्रैः, खुरोत्क्षिप्तानि सर्वतः(गर्जितैवाजिराजेराकम्पकारिणः)। रजांसि शमयामासुगरीयांसो मदाम्बुभिः ॥७०॥ प्रौढराजाङ्गजबातैः, सर्वतः परिवारितः। नानातोद्यपटुवानधरां बधिरयन्निव ॥७१॥ वीराणामग्रणीः शङ्खो, मदोन्मत्त(भिन्नशङ्ख) इव द्विपः । सङ्घामावेगदुर्वारः, सश्चचार शनैः शनैः॥ ॥७२॥ युग्मम् ॥ वीक्ष्य शङ्खभटान् सङ्ख्ये, स्फुरतः स्फुरितौजसः । खसैन्यं सज्जयामास, निस्वासः सचिवस्तदा ।।७३॥ चन्दनागु-10 रुकर्पूरकस्तूरीकुङ्कुमस्रजः । जयश्रीवरणायोकैखि वीरै विंदधिरे ॥७४॥ अथोपसर्गहन्तारं, श्रीपार्श्व परमेश्वरम् । आनर्च सचिवः सर्वोपचारैश्चतुराग्रणीः ॥७५॥ समं सामन्तपालाद्यैः, पार्थिवैः पार्थविक्रमैः। मत्री भुवनपालश्च, राजा सन्नाहमग्रहीत् ॥७६॥ सन्नाहः समरारम्भप्रोल्लसत्सत्त्वशालिनः(सम्पदः)। वस्तुपालस्या(उच्छ्वसन्त्याम)मात्यस्य, नो मात्यस्य तनौ तदा ॥७७॥ आरुरोह हयं
॥४५॥ | हेपारवत्रासितशात्रवम् । जितोच्चैःश्रवसं गत्या, मन्त्री सुत्रामवजवात् ॥७८|| सुसुपर्णोपम(स्वर्णपक्षोपम) स्वर्णप्रक्षरोभयपक्षतः । तमारूढस्तदा मन्त्री, गरुडध्वजबद्धभौ ॥७९॥ अत्रान्तरे नरेन्द्रेषु, शृण्वत्सु निखिलेष्वपि । वस्तुपालस्तुति कश्चिद्विपश्चिदिति निर्ममे ॥
Page #105
--------------------------------------------------------------------------
________________
CDSZERKEDSEDEXEDEAD
||८०|| खेलद्भिः खरदूषणास्तसुभगैः क्षीराब्धिबन्धोद्धुरै - रुच्चैरावणनाशभासुरतरैरेभिर्यशोभिर्भृशम् । भूमिं भूषयति त्रयीतनुकुलक्षोणीधवस्पर्द्धया, श्रीसोमान्वयसम्भवोऽपि सपदि श्रीवस्तुपालः कृती ॥ ८१ ॥ द्रम्माणां प्रददे तस्मै, स लक्षं पारितोषिकम् । यतो रणाङ्गणे श्रेयो, जयश्रीकारणं परम् ॥८२॥ ततः प्रतस्थे कोदण्डपाणिरुद्दण्डपौरुषः । शङ्खस्य सम्मुखं मत्री, ध्वनदातोद्यबन्धुरम् ।। ॥८३॥ भूपा भुवनपालाद्या, यद्यप्यग्रेऽभवंस्तदा । तथापि स पुरस्तेषां वीरैः शूरतया मतः ॥ ८४ ॥ स्थितं सङ्खयमुखे शङ्खस्तं वीक्ष्य | विकसन्मुखम् । पाणौ रणरसोत्तालः करवालमलालयत् ||८५|| स्थितेऽत्र सम्मुखे शङ्खः, प्रवेष्टुं नाशकच्चमूम् । रोहिणीरोषरौद्रोऽपि, यथा दशरथे शनिः ॥ ८६ ॥ चलत्सैन्यद्वयोत्क्षिप्तक्षोणिरेणुगणोऽनणुः । उदेष्यतः प्रतापानेर्धूमराशिरिवोत्थितः ||८७|| वाहिन्योस्तत्र संयोगे ( सम्भेदे), स कोऽपि तुमुलोऽभवत् । यस्याग्रे मन्दतामेति, सामुद्रोऽपि महाध्वनिः ॥ ८८ ॥ अवाञ्चितानि चापानि, भ्रुवोर्युग्ममुदञ्चितम् । सुभटैः कोपसाटोपैर्वाहिनी द्वितयेऽपि च ॥ ८९ ॥ काण्डानां सह कोदण्डगुणैः सन्धिरजायत । तेषां वीरप्रकाण्डानां, विग्रहस्तु परस्परम् ॥९०॥ कर्णे लगद्भिरन्येषामन्येषां जीवितव्ययम् । सृजद्भिर्विदधे बाणैः, स्पष्टं दुर्जनचेष्टितम् ॥९१॥ तस्मिन् सङ्ग्रामसत्तीर्थे, विशिखैर्गुणनिर्गतैः । भिच्या विकर्त्तनं चक्रे, परस्मिन् पुरुषे लयः ॥ ९२ ॥ विहाय शरधिं वेगाच्चापमापुः शिलीमुखाः । चिह्नमेतत्सपक्षाणां विधुरे यत्पुरः स्थितिः || १३ || खड्गिनः खड्गिभिः कुन्तपाणयः कुन्तपाणिभिः । योधा योधैर्हयारूढा, हयारूढैश्च सङ्गताः ||९४ || क्षगं क्षोणिक्षयाकाण्डकल्पान्तारम्भसन्निभम् । सुरासुरैर्दुरालोकं, ससृजुः समरोत्सवम् ॥ ९५ ॥ युग्मम् || लिप्ता तदा (परस्परं) रणक्षोणिरिव (रेणुः) कुङ्कुमकर्दमैः (मः) । व्यधायि रुधिरैर्योधैर्जय श्रीवरणेच्छया ॥ ९६ ॥ भटाः शरोत्करैः केचिच्छय्यां रणाङ्गणे । सुखार्थमिव वीराणां, दीर्घनिद्रामुपेयुषाम् ॥९७॥ वाणैन्यमाङ्गणे केऽपि व्यधुर्मण्डपमुत्कटम् । भूमौ पतितवीराणां,
*%88% %83%%83%%88%%C3%%C3%
Page #106
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः।
मन्ये छायां चिकीर्षवः ॥९८॥ स्वर्वधूवरणोद्भूतप्रभृतानन्दमेदुरः। कबन्धः कोऽपि वीरस्य, रणरङ्गे नन च ॥९९॥ पराक्रमगुणाश्रीवस्तुपाल चरितम् । *
कृष्टदिविषद्वन्दनिमितम् । केऽपि दधुः सुमोत्सं, मूर्त यश इवात्मनः॥२००॥ स्वामिप्रोत्साहनं पृष्ठे, मागधोत्तेजनं पुरः। सुभ
टानां(विक्रान्तानां) विशेषेण, जज्ञे विक्रमवृद्धये ॥१॥ उद्दिश्यापि द्विषन्मुक्तैन मन्त्री बिभिदे शरैः । अदृष्टा अपि रक्षायै, यस्य ॥४६॥
जाग्रति देवताः ॥२॥ मन्त्रीश्वरचमृप्रष्टैदृष्ट्वा रुष्टाशयोऽधिकम् । स्वसैन्यवीरसंहारमारब्धं वीरकुञ्जरैः ॥३॥ राजा सङ्ग्रामसिंहोत्र, सङ्ख्येऽसङ्ख्यपुराधिपः । निजदोर्दण्डपाण्डित्यं, दर्शयामास विद्विषाम् ॥४॥ युग्मम् ॥ अपि भ्रपल्लवोल्लासः, परैर्यस्य सुदुस्सहः । तस्य | सङ्ग्रामसिंहस्य, खगोल्लासं सहेत कः ॥५॥ तमन्तिकमथायातमनपेक्षितजीवितः । भूमान् भुवनपालाख्यो, भूपः प्रत्यभिजग्मिवान्
॥६॥ सखा शजस्य सामन्तः, सेनामुल्लास(नां सीमन्त)यन्नृपः । विवशात्मा रणावेशादभ्ययुङ्क तमन्तरा ॥७॥ शस्त्रः शस्त्रेषु भनेषु,तयोरप्रतिमल्लयोः । मल्लयोरिव सञ्जज्ञे, मुष्टामुष्टि कचाकचि ॥८॥ गगने प्रेक्षमाणाभिरप्सरोभिस्तयोयुधम् । बहु मेने खकीयानां, नेत्राणामनिमेषता ॥९॥ सामन्तमन्तकस्यान्तं, स नीत्वा सखरं पुनः । समं सङ्ग्रामसिंहेन, सङ्ग्रामं कर्तुमभ्यगात् ॥१०॥ शङ्खन खड्गधातैाग् ,खण्डखण्डकृतं वपुः। जाने भुवनपालस्य,पौरुषं न तु खण्डितम् ॥११॥श्रुखा भुवनपालस्य, मरणं रणसीमनि । सचिवस्तेन वीरेण, | | विदधे युद्धमद्भुतम् ॥१२॥ असुमिरस्थिरैः क्रेतं, यशः सुस्थिरमात्मनः । धृतासिः प्राविशद्वीरो, वीरमः समराङ्गणम् ॥१३॥ शङ्खपत्तिजयन्तश्च, मत्रिपत्तिश्च वीरमः । उभौ वज्रिसभां प्राप्तौ, सस्पृहौ विजयश्रिये ॥१४॥ भ्राता सङ्ग्रामसिंहस्य, रणसिंहो महाभुजः । राज्ञासामन्तसिंहेन, युद्धेऽवधि भटावधिः॥१५॥ ततो द्विगुणरोषेण, शङ्खनैष क्षितीश्वरः। तीक्ष्णेन कङ्कपत्रेग, विद्धो वेगादिवं ययौ ॥१६॥ तत|खिलोकसिंहेन, हतः सङ्ग्रामसिंहमूः। वीरसिंहो महावीरः, पितृव्यानुपदं ययौ ॥१७॥ कोंकणः कदलीगर्भकोमलः कमलाननः । प्रताप
। मल्लयोरिव सामानों सीमन्त)यनृपः क्षतजीवितः । भमा अपलवोल्लासः, परैर्यस्य मधामसिंहोञ, al
॥४६॥
Page #107
--------------------------------------------------------------------------
________________
नृपतिः सेहे, न मनाग्मत्रिभास्वतः॥१८॥ वैरिणामपि वीरेण, रणान्तर्व्ययतात्मनाम् । वाचि वाचिगदेवेन, स्वबाहुस्तुतिराहिता ॥१९॥
स्थिखा विपद्यमानेन, भग्नेऽपि स्वचमूजने । पदे पदे कृतः स्तोमः, सोमसिंहेन सङ्गरे ॥२०॥ प्राणेभ्योऽपि प्रियः(यं) शत्रु(स्त्रं) वीराReणामिति निश्चयः। तथायुदयसिंहेन, त्यक्त(क्ता)स्तनोजितो(त) हि तत् ॥२१॥ स्वखड्गखण्डितैरिशिरोभिविषमीकृते । पेते विक्रम
| सिंहेन, क्रोधान्धेन मृधाऽध्वनि ॥२२॥ विभ्यता कुन्तसिंहेन, दुर्जनाङ्गुलिदर्शनात् । विक्रान्तं विस्फुरत्कुन्ते, युद्धे वैकुण्ठवुद्धिना ॥२३॥ * मत्रिणश्चण्डदोर्दण्डद्विषत्खण्डनकौशलम् । विलोक्य बडुयाधीशश्चमत्कारं हृदि न्यधात् ॥२४॥ विकारवर्जितं वीक्ष्य, तं साक्षात्पुरुषो
त्तमम् । प्रबुद्धमथ शङ्खन, विकस(दल)त्कोपसम्पदा ॥२५॥ कपर्दियक्षाम्बिकयोः प्रभावाद्भाखानिवास्तङ्गमितप्रभावः । तदा निमेषो-| जितलोचनाढथैर्यलोकि शङ्खाधिपतिः सुरौषैः ॥२६॥ चौलुक्यभूप(चंद्र)सचिवेन्द्रमहार्यवीय, मखा स्थितं स्थगयताप्ययशोभिराशाः। | आकम्पितप्रचुरपत्रनृपांहिपेन, शङ्खन यातमपसृत्य महाबलेन ॥२७॥ श्रीवस्तुपालसचिवेन जितं जितं चेत्युद्घोषणा सुरगणैर्गगनाङ्गणस्थः । शीर्षोपरि त्रिदशपादपपुष्पवृष्टिं, कृषा व्यधायि जय जीव वचो वदद्भिः ॥२८॥ अत्रान्तरे स्तुति कश्चिन्मत्रिणः कविरब्रवीत् । अपूर्व तव सङ्क्रामकौशलं सचिवेश्वर ! ॥२९॥ तद्यथा-अग्रेऽग्रे पदसङ्गतिविजयिनी सा काचिदोजोगुण-प्रौढासङ्घटनोदपादि कुटिलः शब्दक्रमोऽलङ्कतः । दोषा ये प्रसरन्ति केऽपि परितः सर्वेपि ते धिक्कृतास्तज्जानामि वसंतपालकविना संख्येन शङ्ख तव ॥ ॥३०॥ राजपद्रपुरः शुक्लमण्डपायधनं(पदं) ददौ । मन्त्री तस्मै तदा तुष्टो, यदसौ कविकामधुक् ॥३१॥ ततो निवृत्त्याखिलभूपराजिविराजमानः सचिवाधिराजः । अलश्चकारोत्सववर्यशोभ, श्रीस्तम्भतीर्थ नगरं नयज्ञः ॥३२॥ मत्रिणः स्तम्भतीर्थस्य, प्रवेशेऽथ नभःस्थिता । सिंहयाना सुरी पौरलोकानेवमवीवदत् ॥३३॥ भ्राता सिंहभटस्य यः किल भटश्रेणिशिरोमण्डली-माणिक्यप्रतिबिम्बितांहि
Page #108
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः।
श्रीवस्तुपाल
युगलः श्रीसिंधुराजोऽभवत् । शङ्खस्तत्तनयः पराक्रमवतामाद्याभिधेयः सतां, वीरः सम्प्रति वस्तुपालसचिवेनासौ क्षणानिर्जितः ॥३४॥ चरितम् ।।
जातः कुम्भीतरु(नस)परिवृतः(ढः) किश्चिदुत्तीर्णभार-चक्रे सम्प्रत्यहितवदने नीलनालीकलीला । युत्संरंभाद्विरमति महामात्य
| राजे सृजन्तु, दिव्यं प(4खत्प)ट्टांशुकनिरुपमं पत्तनं पौरलोकाः ॥३५।। अथातोद्यमहाध्यानस्वासयन् दिग्गजानपि । विन्ध्याचलमिवो॥४७॥
द्दीप्रं, मत्तवारणमालया ॥३६॥ आवासं श्रीसदीकस्य, निवासं सर्वसम्पदाम् । ससैन्यः प्राविशन्मत्री, धात्रीपालवृतोऽखिलैः ॥३७।। * युग्मम् ॥ चतुर्दशशतैर्वीरैस्तदीयदैत्यविक्रमैः । आरुह्य वाहिनो दिव्यान् , सुवर्णप्रक्षरावृतान् ॥३८॥ अमोघधारदुर्वारकङ्कपत्रप्रव
र्षिभिः । चक्रे सचिवसैन्येन, समं सङ्ग्रामसाहसम् ॥३९॥ युग्मम् । तत्र कांश्चिद्यशःशेषीकृत्य निर्जित्य कांश्चन । स्वबुद्धिबलयोगेन, तान् जग्राह सुधीवरः ॥४०॥ | वचांस्युच्चावचान्येष, वितन्वन्( विब्रुवन् ) सदीकस्तदा । लेभे श्रीवस्तुपालाद् द्राग, फलं गर्वमहीरुहः ॥४१॥ संशोध्य धवला| गारं, समग्रं तस्य मन्त्रिराट् । हेमेष्टिकासहस्राणि, पञ्चाश्वानां चतुर्दश ॥४२॥ शतानि रत्नमाणिक्यस्थूलमुक्ताफलावली: । गृहेश इव तेजखी, जग्राह गृहभूमिगाम् (भृद्विषाम् ) ॥४३॥ युग्मम् ॥ ततो जयश्रियं पाणौकखा(त्य) सत्कृत्यतत्परः। मन्त्री स्वावासमायासीदसीममहिमोदधिः ॥४४॥ तत्र स्नात्रोत्सवं मन्त्री, निमन्त्र्य श्रावकव्रजम् । कुमारपालभूपालप्रासादे वृषभप्रभोः ॥४५॥ विधाय विधिना हेमध्वजं धर्मध्वजोपमम् । न्यधात्समग्रं श्रीसङ्घमानर्च च सविस्तरम् ॥४६॥ धवलक्क पुरं प्राप्य,ततश्चौलुक्यभूभुजम् । मन्त्री हेमाश्वमाणिक्यप्राभृतैः समतोषयत् ॥४७॥ तदा कवीश्वरः कश्चिद्वस्तुपालस्य मन्त्रिणः। नरेन्द्रादेशमासाद्य, वास्तव्यां स्तुतिमब्रवीत ॥४८॥ श्रीवस्तुपाल! प्रतिपक्षकाल, खया प्रपेदे पुरुषोत्तमखम् । तीरेऽपि वाढेरकृतेऽपि मात्स्ये, रूपे पराजीयत येन शङ्खः
॥४७॥
Page #109
--------------------------------------------------------------------------
________________
*॥४९॥ अपूर्व तव पाण्डित्य, वस्तुपाल ! विराजते । येनैकशङ्खभङ्गेन, विश्वं धवलितं त्वया ॥५०॥ मिलिते तव दलपूगे, तस्मिन् शङ्ख |
च चूर्णतां याते । श्रीवस्तुपालमत्रिन् , महीमुखे कोऽपि तव रंगः॥५१॥ तावल्लीलाकवलितसरित्तावदभ्रंलिहोर्मि-स्तावत्तीव्रध्वनित| मुखरस्तावदज्ञातसीमा । तावत्प्रेखत्कमठमकरव्युहबन्धुः ससिन्धु-र्लोपामुद्रासहचरकरकोडवर्ती न यावत् ॥५२॥ दीनाराणां सहस्राणि, | तस्मै चत्वारि भूपतिः । श्रीमान् विश्राणयामास, प्रीतः सचिवसंस्तवात ॥५३॥ ततोऽधिकं प्रसन्नेन, स्वामिना तेन निर्ममे । दत्त्वा
प्रसादं पञ्चांग, तदास्म बिरुदत्रयम् ॥५४॥ सदीकान्वयसंहारी, शङ्खमानविमर्दनः । वराहः प्रोल्लसत्पुण्यप्रवाहो ज्ञातिपालने ॥५५॥ * | युग्मम् ॥ ततो मन्दिरमासाद्य, सोत्सवं सचिवो निज । राजमान्यजनं सर्व, यथाईत्यागलीलया ॥५६॥ रञ्जयन् सकलांस्तत्र(अंजनानीतान्), ब्राह्मणान् मार्गणानपि । प्रीणयन् पूजयामास, जैनदर्शनमादरात् ॥५७॥ युग्मम् ॥ जिनेन्द्रपूजामुनिसङ्घभक्तिदीनादिदानैरुचितार्पणैश्च । कोटिव्ययस्तेन तदा व्यधायि, शंखाजिदुष्कर्मरजोविशुद्धय ।।५८॥ यतः-कुकर्मयोगेन विधाय पापं, निवर्तते | योऽनुशयी त्रिधापि । सदर्हकृत्यानि करोति सम्यक् , तत्पापशुद्धिं लभते विवेकी ॥५९॥ स्तम्भतीर्थपुरं प्रापत् , पुनर्मत्री नृपाज्ञया । न्यायधर्माभिवृद्ध्यर्थ, जनानां तन्निवासिनाम् ॥६०॥ स्तम्भतीर्थपुरैश्वर्य, पालयन् दलयन् कलिम् । शासन्() परिसरग्रामग्रामण्योऽन्यायवर्तिनः ॥६१।। आमहाराष्ट्रमुच्छिद्य, दुर्दान्तारिनृपानसौ। निन्ये कौटुम्बिकीभावं, पुर्या चौलुक्यभूभृतः ॥६२॥ युग्मम् ।। तद्दण्डद्रविणौधेन, श्रीजिनेश्वरमन्दिरैः । वेश्मभिर्वासयोग्यश्च, नानाधर्माधिकारिणाम् ॥६३॥ तद्देशेषु प्रतिग्रामपुरपत्तनपर्वतम् । विदधे | वसुधां तीर्थकल्पां कल्पतरुर्भुवि ॥६४॥ युग्मम् ॥ आक्रम्य त्याजितैश्वर्या, दायादैर्दनुजोर्जितैः । वेलाकूलाधिपा भूपैः, केशिराजादयोऽन्यदा ॥६५॥ दिवौकस इस भ्रष्टाः, स्वपदाद्गतसंम्पदः । शरण्यं शरणं भेजुः, श्रीमत्रिपुरुषोत्तमम् ॥६६॥ युग्मम् ।। दीनत्वं बद
Page #110
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः।
श्रीवस्तुपाल
नाम्भोजे, नदीनस्वामिनामपि । तेषां विलोक्यकारुण्यसागरः सचिवेश्वरः ॥६७॥ वाहनैर्वाहिनीनाथं, वाहिनींभिः पुरस्कृतः। प्रेरिचरितम् । तस्तर्महीपालैविंगाह्यासह्यपौरुषः ॥६८॥ तद्द्वीपेषु स्वयं गत्वा, कृता पार्थ इवोल्बणम् । रणं सांराविणं कुर्वन् , जगदातोद्यनिःस्वनैः
| ॥६९|| उर्जस्विनोऽपि निर्जित्य, लीलया ललितापतिः । ततो निर्वासयामास, तानसौ निर्दयान्नृपान् (शयान् ) ॥७०॥ चतुर्भिः II૪૮ કરો
कलापकम् । संस्थाप्य स्वपदे केशिद्वीपाधीशादिकान्नृपान् । राजेन्द्रस्थापनाचार्य, स प्रापद्विरुदं तथा ॥७१॥ बोहित्थं कुलहत्थस्य, स्वामी चामीकरादिभिः । निभृतं प्राभृतीचक्रे, तमै प्रणतिपूर्वकम् ॥७२॥ सिंहलद्वीपभूपेन, सकम्पेन, ततोऽधिकम् । गजा दश शतं | चाश्वा, हेमकर्षाश्च विंशतिः ॥७३॥ प्राभूतीचक्रिरे तस्मै, तथा विनयपूर्वकम् । अष्टौ लक्षाः सुवर्णस्य, मल्लद्वारमहीभुजा ॥७४॥
युग्मम् ॥ एवं च करदीकृत्य, नानाद्वीपनरेश्वरात् । सोत्सवं सचिवः प्राप, स्तम्भतीर्थपुरं पुनः ॥७५॥ दुरितश्रेणिसम्मर्दी, * कपर्दी यक्षनायकः । सम्यग्दृष्टिरधिष्ठाता, श्रीशत्रुञ्जयभूभृतः ॥७६॥ गिरिनारगिरीन्द्रस्य, स्वामिनी सिंहवाहना । प्रसन्नमनसौ
प्रौढपुण्यपुण्यानुभावतः ॥७७॥ वदतश्च तमस्विन्यामेकान्ते भूवनोदरे । साक्षादिव समागत्य, निधानवसुधां तयोः ॥७८|| * त्रिभिर्विशेषकम् ॥ तन्निधानधनधन्यौ,तदासन्नपुरादिपु । चक्रतुर्विविधान्येतो धर्मस्थानानि भूरिशः ॥७९॥ पृथ्वी शासति मन्त्रीशे,
सानुजे भाग्यशालिनि । नाभृद् दुर्भिक्षनामापि, कदापि क्षितिमण्डले ॥८॥ सर्वतोऽपि तदा नेशुर्वितराण्यखिलान्यपि । अनीतिभिः
समं सर्वा, ईतयः क्षयमासदन् ॥८१॥ निखिलान्यभजन् प्रीति, दर्शनानि परस्परम् । प्रतिष्ठां परमां प्रापुः, सर्वत्र कृतिनो जनाः *॥२॥ त्रिभिर्विशेषकम् ॥
रामराज्यस्थितिं साक्षात्कर्तुं लोके कलावपि । ताभ्यां महऱ्यावस्तूनि, मोचितानि वनान्तरे ॥८३।। पल्लीवनेषु वृक्षालिर्दुकूलैः |
॥४८॥
Page #111
--------------------------------------------------------------------------
________________
| परिधापिता। विभूषिता च गाङ्गेयरत्नमाणिक्यभूषणैः ॥८४ा युग्मम् ॥ क्रूरकर्मा परं वैराद् (चौरो), ग्रहीता कोऽपि नाभवत् । उल्लसे*कि तमोराशि स्वत्युदयमाश्रिते ॥८५॥ हेममाणिक्यरत्नानि, न्यस्य हस्तेऽपि लीलया। प्रयान्ति विकटाटव्यां, पान्थाः खावसथे | यथा ॥८६॥ महिषाश्चमुखा जातिवैरं त्यक्त्वा खभावजम् । तियश्चः पक्षिणश्चापि, सोदरन्तीतरेतरम् ॥८७।। समग्रेऽपि जने जाते, सज्ज-*
नाचारधारिणि । द्विजिह्वानां स्थितिजज्ञे, परं पातालसमनि ॥८८॥ धनधान्यादिवस्तूनां, प्रजायाः प्रतिमन्दिरम् । अभवन् वृद्धयो| | नित्यं, समं मङ्गलमालया ॥८९।। अष्टादश शतान्यासन् , क्षत्रियाः सुभटोत्तमाः । मत्रिणो वस्तुपालस्य, नित्यं सेवाभिधायिनः | |॥१०॥ चतुर्दश शतान्यन्ये, सेवका भुवने तयोः। सदा सङ्ग्रामशौण्डीरा, राजपुत्र। महौजसः ॥९१॥ ते तुल्यभोगशृङ्गारवसनासन
भोजनाः। तेजःपालस्य सञाताश्छायावत्सहचारिणः ॥९२॥ तद्बलेनोल्लसद्धर्ममाहात्म्येनापि लीलया। मेजतस्तौ त सङ्ग्रामेष्वने| केषु जयश्रियम् ॥९३।। तथाऽजनि तयोः पश्चसहस्री जात्यवाजिनाम् । अन्येषां पुनरवानामयुते द्वे जवोत्कटे ॥९४॥ गवां त्रिंशत्सIRE हस्राणि, द्वे सहस्र वृषाः पुनः । उष्ट्रोष्ट्रीमहिषीणां च, सहस्राणि पृथक् पृथक् ।।९५।। दासीदासपरीवार, आसीदयुतसंमितः। नैक
भृभ्यधिपैर्दत्ता गजानां त्रिशती पुनः ॥९६।। चतस्रः कोटयो हेनो रूप्य(म्नस्तार)स्याष्टौ तथाऽभवन् । रत्नमाणिक्यमुक्तानां, सङ्ख्या नासीत्तयोगृहे ।।९७॥ यतः-पञ्चाशत्कोटिभिः षभिरधिकाभिभृताः किल । पट्पञ्चाशत्तयोरासीद् , द्रम्माणां कोशवेश्मनाम् ॥१८॥ लक्षद्रम्मव्ययो नित्यः, प्रत्यहं पुण्यहेतवे । विशेषधर्मकार्येषु, तयोस्तदवाधिन च ॥९९।। दीनातेप्राणिनां त्राणकारणं गृणधारिणाम | दशद्रम्मसहस्राणां, दानव्रतमभूत्त्योः ॥३००॥ आर्हतानां सदाचारपराणां सदृशां पुनः। द्रम्मलक्षं ददौ मन्त्री, प्रच्छन्नं प्रार्थनां | विना ।।१।। सामर्थ्येन धनेनापि, विना तन्मोक्षण क्वचित् । वन्दिदृष्टौ पदोत्पातस्ताभ्यां तेने पुरो न हि ॥२॥ पशूनामपि सर्वेषां
Page #112
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम् ।
118911
486882486038% 8888888888% 3% 88883
(र्वत्र ), क्षुत्पिपासार्त्तिशान्तये । वर्त्मन्यम्बुतृणादीनां ताभ्यां स्थानानि चक्रिरे ||३|| ( राजधानी पुरेषुच्चैर्न्यायघण्टास्तथा स्फुटम्, वबन्धिरे धराधारन्यायधर्माभिवृद्धये ) ॥ युग्मम् || निलीय स्थीयमानेषु व्यसनेष्वखिलेष्वपि । लोकानां दृश्यते दानव्यसनं केवलं तदा || ४ || इदमैश्वर्यमासादि (द्य), सम्यग्धर्मानुभावतः । प्रापणीयस्ततो धर्मः, परां प्रौढिं मया भुवि ॥५॥
क्षणं ध्यात्वेति मन्त्रीशस्तेजःपालेन संयुतः । अन्यदा धर्मशालायां, गुरून्नन्तुमुपागमत् ||६|| क्षमाभृतां धुरि ख्यातानजिह्मब्रह्मसम्पदा । नरचन्द्रगुरून् भक्त्या, नेमतुस्तौ यथाविधि ॥७॥ भाखता गुरुणा नानातपःस्थितिभृता तयोः । इति प्रकाशितः सम्यग् मार्गः स्वर्गापवर्गयोः ||८|| भवेषु नृभवः श्लाघ्यस्तस्मिन्नुच्चकुलोदयः । तस्मिन्नप्यार्हतो धर्मस्तत्राप्यङ्गिदया पुनः || ९ || दीनानुकम्पनादेव, प्रौढिमासादयेद्दया । दुःखितेषु दयां कुर्वन् भवेदासन्नसिद्धिभाग् ॥ १० ॥ यतः - जिनेन्द्रपूजनं साधुसेवनं गुणिगौरवम् । दीना| नुकम्पनं सम्यक्, कुर्वाणोंगी भवेत्सुखी (जिनः) ॥ ११ ॥ पृथिव्यां बहवः ( नराः प्रतिपुरं ) सन्ति, लक्ष्मीविद्याबलोज्ज्वलाः । दुर्लभस्तु पुमान् प्रायः, परदुःखापहारकः || १२ || यतः शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मनस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः || १३|| यथेप्सितप्रदानेन, दुःखशान्तिर्भवेत्पुनः । सर्वेप्सितार्थदानानामन्नदानं धुरि स्मृतम् ॥ १४ ॥ यतः - ददखान्नं, ददखानं, ददखान्नं युधिष्ठिर ! । अन्नदः प्राणदो लोके, प्राणदस्त्वभयप्रदः || १५ || हेमादिवस्तुदानानां फलं स्यादथवा न हि । अन्नदानफलं सद्यः, क्षुधार्त्तिक्षयतो भवेत् ॥ १६ ॥ बुभुक्षाक्षामकुक्षिः स्वाद्रङ्कोऽपि चक्रवर्त्यपि । समानां दीनतां बिभ्रदन्नदानं ततोऽधिकम् ||१७|| दयया दीयते यत्तु, | दुःखिनां दुःखशान्तये । तद्दयादानमाम्नातमनिषिद्धं जिनादिभिः || १८ || अन्नदातुरधस्तीर्थकरोऽपि कुरुते करम् । ततो दातृषु सर्वेषु,
*83388328G®%8638K80848468%20
चतुर्थः
प्रस्तावः ।
॥४९॥
Page #113
--------------------------------------------------------------------------
________________
गुरुरन्नप्रदायकः॥१९॥ इत्याकर्ण्य महामात्यौ, गुरोर्वचनपद्धतिम् । अन्नदानं सदा कर्तु, सत्रागारपरंपराम् ॥२०॥ सर्वभोजनसामग्रीपूरिताङ्गिमनोरथाम् । प्रथयामासतुः पृथ्व्यां, नानाग्रामपुरादिषु ॥२१॥ युग्मम् ॥ सत्रागारेषु सर्वेषु, मिष्टान्नानि यथारुचि । अश्न|न्त्यतिथयो युक्त्या, दीनार्ताश्च शरीरिणः ॥२२॥ भोजनानन्तरं तेषां, गन्धमाल्यविलेपनैः । ताम्बूलार्पणतश्चापि, गौरवं क्रियतेऽन| घम् ॥२३॥ आयुर्वेदविदो वैद्या, धन्वन्तरिसमप्रभाः। चिकित्सन्ति जनांस्तत्र, सरोगान् मत्रिशासनात ॥२४॥ पथ्यौषधादिसंयोगस्तन्नियोगिभिराहतः। विधीयते सदा तेषां, सुखार्थ खजनैरिव ॥२५॥ यथायोग वितीर्यन्ते, तत्र वस्त्राण्यनेकधा । सर्वप्रकारपुण्यार्थ, यतन्ते यन्महेच्छवः ॥२६॥ प्रीणयन्तमिति प्राणिश्रेणीविश्राणनैनिजैः । कृपालवालं श्रीवस्तुपालं स्तौति स्म कश्चन ॥२७॥ तद्यथा-| अचिन्त्यदातारमजातशत्रु,श्रीवस्तुपालं कति नाथयन्ति (नाश्रयन्ति)।चिन्तामणिः सोऽपि युधिष्ठिरश्च,नान्वर्थसाम्यार्थपदं यदग्रे॥२८॥ दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमुच्चै-स्तुच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् ||* व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥२९॥ ऋणातस्य कवेस्तस्य, ऋणमोक्षं विधाय सः। आजन्म सकुटुम्बस्य, योगक्षेममकारयत ॥३०॥ वन्दिखा द्वादशावर्त्तवन्दनेनान्यदा तयोः । विदधे देशनामेवं, गुरुस्रो निविष्टयोः ॥३१॥ शासनं श्रीजिनेन्द्रस्य, दुष्प्रापमकृतात्मनाम् । प्राप्यते भाग्ययोगेन, नृदेवासुरसेवितम् ॥३२।। अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । न हि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः ॥३३॥ प्राप्य चिन्तामणिप्रायं, तदिदं विश्ववन्दितम् । प्रभाप्रकर्षमारोप्य, सर्वशक्त्या महात्मभिः ।।३४॥ तच्चातुर्य तदैश्वर्य, तत्सामर्थ्य च वर्ण्यते । यजिनेन्द्रमतोद्योतकृते यात्यु|पयोगिताम् ॥३५॥ यतः-प्रकारेणाधिका मन्ये, भावनातः प्रभावनाम् । भावना स्वस्य लाभाय, द्वयोरपि प्रभावना ॥३६॥ प्रभावना
Page #114
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥५०॥
*24888883%88% 33333324828488
भवत्युच्चैः, श्रीजिनेन्द्रमते पुनः । प्रौढप्रासादविम्बानां, प्रतिष्ठादिमहोत्सवैः ||३७|| यः षट्त्रिंशत्सहस्रप्रमितजिनवरोत्तुङ्गरङ्गद्विहारान्, | हाराकारानिवोर्व्याः कनकमणिमयीः कोटिशो जैनमूर्तीः । भूमौ निर्माय लेभे किल फलमखिलं प्रौढसाम्राज्यलक्ष्म्याः, स श्रीमान् कस्य भूमान् स्तुतिपदमभवत्सम्प्रतिः साम्प्रतं न ||३८|| प्रासादा जगदीशस्य, जगदानन्ददायिनः । महर्द्धिभिर्विधातव्याः, सर्वोच्चैः | पदकाङ्क्षिभिः ||३९|| सुवर्णरत्नकाष्ठा धैर्निर्मिता यैर्जिनालयाः । तेषां पुण्यप्रधानानां को वेद फलमुत्तमम् ||४०|| काष्ठादीनां जिना - | गारे, यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि तत्कर्ता स्वर्गभाग्भवेत् ||४१ || कारयन्ति जिनानां ये, तृणावासानपि स्फुटम् । | अखण्डितविमानानि, लभन्ते ते त्रिविष्टपे ||४२|| नूतनाईद्वरावासविधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिभिः ॥४३॥ चक्री श्रीहरिषेणोऽत्र, कस्य श्लाघ्यो भवेन्न हि । हेममाणिक्यरत्नादिप्रतिमाभिरलङ्कृतैः ||४४ || प्रासादेव कृताह्लादैर्विश्वत्रितयचक्षुषाम् । अखण्डं मण्डयामास, षट्खण्डावनिमण्डलम् ||४५|| युग्मम् || एकापि प्रतिमा येन, न्यायोपात्तधनव्ययात् । निर्मिता | त्रिजगद्भर्तुः सोऽवश्यं मुक्तिमश्नुते ॥ ४६ ॥ एकाङ्गुलमितं बिम्बं निर्मापयति योऽर्हतः । एकातपत्रसाम्राज्यं प्राप्य मुक्तिगृहं व्रजेत् ॥४७॥ | मेरोगिरेर्गुरुर्नान्यः, कल्पद्रोर्न परो द्रुमः । न धर्मों जिनबिम्बानां, निर्माणादपरोऽद्भुतः ॥४८॥ त्रैलोक्यसम्पदस्तेषां किङ्कर्यः स्युगृहान्तरे । निर्मापितानि विम्बानि, जिनानां यैर्विधिस्थितैः ॥ ४९ ॥ निर्मिते विधिना चैत्ये, विधिना च प्रतिष्ठिते । एकस्मिन्नपि विम्बे च, मन्त्रिन् मोक्षो भवेद् ध्रुवम् ||५०॥ अन्यायोपार्जितैर्द्रव्यैर्विधिमार्ग विमुच्य च । विम्बं चैत्यं जिनेन्द्राणां कृतं खल्पफल| प्रदम् ॥ ५१ ॥ प्रतिष्ठामर्हतां यो हि, कारयेत्सूरिमन्त्रतः । सोऽर्हत्प्रतिष्ठां लभते चक्रवर्त्तिश्रियोऽथवा ॥५२॥ यावद्वर्षसहस्राणि, पूजयन्ति जिनं जनाः । तावत्कालं बिम्बकर्ता, लभते तत्फलांशकम् ॥५३॥
8X888% 783%8888888888888888
चतुर्थः
प्रस्तावः ।
॥५०॥
Page #115
--------------------------------------------------------------------------
________________
प्रतिष्ठितानां बिम्बानां, यत्पूर्व दर्शनेने । फलं पुण्यानुबन्धि स्यात्तत्सङ्ख्यां वेत्ति केवली ॥५४॥ शत्रुञ्जयादितीर्थेषु, प्रासादान प्रतिमाश्च ये । कारयन्ति हि तत्पुण्यं, ज्ञानिनो यदि जानते ॥५५॥ एकाङ्गुष्ठादिसत्सप्तशतांगुष्ठमितानि यः। कारयत्यत्र भावेन, सर्वपापैः स मुच्यते ॥५६।। अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानऋपभादिजिनेश्वराणाम् । स्वर्गे प्रधानविपुलर्द्धिसुखानि भुङ्क्त्वा , पश्चादनुत्तरपदं समुपैति धीरः॥५७।। ज्ञानं विना हि संसारो, ज्ञानेन शिवसङ्गमः । सिद्धान्ताराधनं तच्च, तद् द्विधा द्रव्यभावतः ॥५८॥ पुस्तकेषु विचित्रेषु, श्रीजिनागमलेखनम् । कारयिखा च स्थाप्यानि, भाण्डागारेषु तानि हि(तत्पूजावस्तुभिः पुण्यद्रव्याराधनमुच्यते । श्रवणं श्रद्दधानं च पठन पाठनं तथा । तद्विदामतिभक्तिश्च भावपूजनमिष्यते ॥) ॥५९॥ मुनिभ्यश्च प्रदेयानि,
ज्ञानाभ्यासविवृद्धये । यथा करतले क्रीडा, मोक्षलक्ष्म्या विधीयते ॥६०॥ इत्थमागमपूजेयं,भवजाडथविघातिनी । केवलज्ञानजननी, Hd कृता भवति भाविनाम् ॥६१।। ज्ञानाराधनतः प्राणी, चक्रिशकमुखान् भवान् । लब्ध्वा तीर्थेशवद् ज्ञानं, लोकाग्रमधिगच्छति ॥६॥
यतः श्रुतज्ञानवशेन वेत्ति, जीवादितत्त्वानि हिताहिते च । ततः प्रबुद्धो विरतिं प्रयाति, तयार्पिता तूर्णमुपैति मुक्तिम् ॥६३॥ लौ-100 किका अप्याहुः-पापामयौषधं शास्त्रं. शास्त्रं पुण्यनिवन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥६४॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन! । ज्ञानाग्निः सर्वकर्माणि, भस्मसात्कुरुते तथा ॥६५॥ यावदक्षरसंख्यानं, विद्यते शास्त्रसञ्चये । तावद्वर्षस-11 हस्राणि, स्वर्ग विद्यापरो भवेत् ॥६६॥ यावत्यः पश्यस्तत्र, पुस्तकेऽक्षरसंश्रिताः। तावतो नरकात्कल्पानुवृत्य नयते दिवि ॥६७।। चतुर्विधस्य सङ्घस्य, पूजनं पर्युपासनम् । चतुःक्षेत्रमिदं प्राहुलोकोत्तरसुखप्रदम् ॥६८॥ चिन्तामणिः करे तस्य, कल्पवृक्षस्तदङ्गणे । कामधेनुः पुरस्तस्य, सङ्घोऽभ्येति यदालयम् ॥६९॥ फलताम्बूलवासोभिर्भोजनैश्चन्दनैः सुमैः। श्रीसङ्घः पूजितो येन,तेन प्राप्तं जनु:
Page #116
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥५१॥
58-848388833883%83% 8838% 883K
फलम् ॥ ७० ॥ सप्तक्षेत्री महामन्त्रिन् विश्रुतेयं सदाफला । अत्रोप्तं धनवीजं हि न क्षयेद्भवकोटिभिः ॥ ७१ ॥ यतः - जिनभवने जिनबिम्बे, जिनागमे जिनवरस्य वरसङ्घ । यो व्ययति निजं वित्तं स एव पुरुषोत्तमो लोके ॥ ७२ ॥ क्षेत्रेष्वमीषु सर्वेषु यथायोगं निजाः श्रियः । सद्द्दष्टिर्वतपूतात्मा, व्ययन् सुश्रावकः स्मृतः ॥ ७३ ॥ यतः - एवं व्रतस्थितो भक्त्या, सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु, महाश्रावक उच्यते ||७४ || निशम्य देशनामेवं, गुरोः सचिवपुङ्गवौ । धर्मस्थानानि निर्मातुं, जातौ सर्वत्र सोद्यमौ ॥७५॥ तथा सर्वोत्तमे तीर्थे, श्रीशत्रुञ्जयभूभृति । नन्दीश्वरेन्द्रमण्डप - रैवताष्टापदादयः ॥ ७६ ॥ सर्वदर्शनसामान्ये, श्री रैवतगिरीश्वरे । श्री| शत्रुञ्जय सम्मेताष्टापदप्रमुखा नगाः || ७७|| आरासादिदलैर्दिव्यैर्जलस्थलपथागमैः । शोभनप्रमुखैः सूत्रधारैस्तच्छास्त्रकोविदैः ॥७८॥ | धर्मेच्छया स्थिरस्थायिधर्महेतोः स्थिरातले । ताभ्यामारम्भिताः कर्त्तुमसाध्या मरुतामपि ॥ ७९ ॥ चतुर्भिः कलापकम् । तदादेशात्प्र|तिग्रामं, प्रासादाः परमेशितुः । कैलाशाचलसङ्काशाः, कार्यन्ते तन्नियोगिभिः ॥८०॥ तत्तद्ग्रामपुरोत्पन्नराजभागधनादिभिः । वृत्ति| विधीयते सूत्रधारादीनां यथारुचि ॥ ८१ ॥ देवदायाः प्रदीयन्ते, ग्रामसीमकरार्पणैः । वाटिकाश्च सुमाद्य (तदर्चा) र्थं, स्थाप्यन्तेऽनु जिनालयान् ॥८२॥
जीर्णाश्च श्रीजिनादीनां प्रासादाः प्राक्तना भुवि । उद्धियन्ते च सर्वत्र, शक्त्या युक्त्या श्रियापि च ॥८३॥ छत्रचामरभृङ्गारतोरणादर्शदीपिकाः । श्रीखण्डद्रवपुष्पादि भाजनानि घनान्यपि ||८४|| सद्धातुकुण्डिकावास कुम्पिकादीपकावलीः । घण्टोपकर्षमाङ्गल्यप्रदीपारात्रिकादिकम् ||८५ || प्रतिचैत्यं विनिर्माय, श्रीजिनार्चनहेतवे । मुक्ताः खमुक्तये ताभ्यां रथयात्राकृते रथाः ॥ ८६ ॥ | पद्भिः कुलकम् || पूजाविघ्नकृतो दुष्टा, उच्छिद्यन्ते बलादपि । जिनधर्मभृतो लोकाः, सन्धार्यन्ते श्रियोऽर्पणात् ॥८७॥ प्रत्याकरं
88888888888888453280888888
चतुर्थः प्रस्तावः ।
॥५१॥
Page #117
--------------------------------------------------------------------------
________________
प्रतिग्राम, पूजानिर्वाहहेतवः । अघाटास्तु विधीयन्ते, राजमुद्रानिवेशनात् ॥८८॥ प्रतिवर्ष निजे देशे, पुरेषु निखिलेष्वपि । श्वेताम्बराणां साधूनां, सर्वेषां प्रतिलाभनाः ॥८९॥ विधीयन्ते च(सु)वस्त्रायैत्रिः प्रत्येकं कृतोत्सवम् । यथौचित्येन निःशेषदर्शनानां तथाचना ॥९॥ भालस्थलानि सर्वेषामाहतानां यथोचितम् । भूष्यन्ते तिलकैर्जात्यरत्नगाङ्गेयनिर्मितैः ॥११॥ मुद्रिकादिकशृङ्गारैरुदारैः श्रावकोत्तमाः । शृङ्गार्यन्ते यथा जैनशासनोद्योतकारिणः ॥९२।। पत्तने स्तम्भतीर्थे श्रीधवलकपुरे पुनः । साधमिकेषु वात्सल्यमतुल्यं
युक्तिभक्तिभिः ॥९३॥ रथयात्रास्तथा तीर्थयात्राः पात्रार्थसाधिकाः । क्रियन्ते दीनलोकानां, पूर्यन्ते च मनोरथाः ॥९४|| स्थाप्यन्ते *शासने विश्वपावने पारमेश्वरे । मिथ्यादृशोऽपि मत्रिभ्यां, ताभ्यां सर्वात्मशक्तितः ॥९५॥ नवभिः कुलकम् ॥
सश्रद्धः सचिवाधीशस्तेजःपालादिभिर्युतः। शुश्रुवे देशनामेवं, नरचन्द्रगुरोः पुनः॥९६॥ पात्रे धर्मनिवन्धनं तदपरे प्रोद्यद्दयाख्यापकं, मित्रे प्रीतिविवर्द्धकं रिपुजने वैरापहारक्षमम् । भृत्ये भक्तिभरावहं नरपतौ सन्मानसम्पादकं, भट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ॥९७॥ दानेन चक्रित्वमुपैति जन्तुर्दानेन देवाधिपतित्वमुच्चैः। दानेन निस्सीमसुखाभिवृद्धिर्दानं शिवे धारयति क्रमेण ॥९८॥ चतुर्विधेऽपि सर्वज्ञधर्मे दानं धुरि स्मृतम् । तत्पुनस्त्रिविधं ज्ञानपात्रदानादिभेदतः ॥९९॥ प्रथमं तेषु सर्वेषु । ज्ञानदानं प्रकीर्तितम् । निदानं सम्पदा सम्यक् , तत्त्वातत्त्व प्रकाशकम् ॥४००॥ विज्ञाय ज्ञानतो ज्ञानी, कृत्याकृत्यान्तरं हृदि । परित्यजत्यकृत्यानि, सुकृत्यानि करोति च ॥१॥ अज्ञानी तु परभवे, भवेदुःखस्य भाजनम् । ततो ज्ञानस्य दाता स्यात्समग्रसुखदायकः ॥२॥ कथ्यते दुष्प्रतीकारोऽत एव ज्ञानदायकः। एकजन्मोपकारिणि, दानान्यन्यानि देहिनाम् ॥३॥ मुख्य परोपकारेषु, लोकद्वयसुखावहम् । ज्ञानप्रदानमेवैकं, तेनेदं क्रियते धुरि ॥४॥ अथाभयप्रदानं स्यादिष्टं निखिलजन्मिनाम् । यस्मादारो
Page #118
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥५२॥
98283% Z€BY 88888888883%
ग्यमायुश्च सुखसौभाग्यमद्भुतम् ||५|| जन्तूनां यद्विना कष्टानुष्ठानानि बहून्यपि । विफलानि भवन्त्येव, बीजवाप इवोपरे || ६ || | विद्या लक्षणहीनेव, रूपहीनेव नायिका । ज्ञानहीनो गुरुरिव, सद्वृक्ष इव निष्फलः ||७|| अलोचनं मुखमिव लिङ्गी ब्रह्मविवर्जितः । न शोभते दयाहीनं, धर्मकार्य (कर्म) सुबह्वषि ||८|| युग्मम् ॥ गर्भे जन्मनि तारुण्ये, बालत्वे वापि यन्मृतिः । आधयो व्याधयो वा | स्युदौर्भाग्यं च दरिद्रता ||९|| अपराण्यपि दुःखानि, हिंसः विषमहीरुहः । कुसुमानि फलं तु स्यात्तीत्रा नरकवेदनाः ॥ १० ॥ यतः - देवो - पहारव्याजेन, यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा, घोरां ते यान्ति दुर्गतिम् ॥ ११॥ तदाहारादिदानेभ्यो दयादानं विशि ष्यते । प्राणदं श्लाघते वध्यो, राज्यस्यापि प्रदायकात् ॥ १२॥ यतः - महतामपि दानानां कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते || १३ || धर्मोपष्टम्भदानं तु तृतीयं बहुधा हि तत् । शय्याचतुर्विधाहारवस्त्रपात्रादिभेदतः || १४ || प्रायः शुद्धस्त्रिविधविधिना प्रासुकैरेपणीयैः, कल्पप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित्परमविहिता हन्त सन्मानयन्ति || १५ || अशनमखिलं खाद्यं स्वाद्यम्भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम् । वसतिफलकप्रख्यं मुख्यं चारित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः || १६ || रत्नत्रययुते पात्रे, धर्मार्थं भक्तिपूर्व कम् । दीयमानं निरवद्यं जायते तन्महाफलम् ॥ १७॥ पात्रं सप्तविधं जैनविम्बं भवनमेव च । संहतिः पुस्तकादीनां श्रीसङ्घश्व चतुर्विधः || १८ || क्षेत्रेषु सप्तस्वेतेषु धनवीजं निवेश्य यः । सिचेद्भावाम्भसा तस्य, शिवश्रीशस्यमक्षयम् ||१९|| पुण्यप्राप्यमिह प्राप्य, पात्रं चित्तं धनं तथा । यो दत्ते भावतो दानं, तस्य श्रीः स्यात्सदोदया ॥ २० ॥ रत्नधातुडुमादीनामन्तरं श्रूयते यथा । सुपात्रस्यापि मत्रीश, तथैव महदन्तरम् ||२१|| यतः - मिध्यादृष्टिसहस्रेषु, गुरुरेको ह्यणुव्रती । अणुत्रतिसहस्रेषु गुरुरेको महाव्रती ॥ २२ ॥
488888888888888888888488888%
चतुर्थः
प्रस्तावः ।
॥५२॥
Page #119
--------------------------------------------------------------------------
________________
*4888888888%2C38% 3888783%88%
| महाव्रतिसहस्रेषु, गुरुरेको जिनेश्वरः । जिनेश्वरसमं पात्रं, न भूतं न भविष्यति ॥ २३ ॥ सहस्रलक्षसङ्ख्यातैर्विशुद्धैः श्रावकैरिह । यत्पुण्यं जायते जन्तोर्मुनिदानं ततोऽधिकम् ||२४|| देशकालागमद्रव्यक्षेत्र दातृमनोगुणाः । सुकृतस्यापि दानस्य, फलातिशयहेतवः ॥ ||२५|| ब्रह्महीने क्रियाभ्रष्टे, दयादमविवर्जिते । गरीयोऽपि भवेद्दानं, प्रायः खल्पफलप्रदम् ||२६|| साधवः परमं पात्रं, द्वितीयं गृहमेधिनः । सम्यग्दृष्टिस्तृतीयं तु, दयार्हाः शेषजन्तवः ॥ २७॥ यतः - उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरय| सम्मद्दिट्ठी, जहन्नपत्तं मुणेयवं ॥ २८ ॥ इयं मोक्षफले दाने, पात्रापात्रविचारणा । दयादानं तु तत्त्वज्ञैः, कुत्रापि न निषिद्ध्यते ॥२९॥ इत्याकर्ण्य गुरोर्वाणीं, प्रमाणीकृत्य मन्त्रिराट् । जिनेन्द्रधर्मयुक्तानां युक्त्या दानं ददौ सदा ||३०|| ग्रामाणां सप्तके दग्धे, यत्पापं | जायते किल । तत्पापं जायते राजन्भीरस्यागलिते घटे ||३१|| संवत्सरेण यत्पापं, कैवर्तस्येह जायते । एकाहेन तदानोति, अपूतज| लमही ॥ ३२ ॥ यः कुर्यात्सर्वकार्याणि वस्त्रपूतेन वारिणा । स मुनिः स महासाधुः, स योगी स महाव्रती ॥ ३३ ॥ त्रैलोक्यमखिलं दवा, यत्फलं ( प्राप्यते बुधैः) वेदपारगे । ततः कोटिगुणं पुण्यं, वस्त्रपूतेन वारिणा ||३४|| विंशत्यङ्गुलमानं तु, त्रिंशदङ्गुलमायतौ । तद्वत्रं द्विगुणीकृत्य, गालयेजलमापिबन् ||३५|| तस्मिन् वस्त्रे स्थितान् जन्तून्, स्थापयेजलमध्यतः । एवं कृत्वा पिवेत्तोयं, स याति | परमां गतिम् || ३६ || इति निध्याय सर्वेषु, जलस्थानेषु भूतले । अश्वराजात्मजः श्रीमान्, जीवरक्षाविचक्षणः ||३७|| सर्वाङ्गगुण| शालीनि, गलनानि कलेर्गले । पाणि तन्वन्करोतिस्म ( स्थापयामास धर्मात्मा ) जलगालनहेतवे ॥ ३८ ॥ युग्मम् ॥ अथावसरमासाद्य, वृत्तिं सद्वृत्तशालिनौ । पूर्वं कृतोपकारेषु, भट्टसोमेश्वरादिषु ||३९|| भूयोभूमिप्रदानेन, वस्तुमण्डपिकादिषु । विशोपकविधानाच्च, कृतज्ञौ कुरुतःस्म तौ ||४०|| युग्मम् || कविः सोमेश्वरः स्माह, स्तुतिमेवं तयोस्ततः । पुषूपति न को वाचं, कृतज्ञगु
*89*%$84888888888888888
Page #120
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥५३॥
*430% 84888888888888888228289/
8-84888883% 883%83%20BKXC®% *
| णकीर्त्तनात् ॥ ४१ ॥ न गिरौ न च मातङ्गे, न कूर्मे नैव शूकरे । वस्तुपालस्य धीरस्य, पाणौ तिष्ठति मेदिनी ॥४२॥ सूत्रे वृत्तिः कृता पूर्व, दुर्गसिंहेन धीमता । विसूत्रे तु कृता वृत्तिस्तेजःपालेन मत्रिणा ||४३|| अन्यदा शुश्रुवे वस्तुपालः श्रीगुरुसन्निधौ । प्रभावं स्तम्भनाधीश श्रीपार्श्वप्रतिमाभवम् ||४४|| पुरे स्तम्भनकाह्वाने, निधाने शस्यसम्पदाम् ॥ श्रीमत्पार्श्वजिनेन्द्रस्य मूर्त्तिर्विश्वातिशायिनी ||४५ || मन्त्रिन् विश्वत्रयोत्कृष्टतीर्थं तीर्थङ्करादिभिः । महिता दलितानेकभत्रपात कपातका ॥ ४६ ॥ समं समग्र श्री सङ्घलोकेन विधिनाधुना । युज्यते ते नमस्कर्त्तु, प्रौढोत्सव पुरस्सरम् ||४७॥ त्रिभिर्विशेषकम् ॥ न्यवेशि वासवादेशाद्, यदा द्वारवती पुरी । वासुदेवनिवासाय देवैरुपपयोनिधि ||४८|| तन्मध्ये प्रौढगाङ्गेयप्रासादे प्रतिमामिमाम् । श्रेयसे स्थापयामास तदा सौधर्मकल्प-| राट् ॥ ४९ ॥ उपेन्द्र बलदेवाद्यैस्तत्रासौ पूजिता ततः । तैः पुनः समये प्रान्ते, प्राक्षेपि वरुणालये ॥५०॥ आरराध ततोऽभीष्टसिद्धये पश्चिमाधिपः । इमामानीय पानीयमध्यात्सौघे निजे चिरम् ॥ ५१ ॥ क्रमेण भुजगाधीशस्फुरत्पुण्यानुभावतः । असौ निस्सीममाहा| त्म्या, नागलोकमुपागता ॥५२॥ भूयो वर्षाणि तत्रापि, स्थिता नागेन्द्रसद्मनि । पूजिता पद्मया देव्या, गीतनृत्यकृतोत्सवम् ॥ ५३॥ श्रेष्ठिना धनदत्तेन, पद्मावत्या निदेशतः । कान्त्यां पुर्यां समानीता, मध्यादाकृष्य वारिधेः || ५४ || निवेश्य कनकागारे, कनकाचलसोदरे । अचितानेकवर्षाणि, नागरैरपि सादरैः ॥५५॥ षट्त्रिंशन्नगरग्रामलक्षखामिविबोधिनाम्। विश्वोत्कृष्टां वपुःशुद्धिं बिभृतां योगलीलया || ५६ || श्रीपादलिप्तसूरीणां, युगोत्तमपदस्पृशाम् । प्रत्यहं पश्च तीर्थानि नवा भुक्तिविधायिनाम् ||५७|| नागार्जुनेन शिष्येण, योगीन्द्रेण मनखिना । सिद्धस्वर्णरसस्तम्भनिमित्तं व्योमविद्यया ॥ ५८ ॥ समानीय ततः स्वेष्टरससिद्धेरनन्तरम् । सेढीनद्यास्तटे न्यस्य, धरान्तः स्थापिता क्वचित् ॥ ५९ ॥ चतुर्भिः कलापकम् । दिव्यानुभावतस्तत्र स्थिताप्यस्त्रापि पायसैः । पूरैः कपिलया
चतुर्थः
प्रस्तावः ।
॥५३॥
Page #121
--------------------------------------------------------------------------
________________
धेन्वा, स्वयमेव प्रदुग्धया ॥६०॥ आविर्भूता क्रमादेषा, गोपस्य सुकृतोदयात् । शतानि पञ्च वर्षाणां, तत्र यज्ञाह्वयाचिंता ॥६॥ महामन्त्रमयस्तोत्रशक्त्या प्रत्यक्षतां गता। श्रीमतोऽभयदेवस्य, गलत्कुष्ठरुजो गुरोः ॥६२।। नवाङ्गीवृत्तिकरणेऽसमं शक्त्या ददावसौ। नवाङ्गपल्लवोल्लासं, सन्तुष्टा प्रतिमा ततः ॥६३।। युग्मम् । तदादेशेन तत्रत्यनृपामात्याईतादिभिः । पुरे स्तम्भनकेऽन्यासि, प्रासादेऽसौ कृतोत्सवैः ॥६४॥ तदेषा परमं तीर्थ, प्रथिता भुवनत्रये । येनार्चिता भवत्येषा, स विशेषश्रियः पदम् ॥६५॥ अस्याः संस्मृतिमात्रेण, विलीयन्तेऽखिलातयः । पीयूषयुषमात्रेण, यथाखिलविषोर्मयः ॥६६।। न्यक्षेणास्या न कोऽपीष्टे, प्रभावं वक्तुमद्धतम् । | वारान्निधेरगाधत्वं, यष्टिः किं वेत्ति वैणवी ॥६७॥ एकशोऽपि परं सम्यग् , भावतोऽसौ नमस्कृता । निरस्यानेकपापानि, दत्ते चित्ते*प्सितं फलम् ॥६८॥ इत्याकर्ण्य गुरोर्वाचं, सचिवः शुचिभावभृत् । आकार्य राजधानीतः, कुटुम्ब निखिलं निजम् ॥६९॥ स्तम्भ*तीर्थादिकानेकनगरव्यवहारिभिः । तत्तत्परिसरग्रामाकरव्यापारिभिर्वृतः ॥७०।। अनुजेन जगजन्तुजीवातुगुणसम्पदा । सदा संवद्धि
तोत्साहो, राजन्याङ्गजराजितः ॥७१॥ दशार्णभद्रवत्सर्वसमृद्ध्या विस्मितामरः । अचलद्वन्दितुं वामानन्दनं विश्वनन्दनम् ॥७२॥ | चतुभिः कलापकम् ।।
वलगत्तुरङ्गमवातखुरोत्खातरजोवजैः। विमला मलिनीकुर्वन् , दिगीशगृहदीर्घिकाः॥७३॥ दीनानाथार्थिनां वृन्दे, ददहानं | दयामयः । स व्रजस्तीर्थयात्रायै, पात्रायत्तीकृतेन्दिरः ॥७४।। मन्दिरं क्रमतः प्राप्य, श्रीमत्पार्श्वजिनेशितुः । स्वयं ननर्त्तवाज्यादीन् , ददौ च शतशोऽर्थिषु ॥७५॥ त्रिभिर्विशेषकम् ॥ ततः प्रदक्षिणीकृत्य, सानन्दहृदयोऽधिकम् । वेश्म वर्धापयामास, हेममाणिक्य| मौक्तिकैः ॥७६।। पञ्चधाभिगमं कृत्वा, पञ्चाङ्ग प्रणनाम सः। आनर्च च प्रभुं भक्त्या, प्रथमं रत्नमालया ॥७७॥ युग्मम् ।। अथा
Page #122
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम् ।
॥५४॥
₹ 838% 48% 83 84838383838
दिवसे ताभ्यां श्रीपार्श्वपरमेशितुः । समं समग्र श्रीसङ्घलोकेन सुविवेकिना ॥ ७८ ॥ प्रारम्भि विधिना स्नात्रं, गात्रपावित्र्यकारणम् । ध्वनदातोद्यनिहादमुदितत्रिदशासुरम् ॥ ७९ ॥ युग्मम् || केचित्तत्र सृजन्ति भक्तिनिभृताः पुष्पाञ्जलिं पश्चधा, केचित् श्रावकसन्ततेश्च तिलकान्याकर्षणार्थं श्रियः । हस्ताम्भोजयुगस्य धूपनविधिं केचित्तु धूपोद्गमादम्भः पूर्णसुवर्णतारकलशादानं तथा केचन ||८०|| मत्रोद्वारमनोहरं च कतिचिद्गीतं तदा कुर्वते, नृत्यं केऽपि जिनेश्वरस्य पुरतो रङ्गप्रदं भङ्गिभिः । तस्मिन् विश्वमनोविनोदजनकस्त्रात्रोत्सवासूत्रिणि, श्रीमन्मत्रियुगे नरेश्वरनिभैः सार्धं महेभ्यैः श्रिया ॥ ८१ ॥ युग्मम् ॥ अथोभयसमश्रेण्या, स्थिता आहतपुङ्गवाः । मत्रिराजौ पुरोधाय सुधाक्स्वामिसन्निभौ ॥८२॥ पञ्च वा सप्त वा मुक्त्वा, जिनेभ्यः कुसुमाञ्जली: । विमलैः कुङ्कुमाम्भो| भिरभिषेकं जगद्गुरोः ॥ ८३ ॥ पवित्रं सूत्रपाठेन, ध्वनत्तूर्यमनोहरम् । ससृजुः संसृतिभ्रान्तिजाततान्तिप्रशान्तये ॥ ८४ ॥ त्रिभिर्विशेषकम् । तदा सङ्घोपरोधेन तचैत्याध्यक्षतां गतः । आगादाकारितः सूरिर्मल्लवादी कवीश्वरः ॥ ८५ ॥
प्रविशन् स जिनागारे, तमालोक्य महोत्सवम् । तदारब्धं तदा देवमञ्जन श्रीविडम्बकम् ||८६ ॥ विस्मयार्णवनिर्मग्नमानसः समयोचितम् । विस्मरन् विशदाचारं, पपाठेति मठेश्वरः ॥ ८७॥ युग्मम् ॥ अहो असारे संसारे, सारं सारङ्गलोचना सकर्णावेतदाकर्ण्य, तौ तदा सूरिणोदितम् । चिन्तयामासतुश्चित्ते, साध्वाचारविशारदौ ॥८८॥ अयं मठपतिनूनमनाचारवतां धुरि । न गौरवास्पदीकर्तुं युज्यतेऽत्रार्हतवजे ||८९|| यतः - अनाचारस्य सन्मानं, सदाचारस्य निन्दनम् । एतद्घोरतरं पापं पाथेयं भवव| र्त्मनि ॥९०॥ यदसौ श्रीजिनागारे, शृङ्गाररसगर्भितम् । श्लोकं पठति मूढात्मा, निर्विवेकजनोचितम् ॥ ९१ ॥ विकथां प्रथयत्यईन्मन्दिरे यो विमूढहृत् । वज्रलेपोपमैः पापैलिप्यते सोऽभितोमुखैः ||९२ ॥ यतः - अन्यस्थानकृतं पापं, क्षीयते जिनवेश्मनि । जिनालय
88888888888888846382886388883%
चतुर्थः
प्रस्तावः ।
॥५४॥
Page #123
--------------------------------------------------------------------------
________________
*-18483
1638*
*
*
*
कृतं पापं, वज्रलेपोपमं भवेत् ॥९३॥ वन्दनीयः स एव स्यात् , साधुः सन्मानपूर्वकम् । शीललीलायित यस्य, शैलेश इव निश्चलम् । |॥९४॥ यथाक्रम निविष्टेषु, विष्टपारिष्टनाशिषु । सूरमरिसमानेषु, सूरिराजेषु भूरिषु ॥९५|| उपाविशयथास्थानं, मल्लवादी मठाधिपः। अनुज्येष्ठमनूचानान् , प्रणम्य परतःपरैः ॥९६॥ आश्चर्यपात्रमासूत्र्य, स्नानं मत्रिवरौ ततः। प्रकारैरष्टभिः सम्यग् ,समभ्यर्च्य जिनेश्वरान् ॥९७॥ आरोप्य श्रीजिनागारे, पञ्चवर्णमहाध्वजान् । अन्यानि, भक्तिकृत्यानि, निर्माय निखिलान्यपि ॥९८॥ नीलरत्नमये स्थाले, संस्थाप्य स्वस्तिकाङ्किते । काश्चनारात्रिकं दीप्यमानं सद्दीपमालया ॥९९।। परितः पूजितं मत्री, श्रीखण्डकुसुमादिभिः। विधिनोत्तारयामास, सूत्रपाठपुरस्सरम् ॥१००॥ चतुर्भिः कलापकम् । आतोद्यनिर्भरारावैः, श्रावयन् युसदामपि । यथामनोरथं दानं, | तन्वानो मार्गणबजे ॥१॥ एक एवासि विश्वऽस्मिन् , दीपस्त्वं सततोदितः। इति विज्ञापनां भक्त्या, कुर्वन् पार्श्वप्रभोः पुरः ॥२॥ | मङ्गलोपपदं दीपं, प्रदीप्रं सर्वतोऽचितम् । कपूरपूरतश्चक्रे, मत्री मङ्गलकारकम् ॥३॥ त्रिभिर्विशेषकम् । भावपूजाकते कुर्वस्ततोऽसौ
चैत्यवन्दनाम । अपाठीदिति वृत्तानि, सुधाधाराकिरा गिरा ॥४॥ देव वं जय रञ्जयन् जनमनोऽभीष्टार्थसार्थार्पणाद्भक्तिप्रवसपर्वशेखरगलन्मन्दारदामाचिंतः। सर्वाशाप्रसरत्प्रभावनिभृतः श्रीपार्श्वविश्वेश्वरः, श्रीमत्स्तंभनकाभिधाननगरालङ्कारचडामणिः ॥५॥
यस्यार्चामणिनाममत्रतदभिश्लेषानुभावोल्लसद्व्यश्रेणिमहौषधीसमुदये माहात्म्यमत्यद्भूतम् । दृष्ट्वाऽशेषमणिवजादिषु तथा भावं बुधा * मेनिरे. स श्रीपार्श्वजिनः प्रभावजलधिर्भूयात्सतां सिद्धये ॥६॥ कृताञ्जलिः पठन् शक्रस्तवं भावं नवं नवम् । दधद्वयधादयं सर्वचैत्य| सत्साधवन्दनाम ॥७॥ मन्त्रगर्भ ततः स्तोत्रं, पठिखाऽशठभक्तितः। प्रणिधानमसौ कृखा, प्रोवाचेति मृदखरम ॥८॥ सर्वमङलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥९॥ शुभमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः।
*
**
821878*1898*4398445398*
**
*
*
*
Page #124
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥५५॥
दोषाः प्रयान्तु नाश, सर्वत्र सुखी भवतु लोकः ॥ १० ॥ ससङ्घानुजसंयुक्तस्ततः सोमकुलांशुमान् । ववन्दे विधिना सर्वश्वरीन् दूरीकृतै| नसः || ११|| अथ तत्राधिकारित्वान्मल्लवादी मठाधिपः । आदेशादन्यसूरीणामुपदेशमदाद्यथा ||१२|| अस्मिन्नसारे संसारे, सारं | सारङ्गलोचना । तेनेत्यर्धोदितेऽप्याशु तं प्रणम्य स्वपाणिना । उत्थाय निर्ययौ मन्त्री, विरक्तहृदयो बहिः ||१३|| क्रमात्समग्र चैत्यानां, कृत्खाच चण्डपान्वयी । जिनेन्द्रशासनं चक्रे, सर्वेषामपि सस्पृहम् ||१४|| ततोऽष्टवासरीं तत्र, जिनपूजामहोत्सवैः । निर्माय सफला| मश्वराजः सूर्यसूरिव || १५ || दानलीलां निजामाविष्कर्तुं कलियुगेऽनघाम् । उद्घोषणाविधानेन, मार्गणालीमजूहवत् ||१६|| भट्टसोमेश्वरप्रायाः, प्रसिद्धाः कविकुञ्जराः । चक्रुस्तत्रागता मत्रिसुत्रामगुणकीर्त्तनम् ॥ १७॥ यथा - श्रीवस्तुपाल ! तव भालतले जिनाज्ञा, | वाणी मुखे हृदि कृपा करपङ्कजे श्रीः । देहे द्युतिर्विलसति च रुषेव कीर्त्तिः पैतामहं सपदि धाम जगाम नाम || १८ || अनिस्सरन्तीमपि गेहगर्भात्कीर्त्तिं परेषामसत वदन्ति । खैरं भ्रमन्तीमपि वस्तुपाल !, तत्कीर्त्तिमाहुः कवयः स तु ॥ १९ ॥
सेयं समुद्रवसना तव दानकीर्त्तिः, पूरोत्तरीयपिहितावयवा समन्तात् । अद्यापि कर्णविकलेति न लक्ष्यते यत्तच्चद्भुतं सचिव|पुङ्गववस्तुपाल ! ||२०|| क्रमेण मन्दीकृतकर्णशक्तिः, प्रकाशयन्ती च बलिस्वभावम् । कैर्नानुभूता सशिरःप्रकम्पं, जरेव कीर्त्तिस्तव | वस्तुपाल ! ||२१|| प्रत्येकं द्रम्मलक्षाणि तेषामेव ददौ पुनः । भट्टगन्धर्वलोकानां सहस्राणि यथागुणम् ||२२|| दीनाराणां दशशतीं, कोशागारे न्यधत्त सः । जिनेन्द्रस्य पतञ्जीर्णस्थानसञ्जीकृते कृती ||२३|| देवसेवकलोकांश्च युक्तया सन्तोष्य भूरिशः। क्षेत्रग्रामाक| राराम हेमाश्वादिप्रदानतः ||२४|| देवदायं स्थिरीकृत्य, दुराचाराङ्गिशासनात् । प्रीणयित्वा प्रियालापैर्ग्रामण्यः कृतप्राभृतान् ||२५|| | समभ्यर्च्य जगन्नाथं, सद्यस्ककुसुमस्रजा । भक्त्या पुनः पुनर्नवा, पञ्चाङ्गनतिपूर्वकम् ||२६|| स विभ्रत्तन्मयीभावं, तल्लयानन्दिमा
--8033 2032 20334688% 88888
BERKZERETEK TE32 233 ZEK
चतुर्थः प्रस्तावः ।
॥५५॥
Page #125
--------------------------------------------------------------------------
________________
नसः। यावद्विनिर्ययौ जैनवेश्मतः सपरिच्छदः ॥२७॥ तावत्सन्मुखमायातं, मठेशं मल्लवादिनम् । स पुरःस्थितमद्राक्षीद् , रुंधानं
गतिमात्मनः ॥२८॥ पञ्चभिः कुलकम् । भ्रुकुटिप्रणतिप्रायं, प्रणामं व्यवहारविद् । रीढया प्रौढया तस्मै, सूरये विदधे सुधीः ॥२९॥ * मल्लवादी जगादेवं, तमिन्द्रमित्र वाक्पतिः । स्वपाणिना स्पृशंस्तत्कपाणिपञ सुरद्रुमम् ॥३०॥ दूरे कर्णरसायनं निकटतस्तृष्णापि |
नो शाम्यति । सविस्मयमना मत्री, तत्र तस्थौ स्थिरस्तदा । किं भणिष्यत्यसौ प्रान्ते, मह्यमेवं विचिन्तयन् ॥३१॥ विस्मरवदनाम्भो| जस्तं मन्त्र्याह नमच्छिराः । नम्रता प्रथमातिथ्य, यत्सतामतिथिवजे ॥३२॥ भवतो वाङ्मयांभोधेरस्यागाधतरात्मनः। धीवरैरपि नो पारः, प्राप्यते तनिवेदय ॥३३॥ गम्यतां गम्यतामग्रे, शीघ्र कार्याणि सन्ति वः । भृयांसीत्यवदत्सोऽपि, रुपयन् सचिवं ततः ।। ॥३४॥ पृच्छति स विशेषेण,धीसखो विकसन्मुखः। कविराजोच्यतां पद्यमग्रतो मेऽखिलं पुनः ॥३५।। तद्वचोभिरसौ प्रीतः, प्रीतिपीयुषवर्षिभिः । शान्तस्वान्तो बभाषेऽथ,मन्त्रीन्द्र ? श्रूयतामिति ॥३६॥ अस्ति भूतिसमस्त्यत्र,मरुस्तरुभिरुज्झितः । विषयो विषयातीतोऽविपदा सम्पदां पदं ॥३७।। कूपाः कृपणवद्यत्र, गूढगम्भीरवृत्तयः । गले गृहीता यच्छन्ति, निजसारं रसं सताम् ॥३८॥ करीराः कल्पवृक्षन्ति, सदा पुष्पफलप्रदाः । दुष्काले प्रबले यत्र, सहायाः सर्वदेहिनाम् ॥३९।। पीलवस्तरवः स्वादुफलाः साधारणा भुवि । सुवैद्या इव निघ्नन्ति, यस्मिंस्तूदरजां रुजम् ॥४०॥ तत्रास्ति त्रासनिर्मुक्तो, बहुधान्योपकारिभूः । महानिव किल ग्रामः, कुब्ज
नामा रमाश्रयः ॥४१॥ रोमशाः पशुसङ्काशाः, धर्माधर्मबहिर्मुखाः । निर्विवेका निरातङ्का, नीरोगारागवर्जिताः ॥४२॥ पामरा अम* राधीशोपहासिललितोत्कटाः । निवसन्ति जनास्तसिन्नधौतचरणाशिनः ॥४३॥ युग्मम् ॥ ते पर्षदि निषीदन्ति, निश्चिन्ता भरिभो
जनाः । खगल्लझल्लरीं खरं, वादयन्तो दिवानिशम् ॥४४॥ सदाकारः सदाचारः, शुचिवस्त्रविभूषितः । नागवल्लीदलास्वादपद्मरागाभ
Page #126
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥५६॥
* 8888848888888888888888888
| दन्तरुक् ||४५ || वेलाकुल पुरस्थायी, कोऽपि तत्रागतः पुमान् । सर्वेषां विस्मयं कुर्वन् नेत्रानन्दिवपुः श्रिया ॥ ४६ ॥ युग्मम् ॥ नवोऽयमिति विज्ञाय, ग्राम्यैराकारितोऽथ सः । कस्त्वं कुतः समायासीः किंनामा केन हेतुना ||४७|| एकाकी पादचारेण, क्क यासि | मरुमण्डले । इति पृष्ट उवाचैवं, तानसौ कोमलस्वरम् ||४८|| युग्मम् ||
तत्र जानीत मे वासं, वेलाकुले पुरेऽद्भुते । समुद्रो देवता यत्र, जनकोऽस्त्यखिलश्रियाम् ॥ ४९ ॥ नामाकर्ण्य समुद्रस्य तेन्योन्यं वीक्षिताननाः । प्रोचुः सविस्मयाः पान्थं, केनायं खानितः पुरा ||५० || अलब्धांतः स्वयं सिद्धो, वारिधिः सरितां पतिः । इत्युक्ते तेन ते स्माहुः, किं तत्रास्ति निगद्यताम् ||५१ ॥ तेनाप्यूचे कथं सम्पद्वक्तुं शक्या महोदधेः । तथापि श्रूयतां भद्रास्तत्स्वरूप यथास्थितम् ॥५२॥ ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी, मुक्तौघाः सिकताः प्रवाललतिकाः सैवालमम्भः सुधा । तीरे कल्पमहीरुहः किमपरं नाम्नापि रत्नाकरः ||५३|| इति पादत्रयं तेषां निगद्य पुरतोऽध्वगः । निजं स्वरूपमाख्याय, स्वकार्याथ पुरोव्रजत् ||५४|| कश्चित्कुतूहली तेषु, मारवोऽथ विमुग्धधीः । हस्तप्राप्यां श्रियं सर्वा, मन्वानोऽगात्पयोनिधिम् ॥५५॥ लुलकल्लो| लमालाभिशुम्बिताम्बरमण्डलम् । प्रेक्ष्य रत्नाकरं साक्षात् स प्रमोदमयोऽजनि ॥ ५६ ॥ अतः प्राप्या मया सर्वकामा वामापहाः श्रियः । अन्तः स्वान्तमिति ध्यात्वा स ननर्त्त क्षणं तटे || ५७|| स पूर्वं तृषितोऽत्यन्तं, तस्य पाथः पपौ भृशम् । मारवेषु न जागर्त्ति यतः प्रायो विवेकिता ||५८|| आस्वादितेन तेनासौ, वारिणा सुखवारिणा । दग्धकोष्ठोऽधिकं दध्यौ, विरेचविकलस्तदा ॥ ५९॥ अहो दुरात्मना तेन, वञ्चितो ( वञ्चकेन ही ) ध्वगपांसुना । अवस्थामीदृशीं प्रापं, दुःखखानिमहं यतः || ६० ॥ (वरिविद्य राजहिं जणपियां घुटुघुटु चुलुएहिं । सायरिअत्थि बहुतजलत्थिकारा किं तेण ।1) उक्तं च-लीलामहद्भिः कल्लोलैधिंग् ते सागर गर्जितम् । यस्य तीरे तृषा
,
8038 2038888888888888
चतुर्थः
प्रस्तावः ।
॥५६॥
Page #127
--------------------------------------------------------------------------
________________
क्रान्तः, पान्थः पृच्छति कूपिकाम् ॥६१॥ इत्युपालभ्य वा थं, तैरेव त्वरितं पदैः । आयातोऽसौ निजं ग्राम, गृहे वर्धापनं व्यधात् | ॥६२॥ तेन मारवमूर्खण, सदृशाः साम्प्रतं वयम् । तीर्थसेवाभृतोऽभूम, दृष्टे रत्नाकरे त्वयि ॥६३॥ वयं स्तम्भनकाधीशपार्श्वतीर्थाधिकारिणः । नानाशास्त्ररसास्वादैः, सदा मुदितमानसाः॥६४॥ स्थिताः सुखसुखेनात्र, साधुवेषोपजीविनः । भजन्तः शुद्धसम्यक्त्वं, मनाग् संविग्नपाक्षिकाः ॥६५॥ तितीर्षवो भवाम्भोधि, शीलेन चरणोज्झिताः । तीर्थयात्रागतानेकलोकोक्त्या शृणुमो यथा ॥६६ त्रिभिविशेषकम् ॥
धवलकपुरे पुण्ये, पुण्यस्थानैर्भवत्कृतैः । नानाविधजिनाधीशप्रासादप्रमुखैः किल ॥६७।। न्यायरामः श्रिया कामः, सत्यलीला| युधिष्ठिरः। भीमः सङ्ग्रामसीमायां, धनुर्विद्याधनञ्जयः ॥६८॥ कर्णः सौवर्णदानेन, पृथिव्यास्त्रिदशद्रुमः। श्रीवीरधवलो धीमानस्ति
चौलुक्यचन्द्रमाः ॥६९॥ त्रिभिर्विशेषकम् । यतः-धात्री पवित्रयति यत्र नरेन्द्र पुत्रे, सद्यः सुधास्त्रपितशम्भुनिभैर्यशोभिः। अद्यापि | विद्यत इवोद्यतकीतिमूत्तिदेवो दिवाकरकुलैकललामरामः ॥७०॥ पारिजातः कवीन्द्राणां, सर्वज्ञातिसुधाम्बुदः । धर्मसूनुः सरस्वत्याः,
श्रीसर्वज्ञमतांशुमान् ॥७१॥ यथौचित्येन सर्वेषां, दर्शनानां च पोषकः । वस्तुपालो महामात्यस्तस्य राज्यधुरंधरः ॥७२॥ युग्मम् ।। | यतः दानं दुर्गतवर्गसर्गविलयव्यत्यासवैहासिकं । शौण्डीय भुजदण्डचण्डिमकथासर्वकषं विद्विषाम् । बुद्धियस्य दिगन्तभृतलभुवामाकटिविद्या श्रियां. कस्यासौ न जगत्यमात्यतिलकः श्रीवस्तुपालो मुदे ॥७३॥ मन्ये धुरि स्थितममुं सचिवं शुचीनां, मध्यस्थमेव मुनयः पुनरामनन्ति । मातः सरस्वति विवादपदं तदेतन्निीयतां (मनसि मे हि गतं चिरेण) सह महद्भिरुपागतं मे ॥७४॥ तस्य भ्राता जगजेता, खौजसास्तबिडौजसा । तेजःपालोऽसह्यतेजाः, पालिताखिलशासनः ।।७५॥ यतः-तेजःपालः सचिवतिलको नन्दताद्भाग्य
Page #128
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल ॐ भूमिर्यस्मिन्नासीद्गुणविटपिनामव्यपोहः प्ररोहः । यच्छायासु त्रिभुवनवनप्रेषिणीषु प्रगल्भं प्रक्रीडन्ते प्रसृमरमुदः कीर्त्तयः श्रीसहायाः चरितम् । ॥७६॥ इति त्वद्दर्शनोत्कण्ठाभृतोऽभूम दिवानिशम् । सन्तुष्टत्वात्परं नैवागच्छामो मत्रिवेश्मनि ॥ ७७॥ कदाचित्पुण्ययोगेन, श्रीम| त्पार्श्वजिनेश्वरम् | अस्मिंस्तीर्थे नमस्कर्तुं, यदि मन्त्री समेष्यति ॥ ७८ ॥ तदा तस्य पुरो हृष्टा, वक्ष्यामः सूक्तसन्ततिम् । भविष्यामो वयं तस्मात्तदा पूर्णमनोरथाः ॥ ७९ ॥ यतः कान्तेन कान्ता विनयेन विद्वान्, राज्यस्थितिः सन्मतिमन्त्रिणा च । ऐश्वर्यभाजा पुरुषेण गोष्ट्या, पुमान् प्रतिष्ठां लभते गरिष्ठाम् ||८०|| ध्यायतामेवमस्माकं भवन्तः सानुजाः स्वयम् । श्रीसचेन सहाजग्मुर्महेभ्यश्रेणिशालिना ॥८१॥ यावन्निगद्यते किञ्चिदस्माभिर्भवतां पुरः । तावद् व्यलीकमालोक्य, मुधा किञ्चित्स्वचेतसि ||८२|| अवन्दिता गता यूयमवज्ञाक्रान्तमानसाः । उत्सूरो वो भवेत्तस्माद्गम्यतामग्रतो द्रुतम् ||८३|| युग्मम् || मनोरथाः पुनः सर्वे, ममान्तर्मानसं स्थिताः । मत्रीश चिरकालीना विलीना मूलतोऽपि हि ॥ ८४ ॥
तेनेत्युक्तं तदाकर्ण्य, तस्य वन्दनपूर्वकम् । न्यक्षेण खापराधं स, क्षमयामास सानुजः ॥ ८५ ॥ रागोल्लासिवचो भावप्रश्ने श्रीम| त्रिणा कृते । अवादीन्मल्लवादीति, तदानन्दी नदीनवाम् ||८६ ॥ भवद्भिर्भुवनोत्तंसैः समाहूता यदा वयम् । समायाता जिनागारे, स्वात्रोत्सव दिदृक्षया ॥८७॥ राजराजेश्वराकारौ, सदाचारौ सहोदरौ । युवां श्रीमद्युगादीशज्येष्ठपुत्राविव श्रिया ||८८ || धीरोदारचरित्राणां नृणामादर्शसन्निभौ । दिष्ट्या दृष्टिपथं प्राप्तौ यदा दृष्टिकृतोत्सव || ८९ ॥ एतत्तदा मनस्यासीदस्माकं मत्रिवासव । विस्मृता| नमस्कारपाठानां प्रीतचेतसाम् ॥९०॥ अमूर्धन्या जगन्मान्याः, सीमन्तिन्यः स्तुतेः पदम् । याः पुनर्जगदुद्योति पुत्ररत्नान्यजीजनन् ॥ ९१ ॥ यतः - युगादिदेवप्रमुखा जिनेन्द्राः, सौमङ्गलेयप्रमुखा नरेन्द्राः । त्रिपृष्ठमुख्या भुवि वासुदेवा, विद्याभृतः श्रीनमिराज
॥५७॥
B>* 88888888883% 84838 1838888388
8888888888888888888888%
चतुर्थः प्रस्तावः ।
॥५७॥
Page #129
--------------------------------------------------------------------------
________________
* मुख्याः ॥९२॥ सौभाग्यसाराः किल रामदेवादयः समर्था बलदेवदेवाः। कौन्तेयचम्पाधिपविक्रमार्कश्रीआमचौलुक्यनरेश्वराद्याः॥
॥९३॥ श्रीरत्नवाग्भट्टसजावडिसज्जनाद्या, मत्रीश्वरा जिनमताम्बरभानुकल्पाः। स्त्रीरत्नकुक्षिसरसीसरसीरुहाभा, जजुर्जगजनमनोरथ| पूरणाय ॥९४॥ सम्प्रत्यपि युगे तुर्ये, सन्ति युष्मादृशाः पुनः। एतद्भारधरा धुर्याः, सर्वसाधारणश्रियः ॥९५॥ तस्माद्विश्वजनीन
श्रीशालिनो व्यवहारिणः । वंशे सामन्तसिंहस्य, प्राग्वाटान्वयभाखतः ॥९६॥ श्रीआभूसचिवेशस्य, विश्वश्लाघ्यगुणोदधेः। धन्या | कुमारदेवीति, नन्दना विश्वनन्दना ॥९७॥ यतः-विद्यते मेदिनीमूल्यं, नारीमूल्यं न विद्यते । यत्प्रसूतो नरः कश्चित् ,त्रिलोक्यां तिल| कायते ॥९८॥ यया युवां जगत्पूज्यौ, तनयौ विनयौकसी। सतां पुण्योदयादीहक्सम्पदौ दलितापदौ ॥९९।। दुष्षमासमयोद्भूततमोंभोधौ निमज्जतः । श्रीमजिनेन्द्रतीर्थस्य, प्रकाशाय प्रभामयौ॥१०॥ प्रदीपौ जनितौ विश्वविश्वश्लाघ्यगुणाकरौ । भूपव्यापारधौरेयौ, सर्वज्ञातिसुरद्रुमौ ॥१॥ त्रिभिर्विशेषकम् । इति चिन्तारसावेशवशरस्माभिराहते । वेश्मन्यपि तदाभाणि, तादृक्श्लोकपदद्वयम् ॥२॥ श्रूयतामुत्तरार्द्ध तु, साम्प्रतं मत्रिवासव । यत्कुक्षिप्रभवा एते, वस्तुपाल भवादृशाः ॥३॥ ततोऽकरोदसौ मूरिः, प्रत्यक्षस्तुतिगोचरम् । | मत्रिराज जगजन्तुजीवातुगुणसम्पदम् ॥४॥ तद्यथा-प्रायः सन्ति नराः परापकृतये नित्यं कृतोपक्रमाः, कस्तान् दुस्तरदुःकृतोत्करदुरालोकान् समालोकते । दृष्टव्यस्तु स वस्तुपालसचिवः षाड्गुण्यवाचस्पतिर्वाचा सिञ्चति यः सुधामधुरया दुर्दैवदग्धं जगत् ॥५॥ मानं ददासि महतां गृहमागतानां, मानास्पदं त्वमसि सम्प्रति वस्तुपाल । चित्र विदं यदि बुधैर्घनमर्थ्यमानो, जानासि मा न इति नोचरितुं कदापि ॥६॥ इति स्तुति खकां श्रुत्वा, लज्जानम्रशिरास्ततः । उत्तमत्वान्महामात्यस्तं प्रणम्य यथोचितम् ॥७॥ विसृज्य मार्गणश्रेणिं, प्रीणितां प्रार्थितार्पणात् । समेतः सर्वसङ्घन, निजावासमशिश्रियत् ॥८॥ युग्मम् ॥ वात्सल्यं तत्र सङ्घस्य, भक्त्यानुप
Page #130
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल | मयानघम् । चक्रेऽनुपमया विश्वख्यातौचित्यगुणश्रिया ॥९॥ यतः - सारैरुदारैर्बहुमानपूर्वं यद्वस्तुभिर्दोषविवर्जितैश्च । विधीयते भक्ति - चरितम् । |रिहार्हतानां तदेव सारं गृहमेधिधर्मे ॥ १० ॥ सुपात्रदानं संशुद्धं बन्धुभिः सह भोजनम् । सोमान्वयी विनिर्माय, निर्मायं श्रावकै| र्युतः ॥ ११ ॥ कोशागारिकमाहूय, बभाषे विजने निजम् । सहस्रैर्दशभिहनां भृतेयं वाहिनी त्वया ||१२|| मठे गत्वा रहो देया, जैनसूरिपदस्पृशे । मल्लवादिकवीन्द्राय, गौरवेण गिरा मम ॥ १३ ॥ गृहीत्वा वाहिनीं सोऽपि, हेमटङ्कायुतान्विताम् । मठं प्राप्यावदमल्लवादिनं विनयाश्चितः ||१४|| मन्त्रिणा सुप्रसन्नेन, प्रहितेयं भवत्कृते । एतान् गृह्णीत तयं, हेमटङ्कालिसञ्चयान् ॥१५॥ प्रयोजनं न मेऽमीभिर्मत्रिणौचित्यतोऽर्पितैः । आदाय तदमून् याहि पश्चात्तमिति तेऽवदन् ||१६|| अमी लातुं न शक्यन्ते, स्वाम्यादेशं विना मया । इत्युक्त्वा हेम तन्मुक्त्वा, यावत्सोऽगान्निजं गृहम् ॥ १७॥ तावत्तत्र समागत्य, स शिष्य श्रेणिसंयुतः । यथोचितां प्रति - | पत्ति, कुर्वाणं सचिवं जगौ ||१८|| प्रवरौ दानवीरेषु भवन्तौ भुवनोत्तमौ । साम्प्रतं श्रीजिनाधीशशासनैकप्रभावकौ ||१९|| नाहमस्मि परं बन्दी, भट्टो वा चारणोऽथवा । भवादृशा यशः पात्रं नैव रङ्को दयोचितः ||२०|| निर्ग्रन्थवेषवान् किन्तु, सारासारविचा| खान् । यादृशस्तादृशश्चापि, जैनोऽनूचाननामवान् ॥२१॥ युग्मम् ॥ श्रीसर्वज्ञवचः सारं सारतत्त्वावभासकम् । न जानन्ति नरास्ते | स्युः, शोचनीया मनीषिणाम् ||२२|| जानन्तोऽपि जिनेन्द्रस्य, वाचं साम्यसुधाश्रवाम् । विषयेषु विमुह्यन्ते, ये ते शोच्या विशेषतः | ॥२३॥ भ्रमता भवपाथोधौ, भवकोट्यापि दुर्लभम् । चारित्ररत्नमासाद्य, विश्वश्लाघ्यं शिवावहम् ||२४|| प्रमादार्णवमनेन, मयातिमलिनीकृतम् । दुर्लभो विदधे बोधिः, कुकर्मवशगेन च ॥ २५॥ नाहं तथापि गृह्णामि, दीनवद्धनमीदृशम् । न जैना दीनताभाजः, परे यूथ्या इव क्वचित् ||२६|| यदुपश्लोकनं चक्रे, भवतां सुकृताकर । निजाशयप्रमोदेन, तदपि श्रेयसे पुनः ||२७|| वितार्थमथ लोमेन,
॥५८॥
88888883% 1838283388888888
88888888884388888888%
चतुर्थः
प्रस्तावः ।
॥५८॥
Page #131
--------------------------------------------------------------------------
________________
88883% 70% 8488888438840384888884
न किञ्चिद्भणितं मया । तन्मूल्यतुल्यां वो दत्तिं, कथं गृह्णाम्यनीदृशम् ||२८|| परं विजयतेऽद्यापि, श्रीजिनेन्द्रस्य शासनम् । यदौ| चित्यविदः सन्ति, प्रौढिमन्तो भवादृशाः ||२९|| नाग्रहः सर्वथा कार्यस्ततो युष्माभिरार्हतैः । यतो जैनर्विमात्रस्य, नोचिता वृत्तिरी|दृशी ||३०|| निर्लोभता जिनाधीशमत एवेति चिन्तयन् । मत्री स्माह हसनेवमनूचानं विचारवान् ||३१|| न गृह्णीमो वयं पश्चा| देतद्वेम कथञ्चन । भवद्भ्यः कल्पितत्वेन, गुरुद्रव्यं यतो भवेत् ||३२|| न भोक्तव्यं गुरोर्द्रव्यं देवताया पिशेषतः । यदेतद्विषतामेति, मनागप्युपजीवितम् ||३३|| सर्वेषु धर्मकार्येषु, धनं साधारणं भवेत् । लिङ्गिसत्कं च यद् द्रव्यं, न तत् क्वाप्युपयुज्यते ||३४|| लिङ्गिद्रव्येण यद्धर्मस्थानं जातं क्वचिद्भवेत् । तदपि त्याज्यतां याति सतामित्यार्हतं वचः ||३५|| भवितव्यं कथं हेम्ना, तदनेन निगद्यताम् । सा प्रमाणीभवेद्वाणी, यां प्रमाणी वदेत्पुमान् ||३६|| ऊवाचतमनूचानः, सचिवं शुचिचेतसम् । श्रीसंघसहिता यूयं, साम्प्रतं कुत्र यास्यथ ॥ ३७ ॥ भृगुकच्छमहातीर्थे, देवान्नन्तुं यियासवः । इत्युक्ते मत्रिणा सोऽपि वदतिस्म यथास्थितम् ||३८|| त्रिविधत्रिविधेनैतत्काञ्चनं नातं मया । तेनेदं धर्मकार्येषु, व्ययीकर्तुं हि युज्यते ॥ ३९ ॥ प्रतिभूः पुण्यपुण्यस्य, व्ययोपायोऽस्ति हेमनि । सर्वेषां सम्मतो मन्त्रिन्, मयोक्तः श्रूयतां यथा ||४०|| अश्वावबोधप्रभवं भुवनत्रयपावनम् । शकुनिजीवभूनाथ (ताढ्य ) कन्याकारित| मन्दिरम् ||४१|| भृगुक्षेत्र पुरे तीर्थ, भवकोटिमलापहम् । यदासी त्रिदशाधीश - सेव्यमानं चिरन्तनम् ||४२ ॥ युग्मम् ॥ तन्नर्मदा| पयः पूरप्लावनान्नाशमासदत् । ततस्तत्राग्रदेवेन, देवेशसदृशश्रिया ॥ ४३ ॥ श्रीमत्कुमारपालस्य, दण्डेशपदशालिना । मल्लिकार्जुनभू| पालजयश्री प्रथितौजसा ॥ ४४ ॥ निर्जित्य सिन्धुलां देवीं मिध्यादृग्देवताग्रगाम् । प्रासादे कारिते नव्ये कैलासाचलसोदरे || ४५||| | प्रौढा लेप्यमयी मूर्त्तिः, स्थापिता सुव्रतेशितुः । पूज्यते पूर्यते नैव, सङ्घस्नात्रमनोरथः ॥ ४६ ॥ चतुर्भिः कलापकम् ।।
*883% 8483888888888888888888
Page #132
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।।
चतुर्थः
प्रस्तावः।
॥५९॥
गाङ्गेयेनामुना तस्मात् , शुद्धधातुरसात्मिका । निर्माय प्रतिमा नव्या, स्थाप्या स्नात्रपदे खया ॥४७॥ धनकोटिव्ययात्पुण्यं, यत्तीर्थेऽन्यत्र जायते । तदेतस्मिन् कृते स्नात्रे, जिनस्य विधिना भवेत् ॥४८॥ तद्वचः प्रतिपद्यासौ, युक्तियुक्ततया ततः। वस्त्रादिभिः समभ्यर्च्य, तान् न्यधत्त गुणिबजे ॥४९॥ गुणवद्भिः(नतः)श्रितः प्राणी,सत्कृतश्च महीभुजा । लघीयानपि लोकेषु,गरीयान् | जायते जवात् ॥५०॥ द्रम्माणामयुतं दत्त्वा, देवपूजाकृते कृती। क्रमादुद्धृत्य तचैत्यं, चश्चत्काञ्चनकुम्भयुक् ॥५१॥ प्रतोलीनिर्गमद्वारतारतोरणमण्डितम् । नवीनं विदधे मन्त्री, सत्रागारद्वयान्वितम् ॥५२॥ युग्मम् ॥ दुर्ग स्वर्गसदाभेद्यं, वापीकूपप्रपायुतम् । तथा तल्लोकरक्षायै, स दयादीक्षितो व्यधात् ॥५३॥ विधाय प्रतिमां विंशाईतो जाम्बूनदादिभिः । धातुभिः प्रत्ययप्रौढां, शब्दसिद्विमिवानघाम् ॥५४॥ विधिना च प्रतिष्ठाप्य, श्रीजगच्चन्द्रसूरिभिः। स्नात्रपीठे न्यधात्तीर्थे, भृगुक्षेत्राभिधे सुधीः ।।५५।। युग्मम् ॥ अथ भृगुक्षेत्रधर्माधिकारः-चत्वारि चैत्यानि सतोरणानि, मत्री भृगुक्षेत्रपुरे जिनानाम् । तदीयवित्तप्रतिमान्वितानि,विनिर्ममे काञ्चन| कुम्भभाञ्जि ॥५६॥ मत्री भृगुपुरे वस्तुपालो वस्तुविचारवित् । शकुनीविहा(रेभेन)करिणा, भेत्तुमात्मभवार्गलाम् ॥५७।। तन्मुखे देवकुलिकाद्वयं दन्तिद्वयोपमम् । आरादारासनीयाश्ममयं स्फारमकारयत् ।।५८॥ युग्मम् ॥ तद्गृढमण्डपेऽजितशान्त्याख्यं परिकरस्थशेषजिनम् । ललितादेव्याः खस्य च, सुकृताय चकार जिनयुगलम् ॥५९॥ तद्गुढमण्डपक्रोडे, दक्षिणे विशतां सताम् । खमृत्ति कारयामास, ललिताकलितामसौ॥६॥ धातुभिनिर्मितां स्नात्रप्रतिमा सुव्रतप्रभोः। लेपमूरलेपात्मा, तेजःपालोऽत्र तेनिवान् । | ॥६१।। तत्राश्वबोधतीर्थे, परितस्तीर्थेशदेवकुलिकानाम् । दण्डाञ्च पञ्चविंशतिमकारयत्काञ्चनानेषः ॥६२॥ पुरागहिरसौ पुष्पवनं - तालतमालवत् । चक्रे जिनाचनविधावनन्तालतमालवत् ॥६३।। वडऊसणपल्लीस्थचैत्ययोर्मूलनायकौ । नामेयनेमिनौ वस्तुपालस्तु |
॥५९॥
Page #133
--------------------------------------------------------------------------
________________
समतिष्ठिपत् ॥६४॥ तथा-मत्री स्नात्राईपीठे भृगपुरभवने सुव्रतस्वामिचैत्ये, न्यस्योद्दामोत्सवोधैरघशतमथनं हेमबि गरीयः।। | कृखा माङ्गल्यदीपं दलितकलिमलः प्रीतये पूर्वजानां, द्रम्माणां कोटिमेकामयपदमकरोद्वस्तुपालः कृतीशः॥६५॥ तपखिनां ददौ मन्त्री, कष्टानुष्ठानकारिणाम् । क्षमाभृत्प्रीतये पञ्चलक्षान् रेवापगातटे ॥६६॥ शुक्लतीर्थतटे तेषां, लक्षद्वयमसौ ददौ । आहतोऽपि द्विजादीनां, दयया वेदपाठिनाम् ॥६७॥ पुरोऽस्याः परितो मन्त्री, सत्रागारपरम्पराम् । अन्नदानाय लोकानां, स युक्त्याकारयत्तथा ॥६॥
एवं भृगुक्षेत्रपुरे स तीर्थयात्राजिना_लयमुख्यकार्यैः। धनस्य कोटिद्वयमद्वयश्रीधर्माय मन्त्री व्ययतिस युक्त्या ॥६९॥ दर्भावतीमण्ड नतीर्थपति, नत्वा स दवा धनमर्थिनां च । प्रापत्ततः सङ्घजनानुयुक्तश्चौलुक्यराजेश्वरराजधानीम् ॥७०॥ अथागात्स|चिवस्वामी, स्तम्भतीर्थपुरं पुनः । श्रीचौलुक्यनृपादेशाद्वेलाकुलनृपैर्वृतः ॥७१॥ वेलाकुलनरेन्द्राणां, प्राभृतैस्तत्र भूरिभिः। निर्ममे मत्रिराजाभ्यां, धर्मकार्यपरम्पराम् ।।७२।। तद्यथा-स्तम्भतीर्थपुरे वस्तुपालो मन्त्रिपुरन्दरः। प्रासादे सालिगस्योच्चैरुद्दभ्रे गूढमण्डपम् | ॥७३॥ तत्र गर्भगृहद्वारे, श्रियो लीलासरोरुहम् । स्वस्याप्यवरजस्यापि, स तेने मूर्तिखत्तकम् ॥७४|| गौर्जरान्वयिनो लक्ष्मीधरस्य सुकृताय सः। तस्यैव परिधावष्टापादोद्धारमकारयत् ॥७५॥ पुण्याय वडदेवस्य, वैरिसिंहाभिधस्य च । तत्पक्षचैत्ययोः सोऽहदिबे पृथगतिष्ठिपत् ॥७६॥ तथौशवालगच्छीये, पार्श्वनाथ जिनालये । स्वस्यापि स्वाङ्गजस्यापि, मृर्ती कारयतिस्म सः॥७७॥ श्रेयांसमात्माग्रजपुण्यहेतोः, स्वपुण्यहेतोश्च युगादिदेवम् । स्वकान्तयोः पुण्यकृते च नाभिसिद्धार्थजावेष जिनावकार्षीत् ।।७८॥ सैष मोक्षपुरद्वारतोरणस्तम्भसन्निभौ । तद्गृढपण्डपे कायोत्सर्गिणी विदधे जिनौ ॥७९॥ थारापद्रकगच्छीयशान्तिनाथजिनालये । बलानक
Page #134
--------------------------------------------------------------------------
________________
चतुर्थः
प्रस्तावः।
श्रीवस्तुपाला त्रिकं गूढमण्डपं प्रोद्दधार सः ।।८०॥ तत्रैव केलिकाख्यायाः, पुण्यहेतोः पितृष्वसुः । पितृव्यस्यापि तिहुणपालस्य सुकृतायसः ॥ चरितम् । ॥८१॥ स्वश्रेयसे च क्रमतः, सम्भवं चाभिनन्दनम् । सारदापट्टशालायां, कारितायामतिष्ठिपत् ।।८२॥ युग्मम् ॥
तथा शत्रुञ्जयाख्ये च, सदने प्रथमाईतः। श्रीनेमिपार्श्वजिनयोः, स देवकुलिके व्यधात् ॥८३॥ प्राग्वाटवशोद्भवकृष्णदेव॥६॥ | राणूतनुसम्भवयोः स्वपत्न्योः । श्रेयोऽभिवृद्ध्य मथुराभिधाने, जिनालये सत्यपुराभिधे च ॥८०॥ बलानकं छत्रिकमण्डपौ च, पुरः
प्रतोली परितो वरण्डम् । मठं तथा जिनबिम्बपटकं, क्रमेण मन्त्री रचयाञ्चकार ॥८५॥ क्षपणाहवसतिका(मेकां स्वश्रेयसे पुनः) मेकामेकाश्च तत् प्रिया । तथोद्दधार ललितादेवीकान्तः स कान्तधीः ॥८६॥ तथासौ वीरनाथस्य, रथशालामकारयत् । मठमट्टद्वयं चैतद्दायदानाय निर्ममे ।।८७|| गुहायामिव पूर्वाद्रेश्चन्द्रं विश्वतमोऽपहम् । तत्रैव रथशालायां, चन्द्रप्रभमकारयत् ॥८८॥ इतश्च पल्लीपालाख्यवंशे शोभनदेवसः । अभूदुदयसिंहाख्यो, भाण्डशाली महामनाः ॥८९॥ संग्रामसिंहसंग्रामव्यसनोपशमाय सः। स्वमौलिं all वस्तुपालार्थ, ढण्ढदेवबलिं व्यधात् ॥९०॥ तन्मूर्ति रोघडीचैत्ये, कृतज्ञोऽयमकारयत् । तत् श्रेयसे च जैनेन्द्रबिम्बमेकमतिष्ठि
पत् ॥९१॥ रोधडीचैत्ये देवेन्द्रोरादिनाथजिनेशितुः । शाक्रमण्डपिकामायदाने कल्पयति स्म सः ।।९२॥ तथा ब्रह्माणगच्छीयनेमिनाथजिनालये। जिनेन्दोरादिनाथस्य, स देवकुलिकां व्यधात् ॥९३।।
तथा सण्डेरगच्छीयमल्लिनाथजिनालये । प्रियासौख्यलताश्रेयः कृते सीमन्धरप्रभोः ॥९४।। उदारमण्डपा देवकुलिकामयमातनोत् । युगन्धरं च बाहुं च, सुबाहुं च, जिनाधिपम् ॥९५॥ युग्मम् ।। भावडाचार्यगच्छीयः, समुद्दधे तथामुना । जिनत्रयाख्यः प्रासादः, श्रीमत्पार्श्वजिनेशितुः ॥९६॥ श्रीकुमारविहारेऽसावकार्षीन्मूलनायकम् । तद्दाये हट्टिका चैकां, तण्डुलोञ्छमपि व्यधात् ।।
॥६०॥
Page #135
--------------------------------------------------------------------------
________________
॥९७॥ पौत्रप्रतापसिंहस्य, तद्धातुश्च कनीयसः। तत्राहद्देवकुलिके, श्रेयसे द्वे चकार सः॥९८॥ आसराजविहाराख्यं, प्रासादं वृषभप्रभोः । कुमारदेवीविहारनामधेयं च नेमिनः॥ एकस्थंडिलबंधेनोभयं तत्कृतसंश्रयम् । एकं निर्गमनद्वारं, द्विप्रवेशबलानकम् ॥
॥९९।। अष्टमंडपमुइंडद्विपश्चाशजिनालयम् । आरासनोत्तानपट्टद्वारपत्रपवित्रितम् ॥७००॥ द्विपञ्चनवतिप्रौढध्वजदण्डघटान्वितम् । | स्फुरत्पाश्चालिकाश्रेणितोरणत्रयराजितम् ॥१॥ शत्रुञ्जयोजयन्ताद्रितीर्थयोः प्रतिहस्तकम् । पित्रोः श्रेयाकृते तत्रोत्तुङ्ग कारयतिम सः॥
॥२॥ चतुर्भिः कलापकम् ।। तद्दाये हट्टिके द्वे तु चतस्रो गेहपाटिकाः । वाटिकामप्यसावेका, ददावेकान्तधार्मिकः ॥३॥ आसराजविहारे च, पित्तलमयमुच्चकैः। असौ चकार समवसरणं कारणं श्रियः॥४॥ वसतीरिह चारित्रपवित्रमुनिहेतवे । पञ्च प्रपञ्चयामास, | भवाम्भोधेस्तरीरिख ॥५॥ जनसाधुनिवासाय, नैकाः पौषधशालिकाः । स तत्र रचयामास, खर्विमानविजित्वरीः ॥६॥ तथा लोकोपकाराय, कूपारामप्रपादिकम् । तटाकवाटिकाब्रह्मपुरीशैवमठादि च ॥७॥ युग्मम् ।। स्वस्वामिहृदयाम्भोधिसमुल्लासेन्दुमण्डलीः ।
शिवालयादिसत्कृत्यमण्डलीः स व्यधात्पुनः ॥८॥ स्तम्भतीर्थपुरोपान्ते, महीसागरसंगमे, श्रेयसे शंखसङ्ग्रामे पतितानां महीभुKजाम् ॥९॥ युग्मम् ।। तथा-सङ्ख्चे शङ्खमहीपतेः समपतन् ये भृणपालादयो, वीरा विक्रमवृत्तिनिर्मलकथावाचालितोर्वीतलाः । तत्तना
मनिरूपणानि स महीतीरे महीयान् दश, स्थाणोदेवकुलानि दुर्जनकुलश्रीबंदिकारोऽकरोत् ॥१०॥ तुङ्गकुट्टिमविश्रान्तद्विजराजकुटुम्ब काम् । अजिह्मधीरसौ ब्रह्मपुरीमेकामकारयत् ॥११॥ तद्वासिवाडवेभ्योऽसौ, वाटकांश्च त्रयोदश । ददौ बभ्राम कीर्तिस्तु, भुवनानि
चतुर्दश ॥१२॥ षट्कर्मनिरतेभ्यस्तु,द्विजेभ्यः सुकृताशयः । रामपल्लडिकाग्रामस्तेनादीयत शासने ॥१३।। तत्र पौरोपकाराय चिद्रूपः * कूपकैतवात् । पातालतः सुधाकुंडमेकमाहूतवानयम् ।। तत्र पौरोपकाराय, यशोदातनुजन्मनः। यादवकुलभानोश्च, श्रीकृष्णस्य महा
Page #136
--------------------------------------------------------------------------
________________
चतुर्थः प्रस्तावः।
श्रीवस्तुपाल
| त्मनः॥१४॥ अकारयदसौ प्रीतो, वरदीव्यर्द्धिभूमिकम् । राजसौधोपमं मन्त्री, मन्दिरं चेन्दिरान्वितम् ॥१५।। युग्मम् ।। सौवर्णकुम्भचरितम् ।
ध्वजदण्डवेल्लत्पताकिकाभिः परितो वृतानि । जिनेन्द्रचैत्यानि पर शतानि, मत्री व्यधादत्र पुरे सबन्धुः॥१६॥ जलस्थलसमायात
pel वणिजां सुखहेतवे । शुक्लमण्डपिकायुग्मं, पृथगेष व्यधापयत् ॥१७॥ यतः-तक्रस्य विक्रयकृते, वेदिबन्धं विधाय निजबुद्ध्या । ॥६१॥
| शौचाशौचविवेकश्छेकेनैकेन तेन कृतः॥१८॥
नवनीतमनुजविक्रयसैरिभहिंसादिपापकार्याणि । तेन निषिद्धानि पुरे, दयालुना वस्तुपालेन ॥१९॥ वैद्यनाथस्य देवस्य, मन्दिरं मण्डपोत्तरम् । श्रेयसे निजभूभर्तुस्तेने तेन पुनर्नवम् ॥२०॥ श्रीभट्टादित्यदेवस्य, वेश्मन्युत्तानपीठिकाम् ।। मूर्तश्च वर्णमुकुटं, चौलुक्यश्रेयसे व्यधात् ॥२१॥ कलशं ध्वजदण्डं च, यः काखरभासुरम् । भामेशवेश्मनः शृङ्गे खप्रतापमिव व्यधात् ॥२२॥ | स्वकुलखामिदेवस्य, पुरतो रङ्गमण्डपः। चक्रे येन मनोरङ्गोत्सङ्गे नर्तितभक्तिना ॥२३॥ तत्रैवारिष्टनेमीशप्रतिमाऽप्रतिमद्युतिः । | निदधे श्रेयसे मातुस्तेजःपालेन मत्रिणा ॥२४॥ ऋषभस्वामिनश्चैत्ये, श्रीचौलुक्यविनिर्मिते । द्वासप्तति सुवर्णस्य, कुम्भान् दण्डसमन्वितान् ॥२५।। नव्यान् विरचयामास, पुष्करा रवीनिव । स देवकुलिके चक्रे, श्रीनेमिपार्श्वयोस्तथा ॥२६॥ विहारे वाहडेशस्य, विदधे स बलानकम् । तन्मध्ये निदधे धातुमयं विम्ब महत्तरम् ॥२७॥ श्रीमदामनरेन्द्रस्य, चैत्ये दिव्याश्मतोरणम् । कषपट्टमयं | बिम्ब, स नेमेश्च विनिर्ममे ॥२८॥ वस्तुपालो व्यधादत्र, सत्रागारपरम्पराम् । नैकलोकमनोऽभीष्टभोजनस्थानशालिनीम् ॥२९॥ दीन* भगवणिग्वर्गकरमुक्तिं विधाय सः । ऋणमोक्षं विशेषेण, सर्वेषां कृतिनां व्यधात् ॥३०॥ स्वऋद्धिसंविभागेन, सुश्रावकाः पुनः पुनः। * औन्नत्यं निन्यिरे तत्र, समुद्रेणेव वारिदाः ॥३१॥ चतुर्विंशतिगव्यतिमितं क्षेत्रं पवित्रयन् । जीवरक्षाविधानेन, परितो वारिघेस्त
॥६१॥
Page #137
--------------------------------------------------------------------------
________________
टम् ॥३२॥ श्रीचौलुक्यनृपैश्वर्यरीतिं तत्र पुरेऽखिले । प्राणिनः स्मारयामास, चौलुक्यामात्यपुङ्गवः ॥३३॥ युग्मम् ॥ पुण्डरीकाव| ताराख्यं, चैत्यं काञ्चनकुम्भयुम् । जैत्रसिंहो व्यधात् कावीपुरे सचिवसूस्तथा ॥३४॥ अत्रान्तरे नरेन्द्राभवस्तुपालगुणस्तुतिम् । अक
रोत् शङ्करस्वामी, स्वमनोऽभीष्टसिद्धये ॥३५॥ गुणैः परेषां गणशो गृहीतैर्गुणीति युक्ता किल कीर्तिरस्य । अप्यर्थिसार्थप्रतिपादितश्रीः, श्रीमानिति ख्यातिरिदं तु चित्रम् ॥३६॥ कार्पण्यातिशयेन वेश्मनि धनं यः स्वं निधत्ते स तद्, भोक्तुं नात्र न चाप्यमुत्र | लभते हस्तादहस्ताद्गतम् । सत्पात्रप्रतिपादनेन सफलीभूतां विभूतिं पुनर्भुतेऽस्मिन् सचिवेश्वरोऽनुगमयत्यन्यत्र जन्मन्यपि ॥३७॥ | कलभान् कलभानष्टौ, ददद्वर्षासनानि च । दीनाराष्टसहस्राणि, वाजिनो गतिराजिनः । ३८॥ तस्मै सपरिवाराय, कवीन्द्रकुलहस्तिने । | कविकल्पद्रुरित्याख्या, मत्री लेभे तदा भुवि ॥३९॥ युग्मम् ॥ एवं श्रीस्तम्भतीर्थे जिनशिवभवनधर्मशालाभिरहत्प्रौढार्चासङ्घपूजा| कविसुकृतिजनाभीष्टदानादिकृत्यैः। द्रम्माणां पञ्च कोटीरकृत फलमयीः सद्विवेकव्ययेन, तन्वन् हर्षप्रकर्ष कृतिषु नृपनतो वस्तुपालः प्रधानः॥४०॥
इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाके श्रीस्तम्भतीर्थसाम्राज्यराजाधिराजश्रीशङ्खविजयनानाधर्मकार्यवर्णननामा चतुर्थः प्रस्तावः समाप्तः ॥
Page #138
--------------------------------------------------------------------------
________________
अथ पञ्चमः प्रस्तावः।
श्रीवस्तुपाल चरितम् ।
पश्वमः प्रस्तावः।
॥६२॥
अथान्येधुदिनारम्भे, प्रबुद्धः सचिवाधिपः । पद्माकर इव श्रीमान् , सदालिप्रीतिपूरकः ॥१॥ प्रातःकृत्यं समाधाय, यथा श्रीभ-* रतेश्वरः। रत्नदर्पणसङ्क्रान्तं, पश्यन्नास्याम्बुजं निजम् ॥२॥ उपकर्ण निजे शीर्षे, शेषभोगमिवोज्ज्वलम् । एकं पलितमालोक्य, विमर्शमिति निर्ममे ॥३।। त्रिभिर्विशेषकम् । अधीता न कला काचिन च किञ्चित्कृतं तपः । दत्तं न किञ्चित्पात्रेभ्यो, गतं च मधुरं वयः॥४॥ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं, व्यापारैर्गुरुकर्मभारनिरतः कालो न विज्ञायते । दृष्ट्वा जन्मजरामृतिप्रभृतिकान् त्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ।।५।। आयुयौवनवित्तेषु, स्मृतिशेषेषु या मतिः। सैव चेजायते पूर्व, न दूरे परमं पदम् ॥६॥ आरोहंती शिरः स्वान्तादौन्नत्यं तनुते जरा । शिरसःखान्तमायान्ती, दिशते नीचतां पुनः॥७॥ | लोकः पृच्छति मे वार्ता, शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥८॥ शालिभद्रोऽभवत्कस्य, श्रीमान्नाश्चर्यका| रणम् । यस्य भोगड़िसादृश्यं, चक्रवर्त्यपि नाश्रयत् ॥९॥ द्वात्रिंशत्सुन्दरीदिव्या, यौवने बलवत्यपि । पमिनीः पद्मसौरभ्या, यो मुमोच क्षणादपि ॥१॥ प्राणी नरेन्द्रमानेन, भृशं तुष्यति चेतसि । चित्रं नरेन्द्रनाम्नापि, शालिभद्रो व्यरज्यत ॥११॥ कम्बूज्वलयशा जम्बूस्वामी चामीकरप्रभः । न कथं पृथुपुण्यश्रीस्त्रिलोक्यास्तिलकायते ॥१२॥ एकोनशतकोटीर्यः, सुवर्णस्य तृणालिवत् । त्यक्त्वा प्रियाभिरष्टाभिः, समं दीक्षामुपाददे ॥१३॥ युग्मम् ॥ इत्यालोच्य स्वयं चित्ते, संवेगरसपूरितः । धर्मकार्योद्यम सम्यग् , कर्तुकामो विशेषतः॥१४॥ आगम्य धर्मशालायां, ततोऽसौ बन्धुभिः समम् । ववन्दे भक्तिरङ्गेण, नरचन्द्रगुरोः पदौ ॥१५॥
॥६॥
Page #139
--------------------------------------------------------------------------
________________
युग्मम् ॥ कल्याणश्रीपुषा धर्माशिषानन्द्य तमानतम् । सुधाकिरा गिरा धर्मदेशनां गुरवो व्यधुः ॥१६॥ राज्यश्रियोऽक्षपटुता सचि| वेश्वरवं, मानुष्यमायुरतुलं गुरुसम्पदश्च । सर्वाङ्गसौख्यकरबन्धुकुटुम्बयोगः, सद्धर्मसाधनतया सफलीभवन्ति ॥१७॥ प्राप्ताः श्रियः सकलकामदुधास्ततः किं, दत्तं पदं शिरसि विद्विषतां ततः किम् । कल्पं स्थितं तनुमतां तनुभिस्ततः किं, चेद्धर्मसाधनविधौ न रतोऽयमात्मा ॥१८॥ स साधुगृहिभेदाभ्यां, द्विविधो जगदे जिनः। प्राणिनामिह सर्वेषामाधारो भववारिधौ ॥१९॥ धर्मः प्रशस्तः पुनरहतोदितः, सम्यग्दयाशीलतपोभिरामः । नानान्ययथाधिपतिप्रणीतधर्मेषु सर्वेष्वपि मत्रिराज !॥२०॥ लोकेषु शास्त्राणि पर| स्परेण, विरोधदुर्गन्धमयानि सन्ति । अतो ह्यमीषां वचनेन सम्यग् , न निर्णयः स्यात शुचिधर्ममार्गे ॥२१॥
प्राचीनपुण्योपचयेन चिन्तामणिं यथानोति सुरत्नखानौ । भ्रमन् भवाब्धौ हि मनुष्यजन्मन्येवाङ्गी सद्धर्ममतीवशुद्धम् ॥२२।। | सद्दर्शनं भवेन्मूलं, तस्य धर्ममहीरुहः । तत्त्वश्रद्धानरूपं तन्निसर्गाधिगमोद्भवम् ॥२३॥ देवे गुरौ धर्मविधौ विशुद्धे, शङ्कादिदोषाऽक| लुषीकृतस्य । सम्पद्यते या रुचिरन्तरङ्गा, सम्यक्त्वमेतन्मुनयो वदन्ति ॥२४॥ यतः-देवो ममाईन्नेवात्र, साधुरेव गुरुर्गुणी । तत्त्वं | जिनोक्तमेवेति, मतिः सम्यक्त्वमुच्यते ॥२५॥ तच्चाद्यमौपशमिक, सास्वादनमथापरम् । क्षायोपशमिकं तार्तीयिकं तुर्य तु वेदकम् ॥ | ॥२६॥ पञ्चमं क्षायिकं तत्र, प्रथम द्विविधं भवेत् । जीवाजितग्रन्थिभेदान्मोहस्योपशमादपि ॥२६॥ युग्मम् ॥ ग्रन्थिभेदक्रमस्ताव| त्तत्र संसारिदेहिनाम् । ज्ञानदृष्ट्यावृतिवेद्यान्तरायाणां परा स्थितिः ॥२८॥ सागराणां कोटाकोव्यस्त्रिंशदुक्ता जिनेश्वरैः । मोहस्य सप्ततिर्नामगोत्रयोरथ विंशतिः ॥२९॥ ततो गिरिनदीग्रावधोलनाकृतिना स्वयम् । यथाप्रवृत्तिकरणेनैतां हखोग्रकर्मणा ॥३०॥ देशोनैकाम्बुधिकोटाकोटिशेषां विधाय च । दुर्भेद्यग्रन्थिमेदं तु, केचित्कुर्वन्ति साखिकाः ॥३१॥ युग्मम् ॥ रागद्वेषपरीणामो, जीवस्य ग्रन्थि
Page #140
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्तावः।
श्रीवस्तुपाल
रुच्यते । काष्ठस्येवातिदुभेदो, दुश्च्छेदो निबिडस्थितिः ॥३२॥ कृतान्तरकरणं वानिवृत्तकरणेन तत् । विरलीकृत्य मिथ्याख, वेदनीयं चरितम् । यदग्रतः ॥३३॥ आन्तमौहूर्तिकं सम्यग् , श्रद्धानं स्वेष्टराज्यवत् । प्राप्नुवन्ति यत्तदोपशमिकं ग्रन्थिभेदनात् ॥३४॥ इदं नैसर्गिक
प्रोक्तं, स्वादाधिगमिकं तु तत् । गुरूपदेशाद्यद्ग्रन्थिभेदे सञ्जायतेङ्गिनः॥३५॥ जीवस्योपशमश्रेण्यां, मोहे शांते तु यद्भवेत् । द्विती॥६॥
यमौपशमिक, तन्मोहोपशमोद्भवम् ॥३६॥ मिथ्यात्वाभिमुखो वान्तसम्यग्दर्शनपायसः । उदीर्णानन्तानुबन्धी, जीवस्तत्स्वादसन्निभम् ॥३७॥ सम्यक्त्वस्य परीणाममुत्कृष्टं यत् षडावलिः । जघन्यमेकसमय, धत्ते सास्वादनं च तत् ॥३८॥ युग्मम् । तार्तीयिकं तु सम्यक्त्वं, पुद्गलोदयवेदिनः । भवेज्जीवस्य मिथ्यात्वमोहक्षयशमोद्भवम् ॥३९॥ क्षपकश्रेणिमारूढः, क्षीणानन्तानुबन्धकः । मिथ्या
त्वमिश्रयोः कृतक्षयः क्षायिकसम्मुखः ॥४०॥ क्षीणप्रायं च सम्यक्त्वं, यजीवश्चरमांशकम् । वेदयत्युच्यते तेन, चतुर्थ वेदकं पुनः॥ Joke||४१॥ प्रागयुक्त्या सप्तके क्षीणे, क्षायिकं पञ्चमं भवेत् । सम्यक्त्वाख्यं कथं शुद्धपरिणामाद्यपाततः ॥४२॥ सम्यक्त्वं पञ्चधाप्येतत् ,
प्रत्येकं स्यात् त्रिधा गुणैः । रोचकं दीपकं चैव, कारकं सान्वयाभिधम् ॥४३॥ दृष्टान्तादिविना तीव्रा, या श्रद्धा तद्धि रोचकम् । | अन्येषां दीपकत्वेन, दीपकं विमलात्मनः ॥४४॥ पञ्चाचारक्रियाकृत्त्वात्कारकं तत्प्रकीर्तितम् । एतन्मध्येऽन्यतमं स्यान्मुक्तिश्रीवशतावहम् ॥४५।। तपःसुतीर्थयात्रादि, सर्व सम्यक्त्वपूर्वकम् । पुण्यानुबन्धिसौख्याप्तिपर्याप्तं गीयते जिनः ॥४६॥ यतः-व्रतानि | दानानि जिनार्चनानि, प्रासादबिम्बादिविधापनानि । सुतीर्थसेवासुतपःक्रियाश्च, सम्यक्त्वयुक्तानि महाफलानि ॥४७॥ नाभेयदेवप्र| मुखा जिनेन्द्राः, श्रीपुण्डरीकप्रमुखा मुनीन्द्राः । सौमङ्गलेयप्रमुखा नरेन्द्रा, मुक्तिं गता बोधिभवप्रभावात् ॥४८॥ नारायणश्रेणिकमुख्यभूपा, जिनेन्द्रतीर्थे विदितस्वरूपाः। तीर्थङ्करखं प्रतीपाल्य मुक्तिं, यास्यन्ति सम्यक्त्वगुणेन सम्यक् ॥४९।। सम्यक्त्वरत्नमासाद्य,
॥६३॥
Page #141
--------------------------------------------------------------------------
________________
**%88888883788%%88% 883%283**
प्रसादान्सुगुरोरिदम् । शङ्कादिदोषनिर्मुक्तं, योऽनिशं दधते हृदि ॥ ५०॥ ते सम्प्राप्य सुखाभोगप्रौढां वैमानिकश्रियम् । परं पदं | लभन्ते श्रीनरवर्मनरेन्द्रवत् ॥ ५१ ॥ तथाहि - अस्त्यत्र भरतक्षेत्रे, नगरी विजयाभिधा । यस्यां सर्वे सुपर्वाणो, वसन्ति गृहमेधिनः ॥ ५२ ॥ तत्रेन्दुवत्कलोल्लासशाली सद्वृत्तमण्डलः । नरवमभवद्राजा प्रजानन्दकरस्थितिः ॥ ५३ ॥ यस्य वीरावतंसस्य द्वयमेवाभवद् हृदि । | अदेयं विद्विषां पृष्टिर्वक्षश्च परयोषिताम् ||५४ ॥ यत्कार्मुकनमत्कोटौ, नमन्त्यरिशिरांस्यपि । जीवोज्झिते च यद्वाणे, निर्जीवा वैरिणोऽभवन् ।। ५५ ।।
आसीनःसीमलावण्या, वल्लभा तस्य सुन्दरी । कृता जयपताकेव, वेधसा सुन्दरीषु या ॥ ५६ ॥ समर्थः सर्वकार्येषु प्रजाराजार्थतत्परः । प्रतिभासागरो मन्त्री तथासीन्मतिसागरः ||५७॥ राज्ञो मदनदत्ताख्यः, प्राणेभ्योऽपि प्रियः सुहृद् । व्यवहारी सदाचारी, | तत्रास्ति सुजनाग्रणीः || ५८ || राकेन्दुवन्नभोऽध्यास्त, मेदिनीशोऽन्यदा सभाम् । सप्रभैर्विबुधैः सेव्यमानस्तारागणैरिव ॥ ५९॥ मता|नुसारतस्तत्र, विद्वांसो विविधं व्यधुः । संवादं धर्ममार्गस्य, स्वस्वयुक्तिप्रकाशतः || ६०|| तत्राहुरेके किल धर्म एष, परोपकारः क्रियते यदत्र | कारुण्यवात्सल्यविधानदानदाक्षिण्य भेदैर्बहुधा स गम्यः ॥ ६१ ॥ अन्ये वदन्तिस्म पुनः पयोधिपयः प्रवाहा इव विस्तृ|णन्तु | धर्मे विचारा विविधा जनानां धर्मः परं या कुलमार्गसेवा ॥ ६२ ॥ केचित्पुनः खानमुदाहरन्ति, धर्मस्य सारं बहुतीर्थतोयैः । समस्तदेवाननवैश्वदेवप्रतर्पणं वस्तुभिरुत्तमैश्च ॥ ६३ ॥ पुराणवेदादिकशास्त्रदिष्टैर्दानैरनेकैर्द्विजराजिपूजा । एकादशीवासरभुक्तिमुक्तिः, पित्रोस्तथा गौरवमात्मशक्त्या || ६४ || वापीसरः कूपविधानतश्च पयः प्रवाहस्थितियुक्तिरुर्व्याम् । गवाश्वमेधादिकयज्ञजालैः, सम्प्रीणनं | वाखिलदेवतानाम् ||६५ || त्रिभिर्विशेषकम् । उवाच चार्वाकमतानुयायी, कश्चित्पुनस्तत्र दुरात्ममुख्यः । स्वर्गापवर्गों किल पुण्यपापे,
-863%-%C3%8CK X43% 13% 13%
Page #142
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
पश्चमः प्रस्तावः।
॥६४॥
खपुष्पवत्सन्ति तथा च जीवः ॥६६॥ मिथो विरुद्धानि वचांसि तेषामेवं निशम्य क्षितिभृत्सभायाम् । दोलायमानप्रतिभः सुधर्म, | तांस्तत्त्वमार्गाऽनिपुणानमंस्त ॥६७॥ अत्रान्तरे नराधीश, दौवारिकगणाग्रणीः। प्रणम्य प्राञ्जलीभूय, विज्ञो विज्ञापयत्यदः ॥६८॥
चक्रवाको रवेबिम्ब, चकोरश्चन्द्रमण्डलम् । यथैवाम्बुमुच केकी, तथैव खां विभोऽधुना ॥६९॥ द्वारि स्थितो धनी कश्चित् , प्रौढप्रा| भृतमाश्रयन् । द्रष्टुमुत्कण्ठते कान्त्या, रतिकान्त इवापरः ॥७०॥ युग्मम् ।। विमुश्चेति नृपादेशे, प्राप्ते मुक्तोऽथ तेन सः। पुरस्ता| त्याभृतं मुक्त्वा, तत्रागत्यानमन्नृपम् ॥७१।। नृपतिस्तं तदालोक्य, सुहृदं हृदयङ्गमम् । प्रीतिमान् प्रीणयामास, सुधासारकिरा गिरा ॥७२॥ आयुष्मन् कुशलं तेऽस्ति, चिराद् दृष्टोऽसि सन्मते ! । कुतः समागतः प्रीति, कुरुषे मम साम्प्रतम् ॥७३॥ सोऽपि भूपं| जजल्प श्रीमृगतृष्णावशादहम् । द्रष्टुं गतोऽभवं भूम्नो, विषयान् मृगवद्विभो! ॥७४|| भ्रमता भवता भूरिविषयान् विषयार्थिनः । किश्चित्कौतुकमालोकीत्युक्तो भृमिभृताथ सः ॥७५॥
स्थूलमुक्ताफलश्रेणिहारं विश्वतमोहरम् । चन्द्रकान्तमणिप्रौढनायकोपेतमद्भुतम् ॥७६।। सर्वातिनाशिन नाम, विषावेगव्यथापहम् । मूर्त पुण्योच्चयं तस्मै, भूभृते प्राभृत व्यधात् ॥७७॥त्रिभिर्विशेषकम् । दृष्ट्वा हारं धराधीशस्तमुवाच सविस्मयः । कुतो ह्यसौ त्वया प्रापि, दुष्प्रापः पापकर्मणाम् ॥७८॥ सोऽवक् देव पदाम्भोज, नत्वा तेऽहमितो व्रजन् । प्रति प्राची दिशं प्रापं, रौद्रां द्रौप| दिकाटवीम् ॥७९॥ तृषातुरः स्फुरदृष्टिः, सारङ्ग इव वारिणे । भ्रमन्नितस्ततोऽद्राक्षं, तस्यां धर्ममिवाङ्गिनम् ॥८०॥ गुरुं गुणधरा| ह्वानं, तपोभिस्तपनप्रभम् । देवतासेवितोपान्तं, भव्यान्तरतमोऽपहम् ॥८१॥ युग्मम् ।। कोकवत्तं जगत्कर्मसाक्षिणं वीक्ष्य हृष्टवान् । |विधिवत्प्रणिपत्याहमधोजानुरुपाविशम् ॥८२॥ तत्रासीनः पुरा कश्चिदासीदिव्याङ्गभूषणः । सुरः स्फुरद्वपुज्योतिरुद्योतितधरातलः॥
॥६४॥
Page #143
--------------------------------------------------------------------------
________________
**
***
***
|८३॥ तदर्शनात्सुधास्वादादधिकं मानसं मम । मुमुदे त्रिदशस्यापि, मदालोकात्तदा पुनः ॥८४॥ ततः पप्रच्छ सूरीशं, प्रणम्य | त्रिदशाग्रणीः । कुतो हर्षप्रकर्ष मे, दृष्टोऽयं कुरुते हृदि ।।८५॥ भवान्तरे लघुभ्राता, त्वदीयोऽसौ सहोदरः। आसीत्प्रीतिपदं तेन, तवेत्याख्यत्क्षमाधरः ॥८६॥ कथं नाम ममैष स्यात् , सोदरस्त्वं विभो! वद । गोविलासैर्गुरुर्यमाद्भाखानिव तमोऽपहः ॥८७॥ एवं * वादिनि गीर्वाणे, सूरिः स्माह सुरोत्तम! । स्वरूपं निखिलं वेत्सि, त्वमेतदवधेनिजात् ।।८८॥ तथाप्यन्यप्रबोधाय, चरितं प्राग्भवोद्ध| वम् । निगद्यमानमात्मीयं, शृणु संवेगरङ्गभाग् ॥८९॥ श्रीपद्मप्रमतीर्थेशजन्मशर्ममयोदया। श्रीवीरभुवनाधीशपारणैश्वर्यशालिनी॥
॥९०|| कौशाम्बी नगरी नाम्ना, धाम धर्मनयस्थितेः । अषणापि लक्केच, कल्याणैकमयालया ॥९१॥ युग्मम् ।। जयोऽजनि मही| जानिर्जयश्रीकेलिपञ्जरः। तस्यामुद्दामधामाढ्यो, धाम निःसीमसम्पदः ॥१२॥ शूरचन्द्राभिधौ पुत्रौ, पवित्रौ सच्चरित्रतः। अभृतां
भूतलख्यातौ, क्षमाभृगुणसम्पदा ॥९३॥ जनयन्तौ जनानन्दं, माकन्दोद्गमसोदरौ । सोदरौ तौ प्रियौ कस्य, नाभूतां गुणसौरभैः ।। |॥९४॥ स्थिरेतरस्वभावलाद्भावानां यौवनागमे । व्यपद्यत तयोर्माता, दुर्लक्या कर्मणां गतिः॥९५॥ ततस्तौ जनतानन्दिन्यायविक्र| मशालिनौ । न्यधत्त वसुधाधीशो, यौवराज्यपदे पुनः ॥१६॥ स्वपुत्रैश्वर्यसम्प्राप्तिवाञ्छयाऽन्याम्बयान्यदा । प्राप्तयोः क्रीडयोद्याने.
तयो राजकुमारयोः॥९७|| यौवराज्यपदप्रौढिलीलयासूयया भृशम् । विभृत्या तुच्छचित्तबाद् . हृदि खेदं पदे पदे ॥९८॥ हस्तेन | निभृतं दास्या, विषमिश्रितमोदकाः। प्रेषिता भक्षितास्ताभ्यां, क्षुधि यन्त्र विचारधीः ॥९९॥ त्रिभिर्विशेषकम् ।। विषावेगसमाक्रान्तौ मर्छया पतितौ भुवि । तौ श्रुखा नृपतिर्वेगात्तत्रागात्सपरिच्छदः ॥१०॥ नानाविद्याविदो वैद्या, विषावेगोपशान्तये । उपचारान् व्यधुः सम्यग् , भूयसो भूपशासनात् ॥१॥ शिक्षा इव कुशिष्येषु, ते परं व्यर्थतां ययुः । ततो राजापि दुःखातः, शून्यचित्त इवा
***
*4839884839-8*498*46378*48***
***
**
**
*
Page #144
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥६५॥
भवत् ॥२॥ ततोऽखिलपरीवारः, पूच्चकार पटुस्वरम् । द्विधापि मत्रिणो जनुर्विमूढमनसाऽधिकम् ॥३।। अथ भाग्योदयातेषामशो-|
पश्चमः कस्य तरोस्तले । क्षमासखः सुखासीनो, दिवाकरमुनीश्वरः ॥४॥ अगण्यपुण्यकारुण्यपीयूषरससागरः । असस्मरद्गरुडोपपाताध्ययनमि
प्रस्तावः। द्धधीः ॥५॥ युग्मम् ।। तत्पाठमहिमाकृष्टः, प्रत्यक्षस्त्रिदशेश्वरः । विस्फुरत्कान्तिरायासीत्तत्र श्रीगरुडाधिपः ॥६॥ तत्पक्षपातप्रसरप्र-|| भावाद्विषं तदैवोपशमं जगाम । यतोऽनुभावो दिविषद्वराणामचिन्तनीयः खलु देहभाजाम् ॥७॥ मूर्छापगमनादाशु, ततः सुप्तोत्थि| ताविव । पश्यन्तौ तत्र तौ सौवजनकं सपुरीजनम् ॥८॥ स्वादु शीतं पयः पीला विस्मेरनयनाम्बुजौ । वदतःस्म मृदुध्वानं, किमेतजातमावयोः ॥९॥ युग्मम् ।।
नृपोऽलपन्मातृविषस्वरूपं, साधूपकारं गरुडागमं च । शीतोपचारैः स्वजनोपनीतैः, प्रबोधभाजोः सुतयोः पुरस्तात् ॥१०॥ तस्मिन्नवसरे तत्र, सम्प्राप्तो गरुडाधिपः । व्याहार्षीदिति राजानं, विस्मिताखिलविष्टपः॥११॥ मत्रतत्रप्रयोगेण, योगेन तपसाथवा । |न प्रत्यक्षो भवेन्नाकी, भूयो भाग्यं विना क्वचित् ॥१२॥ नन्दनौ नन्दनावेतौ, भवतो जगतो गुणैः । साधुना यत्कृपाकारि, यो प्रति समताब्धिना ॥१३॥ वत्सलत्वात्ततः साधुर्यदादिशति वोऽधुना । भवद्भिस्तद्विधातव्यं, परिणामगुणावहम् ॥१४॥इत्युक्त्वासौ निजंग धाम, जगाम गरुडाधिपः । नृपतिः ससुतो नन्तुं, मुनिमागाच्च रङ्गवान् ॥१५॥ वन्दिना तत्पदाम्भोज, पुरो भूप उपाविशत् । | तत्सुतौ च मुनेरेवं, स्तुति चक्रतुरानतौ ॥१६॥ भवारामभ्रमोद्भूतसन्तापामृतसारणे । अगण्यपुण्यकारुण्यक्षीरसागर सुव्रत ॥१७॥ ॥६५॥ जय खं जगदानन्दकन्दपीयूषवारिद । कृतावतारः सर्वेषामुपकाराय देहिनाम् ॥१८॥ ततः प्रणम्य सानन्दहृदयौ तौ मुनीश्वरम् । निविष्टौ सदयः सोऽपि, तेभ्यो धर्म तदादिशत् ॥१९॥ पञ्चेन्द्रियत्वं मनुजत्वमार्यक्षेत्रं कुलं सद्गुरुरागमेच्छा | आरोग्यमायुश्चरणं
Page #145
--------------------------------------------------------------------------
________________
*
***488-8-81-
8
भवेऽस्मिन्नेते पदार्था अतिदुर्लभाः स्युः ॥२०॥ भावानिमानाप्य शुभोदयेन, कृतार्थतां ये सुकृतैर्नयन्ति । धन्या नरास्ते त्रिदिवापवर्गभूस्पृक् सुखश्रेणिमिहाश्रयन्ति ॥२१॥ शरीरसौख्याय शरीरिभिश्च, विधीयते पुत्रकलत्रयोगः । नानापशुश्रेणिपरिग्रहश्च, गृहाट्टनिर्माणधनार्जनानि ॥२२॥ तदस्ति नैवात्मवशं शरीरं, कृतघ्नमत्यन्तमसाररूपम् । यैरयते तेन विशुद्धधर्माभिधो निधिस्तैननु किं न लब्धम् ॥२३॥ पञ्चप्रमादैर्धनमेलनैकमोहग्रहग्राहविसंस्थुलेन । येनाङ्गिना वा सुकृतं कृतं नो, स केन धार्यः कुगतौ पिपत्सुः ।। ॥२४॥ धर्मेकसारं नरजन्म येन, हा हारितं मोहवशीकृतेन । अजागलस्थस्तननिष्फलेन, तेनाङ्गिना किं विहितं स्वकार्यम् ॥२५॥ केशोज्झिते यदि सुखेऽस्ति सदोदिते वो, वाञ्छा जगजनमनोऽभिमते नितान्तम् । धर्म कुरुष्व हितमाहतसंयतोक्तं. सर्वात्तिशान्तिवरभेषजमात्मनस्तत् ॥२६॥
पञ्चव्रताराधनसावधानी, पञ्चप्रकाराचरणप्रवीणौ। त्रिगुप्तिगुप्तौ समताधिमनखान्तौ समस्ताङ्गिदयाधुरीणौ ॥२७॥ मदेन | मानेन मनोभवेन, क्रोधेन मोहेन विवर्जितौ च । निरन्तरं तौ समयावगाहरतौ प्रकृष्टौ यतिनावभूताम् ॥२८॥ युग्मम् ।। ततो विद्यु
प्रभो विद्युत्सुन्दरश्च सुरोत्तमौ । सञ्जातौ प्रथमे कल्पे, संयमाराधनेन तौ ॥२९॥ ततश्युतः क्रमादेष, व्यवहारी वरोदयः। जज्ञे | मदनदत्ताख्यो, विख्यातोऽखिलसम्पदा ॥३०॥ कनीयानकनीयःश्री_तायं भवतस्ततः । अमन्दानन्दसन्दोहं, दत्ते ते दृग्पथातिथिः।। |॥३१॥ निशम्यैवं सुरः सोऽपि, मह्यं सस्नेहमानसः । विषापहमिमं हारं, विश्वसारं समार्पयत् ।।३२।। कथं मे भगवन् भावी । बोधिलाभो भवान्तरे। धुसदेति तदा पृष्टः, समाचष्ट गुरुः पुनः ॥३३॥ आगामिनि भवे भावी, हरिदत्तेति विश्रुतः। नरवर्मनरेन्द्रस्य, भवान् मनुरनूनरुक् ॥३४॥ दर्शनादस्य हारस्य जातजातिस्मृतिस्ततः । सर्वत्रधर्ममच्छम, लप्स्यसे त्वं सुरोत्तम ॥३५।। सुरो मौनी
898-2-4
-24
*&
Page #146
--------------------------------------------------------------------------
________________
*
*
श्रीवस्तुपाल चरितम् ।
*
पञ्चमः प्रस्तावः ।
॥६६॥
श्वरीं पीत्वा, वाचं तत्त्वसुधामुचम् । ततः प्रणम्य सद्भक्तिर्दिवं विद्युत्प्रभो ययौ ॥३६॥ अर्जयित्वा क्रमेणाह, श्रियः सर्वार्थसाधनीः। मुक्तादामेदमादाय, प्रापमत्र पुरे पुनः ॥३७॥ जगजनमनोहारी, हार ईदृग्विधः कुतः। सम्प्राप्तः स्वर्गिणानेन, मयेत्युक्ते गुरुजगौ॥ | विन्ध्योपकण्ठशृङ्गारे, शतद्वारे महापुरे । अभवत्पूरणः श्रेष्ठी, नानाङ्गिसुखपूरणः ॥३९॥ अज्ञातजिनधर्मोऽसौ, सर्वसत्त्वोपकारकृत् । | परं भद्रकभावत्वात् , सदाचारपरायणः ॥४०॥ कृपया मण्डितेषूया, सत्रागारेषु भूरिषु । सोऽन्नदानादिभिश्चक्रे, देहिनः सुखिनोs| निशम् ।।४१॥ अन्यदा पुण्ययोगेन, गृहायातेषु साधुषु । तपःशोषितगात्रेषु, सोऽन्नदानमदापयत् ॥४२॥ विद्युद्विलासोपमतां विभाव्य, लक्ष्मीवपुयौवनबन्धुवर्गे। स तापसीमाश्रितवांस्तपस्यां, तपोभिरुर्विषमां क्रमेण ॥४३॥ शैवागमोक्तैविधिभिर्विशुद्धैराराध्य संवेगतरङ्गितस्ताम् । देवाधिपोऽभूच्चमरेन्द्रनामा, धामाधिकश्रीरसुरालयेऽसौ ॥४४॥
स्वामी चमरचश्चायाः, पश्यन्नवधिनान्यदा । उपर्यालोकयामास, सौधर्मेन्द्रस्य संसदम् ॥४५॥ स्वशीर्षोपरि तत्पादपीठं दृष्ट्वा | प्रतिष्ठितम् । स दारुणकुधा जज्ञे, भृकुट्या भीषणाननः ॥४६॥ श्रीवीरं शरणीकतुं, व्यापदि त्रिजगत्प्रभुम् । प्रपनप्रतिमं नत्वा, | पञ्चाङ्गनतिपूर्वकम् ॥४७॥ स लक्षयोजनं भीष्मं, रूपमाधाय दुष्टधीः । सम्प्रापत्प्रथमे कल्पे, कल्पान्तानलवज्ज्वलन् ॥४८॥ यावदापयते ध्वानर्भीषणैत्रिदशावलीः। अनात्मज्ञो भवेकि हि, कृत्याकृत्यविवेकविद् ॥४९॥ कल्पान्तादित्यसङ्काशं, तावत्कल्पपतिः क्रुधा । अमुचत्कुलिशं वेगाद्विश्वविभ्रान्ततावहम् ॥५०॥ अस्खलद्वेगमालोक्य, पविं पर्वतमेदकम् । भयद्रुतो द्रुतं नष्टो, दुष्टः पश्चाद्गलन्मदः ॥५१॥ श्रीवीरचरणाम्भोजे, स निलीय स्थितः स्थिरः। वीरादन्यो भवेन्नैव, शरणं कश्चनापदि ॥५२॥ त्रिदशस्वामिना * मुक्तो, यद्यङ्गं स पविः स्पृशेत् । बलवानसुरेन्द्रोऽपि, चिरं क्रन्दति रवत् ॥५३॥ धावमानः पुनः पृष्टी, तस्य दम्भोलिरप्यगात् ।
॥६६॥
Page #147
--------------------------------------------------------------------------
________________
****888288**88% *88* *88**
तत्र वित्रासकृद्विश्वे, नालग नश्यतो जवाद ||५४ ॥ वज्रं प्रदक्षिणीकृत्य, श्रीवीरं परमेश्वरम् । पश्वाद्गत्वा कराम्भोजं, भेजे वज्रभृतः पुनः ॥ ५५ ॥ श्रीजिनेन्द्रं सुरेन्द्रोऽपि, नन्तुं तत्रागमत्ततः । तस्यानुभावतो जाता, तयोः प्रीतिस्तु निर्निभा ॥ ५६ ॥
ख्यातं लोकेषु चमरोपपाताख्यं महीतले । तत्राभवत्ततस्तीर्थ, श्रीवीरप्रतिमापदे ॥५७॥ श्रीवीरवन्दनोद्भूतानन्दादुत्सवसन्ततिः । ताभ्यां विनिर्ममे तत्र, गीतनृत्यपुरस्सरम् ॥५८॥ नश्यतोऽधोमुखं तस्य वज्राघातभयाद् द्रुतम् । द्वीपे सशयातिगे हारः, |पपात चमरेशितुः ॥ ५९ ॥ क्रीडाकौतुकतस्तत्र, गतेन युसदामुना । हारः पुण्यानुभावेन, प्राप्तस्तुभ्यं समर्पितः ॥६०॥ त्वयापि भूपतेर्देयः, स धर्मस्थिरताकृते । ततोऽयं गृह्यतां नेतः, प्रहितस्तेन नाकिना ॥ ६१ ॥ सदाचारमिवादाय, हारं तस्मान्नरेश्वरः । आकार्य हरिदत्ताख्यसूनोः कण्ठे न्यवीविशत् ॥ ६२ ॥ सोऽपि हारं तमालोक्यालोकितान्यभवस्थितिः । स्वरूपं कथयामास, राजादीनां पुरो निजम् ||६३ || चरित्रं तत्र पुत्रस्य, पवित्रं पुण्यकर्मभिः । श्रुखा चक्रे महीशक्रो, जैने धर्मे दृढं मनः ||६४ ॥ तस्मिन्नवसरे पुष्पपाणिविनयतो नतः । विज्ञो विज्ञपयामास, भूपालं वनपालकः ||६५ || गुरुर्गुणाकरः श्रीमान्, क्रीडोद्याने तव प्रभो । साम्प्रतं समवासार्षीत् साधुभिः संश्रितोऽभितः ||६६ || सुधासेकमिवाङ्गानां श्रुत्वातद्वचनं नृपः । अलङ्कारान् ददौ तस्मै, प्रीतो मौलिं विनाखिलान् ॥ ६७॥ ततो मदनदत्तादिव्यवहारिपुरस्कृतः । आगान्नन्तुं भुवः स्वामी, मुनीनां स्वामिनं मुदा || ६८ || स ननाम गुरुं भक्त्या, भूतलन्यस्तमस्तकः । उच्चैस्तरां पुनर्लेमे, पदवीं जगतोऽद्भुताम् ||६९|| दत्ताशीर्गुरुरारे मे, वर्णगुरोः पुरः। सद्धर्मदेशनां भूयो, | भवक्लेशविनाशिनीम् ॥७०॥ दशभिः प्राप्य दुष्प्राप्रं, दृष्टान्तै चोल्लकादिभिः । नृजन्म सततं कार्यो, धर्मे यत्नोऽतोदिते ॥७१॥ अनर्याण्यपि रत्नानि लभ्यन्ते विभवैः सुखम् । दुर्लभो रत्नकोव्यापि, क्षणोऽपि मनुजायुषः ॥ ७२ ॥ यः प्राप्य दुष्प्रापमिदं नरतं, धर्म
48888888883% *8388833% *88*
Page #148
--------------------------------------------------------------------------
________________
***
P**
पश्चमः प्रस्तावः।
**45*-*-*
श्रीवस्तुपाल
न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमन्धौ, चिन्तामणिं पातयति प्रमादात ॥७३॥ आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमचरितम् । | वाप्य नरखम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति पयोधिगतः सन् ॥७४॥ धनधान्यप्रियाबन्धुपशुवेश्मपरिग्रहाः । मोहमृढे
| विधीयन्ते, वपुषः सुखहेतवे ।।७५॥ असारं तद्वपुर्विद्युद्विलासचपलं पुनः । सारं कार्य प्रयत्नेन, धर्मकार्यविवेकिभिः ॥७६॥ धर्मस्य ॥६७॥ मूलं सम्यक्त्वं, कुलं दुःखमहाम्बुधेः। पीठं निर्वाणसौधस्य, निधानं सर्वसम्पदः ॥७७॥ सर्वज्ञगुरुधर्मेषु, सम्यक् श्रद्धानपूर्विका ।
प्रतिपत्तिरसामान्या, सम्यक्त्वं मुनयो जगुः ॥७८॥ यो वर्जितः पञ्चभिरन्तरायस्पेिन रत्याऽरतिभीतिशोकैः। मिथ्याखकामाविरति| प्रमीलाद्वेषैर्जुगुप्साजडतातिरागैः ॥७९॥ अमीभिरष्टादशभिर्विमुक्तो, दोषैस्तमः पुष्टिकृतिप्रदोषैः । तथा चतुस्त्रिंशदुदारसारसत्प्रातिहा*तिशयाभिरामः ॥८०॥ श्रीवीतरागः शिवमार्गदर्शी, देवो ममार्हन हृदयेऽस्तु नित्यम् । समग्रसावधविधानवर्जगुरुयृहाचारपराङ्मुखश्च ॥८॥ युग्मम् ।। संसारकान्तारविहारखिन्नशरीरभाजां परमैकबन्धुः । अर्हद्भिरीशैगदितः प्रमाण, सर्वाङ्गिरक्षामयधर्ममार्गः ॥
८२॥ एवंविधो यस्य भवेद्विशुद्धः, स्वान्ते प्रशान्ते परिणामरङ्गः । गुणस्तुति तस्य सजन्ति नित्यं, गीर्वाणनाथा अपि सप्रमोदाः ॥ | ॥८३॥ निशम्यैवं धराधीशः, प्रबोधविकसन्मनाः । चतुर्विध विनिर्धूय, मिथ्यावं ध्वान्तसन्निभम् ॥८४॥ रत्नत्रयभृतस्तस्माद्गुरुरत्नाकरात्ततः । सम्यक्त्वरत्नं जग्राह, निःसपत्नमहोदयम् ॥८५॥ युग्मम् ।। बोधिरत्नं तदासाद्य, निधानमिव दुर्गतः। परानन्दपदं लेमे, नृजन्मन्येव भूपतिः ॥८६॥ त्रैलोक्यपद्मोदयकार्मणेऽस्मिन् , सम्यक्त्वतत्त्वे सति ये पदार्थाः। धार्याःप्रहेया अथ लिङ्गरूपाः, संक्षेप| तस्तान् शृणु सूरिराह ॥८७॥ जीवादितत्त्वेषु सुसंस्तवो यः, सेवा सुदृष्टिबतिनां न सङ्गः । उत्सूत्रभाजां च कुदर्शनानां, श्रद्धा चतुर्धा | परिपालनीया ॥८८॥ अर्हत्प्रणीतपरमागमसंश्रुतीच्छा, सद्धर्मकृत्यकरणे सततानुरागः। श्रीमजिनेषु जिनधर्मरतेषु वैयावृत्यं विधेति
-*-*
**4839-08-24638*198*483-8-2-8-*
-*-*-69-
8
॥६७॥
89
Page #149
--------------------------------------------------------------------------
________________
888328488* ***88888838*48**
सुनयः प्रवदन्ति लिङ्गम् ||८९|| पञ्चप्रकारे परमेष्ठिवर्गे, धर्मे श्रुतौ शासनचैत्ययोश्च । सद्दर्शने यो विनयः सविज्ञैर्विज्ञेय इत्थं दश| धापि सम्यक् ||१०|| देवो जिनो जिनमतं जिनधर्मभक्ताः, संसारसारमिति शुद्धिरिह त्रिधेयम् । शङ्कादिदोषनिवहो ननु पश्चभेदः, सम्यक्त्वदूषणकरः परितोऽपि यः ॥ ९१ ॥ कौशल्यमुचैर्जिनशासनेऽस्मिन् प्रभावना तीर्थभुवश्व सेवा । भक्तिः स्थिरतं सुगुणाश्व पञ्च, सम्यक्त्वमेते प्रतिभूषयन्ति ॥ ९२ ॥
पञ्च राजन्निह लक्षणानि, निरन्तरायोपशमः समन्तात् । संवेगरङ्गः करुणाभिषङ्गो, निर्वेद आस्तिक्यमतिश्च तत्त्वे ॥९३॥ | कुतीर्थिकानां च कुदेवतानां, कुतीर्थिकैराश्रितजैनमूर्त्तेः । सम्भाषणाहारसुगन्धिदानस्तुतिप्रणामालपनं न कुर्याः ॥ ९४ ॥ वादी कवि - कथस्तपस्वी, नैमित्तिकः प्रावचनी सुसिद्धिः । विद्याधरोऽष्टौ प्रतिभाप्रभावात्प्रभावकाः श्रीजिनशासने स्युः ॥ ९५ ॥ राजाभियोगोSथ गणाभियोगो, बलाभियोगश्च सुराभियोगः । कान्तारवृत्तिर्गुरुनिग्रहो वा, आकारषट्कं जिनशासनेऽदः ||१६|| नित्योऽस्ति जीवः कुरुते कृतानि भुङ्क्तेऽस्ति निर्वाणमथास्ति मोक्षः । स्थानानि सम्यक्त्ववताममूनि श्रद्धानगम्यानि भवन्ति षोढा ||९७|| मूलं द्वारं | प्रतिष्ठानमाधारो भाजनं विधिः । सम्यक्त्वशुद्धधर्मस्य, षोढा तद्भावना भवेत् ॥ ९८॥ सप्तषष्टिपदैरेवं शुद्धं सद्दर्शनं श्रयन् । स तीर्थेशश्रियं प्राप्य, प्राणी प्राप्नोति निर्वृतिम् ॥ ९९ ॥ शुद्धसम्यक्त्वसंयुक्तां यः पुनर्द्वादशव्रतीम् । आराधयत्यसौ सौख्यं लभते घुसदां ध्रुवम् ॥ २००॥ तथेति प्रतिपद्याथ, शिक्षां वर्णगुरुर्गुरोः । नमस्कृत्य पदाम्भोजमभजन्निजमन्दिरम् ॥ १॥ पालयन्निरतीचारं, सम्यत्वं भूपतिस्ततः । निःशङ्कतादिभिश्चक्रे, गुणैर्जेंनमतोन्नतिम् ॥२॥ आत्मशुद्ध्यै जिनेन्द्रोक्तक्षेत्रेषु निखिलेष्वपि । राजा कृतार्थयामास, | व्ययेन निजसम्पदः ॥ ३ ॥ जीवाजीवादितत्त्वानां विचारं विदुरैः समम् । कारंकारं जिनाधीशसिद्धान्तोक्तसुयुक्तिभिः ||४|| श्रीसम्य
*888848388888883284888888884
Page #150
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।।
पश्वमः प्रस्तावः।
I૬૮
| स्वव्रते हेममहीधर इवाजनि । जगत्यां जगतीजानिरक्षोभ्यस्त्रिदशैरपि ॥५॥ युग्मम् ।। सुधर्माधिपतिः पश्यन्नवधिज्ञानतोऽन्यदा। | समग्रं भरतक्षेत्रं, ग्रामारामपुरादिकम् ॥६॥ विजयायां पुरि प्रौढप्रतापप्रसरत्प्रभम् । नरवर्मनराधीश, दिवस्पतिमिवापरम् ॥७॥ सुरा| सुरनराक्षोभ्यसम्यक्त्वव्रतभूषितम् । सर्वज्ञशासनाम्भोधिसमुल्लासैकमानसम् ॥८॥ ऐक्षिष्ट शिष्टलोकानां, प्रत्यक्षत्रिदशद्रुमम् । प्राञ्जलिश्च नमस्कृत्य, स्तुतिं तस्येति निर्ममे ॥९॥ चतुर्भिः कलापकम् । नरेन्द्रो नरवर्मासौ. प्रथमः प्रथितौजसाम् । विजयी विजयापुर्या | वन्दनीयः सुरैरपि ॥१०॥ इत्याकर्ण्य सुरेन्द्रोक्तं, सुवेलस्त्रिदशाग्रणीः। मनाग्मिथ्यात्वमूढात्मा, जाननपि वचोऽर्हतः ॥११॥ विममर्श निजे स्वान्ते, प्रभवोऽमी यथातथा । ऐश्वर्यविवशात्मानो, भवन्ति खैरभाषिणः ॥१२॥ मनुष्यमात्रे किं सत्वं, का व्रते स्थिरताधिका । विषमे कार्यमात्रेऽपि, यस्य दोलायते मनः ॥१३॥ जपस्तावत्तपस्तावत्तावनियमधीरता। न यावजायते कार्य, नृणां संसारसम्भवम् ॥१४॥ तद्भावं वासवो ज्ञाखा, तमवग् भद्र भूतले । गत्वा तद्गुणमाहात्म्यं, परीक्षस्व ममाज्ञया ॥१५॥
ततोऽसौ भरतक्षेत्रमागत्येन्द्रनिदेशतः । गुणाकरगुरो रूपं, निर्ममे देवमायया॥१६॥ पञ्चशत्यानगाराणां, परितः परिवारितः। क्रमेण विहरन्नुया, मोहयन्मुग्धमण्डलीः ॥१७॥ आयातो विजयापुर्या, राज्ञो वेश्म समाश्रयत् । राजापि स्वगुरून् दृष्ट्वा, ववन्दे दृष्टमानसः ॥१८॥ नरेन्द्रेण स्वयं दत्ते, दत्ताशीर्मुनिपुङ्गवः । निविष्टो विष्टरे हैमे, मुनिमण्डलमण्डितः ॥१९॥ प्रजाग्रणीस्तदने च, धर्मस्य श्रवणेच्छया । वन्दित्वा विधिना सम्यग् , विनयी समुपाविशत् ॥२०॥ ___अथ ते तत्क्षणाद्भूत्वा, खड्गखेटकपाणयः । साधवः सुभटाकारा, विकारविकृताननाः ॥२१॥ प्रोचुः परस्परं क्रुद्धा, महायोद्वार उद्धताः। बन्धयध्वममुं मायाविनं पापाहतं नृपम् ॥२२॥ युग्मम् ॥ क्रौञ्चबन्धं ततः कैश्चिद्वबन्धे वसुधाधिपः । धावित्वा भीष
Page #151
--------------------------------------------------------------------------
________________
88888888888KX%X®KXERK 8€®9%8
णाकारैर्व्याधैरिव मृगाग्रणीः || २३ || गुरुवेषो विशेषेण, लेखो रोषं प्रपोषयन् । साधून् स्माह दुराचारं मारयध्वममुं शठम् ||२४|| यष्टिभिर्मुष्टिभिस्तीक्ष्णैरसिभिश्च द्रुतं द्रुतम् । आहत्य निर्दयं पीडां ते घोरां नृपतेर्व्यधुः ॥ २५ ॥ दृष्ट्वा दुश्चेष्टितं तेषां नृपतिर्लोकगर्हितम् । सत्यापयन् क्षमास्वामिपदवीं पुण्यवारिधिः ||२६|| विनयाद्वामनीभावं, भजन् सञ्जन् पदाम्बुजे । गुरोर्मृदु जगौ वाक्यैगोर - सैरिव शीतलैः ||२७|| युग्मम् | क्षमख वं क्षमानाथ, कृपापाथः पते प्रभो । स्वभृत्यस्यापराधस्य, यूयं ब्रूत प्रयोजनम् ||२८|| अर्हद्वचः सुधाम्भोधौ, मग्नानां यतीनां विभो । कर्त्तुं न युज्यते कोपो, लोपोऽखिलशुभस्थितेः ॥ २९ ॥ यतः - क्रोधान्धस्य मुनेश्वण्ड - चाण्डालस्य च नान्तरम् । तस्मात्क्रोधं परित्यज्य, भजोज्ज्वलधियां पदम् ||३०|| जिनेन्द्रशासनाम्भोजगुणसौरभ्यनिर्भरम् । तदापि तादृशं ज्ञात्वा तन्मनोऽवधिना सुरः ॥३१॥ कोपाटोपाकुलखान्तः कृतान्त इव दुस्सहः । बभाषे स्वपदाघातैर्निघ्नंस्तं गुरुवेषभृत् ।। ३२ ।। | युग्मम् ।। अरे दुष्ट दुराचार, पण्डितंमन्य दुर्मते । आर्हताग्रेसरो भूत्वा प्राज्य साम्राज्यवानपि ||३३|| गुणवत्सु गरिष्ठेषु, दशधाघधारिषु । निर्ग्रन्थेषु निरीहेषु, सर्वत्र मीषु साधुषु ॥ ३४॥ भक्तपानाद्यभावेन, भृशं सीदत्सु सम्प्रति । न विधत्से समर्थोऽपि, योगक्षेम मनागपि ||३५|| त्रिभिर्विशेषकम् ॥
*8844888*488888888338638*4
भवतो नगरे देशे, ग्रामेषु भवनेऽपि च । न दत्ते कोऽपि साधूनां शुद्धान्नपानकादिकम् || ३६ || मुनयोऽमी ततः सर्वे, बुभ्रुक्षाक्षामकुक्षयः । सर्वथा दुःखनिर्मग्नाः कुर्वन्त्यत्रेदृशीं स्थितिम् ||३७|| युग्मम् ॥ इत्याकर्ण्य गुरोर्वाणीं, दूनो वर्णगुरुर्हृदि । दध्यौ धिगिदमैश्वर्य, चातुर्य वा वृथा मम ||३८|| यदमी जगदाधारधर्म मार्गधुरन्धराः । सीदन्ति साधवो बाढं, प्रौढे परिवृढे मयि ॥ ३९ ॥ | युग्मम् ॥ क्षणं ध्यात्वेति सूरींस्तान् वन्दमानः पुनः पुनः । अवोचद्वचनैः सौधरसपूराभिवर्षिभिः ॥ ४० ॥ इदं राज्यममी दाराः,
Page #152
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥६९॥
3K-3-4**@***838-183%88%
| सम्पदोऽमूरिमे गृहाः । अमीभ्यो रोचते यद्यत्तत्तद्गृह्णन्तु साम्प्रतम् ॥४१॥ प्रसादं विशदं कृत्वा, मयि दुर्बोधशालिनि । भवादृशा हि सर्वत्र, वत्सलाः स्वच्छचेतसः ॥४२॥ युग्मम् ॥ इत्यादिमृदुभिर्वाक्यैः, सुधापाकैरिवाद्रितः । अवधिज्ञानतो ज्ञात्वा, तत्स्वरूपं यथास्थितम् ||४३|| स कोपप्रकृतिं त्यक्त्वा, देवमायां च तादृशीम् । प्रत्यक्षस्त्रिदशो जज्ञे, सगुरुर्विस्फुरद्युतिः ॥ ४४ ॥ युग्मम् ॥ भूदेवो देवतारूपं, परब्रह्मखरूपवत् । निरीक्ष्य विस्मितो दध्यौ, किमेतञ्जगतोऽद्भुतम् ॥४५॥ वृष्टिं शीर्ष सृजंस्तस्य, कल्पद्रुकुसुमैर्नवैः । दत्ताश्चर्योऽवदद्देवः, सानन्दहृदयस्ततः ॥ ४६ ॥ धन्यस्त्वमेव भूपाल !, विशालमहिमास्पदम् । वन्दनीयश्च सर्वेषामसुरासुरदेहिनाम् ।। ॥४७॥ श्रीमानन्तः सभं सोऽपि, स्वर्गिणां परमेश्वरः । विधत्ते विस्मयाक्रान्तस्वान्तस्तव गुणस्तुतिम् ||४८|| परीक्षितुं क्षमापीठे, तव सम्यक्त्ववर्णिकाम् । कृत्वा मायामिमां सर्वां, तदादेशादिहागमम् ॥ ४९ ॥ परं सम्यक्त्वनैश्चल्ये, न कोऽपि भवता समः । यस्येदृशेऽपि साधूनां चेष्टिते नाक्षुभन्मनः ॥ ४९ ॥ ततश्च नृवर ! कुमुदकन्दच्छेदशुभ्रैर्यशोभिस्तव धवलितमेतद्धामवद्विश्वविश्वम् । करतलकमलान्तभृङ्गिकेवामृतश्रीरखिलमपि विलीन प्राक्तन दुष्कृतं ते ॥५१॥ त्वमिह सुकृतभाजामग्रणीः श्रीजिनेन्द्रप्रवचनरससिक्तास्त्वद्वपुर्धातवोऽपि । कथमिव न विशुद्धयै दूरनिर्धूतपङ्कं भवति हि भवदङ्घयोदर्शनं स्पर्शनं च ॥५२॥ इति सुचिरमुदात्तस्फीतसत्यार्थसारं, स्तवनमनुविधाय क्षोणिभर्तुर्गृहान्तः । कनकमणिगणानां वृष्टिमाधाय वेगात्सुरसदनमयासीत्सोऽपि नाकी प्रणम्य ॥ ५३॥ नरवरनरवर्मा जैनधर्मप्रवीणो, जिनगृहजिनबिम्बादीनि कृत्यानि कुर्वन् । असुरसुरनमस्यं शासनं जैनमुच्चैर्व्यरचयदिह सम्यग्दृष्टिपर्षत्प्रका| ण्डम् ||५४|| तदनु नरवरेन्द्रः प्राज्यसाम्राज्यलक्ष्मी, सुकृतशतसमेतां श्लाघ्यसौख्यैरनर्ष्याम् । नयविनयविवेकानेकदानैः कृतार्था - | मकृत कृतिसमाजं पोषयन् सर्वशक्त्या ॥ ५५॥ इत्थं विशुद्धास्तिकधर्ममार्गमाराध्य सम्यक्त्वगुणैर्गरिष्ठम् । प्रान्ते प्रपन्नानशनः प्र
883%%83% 8888888888888888
पश्चमः
प्रस्तावः
॥६९॥
Page #153
--------------------------------------------------------------------------
________________
8888888888888888888888888834
शान्तो, देवोऽभवद्दिव्यविमाननेता ||५६|| युग्मम् ॥ ततश्युतः प्राप्य सुखाभिरामां, नरेन्द्रलक्ष्मीं सुकृतैकसाराम् । मुक्तिं गमी श्रीनरवर्मराजा, रजोविमुक्त्या त्रिजगन्नमस्यः || ५७ || सद्दर्शनस्थैर्य फलप्रकाशिकां, श्रुत्वा कथां श्रीनरवर्मभूभुजः । समग्रकल्याणसुप|र्वपादपे, सम्यक्त्वतस्त्वे दृढयन्तु मानसम् ||५८|| तन्मूलो यतीनां धर्मो, दशधा श्रीजिनोदितः । तत्र क्षमा क्रोधमुक्तिर्मार्दवं मानमर्दनम् ॥ ५९ ॥ आर्जवं कैतवत्यागो, मुक्तिर्निर्लोभता मता । तपो द्वादशधा सप्तदशधा संयमः स्मृतः ॥ ६० ॥ हितं प्रियवचः सत्यं, शौचं परधनोज्झनम् । स्त्रीसङ्गवर्जनं ब्रह्माकिश्चन्यं न परिग्रहः ॥ ६१ ॥ धर्मो द्वादशधाख्यातो, द्वितीयो गृहमेधिनाम् । अणुव्रतानि पञ्च स्युः, सप्त शिक्षाव्रतानि च ॥ ६२ ॥ देशतो विरतिः प्राणातिपातासत्यभाषणे । अदत्तस्वात्रह्मपरिग्रहेऽणुव्रत पश्चकम् ||६३ || दि ग्भोगानर्थदण्डाख्याः, साम्यं देशावकाशिकम् । पौषधोऽतिथिदानं च सप्त शिक्षाव्रती मता || ६४ || साधुधर्ममथ श्राद्धधर्म यो भजते सुधीः । नासौ पतति नानार्त्तिविकटेऽत्र भवावटे ॥ ६५ ॥
श्रुत्वैवं सद्गुरोर्वाचः, सम्यक्तत्त्वसुधामुचः । विधूय तीव्रमिध्यात्रभावनां भवदायिनीम् ॥ ६५ ॥ श्रीवस्तुपालोऽथ शुभे मुहूर्ते, निर्माय निर्मायतयोत्सवौघान् । सम्यक्त्वरलं जगृहे गृहस्थधर्म च साकं निजसोदरेण ॥६७॥ युग्मम् ॥ ततः समाहूय विधूय मोहं, | श्रीसङ्घलोकं पुरपत्तनेभ्यः । सद्दर्शनोल्लासविवेकशाली, वात्सल्यमुच्चैविंदधे विधिज्ञः ।। ६८ ।। तथाहि - प्रक्षालयत्येष जगज्जनानां, रजांसि |भूयांसि नमस्कृतोऽपि । इतीव मन्त्री चरणाम्बुजानि, श्रीसङ्घलोकस्य गृहागतस्य ॥ ६९ ॥ कवोष्णदुग्धोज्ज्वलवारिपूरैः, श्रीखण्डचा| रुद्रवसौरभाद्यैः । विवेकवान् श्लोकसमुज्ज्वलस्य, प्रक्षालयामास यथाक्रमं स्राक् ||७० || युग्मम् ।। जिनेन्द्रपूजासुरभिः सुमार्यप्रका - | शवान् शीलपवित्रितात्मा । मृदुन्नतोऽनेकगुणाभिरामः श्रियां निवासश्च ततोऽस्य युक्त्या ॥ ७१ ॥ सुगन्धिसालोकसुषिक्तपूतशालासु
888888888888888888888888888888
Page #154
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
पश्चमः प्रस्तावः ।
॥७
॥
| चन्द्रोदयभूषितासु । अमण्डयत्खण्डितकल्मषस्य, नानासनान्येष मृनतानि ॥७२॥ युग्मम् ॥ वश्येन्द्रियस्तेषु यथाक्रमं द्राग् , निविष्टवान् मत्रिवरोपदेशात् । देशान्तरायात इह स्थितश्च, सङ्घः सहर्षः सुविनीतवेषः ॥७३॥ सुश्राद्धधर्मव्रतभाजनाभसदृष्टिभाजो गुणभाखरस्य । अमण्डयत्काञ्चनभाखराणि, ततः पुरोऽसौ वरभाजनानि ॥७४॥ नैर्मल्यमेतेन रजोवृतानां, भवेत्सदाचारवतेति मत्री। पङ्को निषण्णाईतमण्डलस्य, सवृत्तपूतावनिमण्डलस्य ॥७५॥ गङ्गोपनीतैरिव वारिपूरैः, सुनिर्मलैः सद्धनसारसारैः । अकारयनिर्मलता जवेन, सभाजनानां करपङ्कजानाम् ॥७६।। युग्मम् ॥ यः पञ्चधा दृष्टिधुराधुरीणः, क्षेत्रेषु सप्तस्वपि वित्तवापी । तत्त्वेषु वेत्ता नवसु प्रशस्तैरासन्नविंशैः कलितो गुणैश्च ॥७७॥ यथाहणं पञ्च च सप्त तत्त्वयुगैकसङ्ख्याप्रमितान् समेतान् । आदेशकालप्रभवाः फलावलीः, | सलीलगामी ललितापतिः स्वयम् ॥७८।। तेषु व्यमुश्चत् शुचिमाजनेषु सभाजनेषु प्रथितः प्रभाभिः । आखाद्य ता आहेतधर्मधुर्या, | माधुर्यवर्या निवृता बभूवुः ॥७९॥ युग्मम् ॥ महानसावेव गुणैत्रिलोक्यां, मृदुखभावश्च सुसाधुसङ्गात् । अतीव खाद्यानि महान्ति पूर्व, मृदूनि तस्मा इव पर्यवेषयत् ॥८०॥ दृष्टान्यकृत्यानि कृतागुतानि,प्रायः प्रमोदं कुरुते स्वचित्ते । ततः सदेलाघनसारमिश्रान् , स मोदकान्मोदकरांश्च तस्य ॥८१॥ युग्मम् ॥ सम्यग् जपन्तं परमेष्ठिपञ्चकं, पञ्चप्रमादैश्च विवर्जितं च । पक्वान्नभेदैरपरैरुदारैस्तं | पञ्चभिः प्रीणयति स्म मत्री ॥८२।। मुक्त्यर्थमत्यर्थमसौ करोति, प्रीति सदैवान्तरपुण्यकार्ये । इतीव तं मौक्तिकमोदकैश्च, प्रमोदयत्येष | विमुक्तदोषम् ।।८३।। अर्हद्गिरा सप्तनयोपपन्नयामुष्यान्तरङ्गा अपि सप्त धातवः। भिन्नास्ततोऽस्मै विदधे सुखाद्यभेदैरयं सप्तपुटैः सुभक्तिम् ॥८४॥ (स्वान्ते वसत्यस्य गुरुर्गरीयान् षटुत्रिंशता सूरिगुणैस्ततोऽस्य । षट्त्रिंशता कस्यचिदादरेण पक्कानोदेविदधे सुभक्तिम् ॥) माषमुद्गवटकैर्मृदुभिर्द्राक्, संस्कृतैः सरसषड्रसयोगात् । षड्विधाङ्गियतनां द्विविधेन, भक्तिमस्य सृजतः कुरुतेऽसौ।।
॥७॥
Page #155
--------------------------------------------------------------------------
________________
an८५॥ चनकचपलवल्लान् भावितान् भावनाभिर्मरिचलवणहिडप्रायवस्तुब्रजस्य । रचितरुचिविशेषान् भोजयामास युक्त्या, स कृत
रुचिविशेष पुण्यकृत्येषु सङ्घम् ॥८६॥ सर्वधर्मपरमोत्तमजैनधर्मयुक्तजनताकृतभोगम् । पायसं त्रिभुवने परमानीभावमाप तदतीवमनोज्ञम् ॥८७॥ मण्डनं जगतोप्येष, सद्गुणश्रेणिमण्डितः । इतीव श्राद्धलोकाय, विवेकामललोचना ॥८८॥ लीलया ललितादेवी, गौरवात्पर्यवेषयत् । खण्डक्षोदसुगन्धाज्यसुस्वादां मण्डकावलिम् ॥८९॥युग्मम् ॥ सुपक्कैः शालिभिः शुभैस्तस्मै सौरभशालिभिः। सर्वाङ्गीणगुणश्रेणिशालिने विमलात्मने ॥९॥ मुदाहितस्थितिं धर्मे, विभ्रते सुकृताङ्गिनाम् । भक्तिं मुद्गदलैरुष्णैरनुष्णोऽपि तथा व्यधात् ।। | ॥९१॥ युग्मम् ॥ आज्यैः प्राज्यतमः पुण्यैः, सद्यस्कैश्च सुगन्धिभिः। भक्तिं श्रीसङ्घलोकस्य, पुण्यप्रौढस्य स व्यधात् ॥९२॥ पाकपूतैस्तथा शाकैर्नानायुक्तिसुसंस्कृतैः। आदेशकालसम्भूतै, रुचिभाजो रुचिं पुनः ॥९३॥ युग्मम् ॥ अत्रान्तरे शीतलनीरपूरं, सुची | नया शर्करया रसालम् । कोपोपशान्त्या किल शीतलोऽपि, निपीय लोकोऽजनि शीतलाङ्गः ॥९३।। तापः प्रयात्यस्य सुयुक्तिभक्त्या, loke भवान्तरेऽपीति स मत्रिराजः । सुतालवृन्तोद्भवशीतवातैरत्रान्तरे तं विदधे वितापम् ॥९४॥ कर्पूरपूराद्भुतसौरभेण, करम्बकेन स्मितगोरसेन । तस्मै ततो गौरवमाततान, सत्तत्त्वसौरभ्यभृताय मत्री ॥९५।। अयं दधिः श्रीजिनधर्मलक्ष्म्या, निधिश्व शान्तस्य महारसस्य । ततो न्यधात्सद्दधिपूरितानि, स्थालानि भक्क्या सचिवानुजः साक् ॥९६।। सामुद्रं लवणं तत्र, सर्वदोषापहं न्यधात् । मन्त्री तस्य समुद्रस्य, प्रीत्यै दोषापहारिणः ॥९७॥ अरिष्टं शिष्टलोकानां, पिनष्ट्यस्मद्विधिः किल । ततोऽमी श्रावकाः केचिदरिष्टं केवलं पपुः ॥१८॥ आचान्ता निर्मलैर्वारिपूरैः सौरभपूरितैः । उत्तस्थुस्ते शुचीभूय, विश्वपावित्र्यहेतवः ॥९९॥ विश्वश्रीतिलकोपमा निजगुणैरेते खलु श्रावकारतेनैषां तिलकानि कुङ्कुमरसैर्भालेषु मन्त्री न्यधात् । एतद्भक्तिभृतो भवन्ति वशगा विश्वाक्षताः सम्पदस्तस्मादक्षतमण्डलीनिहि
* *1883* *83**
***
* *
**
Page #156
--------------------------------------------------------------------------
________________
चरितम् ।
पश्चमः |प्रस्तावः।
श्रीवस्तुपाला Total तवान् तेषु स्वहस्तेन च ॥३००॥
कर्पूरकेशरविमिश्रितचन्दनेन, सुश्रावकावलिमसौ सुरभीचकार । पूगीफलामलदलैर्गुरुनागवल्लीपत्रैः सुरङ्गसुभगैश्च ततः सरङ्गम् ।। *॥२॥ एवं श्रीसङ्घवात्सल्यं, विधाय विधिना सुधीः । गृहाश्रमद्रुमं चक्रे, सश्रीकं स फलेग्रहिम् ॥३॥ श्रीसर्वज्ञमताकाशप्रकाशनरवि॥७१॥
विषः। ततो मुनीश्वरश्रेणीरभ्यर्च्य सिचयादिभिः ॥४॥ श्रीसङ्घलोकं निःशेष, दुकुलैललितापतिः । विविधैर्वसुधासारैरुदारः पर्यधापयत् ॥५॥ युग्मम् । तथा सौवर्णमाणिक्यतिलकैः पुलकाङ्कितः। मत्री विभूषयामास, सुश्राद्धालकमण्डलीः ॥६॥ अत्रान्तरे कविः कश्चिद्विपश्चित्सूरिशालिनि । समाजे व्याजहारश्रीवस्तुपालस्तुतिं यथा ॥६॥ सन्ततिः परलोकाय, विवेकाय सरखती। लक्ष्मीः परोप
काराय, सोमवंशेऽभवत्पुनः ॥८॥ तस्मै लक्षत्रयं मन्त्री, तत्त्वत्रयपवित्रितः । द्रुतं विश्राणयामास, द्रम्माणां प्रीतमानसः ॥९॥ विचार्य * बहुधा धर्ममार्ग मार्गकवेदिभिः । सम्यक्तत्वपरिज्ञानादादर्श इव निर्मलः ॥१०॥ सम्यक्त्ववर्णिकां मत्री, साक्षाद्दर्शयितुं सताम् ।
सम्यक्त्वोद्यापनं चक्रे, शक्रस्यापि स्पृहावहम् ॥११॥ युग्मम् ।। यथा-पूर्व सत्तत्वयोगेन, मिथ्यात्वाणुचयो यथा । गोधूमानां तथा | राशिः पयसा विशदो भवेत् ॥१२॥ असारं स्थूरमाधूय, मिश्रपुञ्जासमन्ततः । पटशुद्धिर्भवेत्तेषु, शुद्धा सम्यक्त्वपुञ्जवत् ॥१३॥ सत्तचत्रयसंयोगे, यथा सद्दष्टिरुच्यते । शर्करापटशुद्धाज्ययोगेऽसौ मोदको भवेत् ॥१४॥ नानासद्धर्मकृत्येषु, सद्दष्टे रुचिरुल्लसेत् । आस्वादिते तथैवामिन् , भव्यस्याप्यङ्गिनो यथा ॥१५॥ नवतवपरिज्ञानाद् , दृष्टि-प्रतरा भवेत् । नवधाफलसंयोगात्तथासौ खदतेऽधिकम् ॥१६॥ सम्यक्त्वं लभते प्राणी, ग्रन्थिभेदे कृते यथा । तथा प्रन्थिकभेदेन, भवेदेषोऽपि मोदकः ॥१७॥ स्वर्गसौख्यं यथा पुष्पं, सदोधिपृथिवीरुहः । तथायं देवकुसुमैः, संयुक्तो रुचिमावहेत् ॥१८॥ सद्वृत्तः शोभते जन्तुर्यथा सम्यक्त्ववानिह । तथायं
॥७१॥
Page #157
--------------------------------------------------------------------------
________________
*688888888888888888888888484
| जायते वृत्ताकारः सद्द्दष्टिसौख्यदः ||१९|| सम्यक्त्वव्रतपूतात्मा, सद्वासैर्वास्यते यथा । ससङ्घगुरुभिस्त्वेष, घनसारादिना तथा ॥ २० ॥ सौवर्णरत्न माणिक्यसम्पृक्तान्मोदकानिमान् । गौर्जरोर्व्यां प्रतिग्रामपुरपत्तनमादरात् ॥ २१ ॥ मत्री समर्पयामास, सद्वात्सल्यविधित्सया । सम्यग्दृष्टिगृहस्थानां, भवनेषु यथाक्रमम् ||२२|| युग्मम् ॥ सद्दर्शनोद्यापनमार्हतेषु, सद्धर्मकार्येषु परं विधाय । ततः पुपूजोत्तमसाधुलोकं, विवेकवानेष विशेषतश्च ||२३|| अथ प्रजाव्रजानन्दकन्दपीयूष वारिदः । श्रीवीरधवलः खामी, मूर्त्तः पुण्योदयः सताम् ||२४|| | कल्पयन् कल्पशाखीव, सेवकानां मनोरथान् । चन्दनद्रवसंसिक्तः कृतपुष्पावतंसकः ||२५|| अगुरुमृगनाभिभ्यां सर्वाङ्गसुरभिस्थितिः । सर्वातिशायिभिर्भोगैः, साक्षादिव पुरन्दरः ||२६||
ग्रीष्मे महोष्मभिर्भीष्मे, सर्वभूतोपतापिनि । धर्मार्त्तश्चन्द्रशालायां, विशालायां निशामुखे ||२७|| मन्त्रीन्द्रधवलव्यूढप्रौढराज्यमहाभरः । राजहंस इव क्रीडन्नमन्दानन्दवारिधौ ||२८|| सद्यस्कपरमा मोदिमृदुमाल्यविराजिनि । सुष्वाप लीलया हेमपल्यङ्के सुखका - रिणि ॥ २९ ॥ आच्छादितमुखाम्भोजो, देवदूष्यानुकारिणा । वस्त्रेणातिपवित्रेण, सौरभ्यभरभारिणा ||३०|| सप्तभिः कुलकम् । लीलानिद्राप्रसुप्तस्य, तस्य भर्त्तर्भुवः पदौ । संवाहयन् खपाणिभ्यां वण्ठः कश्चिच्छठेतरः || ३१ ॥ दृष्ट्वा मणिमयीं मुद्रां, मुद्रिताखिलदुर्दशाम् । आदातुमकरोच्चेतो, लोभक्षोभवशीकृतः ॥ ३२॥ युग्मम् ॥ राज्ञो निद्रागमं ज्ञात्वा ततोऽसौ मोहमूढहृद् । तामादाय मुखाम्भोजे, | जुगोप जगतोऽद्भुताम् ||३३|| लज्जां भयं च मायातु, ममायं नित्यसेवकः । इत्यालोच्य तदा भूमान् निद्राण इव कैतवात् ॥ ३४॥ तस्थौ मौनावलम्बेन, जानन्नपि महाशयः । गरीयांसो भवन्त्यत्र यतः सर्वत्र वत्सलाः ||३५|| युग्मम् ||
प्रभातेऽसौ गृहं प्राप्य, तां प्रियायै समार्पयत् । नृणां मोहैकमूढानां योषित्स्वेव यतो रहः ॥ ३६ ॥ द्वितीये दिवसे राजा,
XC35-XADETEBETEBESED%20B**@D
Page #158
--------------------------------------------------------------------------
________________
श्रीवस्तुपाली मुद्रिकां तादृशीं नवाम् । तथैवाधाय सुष्वाप तथैव सुखनिद्रया ||३७|| तदंह्निकमलं सोऽपि कोमलं कमलालयम् । विश्रामयं चरितम् । | स्तादृशीं तामालोक्येति व्यचिन्तयत् ॥ ३८ ॥ या प्रियाया मया दत्ता, मुद्रेयं सैव किं भवेत् । यदङ्गनाया विश्वासो, विद्युदुद्योत - | सन्निभः ||३९|| किंवा नेति स्वहस्तेन, विहस्तस्तां स्पृशन्मनाक् । चौलुक्यस्वामिना प्रोचे, सस्मितध्वनि बन्धुरम् ||४०|| या गृहीता खया कल्ये, सा तवास्तु मयार्पिता । परं मुद्रामिमां भद्र, मा ग्रहीः सेवकोत्तम ॥ ४१ ॥ इत्याकर्ण्य नृणां पत्युर्वाचं वज्राहतो यथा । विच्छायवदनो जज्ञे स वण्ठो दिवसेन्दुवत् ॥४२॥ यतः - हसन्नपि नृपो हन्ति, मानयन्नपि दुर्जनः । स्पृशन्नपि गजो हन्ति, जिघ्रन्नपि भुजङ्गमः ||४३|| तदास्यदीनतां वीक्ष्य, तदा दीनाङ्गिवत्सलः । राजावक भद्र मा भैषीने ते दोषोऽस्ति कश्चन | ॥४४॥ ममैतदूषणं किन्त्रगण्यकार्पण्यसम्भवम् । रहो यद्भुञ्जते वध्वो, दोषः श्रकृतो गृहे ॥४५॥ भवतः सेवमानस्य भूभुजं | मामहर्निशम् । मनोरथा न पूर्यन्ते, तेनेदं विदधे खया ॥ ४६ ॥ इत्याश्वास्य भुवः स्वामी, तं भृत्यं भृत्यवत्सलः । पञ्चाङ्गचीरसंयुक्तां, | गाङ्गेययमदंष्ट्रिकाम् ||४७|| प्रसादविशदं दत्वा हयमारोहणाय च । द्रम्मलक्षप्रदायिन्या, सद्वृत्त्या पर्यंतोषयत् ॥४८॥ युग्मम् ॥ ततः श्रीवीरधवलः, सुधांशुरिव वल्लभः । प्रजाव्रजाय सञ्जातः, पितेव हितकारकः || ४९ || राजवर्गे समग्रेऽपि सदाफलतया तथा । | स्थितोऽसौ पृथुपुण्य श्रीर्यथा ज्येष्ठः पृथात्मजः ||५० ॥ युग्मम् ॥ यतः - मैनाकः कुरुते किमेष गुरुतागवं सुपर्वाधिपे, यः क्रोधप्रहिताशनौ जनकमप्युत्सृज्य लीनः क्वचित् । वीरोऽयं न करोति वीरधवलः स्थानेऽपि दर्पं पुनर्येनाजौ स्वपितुः पुरः सरभसेनाविष्कृतो विक्रमः ॥५१॥ स एवं कविभिः स्तूयमानः सन्मानदानवान् । भास्वानिवोदयं लेभे, प्रतापी प्रत्यहं नृपः ॥ ५२ ॥ अन्यदा तं सभासीनं, पूर्णिमेन्दुमिवोज्ज्वलम् । स्वदर्शनसुधासेकाञ्जीवयन्तं जगञ्जनम् ॥ ५३ ॥ लुठद्भिर्मेदिनीपीठे, मेदिनीपतिभिः श्रितम् । सानुजः
॥७२॥
*SEDEXODE XARK-XEDK-XEBEXŒ3K+
88888888846378-848383%83%%83%
पश्चमः प्रस्तावः ।
॥७२॥
Page #159
--------------------------------------------------------------------------
________________
सचिवाधीशः, प्रणम्येति व्यजिज्ञपत् ॥५४॥ युग्मम् ॥ देवासौ भवता सर्वा, सर्वतो गौर्जरोवरा । कण्टकावलिमुच्छिद्य, निन्ये गेहाङ्गणोपमाम् ॥५५॥ राष्ट्रान्तरनराधीशाः, करदीभावशालिनः । गोपाला इव केदारं, सेवन्ते ते पदाम्बुजम् ॥५६॥ धनेन धर्मेण रणोद्यमेन, दानेन मानेन महाजनेन । शास्त्रेण शस्त्रेण च नैव राजा, राजन् समानोऽस्ति तवाधुनोाम् ॥५७।। भवत्प्रतापतःप्राप्ता, प्रजेयं परमोन्नतिम् । न वेत्ति कर्हिचिद्भीति, स्वचक्रपरचक्रयोः॥५८॥ प्रतिवेश्म स्फुरन्त्युच्चैरुत्सवानां परम्पराः । त्वयि राजन्वति | विश्वविश्वराज्यं वितन्वति ॥५९॥ न्यायधौं तथा राज्ये, सर्वत्रास्खलितक्रमौ । परस्परमनाबाधं, वर्तेते सम्मतौ सताम् ॥६॥ | शरणीकुर्वते सर्वे, भूभृतस्त्रां पदच्युताः । त्रिदशा दनुजत्रस्ता, यथैव दनुजद्विषम् ॥६१॥ भवतो मन्दिरादेव, देवा इव सुरदुमात् ।। | स्वगृहं प्रतिपद्यन्ते, पूर्णाशा अर्थिनोऽधुना ॥६२॥ ततः प्रसादमाधाय, निदेशो दीयतां यथा । महाराजाभिषेकस्ते, क्रियते समहोत्सवम् ॥६।। इति तद्वचनैः प्रीतस्ततः पीयूषवर्षिभिः। अभ्यधाद्वसुधाधीशस्तदैवं मत्रिपुङ्गवौ ॥६४॥ निर्णिक्तस्वामिसद्भक्तिरसावेशवशीकृतौ । कृतज्ञौ सचिवप्रष्ठौ, सौजन्यार्जवशालिनौ ॥६५॥ मय्येकान्तानुरागेण, रक्तौ ब्रूथो युवामिति । न परं दृश्यते तादृग् , महिमा कोऽपि मद्विधे ॥६६॥ युग्मम् ॥ अजित्वा सार्णवां पृथ्वीमनिष्ट्वा विविधैमखैः । अदत्वा चार्थमर्थिन्यो, भवामि नृपतिः | कथम् ॥६७॥ यथाभीष्टं भवेद्यस्य, दानं सर्वार्थिनां पुनः । स राजा यदि जायेत, जायतां नात्र दूषणम् ।।६८॥ यथोद्दिष्टैश्च यो
यज्ञैः, प्रीणाति द्विजदेवताः । निर्विवादमसौ धत्तां, सम्राजः पदवीं भुवि ॥६९॥ यो गृहाङ्गणसङ्काशां, पृथ्वीं सकुलपर्वताम् । विधत्ते | | विद्विषो जिला, स यदि स्यान्महानृपः ॥७०॥ तादृग्गुणविमुक्तात्मा, यो महत्त्वं प्रकाशयेत् । बृहत्तरुरिवाभाति, निःसारोऽसौ | मनस्विनाम् ॥७१॥ गतप्रज्ञो यथा मन्त्री, शीलभ्रष्टो यतियथा। तथा न शोभते राजा, त्यागविक्रमवर्जितः ॥७२॥ सत्सु सप्रश्रया
पस, दानं मला सार्णवांयकान्तानुराग
Page #160
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
पञ्चमः प्रस्तावः।
॥७३॥
लक्ष्म्यां, विद्यायां गर्ववर्जिताः। शक्तौ क्षमाभृतश्चात्र, भवन्ति पुरुषोत्तमाः ॥७३॥ ततो नृपतिमात्रं मे, पदमेवास्तु यौक्तिकम् । | ऐश्वर्यमन्तरा ख्यातिवृथा येन न शोभते ॥७४॥ यतः-विपुलहृदयैः कैश्चिद्धन्यैर्जगजनितं पुरा, विधृतमपरैर्दत्तं चान्यैर्विजित्य नृणां | यथा । इह हि भुवनान्यन्ये ते च चतुर्दश भुञ्जते, कतिपयपुरस्खाम्ये मम क एष मदज्वरः ॥७॥
एवं युक्तियुतैर्वाक्यनिषिद्धौ पृथिवीभुजा। राजाभिषेकसामग्री, कुर्वाणौ मत्रिपुङ्गवौ ॥७६॥ मुदितौ निरहङ्कारसम्पदा तस्य भूभुजः । उपरिष्टात्तदा भक्त्या, सर्वलोकगरीयसः ॥७७॥ न्युञ्छनीकृत्य गाङ्गेयलक्षद्वितयमात्मनोः । दीनदुःस्थितलोकानां, ददतुनृपशासनात् ॥७८|| त्रिभिविशेषकम् ।। अन्यदा वाङ्मयाम्भोधेः, पारदृश्वाऽश्वराजभः । कृपाहृदयं दृष्ट्वा, सर्वाङ्गिषु निजं नृपम् ॥७९।। महाभारतशास्त्रान्तर्द्वात्रिंशाधिकृतिस्थितम् । गाङ्गेयधर्मपुत्रादिराजेन्द्राख्यानमुत्तमम् ।।८०॥ अष्टाविंशाधिकारस्थं, तथा शिवपुराणगम् । मद्यमांसपरीहारपुण्यराशिप्रकाशकम् ॥८१॥ आख्यायाख्याय सद्युक्त्या, यथाप्रस्तावमात्मना। मांसास्वादसुरापाननिषेधव्रत| निर्मलम् ।।८२॥ विमुक्ताखेटकक्रीडं, त्यक्तपर्वनिशादनम् । पराङ्गनापरिष्वङ्गावाङ्मुखं च विनिर्ममे ॥८३।। पञ्चभिः कुलकम् ॥ |
चातुर्वेदविदोऽन्येधुर्देवप्रभगुरोर्नृपः। शुश्राव देशनामेवं, सम्यग्मार्गप्रकाशिनीम् ॥८४॥ वर्षे वर्षेऽश्वमेधेन, यो यजेत शतं समाः।* | मांसानि च न खादेत, तयोस्तुल्यं स्मृतं फलम् ।।८५॥ व मांसं व शिवे भक्तिः, क्व मद्यं व शिवार्चनम् । मद्यमांसप्रसक्तानां, दरे | तिष्ठति शङ्करः ॥८६॥ न दानं न च होमश्च, न पूजा न गुरोनतिः । यस्तु स्वादेत मांसानि, सर्वमेतन्निरर्थकम् ॥८७॥ यत्र जीवः |
शिवस्तत्र, न भेदः शिवजीवयोः। न हिंस्यात्सर्वभूतानि, शिवभक्तिचिकीस्ततः॥८८॥ न वेदैनं च दानश्च, न तपोभिन चाध्वरैः। | कथश्चित्सुगतिं यान्ति, पुरुषाः प्राणिहिंसकाः ॥८९॥ यो दद्यात्काञ्चनं मेरु, कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च
॥७३॥
Page #161
--------------------------------------------------------------------------
________________
| तुल्यं युधिष्ठिर! ॥९०॥ सर्वे वेदा न तत्कुर्युः, सर्वे यज्ञाश्च भारत !सर्वे तीर्थाभिषेकाच, यत्कुर्यात्प्राणिनां दया ॥९॥ सुरां पीला द्विजं हखा, रुक्म हवा द्विजन्मनः। संयोग पतितर्गत्वा, द्विजश्चान्द्रायणं चरेत् ॥९॥ मद्यं मांसं च ये नित्यं, वर्जयन्तीह मानवाः॥ जन्मप्रभृति मत्स्यांश्च, ते नरा मुनयः स्मृताः ॥९३।। भानोः करैरसंस्पृष्टमुच्छिष्टं प्रेतसश्चरात् । सूक्ष्मजीवाकुलं चापि, निशि भोज्यं
न युज्यते ॥९४॥ ये रात्रौ सर्वदाहारं, वर्जयन्ति सुमेधसः। तेषां पक्षोपवासस्य, फलं मासेन जायते ॥९५॥ इत्याकर्ण्य गुरोस्तस्य, * वचनानि महीपतिः । जीवहिंसादिपापेभ्यो, विरतिं विदधे दृढाम् ॥९६॥ क्रमेण विमलात्मासौ, मत्रिसङ्गादमन्यत । जिनेन्द्रशासनं
सारं, दर्शनेष्वखिलेष्वपि ॥९७।। अन्येधुर्घसदाकारः, स्फारालङ्कारसाररुक् । निकषा मत्रिणं कश्चिद् , दूरदेशात्समागमत् ॥९८॥ सन्मानासनदानेन, सन्तोष्याभाषि मत्रिणा । कुतः स्थानादिहायासीद् , भवानत्रभवान् धिया ॥१९॥ सोऽवग् देवाङ्गनागीतं, दिवि
देवविभोः पुरः । तवौदार्यगुणं द्रष्टुमिहागां वासवालयात् ।।४००॥ स्वर्नाथसंसदस्तहि, वातां श्रावय काञ्चन । इत्युक्ते मत्रिराजेन. | कविराजोऽब्रवीदिति ॥१॥
देव खर्नाथ कष्टं ननु क इह भवान् नन्दनोद्यानपालः, खेदस्तत्कोऽद्य केनाप्यपहृत इतः काननात्कल्पशाखी । हुं मावादीस्व. | मेवं किमपि करुणया मानवानां मयैव, प्रीत्यादिष्टोऽयमुास्तिलकयति तलं वस्तुपालच्छलेन ॥२॥ तस्मै दश सहस्राणि, सुवर्णा- | | नामदादसौ । नवीनोक्तिरसास्वादमुदितो विदुराग्रणीः॥३॥ वस्तुपालोऽन्यदा ब्राह्मे, मुहूर्ते निद्रयोज्झितः। ध्याखा पञ्चनमस्कार, सर्वाभीष्टार्थकारणम् ॥४॥ अवधानं क्षणं कृत्वा, विवेकविमलाशयः । एवं विचिन्तयामास, वासवोपम ऋद्धिभिः॥५॥ राज्यव्यापारमासाद्य, सर्वाङ्गीणश्रियान्वितम् । मयाधुना विशेषेण, कर्तव्यो धर्मसङ्ग्रहः ॥६॥ दुष्टारिष्टतमस्त्रासे धर्मः सूर्योपमः स्मृतः । सर्वा
Page #162
--------------------------------------------------------------------------
________________
पञ्चमः
श्रीवस्तुपाल चरितम् ।
प्रस्तावः।
||७४||
| भीष्टसुखाभोगप्राप्तौ कल्पद्रुमस्तथा ॥७॥ पूर्वपुण्योदयादेताः, श्रियः सन्ति मदालये ॥ सर्वार्थसाधिका लोके, स्पृहणीया महीभु| जाम् ।।८॥ वश्चयित्वा जनानेतान् , सुकृतं गृह्यते श्रिया। तत्ततो गृह्यते येन, स तु धृतधुरन्धरः ॥९॥ नृपव्यापारपापेभ्यः, सुकृतं न कृतं हि यैः। ते धूलिधावकेभ्योऽपि, मन्ये हीनतरा नराः॥१०॥ तीर्थयात्राधुना भूयो, विस्तरेण विधीयते । तदा सफलतामेति, श्रीरियं जन्मना समम् ॥११॥ सर्वेषु धर्मकार्येषु, तीर्थयात्रां यतोऽधिकाम् । वदन्ति तात्त्विकास्तेन, तीर्थयात्रां, करोम्यहम् ॥१२॥ | समयः साम्प्रतं मेऽस्ति, प्रकानिखिलैरपि । तीर्थयात्रोत्सवं कर्तु, प्रसादादवनीभुजः॥१३॥ यतः-पूर्णः स्वामिगुणैः स वीरधवलो
निस्सीम एव प्रभुर्विद्वद्भिः कृतभोजराजबिरुदः श्रीवस्तुपालः कविः। तेजःपाल इति प्रधाननिवहेष्वेकश्च मत्रीश्वरस्तजायानुपमा | गुणैरनुपमा प्रत्यक्षलक्ष्मीगृहे ॥१४॥ तेजःपालोऽनुशास्ति प्रवरतरमतिर्वीरराजस्य राज्यं, सामग्रीयं समग्रा खजनपरजनोत्साहसम्पत्तिभिश्च । एवं पुण्यैर्दिनं मे गुरुसुकृतविधौ प्रत्यलं माग्ययोगात्तद्गुर्वादेशमाप्य स्फुरतु मतिरसावद्भुतं कर्म कर्तुम् ॥१५॥ इति चिन्ताचितवान्तस्तदोत्थाय रयादयम् । शुचिः शौचविधानेन, कृतावश्यकसक्रियः॥१६॥
निर्मायाष्टविधां पूजां, निजावासे जिनौकसि । सभां यावदलं चक्रे, सर्वावसरदायिनीम् ॥१७॥ तावत्तस्मै गुरोर्लेख, कश्चित्सुश्रावको ददौ । ततोऽयं वाचयामास, तमेवं मुदितो यथा ॥१८॥ त्रिभिर्विशेषकम् ॥ जीयात्प्रथमतीर्थेशस्त्रिलोकीत्रिदशद्रुमः । शतशाखोन्नतो दत्ते, यो दृष्टोऽपि फलावलीः॥१९॥ पीलुपद्रपुराजैनप्रासादप्रवरोदयात् । धवलक्कपुरे राजधान्यां धन्याङ्गिशालिनि ।। ॥२०॥ श्रीनागेन्द्रगणवामी, कुलक्रमसमागतः । गुरुर्विजयसेनाख्यः, शिष्यश्रेणिपुरस्कृतः ॥२१॥ श्रीचौलुक्यमहाराजराज्यभारधु-Ilal रन्धरम् । सर्वज्ञशासनाकाशप्रकाशैकदिवाकरम् ॥२२॥ जगजनमनोऽभीष्टकल्पशालं सदाफलम् । वस्तुपालं महामात्यं, तेजःपालं च
॥७४॥
Page #163
--------------------------------------------------------------------------
________________
धीसखम् ॥२३॥ अभिनन्द्याशीर्वचसा, बहुमानपुरस्सरम् । निवेदयति सत्कार्यमायलोकोचितं यथा ॥२४॥ कोश विकाशय कुशेश| यसंश्रितालेः, प्रीतिं कुरुष्व यदयं दिवसस्तवास्ते । दोषोदये निबिडराजकरप्रतापैन्तिोदये तव समेष्यति कः समीपम् ॥२५।। संव* सरोऽस्ति मत्रीन्द्र, सप्ताश्वरवि(१२७७)संमितः। सुभिक्षः स्वाख्यसामग्र्या, सर्वतोऽपि सुखावहः ॥२६॥ द्वात्रिंशन्मितवर्षाणि,
श्रीशत्रुञ्जयभूभृतः। श्रीरैवतगिरेश्चापि, त्रैलोक्योत्कृष्ट तीर्थयोः ॥२७॥ तादृग्प्रभावकप्रौढपुरुषाणामजन्मतः । तृणतोयान्नसम्प्राप्तेरभावाच्च तयोः पथि ॥२८।। सुरासुरनराधीशस्वान्तविस्मयदायिनी । केनापि न कृता यात्रा, गरीयस्तरविस्तरा ॥२९॥ (त्रिभिर्विशेपकम् ॥) संक्षेपेण कृता यात्रा, मण्डल्यां वसता सता । भवता भवतापातिच्छिदे मत्रिपदं विना ॥३०॥ फणिपतिमघवाद्या अत्र | देवाः समीयुर्भरतसगरमुख्याश्चक्रिणो भूमिशक्राः । कुमरनृपतिमुख्या भूभुजो ये प्रसिद्धा, अजनिषत पवित्रास्तेन यात्रां विधाय ।। * सङ्घो वाग्भट्टदेवेन, तथा चक्रेत्र मत्रिणा । भविष्यतामतीतानामुपमा न यथाभवत् ॥३२॥ आभूः पश्चिममण्डलेशविरुदाधारो *
धरामण्डले, श्रेष्ठी पञ्चशतैर्जिनेन्द्रभवनैर्गाङ्गेयकुम्भान्वितैः। युक्तस्तीर्थयुगेऽत्र सम्प्रतिसमो यात्रां विधायाद्भुतां, कोटीरष्ट धनस्य
शुद्धविधिना चक्रे पुरा पात्रसात् ॥३३।। अर्हत्प्रोद्धरधर्मतत्परशिरःकोटीररत्नाकुरो, राजर्षिस्तु कुमारपालविपुलापालः कृपालुः कलौ । IAS कला सङ्कमिहोपदेशवचसा श्रीहेमसरिप्रभोः । श्रीशत्रुञ्जयरैवताचलमहायात्रां पवित्रां व्यधात् ॥३४॥ तत् प्रीत्या क्रियते तीर्थयात्रा
पात्रावलिप्रिया । सङ्घाधिपपदं प्राप्य, साम्प्रतं भवता यदि ॥३५॥ महामात्यपदोद्भूता, प्रभृताः सम्पदस्तदा । भवेयुः सफला भूयो, ae भूयसां भवतारणात् ॥३६॥ युग्मम् ।। इत्याशीर्वादपत्रार्थ, यथास्थिततया हृदि । संस्थाप्यातोषयन्मत्री, तं श्राद्धं भूरिदानतः ॥३७॥
स्वविज्ञप्तिं ततः प्रेषीद्भक्तिगर्भा शुभाशयः। तेषामाकारणाद्यर्थ, तस्य हस्तेन धीसखः॥३८॥ यात्रानिर्माणसाम्मत्यं, तेजः
Page #164
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
पश्चमः प्रस्तावः
॥७५॥
पालेन बन्धुना। निर्माय नित्यभक्तेन निर्णिक्तमतिसिन्धुना ॥३९।। तत्कालं धर्मशालायामागत्यानन्दमेदुरः । नरचन्द्रगुरून्नत्वा, प्रश्नमेवं स निर्ममे ॥४०॥ धर्मचिन्तास्ति या स्वामिन्नन्तःस्वान्तं ममाधुना । भविष्यति प्रमाणं सा, निष्प्रत्यूहं निगद्यताम् ॥४१॥
निमित्तवेदिनां मुख्यास्ततस्ते गुरवोऽवदन् । हृदि ते वर्तते मत्रिस्तीर्थयात्रामनोरथः ॥४२॥ स तथा कल्पशाखीव, वीतविघ्नं फलिaal व्यति । भविष्यन्ति यथा सर्वलोकाभीष्टार्थसिद्धयः॥४२॥ युग्मम् ।। प्ररूढं भवतः प्रौढेरद्य भाग्यभराङ्करैः । यदेवं तीर्थयात्रायाः,
प्रादुरासीन्मनोरथः ॥४४॥ धन्याङ्गिनो भवन्त्युच्चैधर्मकर्ममनोरथा । प्रायो धन्यतमस्यैव, फलन्त्याशु विशेषतः॥४५॥ यद्येवं भग| वन ब्रूहि, माहात्म्यं तीर्थयोर्द्वयोः । तद्यात्राया विधिं चेति, मत्रिणोक्ते गुरुजगौ ॥४६॥ महिमानं महामात्य, तीर्थयोरुभयोरपि । |न्यक्षेण वक्तुमीष्टेऽसौ, सर्वविद्यो भवेद् भुवि ॥४७॥ तथापि श्रूयतां भूरिधोरपातकशोधनम् । स्वरूपं तीर्थयोः किश्चिद् , यज्ञकोटिफलप्रदम् ॥४८॥ एतस्यामवसपिण्यां, प्रथमस्तीर्थनायकः । नामेः कुलकरस्यासीत्सूनुर्विश्वत्रयाचिंतः॥४९॥ ईक्ष्वाकूणां गुरुः खामी, | ऋषभः परमेश्वरः । विनीतायां महापुर्या, निर्मितायां सुपर्वभिः ॥५०॥ युग्मम् ॥ चतुर्णामपि वर्णानां, व्यवस्था यो व्यधा रि। मतिश्रुतावधिज्ञानी, यथायोग्यक्रियार्पणात् ॥५१॥ बभूवुः क्षत्रियास्तत्र, चतुर्धा शस्त्रपाणयः। लोकरक्षाविधौ दक्षा, भेदैरारक्षकादिभिः ॥५२॥ धर्मतत्त्वक्रियानिष्ठा, ब्राह्मणा ब्रह्मचर्यतः। कृषिवाणिज्यरता वैश्याः, शूद्राश्चान्यक्रियोद्यताः ॥५३॥ यतः
एकवर्णमिदं सर्व, पूर्वमासीयुधिष्ठिर। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥५४॥ बभूव भरतस्तस्य, श्रीमान् विश्व| गुरोः सुतः । अग्रणीः शतपुत्राणां, जन्मना सम्पदापि च ॥५५।। यस्य सिंहासनं पूर्व, रचयन्ति मनीषिणः । राजाधिराजसद्धेशसङ्घ| वात्सल्यकारिषु ॥५६॥ श्रीमान् ऋषभसेनोऽभूत् , पुण्डरीकापराह्वयः । द्विधा क्षमाभृतां मुख्यः, श्रीभरतात्मजस्तथा ॥५७॥ यो
॥७५||
Page #165
--------------------------------------------------------------------------
________________
1
68AR-22483IRK-248888
468246398*
**
वेदाष्टसहस्राणां, शिष्याणां वृषभप्रभोः। मुख्यो गणभृतामाद्यो, द्वादशाङ्गिकृतां पुनः ॥५८॥ चैत्रस्य शुक्लराकायां, साधूनां पञ्चकोटिभिः । संयुतः केवलज्ञानलक्ष्मीलीलाकटाक्षितः ॥५९॥ इमं गिरीन्द्रमारुह्य, विश्वत्रितयपावनम् । लोकाग्रपदवीं पुण्यां, प्रापत् | शाश्वतशर्मदाम् ॥६०॥ त्रिभिर्विशेषकम् । आदौ मुक्तिपदं लेमे, पुण्डरीको गणाधिपः । पुण्डरीकाचलस्तेन, ख्यातोऽयं त्रिजगत्यपि | ॥६॥ संख्यातीता अगुः सिद्धिं, मुनीन्द्रा अत्र पर्वते । तेन सिद्धाचलख्याति, प्राप्तोऽसौ विश्ववन्दितः ॥६२॥ जयं दुर्जयशत्रूणां, शुकाख्यो नृपतिः पुरा । अस्याराधनतश्चक्रे, तेन शत्रुञ्जयः स्मृतः ॥६३॥ तियञ्चोऽप्यभवन्नस्य, सेवया पृथिवीभृतः । सर्वाङ्ग विमलात्मानस्ततोऽयं विमलाचलः ॥६४|| जिनेन्द्रा जगतां पूज्या, असंख्यास्त्रिदशान्विताः । पुरात्र समवासार्पस्ततो जैनेन्द्रपर्वतः ॥६५॥ आराधनाद्भवेदस्य, क्रूरकर्मापि देहभृत । मुक्तियोग्यो ध्रुवं मुक्तिनिलयस्तेन कीर्तितः॥६६॥ जगतत्रितयतीर्थेषु, गुणैः सर्वोत्तमैर
यम् । धत्ते राजश्रिय लोके, तीर्थराज इति स्मृतः ॥६७।। सर्वकामप्रदानेन, कामदश्च सतां मतः । पुण्यराशिप्रकाशेन, पुण्यराशिश्व Iral गीयते ॥६८॥ दशपञ्चविधैः सिद्ध, राजनात सिद्धराट् पुनः । सुरश्रेणेः प्रियत्वेन, विदितश्च सुरप्रियः॥६९।। भगीरथनृपाराध्यतया * त्वेष भगीरथः। नगेष्वधीश्वरखेन, नगाधीश्वर उच्यते ॥७०॥ पर्वतेष्विन्दनादृङ्ख्या, पर्वतेन्द्रः पुनर्मतः। सुभद्रः सुष्टु भद्राणां,
दायिखेन तथा श्रुतः ॥७१। मुक्तिगेहं महातीर्थ, शाश्वतं सर्वकामदम् । मुनयो हि वदन्त्येनं, क्षितिमण्डलमण्डनम् ॥७२॥ त्रिलोके यानि तीर्थानि, पवित्राणि महामते । तानि सर्वाणि दृष्टानि, दृष्टे शत्रुञ्जये गिरौ ॥७३॥ अशीतियोजनान्याये, विस्तृतोऽयमरे पुनः । द्वितीये सप्ततिं तानि, तृतीये षष्टिमद्रिराट् ॥७४॥ तुर्ये पञ्चाशतं तानि, पञ्चमे द्वादशापि च । सप्तरत्नी तथा षष्ठे, प्रभावोऽस्याधि- Iods कोधिकः ॥७५॥ हानिर्यथावसर्पिण्यामुत्सपिण्यां तथोच्छ्रयः। सर्वतीर्थावताराश्च, सन्ति शत्रुञ्जये गिरौ ॥७६॥ नमः श्रीतीर्थ
*
*
AR BIR-2248368-6
**
-
Page #166
--------------------------------------------------------------------------
________________
पञ्चमः प्रस्ताव:
श्रीवस्तुपाल
राजाय, सर्वतीर्थमयात्मने। यात्राफलं लभेताङ्गी, खस्थानस्थः सरन्नपि ॥७७॥ अन्यत्र वर्षकोव्या यत्तपोदानदयादिभिः। प्राणी चरितम् ।।
* बध्नाति सत्कर्म, मुहूर्तादिह तद् ध्रुवम् ॥७८॥ नास्त्यतः परमं तीर्थ, मत्रिराज जगत्त्रये । यस्यैकवेलं नामापि, स्मृतं पाप
* भरापहम् ॥७९॥ पश्चाशयोजने क्षेत्रे, मुक्तिदे स्पर्शनादपि । मुख्यं शृङ्गं विदं ख्यातं, स्मरणादपि मुक्तिदम् ॥८०॥ अन्यत्रापि कृतं | ॥७६॥ तीर्थे, पुण्यं बहुफलं भवेत् । अत्रानन्तगुणं तच्च, भवेत्क्षेत्रानुभावतः ॥८॥ अन्यतीर्थेषु यद्यात्रासहस्रः पुण्यमाप्यते । तदेकयात्रया
पुण्यं, शत्रुञ्जयगिरौ भवेत् ॥८२॥ यदध्यासितमर्हद्भिः, सकृतीर्थ तदुच्यते । यदत्रैयरुरर्हन्तोऽनन्तास्तीथं ततो महत् ।।८।। विहरं| स्त्रिजगन्नेता, केवलज्ञानवान् जिनः । सर्वोत्तममिदं ज्ञाखा, तीर्थ तीर्थकरादपि ॥८४॥ अत्रैव समवासार्षीत्प्रथमस्तीर्थनायकः। अन*न्तसिद्धसम्पूतराजादन्यास्तरोरधः ॥८५।। युग्मम् ॥
देवाः समवसरणं, व्यधुस्तत्र जगद्गुरोः। चैत्यद्रुमादिभिः प्रातिहारष्टभिरन्वितम् ॥८॥ जिनेन्द्रो विदधे तत्र, देशनां मोहनाशिनीम् । सिंहासनमधिष्ठाय, देवदानवपर्षदि ।।८७॥ सद्व्यं सुकुले जन्म, सिद्धक्षेत्रं समाधयः। सङ्घश्चतुर्विधो लोके, सकाराः | | पञ्च दुर्लभाः ॥८८॥ पल्योपमसहस्रस्य, ध्यानात्पापं विलीयते । अभिग्रहाच लक्षस्य, शत्रुञ्जयगिरेनृणाम् ॥८९॥ पदे पदे विली
यन्ते, भवकोटिभवान्यपि । पापानि पुण्डरीकाद्रेर्यात्रायां गच्छतो विधेः ॥९०॥ कृत्रिमेष्वन्यतीर्थेषु, दयादानतपोऽर्चनैः। यत्पुण्यं | जायते जम्बूचैत्ये दशगुणं हि तत् ॥९॥ दशघ्नं धातकीवृक्षे, तद्दशघ्नं च पुष्करे । मेरौ शतगुणं तस्मात् , पुण्यं यात्राविधायि-| नाम् ॥९२॥ नन्दीश्वरे कुण्डलाद्रौ, क्रमाद्दशगुणं ततः। कोटाकोटिगुणं तस्मादैवतस्य स्मृतेरपि ॥९३॥ शत्रुञ्जयेऽनन्तगुणं, दर्शनादेव तन्मतम् । सेवनात्तु फलं सम्यग् , गदितुं नैव पार्यते ॥९४॥ चतुर्भिः कलापकम् । अत्रैकेनापि पुष्पेण, जिनेन्द्रो भावतोऽ
||७६॥
Page #167
--------------------------------------------------------------------------
________________
88888888888388838 1838283328
"
चितः । एकातपत्रमैश्वर्य, दत्ते क्षेत्रानुभावतः ॥ ९५॥ यद् द्रव्यं व्यथितं भव्यैरत्र क्षेत्रानुभावतः । कोटाकोटिगुणां वृद्धिं तदाप्नोति दिने दिने ॥ ९६ ॥ एतत्तीर्थं नमस्कर्तुं गच्छतां स्वच्छचेतसाम् । नमस्कृत्य पुनः सम्यग् व्रजतां स्वगृहं प्रति ॥९७॥ भक्तिः कृता भवेत्कोटिगुणा निश्छद्मचेतसा । अन्याङ्गिगौरवान्नूनमनन्तगुणतोऽधिका ॥ ९८ ॥ युग्मम् || सुवर्णकोटिदानेनान्यत्र तीर्थेषु यत्फलम् । एकवस्त्रप्रदानेन जायते तदिह ध्रुवम् ॥ ९९ ॥ एकैकस्मिन् पदे दत्ते, शत्रुञ्जयगिरिं प्रति । लभते यात्रिको न्यायी, पण्मास तपसः फलम् ||५०० || इत्यादिदेशनां कृत्वा स श्रीमानृषभप्रभुः । गिरिं प्रदक्षिणीकुर्वन्, विजहार सुरार्चितः ||१|| प्रथमं श्रीजिनाधीशं, ततः श्रीभरतेश्वरः । पुण्डरीकादिसाधूनां, परिवारेण राजितम् ||२|| अत्र तीर्थोत्तमे ज्ञात्वा गिरीन्द्रे समवसृतम् | अनन्तसिद्ध सत्क्षेत्रे तरुराजादनीतले || ३ || प्रासादं कारयामास, वासवादेशतत्परः । जातरूपमयं पुण्यं, सुमेरुशिखरोपमम् ||४|| सुवर्णमणिमाणिक्यप्रतिमाभिरलङ्कृतम् । पञ्चशतधनुर्मानमयीभिः प्रथमाहतः || ५ || भाविनामजितादीनामर्हतां प्रतिमास्तथा । प्रातिष्ठिपत्केवलिना, विश्वश्लाघ्यमहोत्सवैः ॥ ६ ॥ पञ्चभिः कुलकम् ।। द्वात्रिंशता सहस्रैर्भूपालैर्मुकुटधारिभिः । कल्पशाल इवाभीष्टं, पूरयन् जगतामपि ॥७॥ तत्र यात्रां, ततश्चक्रे, चक्रभृत्प्रथमो गिरौ । आश्चर्यपात्रं त्रैलोक्या, आद्यः सङ्घाधिपाग्रणीः ||८|| युग्मम् || द्वात्रिंशतं सहस्राणि, सुवर्ण| मणिमण्डिताः । विरेजुर्भूर्भुजामुच्चैर्यत्र देवालयाः पुनः ||९|| माणिक्यनिर्मितस्तत्र, पवित्रचित्रितः सुरैः । त्रैलोक्यसुन्दरश्रङ्गोत्तुङ्गशृङ्गो जिनालयः ||१०|| सूर्येन्दुकान्तरत्नानामष्टोत्तरशतेन च । संशोभमानः सत्कुम्भैरासीद्भरतचक्रिणः ॥ ११॥ युग्मम् ॥ श्रीमदादिजिनेन्द्रस्याऽप्रतिमाः प्रतिमाः पुनः । देवालयेषु सर्वेषु, रेजुस्तेषु रजोऽपहाः ||१२|| प्रतिष्ठासमये तासां, त्रिदशश्रेणिसंश्रितः । आगत्य त्रिदशाधीशो, भरताधीशसद्मनि ॥ १३॥ सङ्घाधिपपदैश्वर्यस्थापनं विधिवद् व्यधात् । नृत्यद्देवाङ्गनावृन्दकौतुकाक्षिप्तपूर्जनम् ॥१४॥
88888888888888888463% %88%
Page #168
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम् ।
पञ्चमः प्रस्तावः।
॥७७॥
युग्मम् ॥ सत्पुष्पकुमामोदमन्थरैस्तीर्थवारिभिः। सोऽभिषिच्य महीपालं, माङ्गल्यविधिना सुधीः॥१५॥ ततो निवेश्य गाङ्गेयपट्टे खस्तिकशालिनि । वामाङ्गे सार्वभौमस्य, सुभद्रा भद्रपीठके ॥१६॥ तिलकं भरतेशस्य, सकलत्रस्य पाणिना। विधाय पूरयामास, | रौप्यतण्डुलराजिभिः ॥१७॥ कण्ठे च कौसुमी माला, विशालां विदधे मुदा । नवाङ्गपूजया पूर्व, देवदृष्यैरभूषयत् ॥१८॥ चतुर्भिः कलापकम् । तदा जयजयारावं, विदधुर्मुदिताः सुराः । दुन्दुभीन् वादयामासुदिवि केचित्कुतूहलात् ॥१९॥ द्वात्रिंशतस्ततो हृष्टः, सहस्राणां महीभुजाम् । सङ्घाधिपपदप्रौढिमर्पयद्भरतेश्वरः ॥२०॥
प्रतिपुरं प्रतिग्राम, प्रतिपर्वतमेखलम् । प्रासादान कारयन् जैनान् , जिनेन्द्रप्रतिमान्वितान् ॥२१॥ साधर्मिकाणां वात्सल्यं, रचयानुवासरम् । देवालयेषु सर्वेषु, कारयन्मजनोत्सवम् ॥२२॥ सृजन्नष्टविधां पूजा, स्वयं श्रीप्रथमाईतः । षडावश्यककर्माणि, त्रिशुद्ध्या विदधंस्तथा ॥२३॥ पूरयन् सर्वलोकानां, दानैः सन्मानशालिभिः । सम्पदः सफलीकर्त, पृथुनपि मनोरथान् ।।२४॥ शीलयन् त्रिविधं शीलं, पालयन् द्वादशवतीम् । प्रीणयन् यात्रिकश्रेणिं, सुधासोदरया गिरा ।।२५।। चक्रपाणिश्चलनेवं, चतुरङ्गचमूवृतः । | त्रिकातोद्यादिनादेन, त्रासयंत्रिदशानपि ॥२६॥ सुराष्ट्राविषयं प्राप्य, दृष्ट्वा चाहतपर्वतम् । गजादुत्तीर्य सानन्दः, पञ्चाङ्गं प्रणनाम तम् ॥२७॥ सप्तभिः कुलकम् ॥ तत्रैव तदिनं तस्थौ, ससङ्घश्चक्रभृत्पुनः। श्रीतीर्थराजमाहात्म्यं, शृण्वन् केवलिनो मुखात् ॥२८॥ ततः शास्त्रोक्तविधिना, यक्षकर्दममण्डलम् ॥ शुचिप्रदेशे निर्माय, मौक्तिकस्वस्तिकाङ्कितम् ॥२९॥ प्रतिमां देवतागारे, प्रपूज्य ऋषभप्रभोः। स व्यधात्पुण्डरीकाद्रेः, श्रीसङ्घन सहार्चनम् ॥३०॥ युग्मम् ।। उपोषितः शुभध्यानवानसौ पारणं व्यधात् । द्वितीये दिवसे तत्र, सङ्घवात्सल्यपूर्वकम् ॥३१॥ आरुरोह गिरेः शृङ्ग, पादचारेण भूपतिः । सुरासुरनरश्रेण्या, पूज्यमानः क्रमे क्रमे ॥३२॥ वर्धाप्य
॥७७||
Page #169
--------------------------------------------------------------------------
________________
**838888888888888888888638 X
मौक्तिकैर्दिव्यैस्तरुं राजादनीं ततः । चक्री प्रदक्षिणीचक्रे, श्रीसङ्घजनता वृतः ||३३|| प्राविशन्नृपतिखामी, प्रासादं विश्वसुन्दरम् । अधौतपादिकीं पूजां प्राग् चक्रे परमेशितुः ||३४|| यतः - अधौतपादिकीपूजा, तत्कालानन्दवर्णिका । अर्हतां क्रियते धन्यैः, शिवश्रीवरणोपमा ||३५|| जन्मात्रमिव स्नात्रं, तत्र कृत्वा ततो नृपः । गाङ्गेयरत्न कलशैर्दिव्यतीर्थोदकैर्भृतैः ॥ ३६ ॥ कर्पूरकुङ्कुमोन्मिश्र श्री| खण्डकुसुमादिभिः । भक्तितोऽपूजयन्नाभिनन्दनं विश्वनन्दनम् ||३७|| रत्नमाणिक्यमुक्तानां, कोटीस्तत्र पृथक् पृथक् । अढौकयत्ततः स्वामिपुरतः पृथिवीपतिः ||३८|| सुभद्राद्या महादेव्यो, नवाङ्गेषु जगद्गुरुम् । अनयैरर्चयामासुर्माणिक्यैर्मुदिताशयाः ॥ ३९ ॥ मुकुटं मानिनी काचिद्रलकोटिमनोहरम् । यत्नतो दयिता तस्य, पूर्व रत्नाकरार्पितम् ॥ ४० ॥ माणिक्यतिलकं काचित्तिलङ्गेश्वरनन्दना । अन्या ग्रैवेयकं दिव्यं, सुग्रीवनृपतेः सुता ॥ ४१॥ वत्सोद्भवा परा रत्नश्रीवत्सं स्वच्छमानसा । स्थूलमुक्तामयं हारं, स्वयं मुक्तामया सती ॥४२॥ वतंसं मणिभिमौलौ, वसन्तेश्वरसम्भवा । कर्णयोः कुण्डले दिव्ये, कर्णाटेश्वरनूर्ददौ ||४३|| चतुर्भिः कलापकम् ॥ ततो जिनं नमस्कृत्य, रूप्यसौवर्णवाससाम् । तत्र चैत्येषु सर्वेषु, महाध्वजानसौ ददौ ॥ ४४ ॥ स श्रीनाभं नमश्चक्रे, गुरुं केवलिनं ततः । तमाशीर्वचसानन्द्य, स व्यधाद्धर्मदेशनाम् ||४५ || धन्यास्त एव मनुजाः, कृतकृत्यास्त एव हि । श्रीयुगादिजिनाधीशं येऽर्चयन्त्यत्र | पर्वते ||४६ ॥ दना घृतेन पयसा, सितया वारिणापि च । पञ्चामृतेन यः स्नप्याजिनं सिद्धिङ्गमी हि सः || ४७|| कारयन्ति जिनेन्द्राणां चैत्यमत्राचले हि ये । मणिरत्नविमानानि, लभन्ते ते त्रिविष्टपे ||४८ || एकतः पुण्यकृत्यानां नानातीर्थेषु निर्मितिः । एकतः | पुण्डरीकाद्रेविधिना वन्दनं पुनः || ४९ ॥ श्रुत्वेति देशनां चक्री, वन्दित्वा विधिना गुरून् । निजावासमगाच्चित्ते, स्मरन् शत्रुञ्जयं गिरिम् ॥५०॥
X€BK78888888888888888888
Page #170
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम् ।
पश्चमः प्रस्तावः।
॥७८॥
अत्रान्तरे समायातस्तत्र त्रिदशनायकः । सार्वभौमं नमस्कृत्येत्यवादीन्मुदिताशयः ॥५१॥ जगज्ज्येष्ठतयास्माकं, पूज्यः श्रीऋषभप्रभुः । त्वं तु तस्याङ्गजश्चक्री, तीर्थोद्धारकरो धुरि ॥५२॥ खयातां जिने पूजा, लोकोऽप्यनुकरिष्यति । विशेषान्मत्कृतां तां तु,* त्वमप्यनुकुरूच्चकैः ॥५३॥ एवमङ्गीकृते राज्ञा, तदेन्द्रोऽथ सुरैः समम् । विधिनार्हन्तमानर्च, सद्यस्ककुसुमादिभिः॥५४॥ शेषमाल्यं | ततो जैन, विविधैर्द्रव्यसञ्चयैः । वृद्ध्यादाय सुरखामी, खकण्ठे कृतवान् कृती ॥५६॥ युग्मम् ॥ दुग्धोदधौ ततो गत्वा, सम्पूर्य | कलशान जलैः । देवकोटीयुतो याने, निविष्टः प्रवरोत्सवैः ॥५६॥ अभ्येत्य तीर्थे तीर्थेशपादावस्नापयन्मुदा। दानं ददत्सुपात्रेभ्यो, दिवस्पतिः प्रमोदतः ॥५७॥ युग्मम् ॥ ख्यातस्तत्प्रभृति क्षोण्यां, सोऽयमिन्द्रोत्सवो महान् । यथा महान्तो वर्तन्ते, तथानुकुरुते | जनः ॥५८॥ इन्द्रोत्सवं गिरावत्र, ये सृजन्ति महद्धिकाः। इन्द्रा इन्द्रसमा वा स्युस्ते जनाः पुण्यशालिनः ॥५९॥ ददौ तीर्थस्य | | पूजाय, सुराष्ट्रां भरताधिपः । तदादि देवदेशोऽयं, विश्रुतः क्षितिमण्डले ॥६०॥ प्राग द्वात्रिंशत्सहस्रान् भरतनरपतिधर्मवीराग्रयायी, ग्रामान् श्रीसचमुचैः क्षितिपतितिलकैः कोटिशः सेव्यमानः । यात्रां कुर्वन् पवित्रां त्रिजगदधिपतेर्नाभिराजाङ्गजस्य, प्रादात्पूजानिमित्तं विमलगिरिपतेः स्फीतभक्त्या विवेकी ॥६१॥
गिरिं प्रदक्षिणीकुर्वन् , पुण्डरीकं नरेश्वरः। पदे पदे नमस्कारं, विदधे विधिना सुधीः ॥६२।। अत्रान्तरे नरेन्द्राय, सुरेन्द्रो धर्मवासनः । उवाच चरितानन्दं, नन्दनाय जिनेशितुः ॥६३॥ शत्रुञ्जयगिरेरेव, शृङ्गं गङ्गाम्बुनिर्मलम् । उज्जयन्ताभिधं ख्यातं,* त्रिलोक्यां तीर्थमुत्तमम् ॥६४॥ यतः-श्रीविमलगिरेस्तीर्थाधिपस्य परमं वदन्ति तत्वज्ञाः । शैलमनादियुगीनं, स जयति गिरिनार-* | गिरिराजः॥६५॥ पुण्यस्थावरतीर्थेषु, स्वर्भूतलवर्तिषु । उज्जयन्तगिरेस्तुल्यं, तीर्थ नास्ति जगत्रये ॥६६।। अत्र दानानि दत्तानि,
॥७८॥
Page #171
--------------------------------------------------------------------------
________________
सत्पात्रेषु सगौरवम् । कुर्वते सार्वभौमस्य, पदवीमदवीयसीम् ॥६७॥ अनन्तानां जिनेन्द्राणां, कल्याणत्रितयं नृप । एकैकमथवा * जज्ञे, तीर्थेऽसिन् भुवनोत्तमे ॥६८॥ अनन्ताः समवासार्पः, साधुभिः सहिता जिनाः । अनन्ता मुनयः प्रापुर्मुक्तिमस्याश्रयात्पुनः॥६९॥ * अष्टौ तीर्थकृतोऽतीतचतुर्विंशतिसम्भवाः । कल्याणत्रितयं प्रापुर्नमीश्वरादयस्तथा ॥७०॥ अजिमब्रह्मपूतात्मा, द्वाविंशोज़ जिनेश्वरः। | अरिष्टनेमिर्भगवान् , हरिवंशैकमौक्तिकम् ॥७१।। संश्रितो नृसहस्रेण, सहस्राम्रवणं गतः। निर्ग्रन्थतां परां प्राप्य, शुक्लध्यानसमाधिवान् ॥७२॥ आसाथ केवलज्ञानं, तीर्थमेतत्पवित्रयन् । नानासमवसरणैः, शिखरे मुक्तिमेष्यति ॥७३॥ तेनासौ परमं तीर्थ, रेव| ताद्रिमहीतले । नित्यसंस्मरणादस्य, पापात्मापि शिवङ्गमी ॥७४॥ तथा पूर्वमतीतायामुत्सर्पिण्यां पुरातनः । सागरार्हन्मुखाम्भोजाद् , | वृत्तं शक्रोशृणोदिति ॥७५॥ द्वाविंशस्यावसर्पिण्यां, भाविनो नेमिनोहतः । गणभृत्पदमासाद्य, भवानिवृत्तिमेष्यति ॥७६॥ वज्ररत्न|मयी तेन, मूर्तिनिर्माय निर्मला । स्वस्थाने भक्तितोऽभ्यर्चि, ततोऽनेकमहोत्सवैः ॥७७॥ स्वायुषः समये प्रान्ते, गिरिनारगिरेरधः, | मंदिरं काञ्चनं दिव्यं, विधायामरशक्तितः ॥७८॥ तां मूर्ति स्थापयामास, विम्बैरन्यैः समं तु सः। पूज्यते च सदा देवैः, सा तत्रस्थाधुनापि हि ॥७९॥ महातीर्थमिदं तेन, सर्वपापहरं स्मृतम् । शत्रुञ्जयगिरेरस्य, वन्दने सदृशं फलम् ॥८॥ विधिनास्य सुती
र्थस्य, सिद्धान्तोक्तेन भावतः। एकशोऽपि कृता यात्रा, दत्ते मुक्तिं भवान्तरात् ॥८१॥ अन्यत्रापि स्थितः प्राणी, ध्यायन्नेनं गिरी|श्वरम् । आगामिनि भवे भावी, चतुर्थे किल केवली ॥८२॥ श्रुखेति भरताधीशः, स्वर्गाधीशगिरा तदा। यात्रायै प्राचलत्सङ्घसहितो | रैवतं प्रति ॥८३॥ ज्ञाला भविष्यतो नेमे वि कल्याणकत्रयम् । तत्राकारयदुत्तुङ्ग, प्रासादं काञ्चनस्य सः॥८४॥ एकादशभिरुत्तुङ्गै मण्डपैः शुशुमेऽधिकम् । चतुर्दिशं चतुर्दारः, स नाम्ना सुरसुन्दरः ॥८५॥ नीलरत्नमयी तस्मिन् , शुशुभे शुभशंसिनी। मूर्ति-|
Page #172
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥७९॥
88% 3% 884838348382838838
नैमिविभोर्भव्य पुण्यराशिरिवाङ्गवान् ||८६॥ स्नात्वा हस्तिपदे कुण्डे, चक्री शक्रसमन्वितः, नेमिनं पूजयामास, सत्कृत्यस्थितिपूर्वकम् ||८७|| वात्सल्यं सङ्घलोकानां ततः कृत्वा नरेश्वरः । रत्नवस्त्राद्यलङ्कारैः, श्रीसङ्घ समतूतुषत् ||८८ || श्रीआदित्ययशोमुख्याः, संख्यातीतास्ततोऽभवन् । सङ्घाधिपतयो भूमिपतयः पुण्यसम्पदः ||८९|| तद्वर्त्मनः प्रकाशाय, भवतो विश्वभाखतः । सामर्थ्यं दृश्यतेSस्माभिर्वस्तुपाल कलौ युगे ॥९०॥ साम्प्रतं तीर्थयुग्मेऽपि ततस्तिग्मद्युतिद्युतेः । यात्रा जगज्जयोल्लासिरीत्या कर्तुं तवोचिता ।।९१ ।। श्रीपुण्डरीकाचलरैवतोर्वीधरद्वये पावितविश्वलोके । वित्तैर्निजैन्ययसमर्जितैर्यः, करोति यात्रां विधिना स धन्यः ॥ ९२ ॥ अतः परं महामात्य !, सम्यग्यात्राविधिं शृणु । येनात्र निर्मिता यात्रा, भवेन्मुक्तिप्रदा नृणाम् ॥९३॥ तथाहि - भक्तो मातापितॄणां स्वजनपरजनानन्ददायी प्रशान्तः, श्रद्धालुः शुद्धबुद्धिर्गतमदकलहः शीलवान् दानवर्षी । अक्षोभ्यः सिद्धिगामी परगुणविभवोत्कर्षहृष्टः कृपालुः, | सङ्घैश्वर्याधिकारी भवति किल नरो दैवतं मूर्त्तमेव || ९४ || मिथ्यात्रिषु न संसर्गस्तद्वाक्येष्वपि नादरः । विधेयः सङ्घपतिना, तीर्थयात्राफलेप्सुना । ९५|| न निन्दा न स्तुतिः कार्या परतीर्थस्य तेन हि । पालनीयं त्रिधा शीलं सम्यक्त्वं वहता पथि ॥ ९६ ॥ सहो - दरेभ्योऽप्यधिका, द्रष्टव्या यात्रिका जनाः । सर्वत्रामारिपटहो, वाद्यः शक्त्या धनैरपि ॥९७॥ त्रिभिर्विशेषकम् । साधून् सुश्राद्धसंयुक्तान्, वस्त्रान्ननमनादिभिः । प्रत्यहं पूजयत्येष, अर्हद्भक्तिभरान्वितः ॥ ९८ ॥ रथस्थदेवतागारे, जिनपूजामहोत्सवैः । चतुर्विधेन सङ्घन, सहितः शान्तमानसः ||१९|| स्थाने स्थाने सृजन् स्नात्र ध्वजारोपादिकान् महान् । धर्मबाधाकरान्मार्गे, निजशक्त्या निवार| यन् ॥ ६०० || पाक्षिकादीनि पर्वाणि, धर्मकार्यैर्विशेषतः । सत्यापयन् सामायिकपौषधैर्जिनपूजनैः ॥ १ ॥ सीदन्तं श्रावकं लोकं, ज्ञाखा ग्रामपुरादिषु । अर्हद्धर्मे स्थिरीकुर्वन् प्रच्छन्नं धनदानतः ॥ २ ॥ पालयन्नतिथीनां च संविभागं स्वशक्तितः । पाययन् सलिलं वस्त्रपूत
"
-483848834838488888888888
पश्चमः प्रस्तावः ।
॥७९॥
Page #173
--------------------------------------------------------------------------
________________
8
मेव पशूनपि ॥३॥ षड्भिः कुलकम् । यात्रिकैरपि नो कार्य, विकथाकलहादिकम् । अदत्तं नैव च ग्राह्यं, घासशाकफलादिकम् ॥४॥ | अनिर्वाहेऽपि नो कार्य, कूटमानतुलादिकम् । परकीयो लोष्टिकोऽपि, क्रयादौ नैव लुप्यते ॥५।। अन्यदा विहितं पापं, यात्रायां | प्रविलीयते । यात्रायां तु कृतं पापं वज्रलेपो भवेद् ध्रुवम् ॥६॥ वित्तं न्यायाजितं चैव, तीर्थयात्राविधायिभिः । सद्धीजमिव सत्क्षेत्रे,
धर्मे योज्यं फलार्थिभिः ॥७॥ अनेन विधिना यात्रा, निर्मायं निर्मिता सती । घोरं पापं तिरस्कृत्य, मुक्तिं दत्ते भवान्तरे ।।८।। | यतः-अत्रास्ति स्वस्तिपात्रं क्षितितलतिलको रम्यताजन्मभूमिदेशः सम्पन्निवेशत्रिभुवनमहितः श्रीसुराष्ट्राभिधानः । यस्सोचैः पश्चि-| | माम्भोनिधिरपहरते लोलकल्लोलपाणिः, प्रस्फुर्जत्स्फारफेनोल्वणलवणसमुत्तारणैर्दृष्टिदोषान् ॥९॥ तथा-श्रीशत्रुञ्जयरवैताभिधगिरि
द्वन्द्वेव यात्रोत्सवं, दानब्रह्मतपःकृपाकृतरतियुक्त्या विधत्ते हि यः। तीर्थत्वातिशयेन नारकगतिं तियग्गतिं च ध्रुवं, नो कस्मिन्नपि * जन्मनि स्पृशति स प्रध्वस्तदुष्कर्मतः ॥१०॥ एवं श्रीविमलाद्रिरैवतगिरिप्रायेषु तीर्थेषु ये, त्रैलोक्यप्रथितेषु सद्बतरताः सदृष्टिमन्तोनिनः । न्यायोपात्तधनव्ययेन विधिवत्कुर्वन्ति यात्रोत्सवं, हर्षोत्कर्षसखीं श्रयन्ति पदवीं जैनेश्वरी ते क्रमात ॥११॥ gewsNNNNNNNNNNNAINMEANIRONORSESENDORONSIONSORRENOMINDIANDINORSPORANSAR इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके हर्षाङ्के श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि
. श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते पञ्चमः प्रस्तावः ।।
**83-
8488-88888
888888888****
**
*****
Page #174
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥८॥
अथ षष्ठः प्रस्तावः।
षष्ठः
प्रस्तावः। अथाश्वराजमः स्माह, सोत्साहः श्रीगुरूनिति । यद्येवं क्रियतां वासारोपः साग्देवतालये ॥१॥ आदिदेश क्षमास्वामी, निःस्पृहैकशिरोमणिः । तमेवं धर्ममर्यादायादःपतिरुदारधीः ॥२॥ वासारोपं महामात्य, कुर्वन्ति श्रीजिनालये । गुरवो भवतामेव, तदा युक्तिगरीयसी ॥३॥ श्रीनागेन्द्रगणाधीशा, विजयसेनसूरयः। कुलक्रमागताः सन्ति, गुरवो वो गुणोज्ज्वलाः ॥४॥ गुरवस्तव मत्रीश, | मातृपक्षगताः पुनः। मलधारिगणाचारधुरंधरपुरस्कृताः ॥५॥ निःसङ्गवृत्तितः साधुहीन्यायाजितश्रिया । योषित्पतिव्रतत्वेन, नमस्या मरुतामपि ॥६॥ (यतः-जा जस्सहिई जा जस्स संतईपूब्ब पुरिसकयमेरा, कण्ठडिएवि जिए सा तेण न लचियविति ॥) ॥७॥ आहूय बहुमानेन ततस्तान्मुनिपुङ्गवान् । प्रतिष्ठा कार्यतां प्रौढोत्सवं देवालयेऽधुना ॥८॥ इत्याकर्ण्य गुरोर्वाचं, सचिवः सानुजोऽवदत् । आवाभ्यां भवतामेव, सन्निधौ गुणधारिणाम् ॥९॥ षडावश्यकसूत्राणि, जैनग्रन्थाश्च भूरिशः। कर्मप्रकृतिप्रमुखा, विद्यास्तिस्रोऽपि निस्तुषाः ॥१०॥ अधीतानि तथा जैनधर्मो दुष्कर्ममर्महृत् । दुष्प्रापः प्रापि सम्यक्त्वपूतो युष्मत्प्रसादतः ॥११॥ यूयमेव | ततोऽस्माकं, गुरवः परमार्थतः । यथाशक्तिक्रियानानाचारपालनतत्पराः ॥१२॥ गुरुः स एवात्र मतो मनीषिणां, निष्पापवृत्तिः । शिवमार्गदर्शकः । सज्ज्ञानचारित्रपवित्रितात्मा, यः शत्रुमित्रेषु समखभावः ॥१३॥ उवाच सचिवाधीशं, ततो वाचंयमाग्रणीः । ॥८॥ एवमेतन्महामात्य, गदितं तत्त्ववेदिभिः ॥१४॥ परं कषायकालुष्यं, भवेदेवं कृतेऽधुना । गुणाधिकैः समं सरिप्रवर्जिनशासने ॥१५॥ कषायसम्भवोऽन्येषामात्मनो भूरिदुःखः । वर्जनीयः प्रयत्नेन, मुनिभिस्तु हितैषिभिः ॥१६॥ शीलसम्यक्त्वमुक्तात्मा, त्याज्यो
*
*
---*
Page #175
--------------------------------------------------------------------------
________________
NS गुरुरपि खकाणइ केवली भय
सगौरवम् । समय समाचस्तेऽपि सानन्दा
गुरुरपि स्वकः । दष्टोऽहिना यथाङ्गुष्ठो, मलः स्वाङ्गभवो यथा ॥१७॥ यतः-सीलब्भट्ठाणं पुण, नामग्गहणपि पावतरुबीअम् । जा पुण तेसिं तु गई, तं जाणइ केवली भयवं ॥१८॥ परं त्रिधा विशुद्धेन, ब्रह्मणा द्वादशात्मना । तपसा च सतां श्लाघ्या, गुरवस्तेऽपि साम्प्रतम् ॥१९॥ तेषामाकारणं तेन, युज्यते ते सगौरवम् । समये सद्गुरोर्योगः, सुकृतैरेव लभ्यते ॥२०॥ मन्त्र्यवग् भगवंस्तेषां, पुराप्याहूतिहेतवे । विज्ञप्तिः प्रहिता श्राद्धपाणिना भक्तिगर्भिता ॥२१॥ तमृचुस्तेऽपि सानन्दा, मत्रिन् युक्तमिदं त्वया। निर्मितं | | धर्मसर्वस्वविदुषौचित्यशालिना ॥२२॥ ततो निर्णीय तत्पार्श्वे, यात्राप्रस्थानलग्नकम् । प्रणम्य जग्मतुर्वेश्म, तौ निजं जैनपुङ्गवौ ॥२३ अथ तस्मिन् पुरे श्रीमद्विजयसेनसूरयः । तदाहूताः क्रमात् प्रापुर्निष्पापकृतवृत्तयः ॥२४॥ श्रुत्वा तदागमं मत्री, कलापीव धन-| ध्वनिम् । सानन्दः स्वजनैः साकं, तत्प्रवेशमहं व्यधाम् ॥२५॥ स्थूललक्षाग्रणीमंत्री, गुर्वागममहोत्सवे । नामन्यत तृणायापि, लक्षकोटिधनव्ययम् ॥२६॥ अथ देवालये नव्ये, माणिक्यकलशाङ्किते । वासारोपं स्फुरत्मरिमत्रेणोत्सवपूर्वकम् ॥२७॥ नागेन्द्रमलधारिश्रीगच्छाचारधुरन्धरौ । अकार्टी सद्गुणज्येष्ठौ, विधिना तौ क्षमापती ॥२८॥ युग्मम् ॥ ____ आसन्ने तीर्थयात्राया मुहूर्तेऽथ समागते । शत्रुञ्जयावताराख्ये, प्रासादे खेन कारिते ॥२९॥ गीतनृत्यकलारम्यं, श्रेयसे मज्ज-| नोत्सवम् । महाध्वजमहापूजाविधानविधिबन्धुरम् ॥३०॥ समं श्रीसङ्घलोकेन, पूरितार्थिमनोरथम् । मत्रिणौ चक्रतुः पूर्व, पूर्वाशापतिदुर्लभम् ॥३१॥ त्रिभिर्विशेषकम् । ततः श्रीसङ्घवात्सल्यं, वत्सलाभ्यां विनिर्ममे । श्रीवीरधवलस्यापि, गौरवं शस्यगौरवम् ॥३२॥ सन्मानात्कारितानेकसाधूनां शीलशालिनाम् । सुविशुद्धानपानाद्यैस्ताम्यां भक्तिविशेषतः ॥३३॥ युग्मम् ॥ चिकीर्षिता श्रीसचिवेन तीर्थ-यात्राथ सोऽयं समयः समेतः । महात्मनामीहितकार्यसिद्धौ,विधिविंधत्तेहि सदानुकूल्यम् ॥३४॥ पाथेयवन्तः पथि योग्ययुग्याः,
५ समागते । ना तो क्षमापती बाप स्फुरदरिमा
Page #176
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल ॐ सोपानहः सोदकभाजनाच | श्रीवस्तुपालेन समं जनौघाः, प्रयाणकार्यप्रवणा बभ्रुवुः ||३५|| आकारितास्तेन कृतादरेण दूरादपि चरितम् । | श्राद्धजनाः समीयुः । ययुस्तदीयानि पुनर्यशांसि, दिगन्तरेभ्योऽपि दिगन्तराणि || ३६ || सर्वेषां गौरवं तेषां विदधे विनयालुना । | तदागमोत्सव श्रेणिं, कुर्वता तेन मत्रिणा ||३७|| सङ्घाधिपपदैश्वर्यमहोत्सवविधित्सया । ताभ्यामाकारितः सर्वः, सङ्घो मन्दिरमाग|मत् ||३८|| राजन्यराजिभिः सार्क, श्रीचौलुक्यक्षितीश्वरः । तदा तत्राययौ सान्तःपुरः सर्वद्धिंलीलया ||३९|| मन्दिरे मन्त्रिराजस्य, | जगतोऽपि गरीयसि । सदाचारमुनिश्रेणिसंश्रिताः शीलशालिनः ||४०|| आकारिताः समाजग्मुस्तिग्मद्युतिविडम्बिनः । श्रीनागेन्द्र| मलधारिगच्छाचार्य पुरस्सराः || ४१ ॥ युग्मम् || अन्येऽपि नगर ग्रामपुरपत्तनभूभुजः । श्रेष्ठिसामन्तमन्त्रीशव्यवहारिविराजिताः ॥४२॥ | प्राप्ता हरिहरप्रायाः, सभाभिप्रायवेदिनः । सप्रभप्रतिभा भट्टबन्दिवर्गसमन्विताः ||४३|| सङ्घाधिपतयः सर्वे, सर्वज्ञमतभानवः । वेदाष्टज्ञातिशृङ्गारा, नासत्यस्थितिशालिनः ॥ ४४ ॥ पत्तनस्तम्भतीर्थश्रीचित्रकूटाधिवासिनः । तीर्थयात्राकृते प्रौढसामग्र्या समुपागताः ॥ |||४५ ॥ चतुर्भिः कलापकम् | अमारिपटहस्ताभ्यां पुरे तत्परितोऽपि च । उदघोषि तदा पञ्च योजनानि जनवजे ||४६ || प्रत्यापणं ध्वजश्रेणिः, पञ्चवर्णविभूषिताः । उत्तम्भिता वणिग्वृन्दै, राजते स्म निरन्तरम् ||४७ || मौक्तिकैः स्वस्तिकश्रेणी, नन्दावर्ताश्च विद्रुमैः। | न्यस्ता विभान्ति सर्वत्र, मन्त्रिराजगृहाङ्गणे ||४८ || उच्छ्रितैः केतुभिस्तुङ्गैर्गृहद्वारप्रतोलिका । विमानैर्जयवादाय, व्यधात्पत्रावलम्ब| कम् ||४९|| अथ चौलुक्यभूभर्ता, तदानन्दवशंवदः । समेतः सर्वसामन्तैस्तत्तत्प्राभृतपाणिभिः ॥ ५० ॥ निर्भरं ताड्यमानानां निःखनानां महाखनैः । ससम्भ्रमीभवत्सर्वदिग्गजेश्वरमण्डले ॥५१॥ उत्थायावसरे तस्मिन् विस्मयाद्वैतशालिनि । निवेश्य विष्टरे हैमे, | सन्मङ्गल क्रियान्विते ॥ ५२ ॥ विधाय वस्तुपालस्य, ललाटेऽर्धेन्दुसुन्दरे । तेजःपालस्य मन्त्रीन्दोर्विश्वश्रीवशतावहम् ॥ ५३ ॥ सङ्घाधि
"
॥८१॥
*888888%¥€** X8KK88888838
888888888888888888888888%
षष्ठः प्रस्तावः ।
॥८१॥
Page #177
--------------------------------------------------------------------------
________________
* पपदैश्वर्यतिलकं पुलकाङ्कितः। सद्यस्ककुङ्कमै रौप्यैरक्षतैः समपूरयत् ॥५४॥ तीर्थकृत्पदवीप्राप्तिस्वयंवरमहावहाम् । सोत्कण्ठश्च तयोः
कण्ठे, निदधे कुसुमस्रजम् ॥५५॥ हेमदण्डमयं छत्रं, प्रकीर्णकपुरस्सरम् । ददौ प्रसादं पञ्चाङ्ग, चतुरङ्गचमूयुतम् ॥५६॥ सप्तभिः कुलकम् ॥
ततः सर्वेऽपि सामन्ता, मत्रिणोश्च तयोर्मदा । प्राभृतानि प्रभूतानि, निर्माय प्राणमन् पदौ ॥५७॥ जय जीव चिरं नन्द, सङ्घ* भारधुरन्धर ! । इत्याशिर्ष तयोः प्रीता, ब्रह्मण्या ब्राह्मणा ददुः ॥५८॥ गुरुश्चौलुक्यदेवस्य, भूदेवः स्थितिमांस्ततः । चकार तिलक
वेदमत्रोच्चारं सृजस्तयोः ॥५९॥ अनुक्रमं ततः सङ्घश्वराः सर्वेऽपि सस्पृहम् । व्यधुर्वर्धापनश्रेणिं, रचिताखिलमङ्गलाम् ॥६०॥ सानन्दाः सोदराः सर्वा,नवखङ्गेषु युक्तितः । निर्माय तिलकान्युच्चैराशिषः प्रददुः शिवाः ॥६१।। यतः-अंही तीर्थपथाग्रगौ सुवतिनौ दारिद्यसर्वकषौ, पाणी धन्यतमौ जगत्प्रियवचाः कण्ठो भुजौ दुर्द्धरौ । ईदृग्भाग्यभराभिरामलिपिवद्भालं तदेषां क्रमात् , पूजा माङ्ग|लिकेऽहतो दृशि जनैः सद्देशितस्तन्यते ॥६२॥ श्रीनागेन्द्रगणाधीशा, गुरवोऽन्वयसम्मताः । इत्याशिपस्तयोः स्माहुस्तदा भक्तिविन
प्रयोः॥६३॥ आदौ श्रीभरतेश्वरप्रभृतिभिः प्रादुष्कृतं यत्क्षितौ, त्रैलोक्येश्वरतापदादपि महद्यद्गीयते तत्त्वतः। सत्यकारनिभं जिनेन्द्र| पदवीप्राप्तः शिवश्रीगृहं, श्रीसङ्घाधिपतेः पदं विजयते सर्वातिशायिस्थिति ॥६४॥ सङ्घाधिपपदारोपतिलकानि खयं व्यधात् । अन्येपामार्हतादीनां, युक्तितः सचिवस्ततः॥६५।। सगौरवं पुनर्मत्री, चतुर्णा व्यवहारिणाम् । तादृग्व्ययसमर्थानां, महाधरपदं ददौ॥६६॥ पवित्रैर्विविधैर्वस्त्रस्ततो विनयपूर्वकम् । मुनीन्द्रान् सपरिवारान् , मत्रीन्द्रः प्रत्यलाभयत् ।।६७॥ सुकृती प्राभृतीकृत्य, रत्नालङ्गतिसन्ततीः। चौलुक्यनृपतेश्चित्तं, प्रेमस्थेममयं व्यधात् ॥६८॥ हेमकुण्डलकेयूररत्नमाणिक्यमुद्रिकाः। भूपादिभ्यो ददौ मत्री, यथायुक्ति
Page #178
--------------------------------------------------------------------------
________________
प्रस्तावः।
श्रीवस्तुपाल तदोत्सवे ॥६९॥ पट्टकूलानि सर्वेषां, पञ्चवर्णमयानि च। स भक्त्या ढौकयामास, सङ्घशानां यथाक्रमम् ॥७०॥ षट्त्रिंशता हेममयैः । चरितम् । * सहौ, रत्नोज्ज्वलैराहतपुङ्गवानाम् । श्रीवस्तुपालस्तिलकैविवेकी, भालस्थलीभूषयति स्म भक्त्या ॥७१।। यतः-मसृणघुसृणपकैर्भाल
* पट्टेषु लिवा, विधिलिखितकुवर्णश्रेणिकां जातकस्य । विरचयति सुवर्णश्रेणिभूषाममीषां, ध्रुवमिति नववेधा वस्तुपालः सुमेधाः॥ * ॥८२॥ | ॥७२॥ रत्नमाणिक्यशृङ्गारवाजिवस्त्रादिदानतः । प्रीतितः प्रीणयामास, स कवीश्वरमण्डलीः ॥७३॥ स मार्गणगणं चक्रे, गीर्वाणग
णसन्निभम् । कल्पितार्थप्रदानेन, कल्पद्रुरिव जङ्गमः ॥७४॥ विदधुविधुतातङ्का, नरचन्द्रमुनीश्वराः। तस्मिन्नवसरे धर्मदेशनां क्लेशना| शिनीम् ॥७५॥ चौलुक्यः परमाईतो नृपशतस्वामी जिनेन्द्राज्ञया, निर्ग्रन्थाय जनाय दानमनघं न प्राप जाननपि । सम्प्राप्तस्त्रिदिवं
खचारुचरितैः सत्पात्रदानेच्छया, तद्रूपोऽवततार गौर्जरभुवि श्रीवस्तुपालो ध्रुवम् ॥७६।। पीलोपदेशपीयूषं, नरचन्द्रगुरुद्भवम् ।। कस्को न विस्मयं प्रापत्तदानन्दार्णवे बुडन् ॥७७॥ अत्रान्तरे नरेन्द्रेण, कवयः प्रेरिताः पुनः । मत्रिणं वर्णयामासुवर्णनीयगुणाकरम् | | ॥७८॥ हरिहर उवाच-धन्यः स वीरधवलः क्षितिकैटभारि-र्यस्येदमद्भुतमहो महिमप्ररोहम् । दीपोष्णदीधितिसुधाकिरणप्रवीण, मत्रिद्वयं किल विलोचनतामुपैति ॥७९|| आजन्मापि वशीकृताय सुकृतस्तोमाय यत्नान्मया, यद्यासाद्यत कोऽपि क्षणकणः श्रीवस्तुपाल! त्वयि । यत्कल्पद्रुमपल्लवद्युतिमवष्टभ्यैव कल्पद्रुमम् , पाणिधिक्कुरुते तवैष मनुते कोऽमुं न दोषाश्रितम् ॥८०॥ दामोदर उवाच-देवे के | स्वर्गिण्युदयनसुते वर्तमानप्रभृणा, दूरादों विरमति बत द्वारतो वारितः सन् । दिष्टयतस्मिन्नपि कुसमये जातमालम्बनेन, स्वच्छ | वाञ्छा फलति महतां वस्तुपाले विशाले ॥८१॥ मदन उवाच-पालने राज्यलक्ष्मीणां, लालने च मनीषिणाम् । अस्तु श्रीवस्तुपालस्य, निरालस्यरतिर्मतिः ॥८२॥ अथ सोमेश्वरः-कोटी रैः कटकाङ्गुलीयतिलकैः केयरहारादिभिः, कौशेयैरपि वस्तुपालसचिवादा
॥८२॥
Page #179
--------------------------------------------------------------------------
________________
|प्तैर्विभृषाजुषः । विद्वांसो गृहमागताःप्रणयिनीरप्रत्यभिज्ञाभृत-स्तैस्तैः स्वं शपथैः कथं कथमिव प्रत्याययांचक्रिरे।।८३॥ एतेषामपि | सर्वेषां,ददौ दानेश्वराग्रणीः । स प्राप्यानुमतिं राज्ञो, द्रम्मलक्षं पृथग् पृथग् ॥८४॥ तस्मिन् क्षणे निरीक्ष्याथा-मरचन्द्रकवीश्वरान् । निद्रामुद्रावशात्कंप-मानमौलीनितस्ततः ।।८५॥ सावधानशिरोरत्नं, वस्तुपालोऽब्रवीदिति । किं पुनर्भवतामत्र, भवतां योगवेदिषु
॥८६॥ प्रमीलाललनालीला-घोलनावशतोधिकम् ॥ एवंविधनरेंद्रादि-समाजेऽत्र निषेदुषाम् ॥८७॥ त्रिभिर्विशेषकम् ।। प्रबुद्धा| स्तेऽपि तद्वाक्य-सुधासेकात्क्षणादपि। जगुमंत्रीन्द्र नो निद्रा, योगीन्द्राणां भवेत्क्वचित् ॥८८लक्ष्मीकेशवयोः किन्तु,कान्तयोरिति कुर्वतोः । वार्ता परस्परं साव-धानाः शृण्मो वयं यथा ॥८९॥ लक्ष्मि प्रेयसि केयमास्यशितता वैकुंठ कुण्ठोऽसि किं, किं नो वेसि पितुर्विनाशमसमं सङ्घोत्थितैः पांशुभिः । माभीर्भीरु गभीर एष भविताम्भोधिश्चिरं नन्दतात् , सङ्घशो ललितापतिजिनपतेः स्नात्राम्बुकुल्याः सृजन् ॥१०॥ इति श्रुखाद्भुतां तेषा-मर्थोत्पत्तिमसौ तदा । प्रीतः सिंहासन सर्व-कवीनां प्राग्न्यवेशयत् ॥११॥ स्तम्भतीर्थपुरे नव्यं, चैत्यं श्रीवाटकाभिधं द्विसप्तदेव कुलिक, तदानन्दाय निर्ममे ॥१२॥
तथा विधीयतां तीर्थ-यात्रा पात्रार्थसाधनम् । भवद्भिनिंजसाम्राज्य-सौराज्यस्थितिसचिनी ॥९३॥ यथा कुमारपालेन, भूपाका लेन विनिर्मिता । इत्याशिपस्ततो दत्त्वा, राजा धाम निजं गतः॥९४॥ युग्मम् ।। वाहनासनपाथेय-सहायाङ्गिधनादिकम् ।। यद्यस्य
नास्ति तत्वस्मै, सर्व देयं मयाध्वनि॥९५।। सर्वत्रोद्घोषणामेवं, नानाग्रामपुरादिषु । सङ्घाधिपपदं प्राप्य, कारयामास मंत्रिराट् ॥१६॥ | युग्मम् ॥ ततो मुहूर्त्तवेलायां, पुण्यश्रीनिलयोपमम् । उपरिध्रियमाणात-पत्रत्रयविराजितम् ॥९७॥ विशुद्धोभयपक्षाभिः, कन्याभिश्च चतसृभिः । चतुर्धाधर्मलक्ष्मीभि- रङ्गिनीभिरिवावनौ ॥९८॥ उद्दामकरिणीस्कन्धा-धिरूढाभिः प्रकीर्णकैः । प्रतिक्षणं वीज्य
Page #180
--------------------------------------------------------------------------
________________
चरितम् |
श्रीवस्तुपाल मानं, क्वणत्कङ्कणमेखलम् ||१९|| निर्मितोदारशृंगार, रथस्थैर्युवतीजनैः । सप्रमोदं दीयमान- स्फुरद्धवलमङ्गलम् ॥१००॥ तूर्यत्रिकपटध्वान - चित्रीयितजगत्त्रयम् । पञ्चवर्णध्वजश्रेणि- प्रोल्लिखद्वयोममण्डलम् ||१|| पवित्रकुङ्कुमाम्भोभिः, सिच्यमानमहीतलम् । सश्रश्राद्धसङ्केश- पूज्यमानजिनाधिपम् ||२|| निजं देवालयं नव्यं, वृत्तमन्यैर्जिनालयैः । विधिना सपरिवारः, पुरोधाय धियां निधिः ॥३॥ सर्वैः सङ्घाधिपैः सार्क, शकुनैः सिद्धिशंसिभिः । प्रस्थानं विदधे मन्त्री, वस्तुपालः सहानुजः || ४ || सप्तभिः कुलकम् । चतुः सहस्रथा दुर्बीरै - रश्ववारैः पुरस्कृताः । षट्त्रिंशतायुधैर्योद्ध-मुद्धतैर्युद्धसीमनि ||५|| सोमसिंहादयः प्रौढा - अत्वारस्तत्र भूभुजः । नियुक्ताः सङ्घरक्षायै, सचिवाभ्यां सहाचलन् ||६|| अष्टौ गजघटाघण्टा - घोषवाचालिताम्बराः । दिगीशा इव शोभन्ते, तदारूढा महाईताः ||७|| आपणानामभूत्साधं, सहस्रं यत्र यात्रिकैः । स्वेच्छया गृह्यते सर्व, सर्वैर्मन्त्री लेख्यके ॥८॥ लक्षशः श्रावकाः सङ्घाधिपास्तत्र प्रभावकाः | सन्मानाकारितास्ताभ्यामभूवन् सहगामिनः ||९|| रथा दन्तमयास्तत्र, चतुर्विंशतिरुन्नताः । द्विसहस्रीमताः काष्ठ - घटिता वाजिराजिताः ॥ १०॥ अनसां तु सहस्राणि पञ्चाशन्निखिलाङ्गिनाम् । वाहिन्यो वेगगामिन्यः शतान्यष्टादशा| भवन् ॥११॥ शशाङ्कमण्डलाकारै - छत्रैः शीर्षोपरि स्थितैः । संघाधिपास्तदा जज्ञु - स्तत्र सत्यं महेश्वराः ॥१२॥ एकोनविंशतिर्दिव्यश्रीकरीणां शतानि च । सच्छायं विदधुः संघलोकं सुकृतशालिनम् ||१३|| त्रयस्त्रिंशच्छतान्यासं श्वलच्चामरराजयः । मुष्णाना आतपग्लानि, गङ्गावीचिचयोज्ज्वलाः || १४ || क्षौमसंवृतसहस्रचतुष्कं साधिकं च किल पञ्चशतैश्च । भृत्यवाह्यमथ पञ्चकमिश्र, स्पंदनाभवरपल्लखिकानाम् ||१५|| शतानि चाष्टादश वाहिनीनां सुखासनानां प्रमितिस्तस्यैव । तपोधनानां द्विशती सहस्त्रे, शतं | सहस्रं च दिगम्बराणाम् ||१६|| अष्टौ महांगाश्च चतुःशतानि, त्रिंशद्विमिश्रा त्रिशती रथानाम् । रत्नाधिकानां वृपशोभितानां, लक्षा
॥८३॥
KXEBY-8488% 80% 63% %%*4883
88888% 880&%%88% X£BY X8888833+
षष्ठः
प्रस्तावः ।
116311
Page #181
--------------------------------------------------------------------------
________________
*88% 88884833883%88% 838881
स्तथा सप्त च मानवानाम् ||१७|| शतानि त्रिस्त्रीणि च मागधानां चतुःसहस्राणि तुरङ्गमानाम् । श्रीवस्तुपालस्य कृताद्य यात्रा - | सत्यमानन्दकरी जनानाम् ||१८|| निवासा वाससां तत्र चतुरस्रा घनोन्नताः । एकस्तम्भगृहाकारा, आर्हतानां सहस्रशः ॥ १९॥ तथा सप्त सहस्राणि, तुङ्गपट्यः पटुप्रभाः । विमानसम्पदं भूमौ दर्शयन्ति विशामपि ॥२०॥ पञ्चविंशतिसहस्रानुमितानि समन्ततः । तटवन्ति विराजन्ते पुण्यश्रीनिलया इव || २१|| सर्वेषु तेषु सिचयोज्ज्वलवेश्मपङ्कौ, श्रीवस्तुपालसचिवस्य गुणोज्ज्वलस्य । सत्पश्चवर्णमयचारु दुकूलरम्यो, माणिक्यहेमकलशाङ्कितशेखर श्रीः ||२२|| शश्वत्सुपात्रततिवाञ्छितदानवारि - सिक्ताङ्गणो गुणवतामपि वर्णनीयः । पुष्पावकीर्णसुरवेश्मसुवासवीय सौधोपमां किल बभार सुपर्वशाली ॥२२॥ एकातपत्रजैनेन्द्र मतसाम्राज्यशंसिनी । इति श्रीतीर्थयात्रायाः, सामग्री समभूत्तदा ॥ २३ ॥ तथा - समं समग्रैरपि बन्धुवर्गेनिंसर्गबन्धुर्विबुधत्रजस्य । शुभे मुहूर्त्ते च शुभैर्निमित्तैर्मन्त्री स्वनाथानुमतः प्रतस्थे || २५ || पुरः प्रशस्तां फलपुष्पहस्तां, प्रमोदमानः प्रमदां विलोक्य । निरन्तरायां पथि तीर्थयात्रां, मन्त्रीश्वरश्वेतसि निश्विकाय ||२६|| स्थितः क्षणं क्षीरतरोरधस्तात्, कृतानुवृत्तीन् स्वजनान्निवृत्य । खरस्य वामं स्वरमध्वगामी, शुश्राव स श्रावकचक्रवर्त्ती ||२७|| अक्षेषु नित्यं कृतनिग्रहोऽपि, जग्राह तांस्तान्नियमानमात्यः । स्वभावशुद्धाः सुधियो हि तेषां, पावित्र्यलाभाय तथापि लोभः ||२८|| सतोरणा सप्तशती बभ्रुव, देवालयानां किल तस्य सङ्घ । देवालया ये लघवो बभूवुर्न तेषु संख्यां खलु कोsपि वेद ॥ २९ ॥ तत्पुरोऽजनि सिंहाधिरूढा श्रीअम्बिका सुरी, तत्र यात्रिकलोकानां पूरयंती मनोरथान् ॥३०॥ कपर्दी गजगामी च, विघ्नमर्दी दिवानिशम् ॥ यक्षः श्रीसंघरक्षायै, जागर्त्ति जगदर्त्तिहृत् ॥ ३१ ॥ तयोः प्रभावात्सर्वत्र तीर्थमार्गोऽतिदुर्गमः । | सुगमोऽभूदन्नपान - लाभाद्वीतांतरायकम् ||३२|| सरस्वतीकंठसुवर्णभूषा, षड्दर्शनीकल्पतरुः पृथिव्याम् || औचित्यचिन्तामणिरार्ह -
4888888888888888888888888888
Page #182
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
तेश - सर्वज्ञधमै कधुरा धुरीणः ॥३३॥ श्रीभोजराजः कविचक्रवर्त्ती, समग्रचेत्योद्धृतिसावधानः । दानैकवीरः कलिकालकालो, जिनेश्वचरितम् । | राज्ञाप्रतिपालकश्च ||३४|| इत्यादिविरुदश्रेणिं, पठद्भिः कविकुञ्जरैः । श्रितः श्रीसचिवाधीशो, वस्तुपालः स्फुरद्यशाः ॥३५॥ पुरः प्रेखवजश्रेणि- छत्रचामरमण्डितः । लीलोत्तुंगगजारूढः, प्रौढिमान् प्राचलत्पुनः || ३६ || चतुर्भिः कलापकम् । लीलया ललितादेवी, सुखारूढा सुखासनाम् । प्रीणयंत्यर्थिनां सार्थ, प्रार्थितार्थार्पणात्पथि ||३७|| शीलयन्ती त्रिधा शीलं तपःपूजापरायणा । चचाल | तीर्थयात्रायै, श्रीकरीचामराङ्किता ||३८|| तेजसैव तिरस्कुर्वन्, तेजःपालः स्फुरद्युतिः । वैरिणो रणकण्डूलानुडूनिव दिवाकरः ॥ ३९॥ सर्वाङ्गं सङ्घरक्षायै, नियुक्तो युक्तिमद्गुरुः । दिव्यश्वेतातपत्रेण, चामराभ्यां विराजितः ॥ ४१|| वाजिरत्नं समारूढः, पञ्चरत्नाभिधं सु| धीः । वब्राज विजयी ज्यायः सम्पदा वासवोपमः || ४१ ॥ त्रिभिर्विशेषकम् । तथैवानुपमादेवी, संविभागवतं पथि । पालयन्ती त्रिधा शुद्धं, शीलसद्दर्शनोज्ज्वला ॥४२॥ बालग्लानार्त्तवृद्धानां साधूनां शीलशालिनाम् । यथायोग्यानि वस्तूनि ददाना विधिनाऽचलत् ॥ |||४३|| युग्मम् ॥ यतः - रोगार्त्तस्य तदर्त्तिशान्तिजनकं सद्भेषजं प्रासुकं, भोज्यानि प्रवराणि पुण्यहृदया साधुव्रजस्यान्वहम् । वस्त्रं | वस्त्रविवर्जितस्य विशदं पात्रं सुपात्रस्य या, यच्छन्ती जिनशासने प्रविदिता मातेव भक्ताऽभवत् ||४४|| श्रीमत् श्रमणसङ्घन, सहितौ | सोदरावुभौ । ततः सर्वत्र जन्तूनां पूरयन्तौ मनोरथान् ||४५ || पूजयन्तौ जिनाधीशप्रतिमा विधिनाष्टधा । सप्तक्षेत्राणि सर्वत्रोद्धरन्तौ | धर्मवृद्धये ॥ ४६ ॥ परः सहस्र सुश्राद्धान्, भोजयन्तौ सगौरवम् । सृजन्तौ सर्वसाधूनां, वन्दनं गुणशालिनाम् ॥४७॥ व्रजन्तौ तीर्थयात्रायां, सदाचारपरायणौ । क्रमेण प्रापतुर्वर्द्धमाननामहापुरे ||४८ ॥ चतुर्भिः कलापकम् ॥
तत्र सङ्घेश्वरावासान्, युक्त्या निर्माय तौ स्थितौ । सद्वेश्मवत्सरस्तीरे, परमोदकसम्पदि ॥ ४९ ॥ तत्र स्नात्रोत्सवांश्चक्रुः खख
॥८४॥
128888483824438% 4038383% X
9388888888888888888
षष्ठः प्रस्तावः ।
॥८४॥
Page #183
--------------------------------------------------------------------------
________________
2848888888888888888888
सर्वज्ञवेश्मसु । सर्वे सङ्घाधिपा गीतनृत्यातोद्यरवाद्भुतान् ॥५०॥ अथ तत्रास्तिकश्रेणिवेणिरत्नं स्फुरन्महाः । अस्ति रत्नाभिधः श्रेष्ठी, प्रथितः पुण्यकर्मभिः ॥ ५१ ॥ सम्यग्दृष्टिविशिष्टात्मा, द्वादशव्रतनिश्चलः । श्री श्रीमालिकुलाकाशभास्वान् सत्पात्र पोषकः ॥ ५२ ॥ युग्मम् ॥ तस्यागारे रसाधारे, क्षीरनीरनिधाविव । प्रक्षरत्क्षीरगौरात्मा, सप्तपूर्वजपूजितः ॥ ५३ ॥ शङ्खोऽस्ति दक्षिणावर्त्तः, पूरको5खिलसम्पदः । वपुष्मानिव पुण्यौघः, सेव्यमानः सुपर्वभिः ॥ ५४ ॥ युग्मम् ॥ सृजत्यसौ विनिर्गत्य, रात्रौ रत्नकरण्डकात् ॥ भ्रमन् वेश्मनि सर्वत्र, प्रीतो घुमघुमध्वनिम् ॥ ५५ ॥ ततस्तस्यानुभावेन, विभावेन यथा रतिः । समृद्धिश्चतुरङ्गापि वर्द्धते व्ययसम्मिता ॥ ॥ ५६ ॥ श्रेष्ठिनोऽसौ समागत्य, निशि निद्रामुपेयुषः । स्वममध्येऽभ्यधादेवं, प्रत्यूषसमये तदा ॥५७॥ खदीयपूर्वजज्यायः श्रेयोराशिवशीकृतः । अहमास्थां चिरं श्रेष्टिन्, भवतो भवनेऽनघे ॥ ५८ ॥ मत्प्रभावोदयप्राप्तसम्पदां विगतापदाम् । धम्यैः कार्यैः फलं लेभे, पूर्वजैः सप्तभिस्तव ॥ ५९ ॥ भवतापि महाभाग, प्रासादैरर्हतां नवैः । कारितैरुद्धृतजीर्णैः, सद्वर्णप्रतिमान्वितैः ॥६०॥ सुसाधर्मिकवा| त्सल्यैर्दीनानाथानुकम्पनैः, अर्हद्विम्बप्रतिष्ठाभिस्तीर्थयात्रादिकोत्सवैः ॥ ६१॥ अलम्भि भवतापार्ति, हरता सुकृताङ्गिनाम् । मन्निवासफलं सम्यगू, विवेकविमलात्मना || ६२ || त्रिभिर्विशेषकम् ॥ भाखानिव जिनाधीशशासनं भासयन् कलौ । श्रीशत्रुञ्जययात्रायै, | वनन् वज्रधरप्रभः ॥ ६३ ॥ वस्तुपालः समं भाग्यसिन्धुना बन्धुनाधुना । अत्रैवास्ति पुरोपान्तसरस्तीरे समागतः ॥ ६४ ॥ अनयोः सदृशः कोऽपि, क्षेत्रेऽत्र भरतेऽधुना । अन्यो नास्ति जिनाधीशशासनस्य प्रभावकः ।। ६५ ।। यतः - पूर्वं श्रीभरतस्ततोऽत्र सगरचक्री ततः पाण्डवाः, श्रीचौलुक्यनृपः कृपालुतिलकं श्रीसम्प्रतिर्भूपतिः । ख्याता जावडिवाग्भटप्रभृतयो येऽन्ये बभूवुः क्षितौ तेषामेप पदेऽस्ति सम्प्रति पुनः श्रीअश्वराजात्मजः ॥ ६६ ॥ पात्रायातिथये तस्मै, सर्वाङ्गीणगुणात्मने । मां निधाय धियां धाम, स्वं विधेहि शुभाश्रयम् ॥
843KX8884@8% 483%88888888
Page #184
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥८५॥
888888888328488888%
॥६७॥ यतः - सत्पात्रं महती श्रद्धा, काले देयं यथोचितम् । धर्मसाधनसामग्री, नाल्पपुण्यैरवाप्यते ॥ ६८ ॥ शङ्खाधिष्ठायकेनैवमुक्तः श्रेष्ठी प्रबुद्धवान् । परमेष्ठिनमस्कारं स्मरन्निति विमृष्टवान् ॥ ६९॥ अयं स्वमो ममाध्यक्ष, उपालम्भ इवाभवत् । अतो विशेषतः कार्यः, | पुण्यकार्योद्यमो मया ॥७०॥ यतः तस्य विघ्नाः क्षयं यान्ति देवाः स्युर्वशवर्त्तिनः । भवन्तीष्टश्रियो नित्यं यस्य धर्मे दृढं मनः ॥ | ॥ ७१ ॥ अस्य साहाय्यतो यात्रा, आसूत्रय बहुशो मया । क्लिष्टकर्मोद्भवं पापं पुरापि बहु शोधितम् ॥ ७२ ॥ चैत्यं श्रीवर्द्धमानस्य, | मम्माणिप्रतिमान्वितम् । वर्द्धमानपुरेऽत्रैव, विदधे विधिना नवम् ||१३|| सौवर्णदण्डकलशोद्योतितव्योममण्डलम् || द्विपञ्चाशजिनाधीशप्रोत्लुङ्गकुलिकान्वितम् ||७४ || युग्मम् || समुद्धृत्यार्हतां जीर्णचैत्यानि निजशक्तितः । व्यधायि खजनादीनां यथायुक्ति समुद्धृतिः ॥ ७५ ॥ | पाणींश्च ग्राहयामाहे, पुत्रपौत्रादिसन्ततिः । विशुद्धवंशकन्यानां प्रौढोत्सव पुरस्सरम् ॥ ७६ ॥ परं श्रीसङ्घवात्सल्यं, श्लाघनीयं सतामपि । न पुना रचितं तादृग्, स्वमनोरुचिसोदरम् ॥७७॥ अतोऽधुना विधेयं तद्वस्तुपालस्य मत्रिणः । समं समग्रश्रीसङ्घलोकेन श्लोकशालिना || ७८ || दशभिः कुलकम् || इति चिन्ताञ्चितस्वान्तः, शय्योत्थाय विनिर्ममे । निर्मलोऽमलपुण्याढ्यः, स पोढावश्यक क्रियाः ॥ ७९ ॥ ततोऽभ्यर्च्य जगद्भर्तुः, प्रतिमा अयमष्टधा । शङ्खं च दक्षिणावर्त्त, स्निग्धदुग्धैरमञ्जयत्। ॥८०॥ वाजिरत्नमलङ्कृत्य, कृत्यवित्सुकृतिव्रजैः । प्राप्तशोभस्ततः श्रेष्ठी सम्मुखं मत्रिणोऽगमत् ॥८१॥ प्रवाह इव जाह्वव्याः, सङ्घसागरमागतः । ततोऽसौ प्रीणयामास, सर्वतः सुमनोव्रजम् ॥८२॥ तस्मै गुणगरिष्ठाय, ज्येष्ठाय ज्ञातिसम्पदा | सन्मानं भक्तिनम्राय, मन्त्रिराजोऽप्यदर्शयत् ॥ ८३ ॥ प्रसादं स तदासाद्य, श्रीमतो मत्रिभाखतः । सदाचारगणे प्रापत्, कलावानिव गौरवम् ॥८२॥ अथावसरमासाद्य, सङ्घेश्वरपुरस्कृतम् । स श्रेष्ठी सचिवाधीशं वात्सल्याय न्यमन्त्रयत् ॥ ८५ ॥ आग्रहं गुणगृह्यस्य, तस्य ज्ञात्वा गतावधिम् ।
**EDZSEBKXADE SADE ZADE XODR
षष्ठः
प्रस्तावः ।
॥८५॥
Page #185
--------------------------------------------------------------------------
________________
साम्मत्यं मतिमान् कृता, प्रौढसङ्घाधिपैस्तदा ॥८६॥ सोऽनुमेने गृहे सस्य, भोजनाय जनाग्रणीः । न सन्तः प्रार्थनाभङ्गं, कस्यचित् | कापि कुर्वते ॥८७।। ततः श्रेष्ठी गृहं गखा, पुण्यवान् प्रीतमानसः । सामग्री कारयामास, सङ्घवात्सल्यहेतवे ।।८८।। सान्निध्यं विदधे | विश्वो, मनस्वी तस्य पूर्जनः । अनन्यजनसौजन्यस्खाजन्यविवशीकृतः ॥८९॥ बभूव तत्क्षणादेव, युक्तिः श्रीसङ्घभक्तये । यस्माद्दार
चित्तानां, सर्व सर्वः प्रयच्छति ॥१०॥ तेन पुण्यवता तस्मिन् , समये हि धनव्ययः। नालेखि लेख्यके सङ्ख्या, भवेत्प्रायो मितश्रि*याम् ॥९१॥ ततः प्रातः समाहूय, विधृय विधुरात्मताम् । वात्सल्यं विदधे श्रेष्ठी, श्रीसङ्घस्यानघं यथा ।।९२॥ गृहाङ्गणसमायातां,
श्रीसद्धेश्वरमण्डलीम् । श्रेष्ठी वर्धापयामास, मौक्तिकैमुक्तिकामुकः ॥९३॥ पादौ प्रक्षालयामास, वारिभिर्गन्धहारिभिः। आर्हतानामसौ चक्रे, शुचितां परमात्मनः ॥१४॥
भोजयामास सद्भोज्यैः, प्राज्यराज्यैः सुसंस्कृतैः । सर्वशक्त्या यथायुक्ति, तीर्थयात्रिकमण्डलीः ।।९५॥ चतुर्जातकसम्मिरैः | पयोभिः शर्करान्वितैः । निर्मलैर्विदधे श्रेष्ठी, श्रीसङ्घ तापवर्जितम् ॥९६॥ भोजनानन्तरं दिव्यताम्बूलैर्वासिताननम् । श्रीसङ्घ शीतलं *चक्रे, शीतलैश्चन्दनद्रवैः ॥९७॥ सत्पुष्पदामभिर्वा सर्वासोभिर्विविधैस्तथा । तं भक्त्या पूजयामास, निवासः श्रेयसामसौ ॥९८॥ त्रि
भिर्विशेषकम् ।। यतः-ये तीर्थयायिनो लोकान् , वस्त्रानाम्बुसुमादिभिः । पूजयन्ति भवेत्तेषां तीर्थयात्रामवं फलम् ॥९९॥ अथासौ वस्तुपालस्य, मन्त्रिणः सानुजन्मनः। अचीकरद्यथा भक्तिं, तथा भृणुत साम्प्रतम् ॥२००॥ निवेश्य सचिवाधीश, सानुजं काञ्चनासने । दुग्धैः स्निग्धमना दुग्धाम्भोधिमध्यादिवागतैः ॥१॥ स्वयं स धौतवान् पादौ, जगतां दलितापदौ । गन्धोदकैः कवोष्णैश्च, वपुःशुद्धिमकारयत् ॥२॥ दिव्यानि धौतवस्त्राणि, भक्तितः परिधाप्य तौ। विधिना कारयामास, पूजां निजजिनालये ॥३॥
Page #186
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।।
षष्ठः प्रस्तावः।
॥८६॥
आदेशकालप्रस्तावसम्भवैर्भुवनाद्भुतैः । वस्तुभिः स्वादुभिः श्लाध्यैर्दुष्प्रापैः पापचेतसाम् ॥४॥ रौप्यसौवर्णमाणिक्यभाजनेषु शुभाश्चितौ । सुसारपरिवारेण, भोजयामास गौरवात् ॥५॥ पश्चभिः कुलकम् । भोजनानन्तरं श्रेष्ठी, सिंहासननिषेदुषोः । निर्माय गौरवं * | दिव्यपट्टकुलादिभिः पुनः ॥६॥ मणिस्थाले पयःपूर्णे, राजहंसमिवोज्ज्वलम् । संस्थाप्य दक्षिणावर्त,तयोः शङ्खमदर्शयत् ॥७॥ युग्मम् । ततः कृताञ्जलिः श्रेष्ठी, विनयादित्युवाच तौ । शङ्खोऽसौ दक्षिणावत्तों, गृह्यतामनुगृह्य माम् ॥८॥ दृष्ट्वा दृष्टयुत्सवं शङ्ख, तं शङ्केश्वरमर्दनः। सच्चकोर इव प्रापत् , प्रीति पर्वेन्दुनिर्मलम् ॥९॥ विश्वोदारशिरोरत्नं, निःसपत्नगुणोज्ज्वलम् । श्रीरत्नं गौरवात्कृत्वा, निजा|र्धासनशालिनम् ॥१०॥ तागतदीयवचसा, मत्री दूनमना मनाम् । निष्प्रपञ्च ततः प्रोचे, सुधामधुरया गिरा॥११॥ युग्मम् ॥श्रेष्ठि|न्नुर्वीश्वरप्रष्ठः, श्रीवीरधवलोऽधुना । प्रजासु प्रीतिमाधत्ते, पुण्यैरेव महोत्सवैः॥१२॥ दुर्जनाः पिशुनाश्चापि, न वयं तस्य सेवकाः ।
प्राचां पुण्यवतां वंशे, जाता ज्ञातजिनागमाः॥१३॥ निर्दम्भ लोभनिर्मुक्ता, विशेषादधुना पुनः । नृपं यदनुवर्तन्ते, कुलीनाः सेव| कोत्तमाः ॥१४॥ तेनामुं भवतस्तत्रभवतः पुण्यकर्मभिः । शङ्ख प्रदक्षिणावर्त, शङ्खपाणिपदप्रदम् ॥१५॥ न गृह्णीमोऽस्य साहाय्यात् , | परं सत्पुण्यसन्ततिम् । कुर्वस्वमेव पुण्यात्मन्नित्यं वर्मुख सम्पदा ॥१६॥ सद्दृष्टि श्रेणिशृङ्गाररत्नेन भवताधुना। श्रीसर्वज्ञमताम्भोधिः, | परां प्रौढिमधिश्रयेत् ॥१७॥ महान्तोऽपि समीहन्ते, सम्पदं स्वीयवेश्मनः। आधारो दानधर्मस्य, खमेवासि क्षितौ पुनः॥१८॥ गृह
दैवतवत्तेन, शङ्खरत्नं सुयत्नतः । निधेहि स्वपदे रत्नश्रेष्ठिन् पूर्वजपूजितम् ॥१९।। तमुवाच ततः श्रेष्ठी, प्रीतस्तद्गोरसहृदि । वमोपलम्भ| वृत्तान्तं, समस्तं कम्बुनोदितम् ॥२०॥ ततोऽत्र भवतस्तुल्यं, पात्रं नास्ति कलौ युगे । दक्षिणावर्त्तशङ्खामं, देयं सद्वस्वपि ध्रुवम् ॥२१॥ गन्तुकामो ममावासादसौ मत्रिन् समीहते । खद्वेश्मनि स्थितिं विष्णुपाणिवत्पृथुलक्षणे ॥२२॥ गृहाण तदमुं स्वामिन् , प्रसादं कुरु
॥८६॥
Page #187
--------------------------------------------------------------------------
________________
48888888 98388888888888888
मां प्रति । न पुनः प्रार्थनाभङ्गः कर्त्तव्यो भवता मम ॥२३॥ ततः समुद्रतस्तस्माजगृहे पुरुषोत्तमः । शङ्खरत्नं प्रयत्नेन, पाश्चजन्यमिवोज्ज्वलम् २४|| मन्त्री तेन करस्थेन, सत्यभामाश्चितस्तदा । यशोदया कृतोल्लासः, शुशुभे शङ्खपाणिवत् ||२५|| बहुमानं परं दखा, मन्त्री विनयपूर्वकम्। यात्रानिमन्त्रणं तस्य कुर्वाणोऽनुमतिं ललौ ||२६|| एवं श्रीसङ्घवात्सल्यं, यथार्थौचित्यपूर्वकम् । श्रेष्ठी | निर्माय निर्मायं, शर्मकोशं समर्जयत् ॥२७॥ नानाजनपदायातैस्ततो यतिजनोचितैः । पवित्रैर्वस्त्रपात्राद्यैः, शीतत्राणाई कम्बलैः ॥२८॥ सर्वगच्छाधिपाचार्यसंततिं विधिपूर्वकम् । सङ्घपूजामसौ कुर्वन् प्रत्येकं प्रत्यलाभयत् ॥२९॥ वृद्धगच्छाधिपास्तत्र, श्रीदेवप्रभसूरयः । औचित्यैकविदः सम्यग् धर्ममेवमुपादिशन् ||३०|| श्रीसङ्घवात्सल्यमुदारचित्तता, कृतज्ञता सर्वजनेष्वनुग्रहः । जिनेन्द्रभक्तिर्गुणिनां च गौरवं भवन्ति तीर्थङ्करसम्पदे नृणाम् ॥३१॥ जिनेन्द्रान्न परो देवः, सुसाधोर्न परो गुरुः । न सङ्घादपरं क्षेत्रं, पुण्यमस्ति जगये ||३२|| श्रीसङ्घानघवात्सल्यफलं वक्तुं न शक्यते । निःशेषपुण्यकार्येषु, यस्यौपम्यं न गीयते ||३३|| पूर्व श्रीऋषभान्वये व्यर| चयत् श्रीदण्डवीय नृपः, श्रीमांस्तीर्थपथाध्वगार्हतततेर्वात्सल्यमुच्चैस्तरम् । कुर्वन् सप्तमनुष्यलक्षकलित श्रीसङ्घभक्तिं परां, श्रीरत्नः | कृतवांस्तदीययशसां श्रेष्ठी पुनर्यौवनम् ||३४|| रत्नश्रेष्ठी ततः प्रीतः सुकृती सङ्घसंयुतः । समं श्रीसङ्घराजेनाचलत्तीर्थनिंनसया ||३५|| | वर्धमानपुरे तत्र, वर्धमान जिनेशितुः । कैलाश गिरिसङ्काशं, प्रासादं सचिवेश्वरः || ३६ || द्विपश्चाशजिनागारश्रेणिभिः परितो वृतम् । त्रिद्वारं विदधे हेमकुम्भदण्डविभूषितम् ||३७|| युग्मम् || दुर्ग स्वर्गसदां तत्र, निराधाराध्वयायिनाम् । विश्रामायेव विदधे, सङ्घरक्षा| कृते कृती ||३८|| तृषार्त्तिशान्तये तीर्थयात्राध्वगततेः पुनः । अकारयद्वराकारां (समरादि), वापीं पुण्याम्बुशालिनीम् ||३९|| वीरपा| लस्य देवस्य, तथा वेश्म पुरातनम् । उद्दधार धराधारवराहस्याश्वराजः ॥ ४० ॥ नानाभोजनसामग्रीसमग्रं क्षुत्तृषापहम् । सत्रागारद्वयं)
88888888888888888888888888
Page #188
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम् ।।
षष्ठः प्रस्तावः।
॥८७||
**88-8960**83%80-398-988888
मत्री, पवित्रं तत्र निर्ममे ॥४१॥ ततः सर्वेषु चैत्येषु, विधिना मजनोत्सवम् । विधाय सध्वजारोपं, दानानन्दितमार्गगम् ॥४२॥ | आतोद्यध्वनिभिस्तत्र(यात्रा), भापयन्(ज्ञापयन्) दिक्पतीनपि । आतपत्रैः सृजन छायाद्वैतं सर्वत्र वर्त्मनि ॥४३॥ ततो ब्रजन समं | सङ्घलोकेन सुखशालिना । धुन्धूककपुरं प्रापत् , कुशलः कुशलेन सः॥४४॥ त्रिभिर्विशेषकम् । प्राभृतीकृत्य यत्नेन, मणिमाणिक्य| मण्डलीः। नियुक्त भुजा तत्र, वस्तुपालस्य मत्रिणः ॥४५॥ अकारि करिणां स्कन्धेष्वारोप्य श्रीजिनालयान् । पू:प्रवेशोत्सवः सर्व
सङ्घलोकप्रमोदभाक् ॥४६॥ युग्मम् ॥ तत्राप्येष विशेषेण, संतोषाय निवासिनाम् । अर्हच्चैत्यादिकृत्यानि, सुकृतार्थमकारयत् ॥४७॥ | यतः-धुन्धूकके च श्रीवस्तुपालो नष्टापदेष सः। अष्टापदे चतुर्विंशत्यहदिम्बान्यतिष्ठिपत् ॥४८॥ पापसंतापनिर्वापकृते तनुभृताम| यम् । तत्रैव चैत्ये श्रीवीरविम्बमेकमतिष्ठिपत् ॥४९॥ कुमारपालभृपालवसतौ मूलनायकम् । निधाय कारयामास, हेमकुम्भं पुनर्नवम् | ॥५०॥ उद्दधार पुनर्जन्मवसतिं विदुराग्रणीः । नवीनं काञ्चनं कुम्भ, तस्य शृङ्गे न्यवीविशत ॥५१।। श्रीमोढवसतौ रङ्गमण्डपं विश-| दाश्मभिः । तेजःपालो व्यधान्नव्यं, दिव्यपाञ्चालिकान्वितम् ॥५२॥ धर्मार्थ धर्मशालाच, तिस्रो विद्यामठद्वयम् । सत्रागारत्रयं मत्री, | स तत्परिसरे व्यधात् ॥५३॥ धुन्धककहडालायप्रान्तरे सप्रपं सरः। स्वस्वामिसुकृताय श्रीतेजःपालस्तु तेनिवान् ॥५४॥ मन्दीकृतil कलिगुन्दीग्रामे दैन्यमुदन्यया । तेजःपालो व्यधाद्वयर्थ, प्रपावापीविधानतः ॥५५॥ पुनस्तत्रैव वामेयमन्दिरं प्रतिमान्वितम् । तेजःपालाग्रजश्चक्रे, गाङ्गेयकलशाश्चितम् ॥५६॥ तत्राप्यशेषचैत्येषु, ध्वजारोपान् विधाय सः। तत्रत्यास्तिकलोकानां, वात्सल्यं विदधे सुधीः॥५७॥ यतः-यावन्ति बिम्बानि जिनेश्वराणां, तथा स तच्चैत्य(श्वेताम्बराणां च)कदम्बकानि । मार्गेषु तेषां मुषिताश्रितातिः, पूजां विधायैव ततः प्रतस्थे ॥५८॥ भुङ्के स्म सर्वेष्वपि भुक्तवत्सु, शेते स सुप्तेषु स यात्रिकेषु । प्रबुध्यतेस्म प्रथमं तदेत्थं, सङ्घप्रभुत्व
॥८७॥
Page #189
--------------------------------------------------------------------------
________________
व्रतमाचचार ॥५९॥ प्रभूतभोज्यानि बड्दकानि, सुगोरसान्युन्मदमानवानि । तस्यातिदुर्गेऽपि पथिप्रयाणान्युद्यानलीलासदृशान्यभूवन् ॥६०॥ यात्राप्रसङ्गेन जगाम येषु, पुरेषु पौरोच्छ्रिततोरणेषु । तेषामधीशैः सविशेषमेष, सन्मान्यमानः सममानयंस्तान् ॥६॥ अभ्यर्थ्यमानः पथिकैरनेकैर्वस्तून्यनेकान्यपि वस्तुपालः । तेभ्यः प्रभूतानि पथि प्रयच्छन्नाहङ्करोतिस्म न कुप्यतिम ॥६२॥ पुरश्च पृष्ठेऽपि च पार्श्वयोश्च, परिस्फुरन्तः खरहेतिहस्ताः यात्राजनं वर्त्मनि तस्य शश्वदश्वाधिरूढाः सुभटा ररक्षुः॥६३॥ समुद्धृतैर्जीर्णजिनेन्द्रहम्नवैः सरोभिश्च सरोजरम्यैः। प्रस्थानमार्गः सचिवस्य सोऽभूदजानतामप्युपलक्षणीयः॥३४॥ स पञ्चपैर्निव्यथितप्रपञ्चः, प्रयाणकैः प्रीणितसङ्घलोकः । धराधरं धर्मधुरन्धरः श्रीशत्रुञ्जयं शत्रुजयी जगाम ॥६५॥ ननर्त सचिवाधीशः, प्रेक्ष्य शत्रुञ्जयं गिरिम् । प्रददौ मुदितो दानान्यर्थिनां च यथारुचि ॥६६॥ स ददद्वाजिनां राजीः, स्मेरराजीवलोचनः । स्ववाजिरक्षणे यत्नं, वासवेनाप्यकारयत् ॥६७।। तदा सर्वत्र सद्धेऽभूत्सवानां परम्परा । सिद्धाचलमहातीर्थदर्शनानन्दसम्भवा ॥६॥
केचित्तत्र ददुर्धनानि विविधान्यानन्दतोऽथिंब्रजे, केचिच्चक्रुरथो धुदारहृदयाः श्रीसङ्घभक्तिं पराम् । वात्सल्यं गुणशालिनां विरचयाञ्चक्रुः कति श्रावकाः, केचिद्रङ्गतरङ्गिता विदधिरे वर्धापनान्यादरात् ॥६९।। शृण्वन् श्रीतीर्थमाहात्म्यं, तन्वन् दानमनुत्तरम् । आरुरोह महामात्यः, समं सङ्घन पर्वतम् ॥७०।। आरुह्य खर्गादपि सुन्दरेऽस्मिन्नश्मोचये कश्मलमुक्तचेताः। मन्त्री त्रिलोकीपतिपूजितस्य, श्रीशान्तिभर्तुर्भवनं जगाम ॥७१।। फलैः सपुष्पैः शुचिचन्दनैश्च, प्रपूज्य पूज्यस्य जिनस्य मृति । ननाम नामाकृतिवस्तुभावभेदैश्चतुर्धा जिनपुङ्गवांश्च ॥७२॥ गजाधिरूढां गजराजगामी, युगादिभर्तुर्जननीं ववन्दे । प्रदक्षिणीकृत्य कृतावतारिविराजितां | श्रीभरतेश्वरेण ॥७३॥ आसादितैश्वर्य इव प्रमोदी, पद्भ्यां व्रजन् वर्जितपापवृत्तिः । निजोद्धृतं धौतसुधांशुशुभ्रं, कपर्दिनो धाम जगाम
Page #190
--------------------------------------------------------------------------
________________
348388083% *838848 *9*9* 48488
श्रीवस्तुपाल
| मन्त्री ||७ || सकर्दमैस्तस्य तनुं कपर्द्दियक्षस्य यक्षोपपदैर्विलिप्य । फलैः सपुष्पैर्विलसद्विवेकस्त्रिलोकपूज्यस्य चकार पूजाम् ||७५ ॥ चरितम् । श्रीवाग्भटेनार्हतसार्वभौम कल्पेन सङ्घस्थितिहेतवे प्राग् । सुश्रावकास्तीर्थसमग्र चैत्यचिन्ताकृतस्तत्र गिरौ नियुक्ताः ॥ ७६ ॥ | युगादिदे - वाद्भुतहेमबिम्बमभ्यर्चितं चन्दनचारुपुष्पैः । दिव्यातपत्रेण विराजमानं, चलन्महाचामरजातशोभम् ||७७|| आतोद्यहृद्य ध्वनिविस्मि॥८८॥ ताङ्गिवजं पुरस्कृत्य ससङ्घलोकम् । मुक्ताफलैः सन्मुखमभ्युपेता, अवर्द्धयंस्तं विधिना ससङ्घम् || ७८ || त्रिभिर्विशेषकम् ।। प्रपूज्य भक्त्या जगदेकपूज्यं, युगादिदेवं कुसुमैः फलैश्च । द्रम्मांश्चतुर्लक्षमितान् वितीर्य, तान् प्रीणयामास स मन्त्रिराजः ॥ ७९ ॥ पूजोत्सवानन्दितनिर्जरौघः, सर्पन् स मन्त्री विधिवर्त्मनात्र । सिद्धाद्रिसेवाकरयाचकालीं, चक्रे कृतार्था प्रथितार्थदानैः ||८०|
त्रैलोक्यसुन्दरं नाम, प्रासादं प्रथमाईतः । आससाद महामात्यः क्रमादामनृपोपमः ॥८१॥ अविन्दत परानन्दं भुवना| नन्दनं जिनम् । निरीक्ष्य तम्मयीभावं भजन् योगीव मन्त्रिराट् ||८२॥ अधौतपादिकां पूजां, शिवश्रीवरणोपमाम् । आनन्दरसपूतात्मा, व्यधादेष फलादिभिः || ८३ || श्रीपाण्डवैः स्थापितमादिदेवं, जगज्जनानन्दविधायिरूपम् । प्रपूज्य पूर्व सचिवः समग्रपूजो| पचारैः किल मूलनाथम् ||८४|| श्रीजावडियुगादीशं, पुण्डरीकद्वयं तथा । रत्नैर्नवभिरानचे, नवाङ्गेषु सहानुजः ॥ ८५ ॥ युग्मम् ।। मन्त्री प्रदक्षिणीकुर्वस्ततो राजादनीं तरुम् । प्रथमस्यार्हतः पादौ ववन्दे दलितापद ॥८६॥ तदा दुग्धैरतिखिग्धैः, श्रीसङ्घोपरि निर्ममे । वृष्टिं राजादनी प्रीता, वर्द्धापनमहोत्सवैः ॥८५॥ विस्तरेणाहतो मत्री, चिकीर्षुर्मजनोत्सवम् । उत्तारकगृहं प्रापततो नवा जिनावलीः ||८८ || कल्याणविधिना स्नात्वा, कुण्डे सूर्याभनामनि । जिनस्नात्राम्बुसंयोगपुण्यवारिमनोहरे ||८९ || अग्निशौचाम्बरद्वन्द्वं माणिक्यकालिकाप्रभम् । परिधाय प्रभापूर, तिलकं भालमण्डले ॥९०॥ कर्णयोः कुण्डले चन्द्रादित्यदीधितिमण्डले । सर्वाङ्ग
488846038-84889845398*488888332
षष्ठः
प्रस्तावः ।
ዘሪሪ
Page #191
--------------------------------------------------------------------------
________________
888888888888888888888488
सुन्दरं हारं, हृदि पाणौ च दक्षिणे ॥९१॥ रत्नप्रभं च केयूरं, मुद्रां पापापहां तथा । निधाय विधुतारातिराययौ जिनवेश्मनि ॥९२॥ पञ्चभिः कुलकम् ॥
श्रीमूलनायक स्नात्रसामग्री निर्ममे तदा । विधूय सर्वतस्तस्मिन्नार्हतैर्गर्हितस्थितिम् ॥ ९३ ॥ चन्दनेन सुगन्धेन, भालं तिलकसंयुतम् । सकङ्कणौ करौ कृत्वा, सपुष्पं च शिरस्तथा ॥९४॥ धौतवासाः सदाचारः, सालङ्कारः सुधीवरः । पुरो निधाय बिम्बस्य, कलश | जलसम्भृतम् ॥९५॥ निर्माल्यीकरणं सूत्रपाठपूर्वं जगद्गुरोः । विदधे श्रावकः कश्चिद्, धूपोद्गाहपुरस्सरम् ॥ ९६ ॥ यतः - श्राद्धः स्नातानु लिप्तः सितवसनधरो नीरुजोऽव्यङ्गदेहो, दवा कर्पूरपूरव्यतिकरसुरभिं धूपमभ्यस्तकर्मा । पूर्वं स्नात्रेषु नित्यं भृतगगनधनं प्रोल्लसद्धोपघण्टाटङ्काराकारितान्तः स्थितजननिवहो घोषयेत्पूर्णघोषः ॥९७॥ संस्तप्य मूलप्रतिमां, तेन भृङ्गारवारिणा । ततः संक्षेपतोऽभ्यर्च्य, स | व्यधाच्चैत्यवन्दनाम् ||१८|| शुद्धिं विधाय पयसा करपङ्कजानां निर्माय कङ्कणविधिं विधिना व्यधत्त । कर्पूरकेशरविमिश्रितचन्दनेन, | भालस्थलीषु तिलकानि पृथून्नतानि ||१९|| सद्धूपधूपिततमेषु गुणोज्ज्वलस्य, यूयं विमुश्चत कराञ्जलिषु प्रसन्नाः । पुष्पाणि पश्चविधवर्णमनोहराणि प्रत्येकमास्तिकपुरन्दरमण्डलस्य || ३०० || एवं नियोगवचनानि सुधाश्रवाणि, श्रीवस्तुपालवदनाम्बुजसम्भवानि । | श्रुखाभिषेकसमये जिनपुङ्गवस्य, श्राद्धाः सहर्षमनसः ससृजुस्तथैव ॥१॥ त्रिभिर्विशेषकम् ॥ अथ मन्त्रीश्वरः स्नात्रं, विधातुं प्रथमाहतः । स्नात्रपीठं स्वयं चक्रे, पवित्रं पुण्यवारिणा ॥ २ ॥
चन्दनेनाकरोत्तत्र, स्वस्तिकं स्वस्तिहेतवे । पुष्पाक्षतादिभिः पूजां तस्योपरि विनिर्ममे ||३|| अतिष्ठिपत्ततस्तत्र, प्रतिमां पूर्वपू| जिताम् । तदग्रे च व्यधादेवं विधिना चैत्यवन्दनाम् ||४|| चीवराष्ट्रपुटैरास्यकोशं कृत्वा कृताञ्जलिः । अभाणीदिति वृत्तानि सब्र
48888888888888888888888828
Page #192
--------------------------------------------------------------------------
________________
षष्ठः
प्रस्तावः ।
श्रीवस्तुपाल
| तश्चास्तिकैः समम् ॥५।। श्रीमत्पुण्यं पवित्रं कृतविपुलफलं मङ्गलानां निदानं, क्षुण्णारिष्टोपसर्गग्रहगतिविकृतिस्वममुत्पातघाति । सङ्केतः | चरितम् । * कौतुकानां सकलसुखमुखं पर्व सर्वोत्सवानां, स्नात्रं पात्रं गुणानां गुरुगरिमगुरोर्यः सृजत्येष धन्यः ॥६॥ सुरासुरनरोरगत्रिदशवर्त्म-
चारिप्रभोः, प्रभूतसुखसम्पदः समनुभूय भूयोजनाः । जितस्मरपराक्रम क्रमकृताभिषेका विभोक्लिङ्घय यमशासनं शिवमनन्तम॥८९॥
| ध्यासते ॥७॥ अशेषभुवनान्तराश्रितसमाजखेदक्षमो, न चापि रमणीयतामतिशयीत तस्यापरः । प्रदेशमहिमा ततो निखिललोकसा|धारणः, सुमेरुरिति तायिनस्नानपीठभावं गतः ॥८॥ रूपं वयः परिकरः प्रभुता पटुबमारोग्यमत्यतिशयश्च कलाकलापः । तज्जन्म ते
च विभवा भवमर्दनस्य, स्नात्रे ब्रजन्ति विनियोगमिहार्हतो ये ॥९॥ पुष्पाञ्जलिं विधायाथ, सश्रद्धः श्राद्धसंयुतः । अभाणीद् द्विगु| णोत्साह, एवं सूत्राणि मत्रिराट् ॥१०॥ प्रोद्भूतभक्तिभरनिर्भरमानसखं, प्राज्यप्रवृद्धपरितोषरसातिरेकम् । कुयुः कुतूहलबलोत्कलिकाकुलत्वं, देवा मुहूर्तमपि सोढुमपारयन्तः ॥११॥ यो जन्मकाले कनकाद्रिशृङ्गे, यश्चादिदेवस्य धराधिपत्वे । भूमण्डले भक्तिभराव
नम्रः, सुरासुरेन्द्रेविंहितोऽभिषेकः॥१२॥ ततः प्रभृत्येव कृतानुकार, प्रत्यादृतैः पुण्यफलप्रयुक्तः । श्रितो मनुष्यैरपि बुद्धिमद्भिर्महाEIजनो येन गतः स पन्थाः ॥१३॥ गन्धोदकेन संस्नप्य, निर्माल्यीकृतपूर्वकम् । तजैनबिम्बं पुष्पाद्यः, स पुपूज यथाविधि ॥१४॥ | कत्तुं श्रीमूलनाथस्य, स्नात्रं विस्तरतस्ततः । इत्यादिशजनश्रेणिं, मन्त्री मधुरया गिरा ॥१५॥ | छत्रं चामरमुज्ज्वलं सुमनसो गन्धान सतीर्थोदकान् , श्रीखण्डद्रवभाजनं दधिपयःसपीषि धृपावलिम् । नान्दीमङ्गलगीतनृत्य| विदुरान् सत्स्तोत्रमत्रध्वनीन् । पक्वान्नानि फलानि पूर्णकलशान् सञ्जीकुरुध्वं जवात् ॥१६॥ भो भो सुरासुरनरोरगसिद्धसङ्घाः, सङ्घा| तमेत्य जगदेकविभूषणस्य । निःश्रेयसाभ्युदयसत्फलपूर्णपात्रे, स्नात्रेऽधुना भवत सन्निहिता जिनस्य ॥१७॥ एवमाघोषणां कृखा,
॥८॥
Page #193
--------------------------------------------------------------------------
________________
साम्यलकान्तिकमशाना, मत्रोचारपण
लावम्बस्य भक्तितः
पुष्पपाणिः पवित्रवाक् । सद्वृत्तेनामुना मत्री, सर्वानाह्वास्त दिक्षतीन् ॥१८॥ श्रीमान् शचीशोऽग्नियुतो यमोऽपि, श्रीनैऋतः श्रीवरुणः सवायुः। कुबेर ईशः शिवतातयः स्यु गोऽधुना ब्रह्मसखश्च सङ्घ ॥१९॥ ततोर्चनां दिगीशानां, मन्त्रोचारपुरस्सरम् । जिनेन्द्र| पदलीलाना, चक्रे मन्त्री सुमादिभिः॥२०॥ मुक्तालङ्कारविकार, सारसौम्यखकान्तिकमनीयम् । सहजनिजरूपनिर्जितजगत्रयं पातु | जिनबिम्बम् ॥२१॥ एतद्वृत्तं पठन्तः श्रीमूलबिम्बस्य भक्तितः । तदादेशाव्यधुः पुष्पालङ्कारोत्तारणं जनाः ॥२२॥ भव्यानां भवसागरप्रतरणे द्रोणिः प्रसूतिः श्रियां, शश्वत्सत्फलकल्पपादपलता निर्वाणरथ्या परा । सौरभ्यातिशयादवाप्तमहिमा स्वामिन् प्रभावेण ते, प्राप्तुं स्वर्गभुवं जगाम गगने श्यामापि (प्रत्ताशेषसुखासुखास्तकलीला धामारुपि) धूमावली ॥२॥ सुपद्येनामुना श्राद्धाः, श्रीयुगादिजिनेशितुः। धूपमुद्दाहयामासुः, कर्परागुरुसम्भवम् ॥२४॥ किं लोकनाथ भवतोऽतिमहार्थतषा, किंवा खकार्यकुशलखमिदं जनानां, किं वाद्भुतः सुमनसां गुण एष कश्चिदुष्णीषदेशमधिरुह्य विभाति येन ॥२५।। प्रतिमोष्णीषभागे तु, कुसुमारोपणं व्यधुः । अनेन देव
वन्दारुलोकानां श्रेयसे किल ॥२६॥ ततः पुष्पाञ्जलीः पञ्च, सप्त वा नव वार्हतः। विधिनाग्रे विधायोच्चैस्तूर्यध्वानमनोहरम् ॥२७॥ - जन्माभिषेकं जैनेन्द्रं, गन्धर्वश्रुतिबन्धुरम् । सोऽपठत् श्रावकैः साकं, सुधासोदरया गिरा ॥२८॥ युग्मम् ॥ स्वर्णरूप्यकलशाङ्कितहस्ता,
मत्रिराजयुगलोद्गतशोभाः। श्रावकाः सकललोकविलोक्यास्तोकभूषणभृतो गुणवन्तः ॥२९।। | आनन्दमेदुरहृदः कलशाभिषेकं, सद्भूपधूमलहरीसुरभीकृताशाः, मिथ्यादृशामपि सृजन्ति जिनेन्द्रधर्मे, स्थैर्य गभीरवचसो रचयन्त ऊर्ध्याम् ॥३०॥ युग्मम् ॥ नृत्यनारीसहस्रं चलचमरयुगं वादितानेकवाद्यं, व्याक्षिप्ताशेषलोकं सकलसुरततीः कुर्वदानन्दपात्रम्। स्नानं त्रैलोक्यभर्तुर्दुरितहृदमितं वस्तुपालः सबन्धुश्चके शक्रोपमानो जिनमतगुरुतां दर्शयन् सङ्घशाली ॥३१॥ मन्त्री मात्र जिने
Page #194
--------------------------------------------------------------------------
________________
पहाः प्रस्तावः।
श्रीवस्तुपाल न्द्रस्य, सूत्रयन् गन्धवारिभिः। चित्रं पवित्रतां निन्ये, खगात्रं तत्क्षणादपि ॥३२॥ अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य ।। चरितम् । | भवभवनभित्तिभागान् , भूयोऽपि भिनत्तु भागवती ॥३३॥ एतद् वृत्तं पठन्तोऽथ, श्रावकाः शुद्धवारिणा । सन्तापशान्तये धारां,
जिनबिम्बोपरि व्यधुः ॥३४॥ गन्धकाषायिकाख्येन, सिचयेन जिनेश्वरम् । रत्नादर्शमिवोन्मृज्य, व्यधुरुज्ज्वलमार्हताः ॥३५॥ कर्पू॥९ ॥ रकेशरोन्मिश्रचन्दनेन जगद्गुरोः । अङ्गविलेपनं रम्यं, स व्यधाद् बहुभङ्गिभिः ॥३६॥ अष्टप्रकारमभ्यर्च्य, ततः श्रीऋषभप्रभुम् ।
| अलिखत्तण्डुलैरष्टमङ्गलानि पुरो विभोः ॥३७॥ नैवेद्यं दर्शयामास, सर्वभोज्यसमन्वितम् । नागवल्लीदलान्येष, फलानि विविधान्यपि। | ॥३८॥ तत्रादिदेवस्य नमस्यमूर्तेः, स्नात्रं च पूजां च विधाय मत्री। पुरः कुरङ्गीनयनाः प्रमोदनृत्यन्मना नृत्यमकारयत् सः॥३९॥ विरच्यमाने सचिवेन तेन, पूजाविधौ पूज्यतमस्य तस्य । सत्कुङ्कुमस्नानजलच्छलेन, गलन्निवालोक्यत भोगरागः॥४०॥ न केवलं केवलिचक्रवर्ती, हृचक्रवर्ती सचिवस्य सोऽभूत् । शुश्रूषया पोषविशेषवत्या, तत्याज नान्तःकरणं बदीयम् ॥४१॥ श्रीनाभिसूनुमंगनाभिमुख्यैः, पूजोपचारैः परमैः प्रसन्नः। मन्ये खभावादपि वीतरागः, स स्फीतरागः सचिवे बभूव ॥४२॥ एणीमदागुरूदारघन| सारमनोहरैः । स धूपैधूपयामास, सर्वतः सिद्धपर्वतम् ॥४३॥ परितः सर्वचैत्येषु, प्रपूज्य श्रीजिनावलीः। अथारात्रिकवेलायां, मत्री
मण्डपमागतः॥४४॥ कोशागारे जगदम्नो दशशतीस्तुलाः। ददौ जीर्णपतत्स्थानसञ्जीकरणहेतवे ॥४५॥ युग्मम् ॥ विधि विधाय | निःशेषं, मन्त्री लवणवारिभिः। चन्दनखस्तिकं कृता, रत्नस्थाले मनोहरे॥४६॥ पुष्पादिभिस्ततः पूजा, निर्ममे स्वस्तिकोपरि। आरा
त्रिके न्यधात्तत्र, काश्चनं सप्तदीपयुम् ॥४७॥ अभ्यर्च्य चन्दनैः पुष्पैः, प्रणम्यैव जगत्पतिम् । विधिनोत्तारयामास, तदसौ सप्रदक्षिणम *॥४८॥वारिधारां ददुःश्राद्धास्तदा भृङ्गारपाणयः। भवसन्तापशान्त्यर्थ, पार्श्वयोरुभयोः स्थिताः॥४९॥ चतुर्भिश्चामरैस्तत्र, चतस्रः सध
॥९
॥
Page #195
--------------------------------------------------------------------------
________________
वाः स्त्रियः। वीजयामासुरानन्दात् , स्खलत्कङ्कणपाणयः॥५०॥ चेलोत्क्षेपंव्यधुः केचित् , श्रावका भक्तिशालिनः। क्षिपन्त इव रेण, *खरजोराजिमान्तराम् ॥५१॥ कुसुमानि विचित्राणि, चिक्षिपुर्योममण्डले । केचन प्रीतये व्योमचारिणां तु दिवौकसाम् ॥५२॥ | मङ्गलोपपदं दीपं, गजेन्द्रारूढमुज्ज्वलम् । पाणौ चकार मन्त्रीशश्वचिंतं चन्दनादिभिः ॥५३॥ कौडमं तिलकं भाले, व्यधुस्तस्य शिवा- | E! | वहम् । नवखङ्गेषु सम्पूज्य, श्रावकाश्चन्दनादिभिः ॥५४॥ अखण्डैरक्षतैः शुभैस्तिलकं पुलकाङ्किताः। ते पुनः पूरयामासुः, पूरितार्थिमनोरथाः॥५५॥ तत्कण्ठपीठे कुसुमस्रजोऽथ, न्यस्तास्तदा श्रावकसार्वभौमैः । आजानुदेशं किल लम्बमाना, बभुः शिवश्रीवरणस्रजो नु ॥५६॥ मुक्ताफलोज्ज्वलैलाजैः, सलजाः कुलयोषितः । तदा वर्धापयामासुः, सधवास्तं सुसंवृताः ॥५७॥ अत्रान्तरे कविः कश्चिदौचित्यचतुराग्रणीः। स्तुतिं श्रीआम्रदेवस्य, बभाणेति सविस्मयाम् ॥५८॥ द्वात्रिंशद्र्म्मलक्षान् भृगुपुरवसतेः सुव्रतस्याग्रतोऽग्रे, कुर्वन्मङ्गल्यदीपं स सुरवरनराधीश्वरैः स्तूयमानः । योऽदादथिंब्रजस्य बिजगद्धिपतेः सद्गुणोत्कीर्तनायां,स श्रीमानाम्रदेवो जगति विजयतांदानवीराग्रयायी ॥५९॥ अन्यस्तु-श्रीशत्रुञ्जयपर्वते विरहिता लक्षत्रिभिः कोटयस्तिस्रो येन जिनस्य जन्मनि परतायै निधानीकृताः । प्रत्यक्षं त्रिजगज्जनस्य सुधिया श्रीमूलनाथार्हतश्चैत्यस्योद्धृतिकैतवात्स जयतात् श्रीवाग्भटो मत्रिराट् ॥६०॥ सोमेश्वरःस
श्रीजिनाधिपतिधर्मधुराधुरीणः, श्लाघास्पदं कथमिवास्तु न वस्तुपालः । श्रीशारदासुकृतकीर्तिमयत्रिवेण्याः, पुण्यः परिस्फुरति जङ्ग* मसङ्गमो यः॥६॥ हरिहर:-शूरो रणेषु चरणप्रणतेषु सोमो, वक्रोतिवक्रचरितेषु बुधोऽर्थबोधे । नीती गुरुः कविजने कविरक्रियास, * मन्दोऽपि च ग्रहमयो न हि वस्तुपालः ॥२॥
मदनः-श्रीभोजवदनाम्भोजवियोगविधुरं मनः। श्रीवस्तुपालवक्त्रेन्दौ, विनोदयति भारती ॥६३॥ श्रीवीकल:-श्रीवासाम्बुज
COLAPN68-करीत
Page #196
--------------------------------------------------------------------------
________________
श्रीवस्तुपालमाननं परिणतं पश्चाङ्गुलिच्छद्मतो, जग्मुर्दक्षिणपञ्चशाखमयतां पश्चापि देवद्रुमाः। वांछापूरणकारणप्रणयिनां जिद्वैव चिन्तामणिर्जाता
षष्ठः चरितम् । * यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ॥६४॥ प्रत्येकं प्रददौ लक्षं, द्रम्माणां खर्दुमोपमः । धर्मोन्नतिकृते तेषां, सर्वेषां सचि-* प्रस्तावः ।
* वेश्वरः ॥६५॥ यतः-कुर्वन्मङ्गलदीपमार्हतमताकाशप्रकाशांशुमान् , श्रीशत्रुञ्जयपर्वते जिनपतेः श्रीनाभिसूनोः पुरः । द्रम्माणां किल ||* ॥९॥ I विंशतिं युगयुतान् लक्षान् कवीनामहो, प्राग्वाटान्वयमण्डनं सचिवराट् श्रीवस्तुपालो ददौ ॥६६॥ एक एव विभो दीपस्वमसि
त्रिजगत्यपि। इत्युच्चरन् व्यधादेष, दीपं मङ्गलपूर्वकम् ॥६७॥ ववन्दे विधिना मन्त्री, ततः श्रीवृषभप्रभुम् । प्रणिधानं परं बिभ्रदवादीत त्रिजगत्पतिम् ॥६८॥ आस्यं कस्य न वीक्षित वन कृता सेवा न के वा स्तुतास्तृष्णापूरपराहतेन विहिता केषां च नाभ्यर्थना ।। तत्रान्तर्विमलाद्रिनन्दनवनाकल्पैककल्पद्रुम, त्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ॥६९॥ स कृत्वा परितश्चैत्यपरिपाटीं |* कृतोत्सवम् । नमश्चकार सूरीशान् , सर्वान् सर्वमतस्थितीन् ॥७०॥ तस्मै विनयनम्राय, नरचन्द्रमुनीश्वराः। आनन्दरसनिस्पन्दमुपदेशं ददुर्यथा ॥७१॥ तवोपकुर्वतो धर्म, तस्य त्वामुपकुर्वतः । वस्तुपाल द्वयोरस्तु, युक्त एव समागमः ॥७२॥ उपोषितः शुचिस्वान्तस्तमखिन्यामसौ पुनः । महापूजां विनिर्माय, चैत्येषु निखिलेष्वपि ॥७३॥ कर्पूरागुरुकस्तूरीधूपेन विमलाचलम् । सर्वतो वासयन्नुच्चै
र्वासनावासिताशयः ॥७४॥ ध्यानलीनमनास्तिष्ठन् , पुरः श्रीऋषभप्रभुः। आससाद चिदानंदास्वादसोदरसम्पदम् ॥७५॥ त्रिभिविशेषकम् ॥ निधाय हेममाणिक्यमुकुटं प्रकटप्रभम् । तेजःपालः प्रभोमौली, भाखबिम्बानुकारिणम् ॥७६।। नवाङ्गेषु व्यधात्पूजा, | रत्ननवभिरद्भुतैः । द्रम्माणां नवलक्षाणि, ददौ चार्चकसन्ततेः ॥७७॥ जैत्रसिंहो न्यधाद्रत्नकुण्डले कर्णयोर्विभोः । हारं तु ललितादेवी, मौक्तिकं विजयाह्वयम् ॥७८॥ माणिक्यतिलकं भाले, लक्षमूल्यं जगत्पतेः। निदधेऽनुपमादेवी, सतीतिलकसंनिभा ॥७९॥ ॥११॥
Page #197
--------------------------------------------------------------------------
________________
ददौ सौख्यलता चन्द्रोद्योतं विद्योतिदिङ्मुखम् । रत्नतोरणसंयुक्तं, हेमच्छवं मनोहरम् ॥८०॥ षट्त्रिंशल्लक्षशृङ्गाररत्नगांगेयमौक्तिकैः ।। | तदा त्वनुपमादेवी, प्रपूज्य ऋषभप्रभुम् ॥८१॥ प्रासादाद् बहिरागत्य, नवीनं पर्यधात्पुनः। तावत्प्रमाणं शृङ्गारं, कट रे पुण्यवि* स्तरम् ।।८२।। तथैव ललितादेवी, कृखा श्रीजिनपूजनम् । पुनः परिदधौ दिव्यमलङ्गार तथाविधम् ॥८३॥ तदानीं भूपलादासी,
लक्षमूल्यं च भूषणम् (जरीदकम्) । स्वाङ्गलग्नं मुदोत्तार्य, जिनपूजां व्यधादहो ॥८४॥ वासवोत्सवमाधातुं, द्वितीयस्मिन् दिने पुनः। पुरस्कृती महामात्यो, तेजःपालेन बन्धुना ॥८५॥ धौतवासाः समभ्यर्य, नामेयप्रमुखान् जिनान् । रङ्गमण्डपमायासीन्मा-| लाधारणहेतवे ॥८६॥ युग्मम् ॥
सूरयो नरचन्द्रायाः, सर्वे सङ्घाधिपास्तथा । तदाहूतास्तदाजग्मुः, स्वस्वसङ्घसमन्विताः ॥८७॥ तदा तत्र समादाय, पुष्पमाला || * जगत्पतेः । तयोरदशयंश्चत्यरक्षायामधिकारिणः॥८८॥ चतुर्विंशतिलक्षाणि, द्रम्माणां तत्र मन्त्रिराट् । स्रजो मूल्यममूल्याया, अपि
तस्या जगौ तदा ॥८९॥ अन्योन्यं नीयमाने तन्मूल्ये वृद्धिं धनाधिकैः । किमन्ये विस्मयं लेमे, वस्तुपालोपि तत्क्षणे ॥१०॥ अत्रान्तरे समायातस्तत्र पात्रं गुणश्रियः । निदर्शनं दरिद्राणां, घृतविक्रयहेतवे ॥९१॥ टीलाढयस्तदासन्ने, ग्रामे टीमाणके वसन्। श्रीमाली न्यायनिष्ठात्मा, तदा मेलापकेऽलपत् ॥९२॥ गृहीत्वा गृहसर्वस्वमनुग्रहपरा मयि । अर्पयन्तु स्फुरद्भाग्यशाला मालामिमा पुनः॥१३॥ श्रुत्वा तद्वचनं मत्री, पप्रच्छ स्वच्छहत्ततः । कोऽसि खं नु महाभाग!, कियत्खं तेऽस्ति वेश्मनि ॥९४॥ सोऽवदत् सन्ति | मत्रीन्द्र, द्वादश स्फुर्घकानि मे । आज्यविक्रयजातानि, निर्गतान्यधुना गृहे ॥९५॥ तत्प्रसादं परं कृत्वा, कृपणस्योपरि प्रभो!। देहि स्रजं जगद्भर्तुः, शिवश्रीवरणावहाम् ॥९६॥ सिद्धक्षेत्रं समाधिश्च, श्रीसङ्घोऽनघसम्पदः । विशुद्धः प्राक्तनैः पुण्यैः, प्राप्यन्ते
Page #198
--------------------------------------------------------------------------
________________
प्रस्ताव:।
श्रीवस्तुपाल प्राणिभिर्यतः ॥९७॥ श्रुत्वेति धीसखो दध्यौ, विस्मितो विश्ववत्सलः। अहो सत्त्वमहो भावो, निःस्वस्याप्यस्य देहिनः ॥१८॥
| पूरणीया मनोवांछा, ज्यायसोऽस्य गुणैर्मया । यतो वित्ताधिकं दानं, दुष्करं देहिनामिह ॥९९॥ यतः-(जो ईसरो खन्ति खमो
* तमब्भुयं तमभुयं । जोप्पधणस्स दाणं सुहोचिउ उग्गतवो तमन्भुयं तमब्भुयं जो वसणे न मुज्झई) सम्पत्ती नियमः शक्ती, सहनं ॥९२॥ यौवने व्रतम् । दारिये दानमत्यल्पमपि लाभाय भूयसे ॥४००॥ महामात्यस्ततः सर्वसङ्घानुमतितस्तदा । तस्म समर्पयामास, वास
| वश्रीसखीं स्रजम् ॥१॥ विधाय तिलकं भाले, ततोऽस्य सचिवः स्वयम् । कण्ठपीठे न्यधात्पाणिपझेन नतिपूर्वकम् ॥२॥ अत्रापीन्द्रlot पदं प्राप्य, मत्रीद्रस्य प्रसादतः। श्लाघ्यः सुमनसां जज्ञे, स श्रेष्ठी देवसद्मनि ॥३॥ स तत्रोक्तं धनं सर्व, याचितेन विनार्पयत् ।अभ्य
W श्रीयुगादीशम् , श्रीसङ्घ प्रणनाम च ॥४॥ द्वितीयेऽह्नि स वेश्मागात , पारणार्थमुपोषितः । श्रेष्ठी स्वरूपं न्यक्षेण, प्रियायास्तन्यवेदयत् ॥५॥ ततो वेश्मजिनाधीशमभ्यर्च्य विधिना सुधीः। एवं मनोरथं चक्रे, निविष्टः पारणाय सः॥६॥ चारुचारित्रपूतात्मा, महात्मा यदि कश्चन । अधुनायाति तद् भुञ्जे, पात्रदानपुरस्सरम् ॥७॥
एवं निध्यायतस्तस्य, संयतः शीलकेसरी । जगच्चन्द्रगुरोः शिष्यः, प्रत्यक्ष इव शेवधिः ॥८॥ कालक्षेत्रानुसारेण, मूलोत्तरगुणोदधिः। आयासीदष्टमप्रान्ते, ब्रजन् गोचरचर्यया ॥९॥ तं दृष्ट्वा मुदितस्वान्तो, भक्तिपूर्व प्रणम्य च । विशुद्धैरनपानाद्यैः, प्रिये, स्वगृहोचितैः ॥१०॥ प्रतिलाभय पुण्यार्थ, कृतार्थ स्वं जनुः सृज । इत्याख्यद् गृहिणीमेष, यद्भोज्याधिकृताः स्त्रियः ॥११॥ युग्मम् ॥ पुरापि गृहसर्वस्वव्ययेन व्यथिताशया। पत्यै नैवोत्तरं दत्ते, न दानं मुनयेऽपि च ॥१२॥ ततोऽसौ स्वयमुत्थाय, सच्छायवदनाम्बुजः। प्रासुकं प्रददौ तस्मै, दधि पुण्योदधिप्रभम् ॥१३॥ कुर्वन्ति कलहं क्रूरकोपाटोपमयी प्रिया । तमेवं तर्जयामास,
॥१२॥
Page #199
--------------------------------------------------------------------------
________________
88888888888888888844384881
कुर्वाणं पारणं ततः ॥ १४ ॥ व्ययीकृता पुराशेषवेश्मनीवी त्वया गिरौ । भवता दुर्विदग्धेन दत्तं दध्यपि साम्प्रतम् ||१५|| निर्वाहोऽथ कथं भावी, व्ययमेवं वितन्वतः । भवतो धर्ममूढस्य, मूलनाशितयायतौ || १६ || व्ययमायस्य कुर्वन्ति, चतुर्थांशेन सम्पदः । लक्ष्मीवन्तोऽपि सर्वत्र, योगक्षेमविदो ध्रुवम् ॥ १७॥ ततोऽसौ सामभिर्वाक्यैस्तामुवाच विचारवान् । विषादो नैव कर्तव्यस्त्वया भद्रे मनागपि || १८ || भद्रे भद्रशतैः प्राप्तः, समयोऽयं मयाधुना । धनवीजं यदुतं श्रीसिद्धक्षेत्रे नयार्जितम् ||१९|| अत्र न्यायोद्भवं वित्तं, न्यस्तं स्वल्पमपि प्रिये । लोकद्वयसुखाय स्यादक्षयं भवकोटिभिः ||२०|| अतः परं परं वेश्मन्यावयोः शुक्लपक्षवत् । इन्दाविव कलावृद्धिर्भाविनी सुकृतोदयात् ॥२१॥ अल्पश्रिया जनेनोच्चैः कृतं पुण्यं महाफलम् । अत्रार्थे शृणु दृष्टान्तं भवद्वयसुखावहम् ||२२|| ग्रामे राजगृहासने, शालिग्रामाभिधेऽभवत् । सदाचारपरः श्रेष्ठी, सागरः पुण्यसागरः ||२३|| सम्यग्दृष्टिशिरोरत्नं, द्वादशव्रतपालकः । तादृग्गुणवती तस्य, प्रियाप्यासीत्सुलक्षणा ||२४|| अन्तरायोदयादेष, क्रमेणाजनि निर्धनः । तथापि दृढता धर्मे, तस्यासीन्मानसे|धिकम् ||२५|| विपद्यालम्बनं जन्तोर्धर्म एवाईतोदितः । इत्यालोच्य स्वयं घीमानग्रहीदित्यभिग्रहान् ॥ २६ ॥ एकान्तरोपवासश्च, | प्रत्यहं त्रिर्जिनार्चनम् । सच्चित्तानां परित्यागः, पानं प्रासुकवारिणः ॥४७ || रात्रौ चतुर्विधाहारत्यागः पञ्चनमस्कृतेः । अष्टोत्तरसह| स्रस्य, जापः कार्यश्च सर्वदा ||२८|| अन्यदागाद् गृहे तस्य, भोजनावसरे पुनः । कश्चिन्महाव्रती तीव्रतपसां राशिरङ्गवान् ||२९| भूयसीभक्तिरानम्य, तं मुनिं मुदिताशयः । मधुरस्निग्धसद्वस्तुसंस्कृतैः सक्तुभिः शुभैः ॥ ३०॥ स्वयं श्रेष्ठी समुत्थाय, विधिना प्रत्यलाभयत् । आर्जयद्विपुलं भोगफलं तत्रैव जन्मनि ॥ ३१ ॥ दारिद्र्यानलसन्तप्ता, तं जजल्पान्यदा प्रिया । मत्पितुर्भवने सन्ति, भूयस्यो नाथ सम्पदः ||३२|| अन्तरायावहं स्थानमेतन्मुक्त्वा ततो द्रुतम् । आवाभ्यां गम्यते तत्र, सुखनिर्वाहहेतवे ॥ ३३॥ सोऽवदद्धनही -
|
880382838-24838288% 4638% 888884
Page #200
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
प्रस्तावः।
॥९३॥
नस्य, तत्र प्राप्तौ भवेन्न हि । सन्मानं मे मनाग् यस्मात् , श्रीमतामेव गौरवम् ॥३४॥ आर्यपुत्र ! निवासार्थ, तत्र गन्तुं मनो न चेत्।। तथापि गम्यतां किञ्चिद्धनार्थनकृतेऽधुना ॥३५॥ तयेत्युक्तोऽगमत् श्रेष्ठी, धर्मात्मा श्वशुरालये । एकाकी पादचारेण, किश्चिद्धनसमीहया ॥३६॥ निःश्रीकखात्परं तस्मिन्नासौ सन्मानमार्पयत् । दिग्वासा विश्रुतः शूली, श्रीमांश्च पुरुषोत्तमः ॥३७॥ ततो निर्गत्य तद्नेहादागच्छन् खगृहं निशि । विलक्षोऽसौ स्थितो ग्रामासन्ने नद्यास्तटे बहिः ॥३८॥ उपोषितः शुचिस्वान्तः, ककरैरेव निर्मलैः । अक्षमालाद्यभावेन, नमस्कारानजीगणत् ॥३९॥ युग्मम् ॥ शिरस्त्रादिधिया ध्यायन् , मौनी पश्चनमस्कृतिम् । स प्राप्तस्तन्मयीभावं, | योगीव धृतिमाप्तवान् ॥४०॥ परमेष्ठिमहामन्त्रशुद्धजापपवित्रितान् । तानेव कर्करान् ग्रन्थौ, निबध्य गृहमागतः ॥४१॥ इदं खजनकावासादानीतं गृह्यतां त्वया । इत्युदीर्पियद् ग्रन्थि, स तस्यै प्रीतिहेतवे ॥४२॥ युग्मम् ।। सापि ग्रन्थि समादाय, दयितान्मुदिता सती । विजने वृजिनातीता, किमस्तीत्यवलोकयत् ॥४३॥ भानुभानुप्रभावन्ति, रत्नान्यालोक्य तत्र सा । विसयाद्दयितं स्माह, विस्मेरवदनाम्बुजा ॥४४॥अमुनि मूल्यमुक्तानि, रत्नानि द्युतिमन्ति च । एतावन्ति कथं तातस्तवार्य ! युगपद्ददौ ॥४५॥ रत्नानि दृक्पथीकृत्य, विस्मितो विममर्श सः । नूनं सर्वोऽपि धर्मस्य, प्रभावोऽयं वचोऽतिगः ॥४६॥ ततः स्वरूपं न्यक्षेण, प्रियायाः स यथा| स्थितम् । न्यवेदयत्फलं सापि, मेने धर्मभवं हृदि ॥४७॥ अत्रान्तरे श्रुतज्ञानी, सूरिः श्रीगुणसागरः । तदासन्ने समायासीत् , पुरे राजगृहाभिधे ॥४८॥ सागरः सकलत्रस्तं, भक्त्या नखा व्यजिज्ञपत् । सरितः कर्कराः खामिन , कथं रत्नानि मेऽभवन् ॥४९॥ गुरुः माह महाभाग!, यत्त्वया मुनये पुरा । भक्तितः सक्तवो दत्ता, मासक्षपणपारणे ॥५०॥ तेन सत्पात्रदानेन, प्रीता शासनदेवता । कर्करान् रत्नतां नीत्वा, दृढधर्मस्य ते ददौ ॥५१॥ इयत्कियत्फलं भद्र !,पात्रदानस्य तेऽधुना । यत्वं भवान्तरे गामी, मुक्ती
॥९॥
Page #201
--------------------------------------------------------------------------
________________
XXCBKXCOK XEBER TEBKX869***
कर्ममलोज्झितः ॥ ५२ ॥ इत्याकर्ण्य गुरोर्वाचं, सागरः प्रणिपत्य तम् । सानन्दः स्वगृहं प्राप्य, व्यधात्पुण्यान्यनेकशः ॥ ५३ ॥ एवं कृतानि पुण्यानि, भद्रे निःस्वेन देहिना । इहामुत्र फलान्युच्चैर्भावसाराणि कुर्वते ॥ ५४ ॥ इति सम्बोध्य शुद्धात्मा, प्रणयेन प्रियां निजाम् । निर्ममे पारणं श्रेष्ठी, टीलाख्यो गतगारवः ॥५५॥ अथ पुण्यानुभावेन, सायं तस्य शुभात्मनः । स्वधेनुबन्धनस्थाने, स्थाणुं स्थापयतोऽवनौ ॥ ५६ ॥ प्रादुरास निधिस्तत्र त्रासकृनिखिलापदाम् । निश्छद्मधर्मकार्यस्य, कटरे वैभवोदयः ॥ ५७|| अन्तर्वेश्म | क्रमान्निन्ये, दम्पतीभ्यां निधिर्निशि । पुण्डरीकाचलाधीशं स्मृत्खा श्री ऋषभप्रभुम् ||५८|| तन्निधानं तदालोक्य, मूर्त्तं भाग्यमिवात्मनः । गेहिनी तस्य जैनेन्द्रे, दधौ धर्मे रतिं पराम् ॥५९॥ क्रमात्तत्रागतस्यैव, श्रेष्ठी चौलुक्यमन्त्रिणः । वात्सल्यं स्वगृहे कृला, तन्निधानमदर्शयत् ||६०|| मन्त्री निधानमालोक्य, हृष्टः शिष्टजनाग्रणीः । तस्मै तदार्पयत्सर्व, तद्रामैश्वर्यसंयुतम् ॥ ६१ ॥ सोऽपि तग्रामनेतृत्वं प्राप्य मन्त्रिप्रसादतः । प्रासादं विदधे तत्र क्रमात्पार्श्वजिनेशितुः ||६२|| अथ मन्त्री जिनाधीशमन्दिराण्यखिलान्यपि । अमण्डयद् ध्वजारोपैर्यशोरूपैर्निजैरिव ॥ ६३॥ यतः - स श्वेतपीतैर्वसनैर्व्यधत्त, धानि प्रभोस्तस्य महापताकाम् । सरोजराजीरजसानुविद्धो, जिग्ये यया सिद्धसरित्प्रवाहः ॥ ६४॥ अन्यदा सचिवाधीशः, सर्वाभरणभूषितः । भास्वानिव वपुर्दीप्या, दीपयन्नखिला दिशः ॥६५॥ विश्वप्रदीपनामानं श्रीयुगादिजिनेश्वरम् | अष्टप्रकारमभ्यर्च्य, सर्वोदारपुरन्दरः ॥ ६६ ॥ आरात्रिकोत्सवं कुर्वन्, सङ्घाधिप| वृतोऽभितः । विधिना श्रावक श्रेणिक्रियमाणोरुमङ्गलः ॥ ६७॥ सूत्रधारावतंसेन, शोभनाख्येन शिल्पिना । नवीनघटितां मातुर्मूर्ति ज्योतीरसामना || ६८ || सुस्थानस्थापनादेशप्राप्तये प्रकटीकृताम् । वीक्ष्य म्लानमुखाम्भोजो, रुरोद निभृतध्वनि ॥ ६९ ॥
रुदन्तं तं तदालोक्य, तटस्थो निखिलाङ्गभाग् । विखिन्नात्माभवद्भूततद्दुःखानुप्रवेशतः ॥७०॥ तदेत्युवाच मन्त्रीशं, नरचन्द्रगु
48888888888888384838% 488888
Page #202
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः।
श्रीवस्तुपाल
रुस्तदा । कोऽयं हर्षपदे मन्त्रिन , विषादस्तु तवाशये ॥७१॥ नलस्य श्रुतशीलोऽभूद्विश्रुतः श्रुतसम्पदा । उद्धवो वासुदेवस्य, श्रेचरितम् ।
णिकस्याभयो यथा ॥७२॥ कल्पको नन्दभूभत्तुर्वनराजस्य जाम्बकः । विद्याधरो जयन्तस्योदयनः सिद्धभूभुजः ॥७३॥ कुमारपा
|लदेवस्य, वाग्भटश्च महामतिः। अमी निःशेषजन्तूनां, जीवातव इवाभवन् ।।७४।। श्रीवीरधवलस्यापि, तथा त्वं भुवनोत्तमः । परोv९४॥
| पकारकारुण्यपुण्यपीयूषसागरः ॥७५।। पञ्चभिः कुलकम् ।। त्वामाश्रयन्ति मन्त्रीश !, पर्वता इव सागरम् । विपद्धीता महीपाला,
नदीनं सम्पदः पदम् ॥७६॥ विनतानन्दनेनोर्वीभृतोऽमी विद्विपस्त्वया । पन्नगा इव विक्षिप्ता, भवन्ति बिलशायिनः ॥७७॥ बन्धवः | स्पृहयन्त्यत्र, चकोरा इव साञ्जसम् । विश्वव्यापकसौभाग्यमिन्दोरिव तवोदयम् ॥७८॥ यथा हिमवतो गङ्गा, दत्तरङ्गा जगत्रये । राजनीतिस्तथा त्वत्तः, स्फुरत्युर्वीभृतोऽधुना ॥७९॥ त्वदर्शनं समीहन्ते, सर्वे गणभृतोऽपि च । पद्माकरा यथा भानोः, सच्चक्रानन्ददायिनः॥८०॥ सर्वे धर्माः प्रवर्तन्ते, सान्निध्याद्भवतोऽधुना । पयोदा इव पाथोधेर्बहुधान्योपकारिणः ॥८॥
रज्यन्ते सुमनोवर्गाः, सद्रव्यगुणशालिनि । त्वयि तत्त्वविदो मन्त्रिन् , वैशेषिकमते यथा ॥८२॥ तवानुजस्य संयोग, समीहन्ते नृपा अपि । जैमिनीयमतस्येव, बहुमानप्रकाशिनः ॥८३॥ भुवि तन्नास्ति सद्वस्तु, यन्नास्ति भवतो गृहे । विषादो युज्यते नैव, कत्तुं तेन तवाधुना ॥८४॥ तन्निशम्यावदन्मन्त्री, ममैतदुःखमान्तरम् । नाभूद्यद्दर्शनं मातुः, सङ्घाधिपतिसम्पदः ॥८५॥ शैशवे | मरणं मातुः, प्रियाया नवयौवने । वृद्धत्वे च सुपुत्रस्य, घोरपापतरोः फलम् ॥८६॥ इदं सङ्घाधिपैश्वर्य, यदि माता विलोकयेत् । Iad तदा तस्याः कियत् शर्म, भवेद्वियो वयं न हि ॥८७॥ ममापि पाणिपझेन तस्याः कारयतः सतः । तिलकं पुण्डरीकाद्रौ, भवे
सौख्यं वचोऽतिगम् ॥८८॥ अथोवाच गुरुर्मन्त्रिन्नेवमेतद्भवाध्वनि । परिपूर्णा भवन्त्यत्र, सर्वे कस्य मनोरथाः ॥८९॥ यतः
॥९॥
Page #203
--------------------------------------------------------------------------
________________
* कस्य स्यान स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य । कस्येह सुखं नित्यं, देवेन न खण्डितः को वा ॥१०॥
___ यतः-प्रधानेषु प्रधानत्वं यथा वं भजसेऽधुना । राजेन्द्रेषु तथा सिद्धराजोवाभजत्पुरा ॥११॥ यतः-सङ्ग्रामाङ्गणमेदुरीकतमदA द्वेषिद्विपानां जये, सिंहः श्रीजयसिंहदेवनृपतिस्तस्मादभूदङ्गभूः । नाभागस्य भगीरथस्य च पृथोः कास्य जीर्णौजसः, प्रासादः पुनरत्र
चित्रचरिताधारेण येनोद्धृतः॥९२।। प्रकटितसुवर्णसम्पत्प्रकाशितासीमसौम्यरसपाकः । आचार्यकं विधत्ते,यः काव्ये धातुवादे च ॥१३॥ * एकैव जगृहे धारानगरी नरवर्मणः । दत्ता येनाश्रुधारास्तु, तद्वधूनां सहस्रशः ॥९४॥ तेन विश्वकवीरेण, न स राजा जितो न यः। | काष्ठा कापि न सा यस्य, यशोभिः शोभिता न या ॥१५॥ स पुनर्मालवाधीशं, निर्जित्योर्जस्विविक्रमम् । विक्रमार्क इव त्यागः,
सम्प्रीणन्नथिनोऽखिलान् ॥९६॥ कल्पकोटीः कुरुष्व खं राज्यं जीव चिरं जय। सुधाकिरो गिरः शृण्वन्निति वर्णगुरूदिताः ॥९॥ RE क्रियमाणे चतुर्वर्णवृद्धर्मङ्गलकर्मणि । मातुर्वियोगशोकाः , पपाठेति सगद्गदम् ॥९८॥ त्रिभिर्विशेषकम् । मास्म सीमन्तिनी कामं,
जनयेत्सुतमीदृशम् । बृहद्भाग्यफलं यस्य, मृतेर्मातुरनन्तरम् ॥१९॥ मनोरथास्ततो मत्रिन सर्वेऽपि शरीरिणाम् । सम्पूर्यन्तेत्र संसारे, * तादृग्पुण्याद्यभावतः ॥५००॥ एवमाश्वासितो मत्री, गुरुणा करुणान्धिना । व्यधादारात्रिकं तत्र, श्रेयोदीपं च हृष्टहत् ॥१॥ एवमष्ट
दिनी कुर्वानापूजामहोत्सवान् । सविशेषान् सृजन् देवदायान् वाग्भटनिर्मितान् ॥२॥ सुश्रावककुलान्यईनसाराविधौ व्यधात् ।। | चत्वारि पुण्डरीकाद्रौ, योगक्षेमौ विधाय सः॥३॥ युग्मम् ॥ चतुरश्चैत्यपूजार्थ, ग्रामान सीमा विवेकिनाम् । देवकोशेऽमुचन्मत्री,
शासनानिजभूभुजः॥४॥ दानैर्दारिद्यमुन्मुद्य, मार्गणानां मनोऽतिगै । कुखा श्रीसङ्घपूजानप्रदानादिशुभक्रियाः॥५॥मन्त्री विज्ञपया|मास, भक्तिनिभृतमानसः। श्रीयुगादिजिनाधीशं, विजिताक्षः कृताञ्जलिः ॥६॥ त्वत्प्रासादकते नीडे, वसन् शृण्वन् गुणांस्तव । सङ्घ
Page #204
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
प्रस्ताव:
॥९५॥
दर्शनपूतात्मा, भूयासं विहगोऽप्यहम् ॥७॥ यदाये द्यूतकारस्य, प्रियायां यद्वियोगिनः। यद्राधावेधिनो लक्षे, तद्ध्यानं मेऽस्तु त्वन्मते ॥८॥ विज्ञप्येति युगादिनायकजिनं श्रीतीर्थराज गिरि, सम्पूज्योज्ज्वलपुष्पदामभिरथ श्रीसङ्घनाथान्वितः । उत्तीर्याद्रिवराज| गाम जवतः श्रीपादलिप्त पुरे, मन्त्री हृष्टकपर्दियक्षरचितप्रत्यक्षसाहाय्यतः ॥९॥ तस्मिन् कुमारभूपालविहारे मजनोत्सवम् । विधाय सध्वजारोपं, हैमं कुम्भं न्यधान्नवम् ॥१०॥ ललिताख्यसरःशोभा, पश्यतस्तस्य सस्पृहम् । सोमेश्वरः कविः स्माह, काव्यं तात्कालिकं तदा ॥११॥ हंसर्लब्धप्रशंसैस्तरलितकमलः प्रोत्तरङ्गैस्तरङ्गैर्नीरैरन्तर्गभीरश्चटुलबककुलग्रासलीनैश्च मीनः । पालीरूढद्रुमालीतल| सुखशयितस्त्रीप्रणीतैश्च गीतै ति प्रक्रीडनाभिस्तव सचिव चलचक्रवाकस्तटांकः ॥१२॥ तसै ददौ तदा सद्यः, पद्यानुप्रासरञ्जितः । | सुवर्णस्य सहस्राणि, षोडशासौ विचक्षणः ॥१३॥
अत्रान्तरे कविः कश्चित्तत्रागत्याब्रवीदिति । देवेदं पत्रकं तुभ्यं, प्रीतः प्रैषीदपाम्पतिः ॥१४॥ सोमेश्वरगुरुमन्त्र्यादेशादाबाय तत्पुनः । प्रत्यक्षं वाचयामास, सर्वेषां विदुषां यथा ॥१५॥ खस्तिश्रीभूमिसीमाविपिनपरिसरात क्षीरनीराधिनाथः, पृथ्व्यांश्रीवस्तुपालं क्षितिधवसचिव बोधयत्यादरेण । अस्यामास्माकपुत्र्यां कुपुरुषजनितः कोऽपि चापल्यदोषो, निःशेषः सैष लोकम्पृणगुणभवता भालतो मार्जनीयः ।।१६।। आनीताम्बुधिकाव्याय, तस्मै सोमान्वयी ददौ । द्रम्माणां चतुरो लक्षान् , तदुक्तिप्रीणितोऽधिकम् ॥१७॥ नभस्येते वृष्टाः शरदि न हि वर्षन्ति जलदाः, फलवातैराने खलु फलवृक्षाश्च फलिनः । प्रदुग्धाः प्राग्गावः पुनरपि न दुग्धानि ददते, कदाप्येतस्योच्चैन तु वितरणे श्राम्यति मतिः॥१८॥ ततो व्रजन्नसौ श्रीमन्नेमिस्वामिनमश्चिकीः। तालध्वजपुरे प्रापत , सर्वसङ्घसमन्वितः ॥१९॥ प्रासादं कारयामास, तत्रापि ऋषभप्रभोः। तालध्वजाचलोत्तुङ्गशिखरे शेखरोपमम् ॥२०॥ नम्यमानो मही
॥९५॥
Page #205
--------------------------------------------------------------------------
________________
| पालैस्तत्तद्देशाधिकारिभिः। आससाद क्रमादेष, ततो मधुमती पुम् ॥२१॥ श्रीवीरमन्दिरे तत्र, जावडिश्रेष्ठिकारिते । ध्वजारोपयुतं | नव्यं, हैमकुम्भं न्यधादसौ ॥२२॥ तत्र साधर्मिकश्रेणिवात्सल्यं विदधेऽनघं । सङ्घाधिपेन भीमेन, स्तम्भतीर्थनिवासिना ॥२३॥ * अजाहरे पुरे प्राप्तः, श्रीअजाख्यनृपाचिंतम् । ततो नवनिधि नाम्ना, श्रीवामेयं ननाम सः॥२४॥ तत्रोद्धृत्य जिनाधीशमन्दिरं विदु
राग्रणीः। कलशं काञ्चनं तस्य, शृङ्गे रङ्गान्यवीविशत् ॥२५॥ निर्ममे वाटिकामेष, तत्पूजायै पुरो बहिः । चम्पकाशोकपुन्नागकेत
कीपाटलान्विताम् ॥२६॥ निकषा तां सुखायासौ, जिनस्नानविधायिनाम् । वापी तापीसरित्स्वादुपयःपूरामकारयत ॥२७॥ तद्वामसीॐामसम्बन्धिसर्वेक्षुवाटिकावलीः । स भूपशासनाद्देवदायहेतोरदापयत् ॥२८॥ द्रम्मलक्षव्ययं तत्र, कृता पूजोत्सवरयं । कोटीनारीपुरे प्रापत , कोटीध्वजगृहान्विते ॥२९॥ तत्प्रवेशोत्सवैनव्यैस्तत्रत्यव्यवहारिभिः । प्रादुष्कृतैः कृतीशोऽपि, वस्तुपालो विसिमिये ॥३०॥
तत्र श्रीनेमिनाथस्य, चैत्यं चश्चद्ध्वजाश्चितम् । विधाय वसुधापुर्या, भूषयामास मन्त्रिराट् ॥३१॥ सत्प्रभावकदम्बाढ्यामम्बामIS भ्यर्च्य भक्तितः । समग्रस्यापि सङ्घस्य, स विनौषमघातयत् ॥३२॥ स हैमकलशं न्यस्य, तस्याश्चैत्ये नवोद्धृते । तदर्चकजनश्रेणः,
सप्तवर्षासनान्यदात ॥३३॥देवपत्तनमासाद्य, देवानामपि दुर्लभाम् । स पूजां भक्तितश्चक्रे, चन्द्रप्रभजिनेशितुः ॥३४॥ यतः-देवप
तनपुरे पुरन्दरस्तूयमानममृतांशुलांच्छनम् । सोर्चयन्नुचितचातुरीचितः, स्खं च यो व्यरचयच्छुभाश्चितम् (संचयं व्यरचयत्सुकृता| नाम ) ॥३५॥ तस्मिन्नादिजिनेन्द्रस्य, मन्दिरं विदधे नवम् । कैलासशिखराकारं, मन्त्रिराजानुजः स्वयम् ॥३६॥ तत्र चन्द्रप्रभस्वामिसदनस्यान्तिकेऽमुना । चतुर्विंशतितीर्थेशप्रासादोऽष्टापदः कृतः ॥३७॥ पौषधशालामौषधीपतिमूर्तिमिवोज्ज्वलां सुधासारैः। जनतातापहरामयमकृत कृती तत्र नभसीव ॥३०॥ अष्टापदस्य पौषधशालाया अपि च तत्र सचिवोऽयम् । आयार्थमट्टमालां, गृहमाला
Page #206
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
प्रस्तावः
॥९६॥
च व्यधापयत् ॥३९॥ श्रीवीरधवलाधीशस्वान्तसंतोषहेतवे । सोमेश्वरं तदानर्च, मन्त्री नानाविधार्चनैः ॥४०॥ नरेन्द्रादेशतो मन्त्री, सोमनाथमहेशितुः । माणिक्यखचितां मुण्डमालामयमकारयत् ॥४१॥ द्विशत्यासचतुःषष्ट्या, स्वर्णगद्याणकैरसौ । तत्रोमाभरणं सौख्यलतापुण्यकृतेऽकरोत् ॥४२॥ सोमनाथपुरतो निजकीर्त्याः, क्रीडपर्वतनिभं करियुग्मम् । तुङ्गमश्ममयमत्र वितेने, वस्तुपालसचिवेश्वरबन्धुः ॥४३॥ तत्र सत्रालयश्रेणिं, परितस्तत्पुरात्किल । विदधे वस्तुपालेन, भोजनाय जनावले ॥४४॥ द्विजानां वेदपाठाय, ब्रह्मशाला मनोहराः निर्मितास्तेन तद्वासियोगक्षेमविधायिना ॥४५॥ सोमेश्वरार्चने निष्ठाः, सर्वेऽपि पतितान्वयाः। निर्माल्यपाणयस्तत्र, निकषा तं समागताः ॥४६॥ भवद्भिभव्यया भक्त्या, भवानीपतिरय॑ते । इत्युक्ता बहुमानेन, मन्त्रिणेति जगुर्यथा ॥४७॥ युग्मम्॥ | नादत्ते कनकं सुमं सचिव ते कर्पूरपूरं स्मरन् , कौपीनेऽपि च कुप्यति प्रभुरसौ शंसन् दुकूलानि ते । दिग्धो दुग्धरसैजलेषु विमुखः श्रीवस्तुपाल! त्वया, कर्पूरागुरुमोदितः पशुपति! गुग्गुलं जिघ्रति ॥४८॥ पुरः पठत मे भूय, इत्यादिष्टास्तपोधनाः । पुनः पुनस्तदोचार्य, तस्थुः खिन्नाशया भृशम् ॥४९॥ शक्ति(उक्ति)संख्यसहस्राणि, द्रम्माणां धार्मिको ददौ । तेभ्यो वर्षासनैः साकं, तावद्भिः सचिवस्तदा ॥५०॥ समुद्रोऽसौ समुद्रस्य, सपर्यावर्जितात्मनः । संपदं सर्वतः पश्यन् , सानुजोऽथ तदावदत् ॥५१॥ माणिक्याकर पारिजातजनक क्रीडागृह श्रीपतेः, पीयूषैकनिवास वासवनदीवैदेहीदीक्षागुरो । धिक् क्षाराम्बुनिधे तवैतदखिल रूपं यदभ्यागतो, दिग्वासाः क्षुधितश्चराचरगुरुर्देवो विषं पायितः ॥५२॥ तेजःपाल उवाच-रत्नाकर तव तीरे, तान्यपि पङ्के लुठन्ति रत्नानि । यैरत्नैरलंक्रियते, क्षितिपप्रमदास्तनस्तबकः ॥५३॥ एवं तदुक्तिभिः प्रीतः, क्षीरनीरेश्वरस्तयोः । प्रददौ दक्षिणावर्च, शङ्ख सौख्यावई तदा ॥५४॥ उत्खातारोषितेनाथ, साङ्गणेशस्य सूनुना । जवादागत्य तत्रैव, सिंहसेनेन भृभुजा ॥५५॥ पितेव पूज्यमानोऽसौ,
॥१६॥
Page #207
--------------------------------------------------------------------------
________________
* ससङ्घः सरलाध्वना । अगमनगरी रङ्गत्पताकां वामनस्थलीम् ॥५६॥ युग्मम् ॥
तत्रापि पुण्यकृत्यानि, प्रासादादीनि निर्ममे । निर्ममेशमतोक्तानि, मुक्तिसौख्यावहानि सः॥५७॥ सन्मानदानैरानन्ध, मत्री Hil मेदिनीश्वरम् । जीर्णदुर्गपुरे प्रापद्यादवीनेत्रचन्द्रमाः॥५८॥ यादवेन्द्रनरेन्द्रेण, प्रतिपत्ति वितन्वता । प्राभृतीचक्रिरे तत्र, तस्मै
सद्वाजिराजयः॥५९॥ नृलोके परमं तीर्थमुजयन्तगिरीश्वरम् । सेव्यमानतटं सिद्धैः, स्तूयमानं मुनीश्वरैः ॥६०॥ उल्लिखितं दिवं * शृङ्गैरुदौः क्रीडितामरैः। तत्र नेत्रोत्सवं वीक्ष्य, सुमुदेऽसौ नन च ॥६१॥ युग्मम् ।। वाजिराजीमसौ तत्र, हैमपर्याणभूषिताम् । * * अर्पयन्नथिनश्चक्रे, पार्थिवानिव तत्क्षणे ॥६२॥ सोत्साहः सङ्घलोकोऽपि, प्राप्तविश्वाधिपत्यवत् । विदधे बिविधानुचैरुत्सवानुत्सवो
परि ॥६३॥ तदीयभक्तितः प्रीत, इवासौ गिरिपुङ्गवः । चकार गौरवं तस्मै, फलपुष्पैरयाचितैः ॥६४॥ उन्नतात्मा स एव स्यादाश्र
योत्र शरीरिणाम् । स्वशक्त्या कस्यचित्कञ्चिदुपकारं करोति यः॥६५॥ तथा-फलानि पुष्पाणि मनोरमाणि, यस्य द्रुमाः सन्ततमकर्पयन्ति । अत्यन्तभक्तेषु भवत्यवश्यं, श्रिये महत्यै महतामुपास्तिः॥६६॥ श्रीनेमिनाथेन जिनेश्वरेण, पवित्रिते यत्र धराधरेन्द्रे । | हिंस्राः समुज्झन्ति पर सहस्राः, स्वभावसिद्धामपि वैरबुद्धिम् ॥६७॥ शृण्वन् स तीर्थावनिवैभवानि, दानान्यमानानि ददत्कवीनाम् । तंगोत्रमुख्यं विधृतक्षम च, समारुरोह क्षितिपालकल्पः॥६८॥ रीणान् धुरीणान् युगतो वियुज्य, जनेषु यातेषु तमद्रिमुच्चैः। अस्थायि तेषां शकटैरवस्तादुर्द्ध गतिः स्यान्न वृषोज्झितानाम् ॥६९॥ नेत्रानन्दकरी भवोदधितरीं श्रीनेमिनः खामिनो, मूर्ति ब्रह्मसुराधिपेन विमलां वजाश्मना निर्मिताम् । रत्नश्रावकपुङ्गवस सुकृतैस्तैस्तैरनात्मभिस्तीर्थेऽत्र प्रकटीकृतां च भरतक्षेत्रावनीपावनीम् ॥ ॥७॥ दृष्ट्वा दृष्टिमहोत्सवावयपुष श्रीमत्रिराजाग्रणी, तेजःपालसहोदरेण सततं भक्तेन भक्या तदा, सर्वाङ्गस्फुरितप्रमोदलहरीधौ
Page #208
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम
॥९७॥
तान्तरात्मा व्यधात् , पूजां पापहरीमधौतचरणां रत्नर्नवाङ्गेष्वपि ॥७२॥ युग्मम् ॥ गजेन्द्रपदकुण्डस्य, वारिभिः पापहारिभिः। विधाय मजनं मत्री, धौतवासोतस्ततः ॥७२॥ आपातालसुरालयं प्रतिपदं नीरन्ध्रसञ्चारिभिर्नानायानविमानगैः सुरवरैरागत्य निर्वर्तितः।
प्रस्ताव: | उत्पूरैः स्नपनाम्बुभिः प्रतिदिशं मेरौ सृजन्निझरश्रेणी: श्रीजिनजन्ममजनमहः शर्माणि निर्मातु वः ॥७३॥ दीधैर्योजनमाननेषु मणिरैरूप्यादिनिष्पादितः, प्रत्येकाष्टसहस्रमानकलितैः कुम्भैः पयःपूरितैः। हर्षोत्कर्षवशंवदा विदधिरे सर्वे सुराधीश्वरा, यत्र स्नात्रमहं जगत्रयपतेस्तजन्मपर्व श्रिये ॥७४॥ मन्द्र(त्र)ध्वनि भणन्नेवं, मत्री सर्वाद्धतोत्सवम् । पूर्ववद्विदधे तत्र, स्नानं नेमिजिनेशितः ॥७॥ | चतुभिः कलापकम् ॥ मात्रं स पात्रप्रतिपादितार्थस्तीर्थोदकैस्तीर्थकरस नेमेः । कृत्वा चकारागुरुचन्दनायैर्विलेपनं धौतमलानुलेपः॥ | ॥७६॥ घनः प्रसूनैर्विकचैरनूनः, पत्रैः पवित्रैः शतपत्रसारैः । अन्नैः पधानः शुभवासपूरैः, फलावलीभिर्मगनाभिगन्धैः ॥७७॥ सद
क्षतैरक्षतभावतेजा, नृत्यैविंचित्रैश्च गृहीतचित्तैः। गानरमानैर्विधिना च दानः, श्रद्धासमृद्धो विततान पूजाम् ॥७८॥ युग्मम् ॥ विभोः | सपर्यावसरेऽथ तस्य, कर्पूरधूपैः परितः स्फुरद्भिः । तमद्रिमेकं सुरभीचकार, दिशो यशोभिः स पुनः समग्राः ॥७९॥ श्रीनेमिनाथा| वसथान्तरस्थे, कर्पूरकृष्णागुरुधूपधूमे । पलायमानः कलिरेष कालस्तत्कालमासीन्मशकानकारी ॥८॥ लिलेख लेखप्रभुसन्निभोऽसौ, | गलन्मलात्मा वरमङ्गलानि । अष्टापि दुष्टोदयवारकाणि, स तण्डुलैस्तारदलोज्ज्वलैश्च ॥८१॥ आरात्रिकोत्सवं कुर्वस्ततो नेमिविभोः पुरः। ससंभ्रम भ्रमद् दानग्रहणार्थमितस्ततः ॥८२॥ वृन्दं वीक्ष्यार्थिनां मत्री, किञ्चिदुनमना इव । भ्रवा सन्तर्जयामास, ललाटतटसंस्थया ॥८३॥ युग्मम् ।। मत्रिणोऽवसरे तत्र, ज्ञाबा भावं मनोगतम् । कविः सोमेश्वरः स्माह, तन्मनःप्रीतये यथा ॥८४॥ इच्छा-* सिद्धिसमन्विते सुरगणे कल्पद्रुमैः स्थीयते, पाताले पवमानभोजनजने कष्टं प्रणष्टो बलिः । नीरागानगमन्मुनीन् सुरभयश्चिन्तामणिः ll ॥९॥
Page #209
--------------------------------------------------------------------------
________________
| काप्यगात् , तस्मादर्थिकदर्थनां हि सहतां श्रीवस्तुपालः क्षितौ ॥८५॥ तदुक्तिरञ्जितवान्तो, द्रम्माणां धनदोपमः। लक्षं दक्षपति
स्तमै, सपादं प्रददावसौ ॥८६॥ नीराजनां ततः कृखा, नीराजनपुरस्सरम् । मङ्गल्यदीपं मत्रीशो, विधिना तत्र निर्ममे ॥८७॥ ततो KEI नेमिं नमस्कृत्य, स कृत्रा चैत्यवन्दनाम् । आनन्द्य मार्गणान् दानैर्ववन्दे मुनिमण्डलीः ॥८८॥ यतः-जिनपूजनमुनिवन्दनसुपात्रदा-|
नानि देहिनां नियतम् । आसन्नसिद्धिकत्वं, सृजन्ति सद्भावविहितानि ॥८९॥ मालोट्टनकर्म शर्मपदवीं पञ्चामृतैर्मजनम् , तत्तत्तीर्थपवित्रभृमिनमनं सर्वान्नदानव्रतम् । वात्सल्यं गुणशालिनां गणभृतां वस्त्रादिभिः पूजनं, कृत्वा यात्रिकलोकयुग रचितवान्मत्री कृ-| | तार्थाः श्रियः ॥९॥
श्रीजैत्रसिंहः सचिवेन्द्रजन्मा, श्रीइन्द्रमालां धनलक्षसङ्ख्यैः । आदाय देवेन्द्रपदप्रतिष्ठाम् , साक्षाचकाराणभृतामिहेव ॥११॥ | उच्छ्रितैश्चैत्यशृङ्गेषु, पश्चवर्णध्वजैस्तदा । व्यधात्पत्रावलम्बानि, गिरिः प्रतिगिरीनयम् ॥१२॥ भट्टर्जयजयारावर्गांतर्गन्धर्वनिर्मितैः ।
मानातोद्यनिनादैश्च, शब्दाद्वैतं तदाऽजनि ॥१३॥ समकालं पुनर्देत्तताला बाला जिनालये । व्यधुहल्लीसकं मल्लीमालाभिः सुरभीकृताः Im९४॥ कर्परागुरुकस्तूरीधूपः स्तूपालिगर्भगः। अधिष्ठात्सुरश्रेणेरभृत्प्रीतिप्रदस्तदा ॥९५।। अहंभोगाईकर्पूरपूरैः परिमलोज्ज्वलैः। *सर्वतस्तं सर्वसङ्घपतयः सुरभि व्यधुः ॥९६॥ वस्तुपालो न्यधान्मौली, श्रीनेमेः खामिनस्तदा । अनर्घ्यरत्नगाङ्गेयमुकुटं प्रकटप्रभम् ॥
९७॥ स्थूलमुक्ताफलाधारं, हारं सारं निजश्रियः । न्यधत्त ललितादेवी, शैवेयहृदये मुदा ॥९८॥ माणिक्यतिलकं भाले, विशाले | नेमिनो विभोः। रोमाञ्चकञ्चुकोदारतनुः सौख्यलता ददौ ॥९९॥ कर्णयोः कुण्डले कान्तिजितादित्येन्दुमण्डले । रैवताधिपतेदिव्ये, तेजःपालो न्यवीविशत् ॥६००॥ भक्तितोऽनुपमादेवी, स्त्रीरत्नं गुणसम्पदा । रत्नावलीं न्यधात्कण्ठे, सोत्कण्ठं नेमिनोऽर्हतः ॥१॥
Page #210
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः।
श्रीवस्तुपाल
जैत्रसिंहो महामन्त्री, बाहुरक्षे विचक्षणः । निधाय शोभयामास, भुजौ भोजा(गा)त्मजापतेः॥२॥ मल्लदेवो ददौ नेमिहृदये हृदयचरितम् ।
ङ्गमम् । श्रीवत्सं कच्छ प्राप्त, स्वच्छेन्दुमणिनिर्मलम् ॥शा दर्पणैस्तोरणैीवाभरणैरातपत्रकैः । चामरैर्दीपदीपैश्च, चन्द्रोद्योतैनवनवैः॥
| ॥४॥ भृङ्गारैस्तिलकैहीं रैः, सारैर्नानाविधैः फलैः। पूजां विरचयाञ्चक्रुः, श्रीनेमेरपरेऽपि च ॥९५॥ युग्मम् ॥ सर्वचैत्यजिनाधीशप्र॥९८॥
| तिमाः स्नात्रपूर्वकम् । परिपाट्या समभ्यर्च्य, श्रीखण्डकुसुमादिभिः ॥६॥ सानुजः सचिवखामी, चामीकरमणीमयैः। अलङ्कारैरल* चक्रे, विश्वालङ्कृतिकारिणीः ॥७॥ युग्मम् ॥ अथ तुष्टमना मन्त्री, तुष्टाव नतविष्टपम् । रोमाञ्चितवपुर्भक्त्या, श्रीनेमि रचिताञ्जलिः॥ PSI कल्पद्रुमस्तरुरसौ तरवस्तथान्ये, चिन्तामणिमणिरसौ मणयस्तथान्ये । धिग्जातिमेव ददृशे बत यत्र नेमिः, श्रीरवतेशदिवसो
दिवसास्तथान्ये ॥९॥ अभङ्गवैराग्यतरङ्गपूर्णे, हृदि त्वदीये यदुवंशरत्न । कथं कृशाङ्गयोऽपि हि मान्तु हन्त, यस्मादनकोऽपि पदं न लेमे ॥१०॥ ततो गणभृतः सर्वान् , सार्वशासनभास्वतः । ववन्दे विधिवन्मन्त्री, दोषाश्लेषितमोभिदः॥११॥ धर्माशिष ददुस्तस्मै, श्रीनागेन्द्रगणाधिपाः। श्रीमद्विजयसेनाह्वाः, सूरयो गुणभूरयः ॥१२॥ यथा-यत्र श्रीसङ्घभक्तिस्त्रिभुवनतिलके तीर्थनाथे सपर्या, | यस्मिन् सत्पात्रदानं नयविनयगुणाः प्रत्यनीके निषेधः । यत्र प्रीतिः प्रकृष्टा गुणिषु गुणकरः सर्वलोकोपकारः, श्लाघ्यं सङ्घाधिपत्वं प्रणयिजनसमा ह्रादि धात्र्यां तदेव ॥१३॥ ततोऽसौ बन्धुभिः सार्ध, निविष्टो रङ्गमण्डपे । आहूय मार्गणान् त्रेतारीत्या दातुं प्रचक्रमे ॥१४॥ यथायोगं स्तुवन्तिस्म, तं कवीन्द्रसुरद्रुमम् । सृजन्तः सद्गुणश्रेणिकीर्तनं कवयो यथा॥१५॥श्रीमद्रैवतभूधरस्य व्रजतां पद्या दुरारोहणां, दृष्ट्वा शिष्टजनाग्रणीयंरचयन्नव्या सुखारोहणाम् । क्षैः प्राक् शिवसौधसेतुसदृशीं नेत्रपिसङ्ख्यैः क्षणात् , स श्रीजैनमतांशुमान् विजयतां श्रीवाग्भटो मन्त्रिराट् ॥१६॥
॥९८॥
Page #211
--------------------------------------------------------------------------
________________
यो मासद्वितयोपवासमुदितः श्रीअम्बिकादेशतो, गला हैमबलानके मणिमयीं श्रीनेममूर्ति पराम् । आमीयात्र नरायणेन रचिते चैत्ये पुरातिष्ठिपत् , श्रीब्रह्मेन्द्रविनिर्मितां स जयतात् श्रीरत्ननामार्हतः ॥१७॥ श्रीसिद्धेशनृपानियोगिपदवीमासाद्य प्रौढिपदां, सौराष्ट्रायपदं विदम्भहृदयः सर्व व्ययित्वा नवम् । श्रीनेमीश्वरमन्दिरं व्यरचयत् श्रीरवतोर्वीधरे, दिव्याश्मप्रकरैरसौ विजयतां श्रीसज्जनो मत्रिराट् ॥१८॥ पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, खच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः। वाग्देवीमुखजातसूक्तविशदोद्दारादपि प्राञ्जलाः, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः॥१९॥ वस्तुपाल! तव पर्वशर्वरीगवितेन्दुकरजित्वरं | यशः । क्षीरनीरनिधिवाससः क्षितेरुत्तरीयतुलनां विगाहते ॥२०॥ इत्यादिस्तुतिमाकर्ण्य, सकर्णः कर्णभूपवत् । कवीश्वरान् व्यधादेष, तत्र पूर्णमनोरथान् ॥२१॥ यतः-कुर्वन् सर्वजनाग्रणीगुणवतां ख्यातोऽश्वराजात्मभूः, श्रीनेमेर्जगदीश्वरस्य पुरतो माङ्गल्यदीपं तदा। | अईन्मार्गणमण्डलाय रचितस्तोत्राय गोत्रोत्तमे, प्रीतो रैवतपर्वते किल ददौ लक्षांश्चतुर्विंशतिम् ॥२२॥ दददानं गिरावत्र मत्रिराजानुजस्तदा । दानी न गणयामास, लक्षकोटिधनव्ययम् ॥२३॥
गिरावत्र ववर्ष श्रीजैत्रसिंहोऽपि हर्षतः। यथा हेमाम्बुदख्याति, लेमे कविवरार्पिताम् ॥२४॥ परिधापनिका रत्नैः, श्रीरत्नः श्रावको ददौ । श्रीनेमिमन्दिरद्वारे, शिवद्वारैकदीपिकाम् ॥२५॥ भीमः सीमातिगैः पुण्यकार्यैरार्यजनोचितैः। साश्चर्य निर्ममे मत्रि| राजं सौवर्णिकाग्रणीः ॥२६॥ दानलीलायितं श्रुत्वा, ललितायास्तदा किल । शच्यपि स्पृहयामास, मत्रिराजगृहस्थितिम ॥२७॥ * पात्रदानजिनेन्द्रार्चा-प्रौढोद्यापनकर्मभिः । बभूवानुपमादेवी, तसिन्नन्वर्थनामयुग् ॥२८॥ सर्वोपचारैविंशदप्रकारेजिनेन्द्रपूजां रचयन् |
विवेकी । आसाद्य सर्वाङ्गसुखाधिपत्यं, मोक्षस्य सौख्यं लभते क्रमेण ॥२९॥ इत्यन्यैरपि सङ्घशैरनघान्तरभक्तिभिः। सर्वप्रकारैर
Page #212
--------------------------------------------------------------------------
________________
पष्टः प्रस्तावः।
श्रीवस्तुपाल
भ्यर्च्य, श्रीनेमि जगदीश्वरम् ॥३०॥ सर्वातिशान्तये चक्रे, तत्र नीराजनोत्सवः । मङ्गलार्थ पुनर्दीपः, प्रदीपो मङ्गलाह्वयः॥३१॥ चरितम् । युग्मम् ॥ दानैरानन्द्यबन्दिव्रजमसृजदनिर्वारमाहारदानं, मानैः सन्मान्य साधूनपुषदथ सुखं मुक्तिकान्तामनोज्ञम् (मुखोद्धाटकर्मादि
| कानि)। मत्री सत्कृत्य देवार्चनरचनपरानर्चयित्वायमुच्चैरम्बाप्रद्युम्नशाम्बानिति कृतसुकृतः पर्वतादुत्ततार ॥३२॥ अथ शत्रुञ्जये तीर्थे ॥१९॥
पुण्यकृत्यानि यानि सः। सुरासुरनरश्रेणेः, श्लाघनीयान्यकारयत् ॥३३॥ तानि सर्वाणि संक्षेपात् , कीर्तयामि यथाश्रुतम् । यतो भवे
महत्पुण्यं, परपुण्यानुमोदनात् ॥३४॥ यतः-कर्तुः खयं कारयतः परेण, तुष्टेन चित्तेन तथानुमन्तुः। साहाय्यदातुश्च परस्य जन्तो-| lal स्तुल्यं फलं तत्त्वविदो वदन्ति ॥३५॥ शत्रुञ्जयगिरौ पूर्वमिन्द्रमण्डपसंज्ञितम् । असौ कलितिरस्कारः, कारयामास कीर्तनम् ॥३६॥
तत्राम्बिकावलोकनशाम्बप्रद्युम्नसानुभिः । सह रैवततीर्थेन्दोरसौ चैत्यमसूत्रयत ॥३७॥ स्तम्भनकतीर्थनायकचैत्ये तत्रैव कारितेऽकापीत् । निजनायकनिजदयितानिजगुरुनिजबन्धुनिजमूर्तीः ॥३८॥ तत्रान्वितं श्रीजयतल्लदेव्या, श्रीवीरभूपालमसौ निजेशम् । शची| सखं शक्रमिव द्विपेन्द्राधिरूढमूर्ति रचयाञ्चकार ।॥३९॥ आत्मानमात्मानुजमप्यजस्रं, विश्राणितश्रीविदुषामिहासौ । आरासनीयाश्म| मयाश्वपृष्ठ-प्रतिष्ठमूर्तीर्घटयाश्चकार ॥४०॥ | . तत्रैव मत्रिसुत्रामा, स कायोत्सर्गिणौ जिनौ । ऊर्द्धन्दमौ जगद्रक्षायामिकाविव निर्ममे ॥४१॥ दृष्ट्वा जिनेन्द्रमजितं जितशत्रु
जातं, श्रीशान्तिनाथममलं जितशत्रुजातम् । कर्पूरपूरघटितं घटितान्तरायं, तस्मिन् सविस्मयमनाः समभृन्न कस्तु ॥४२॥ शातकुम्भम-5 | यान् कुम्भान् , पञ्च तत्र न्यवेशयत् । पञ्चधाभोगसौख्यश्रीनिधानकलशानिव ॥४३॥ तत्रैव मण्डपे सप्ताहद्देवकुलिकानि सः। स-| सापि दुर्गतीर्जित्वा, जयस्तम्भानरोपयत् ॥४४॥ प्रत्यग्द्वारगतं चन्द्र-कलासितशिलाशतैः। तत्रेन्द्रमण्डपे मत्री, तोरणं स व्यरीर-1
॥१९॥
Page #213
--------------------------------------------------------------------------
________________
888888888888888888888888884
चत् ॥ ४५ ॥ तथा - कस्त्वं भोः कष्टमुचैः परिचितमपि मां वत्स नो वेत्सि धर्मं, दृष्टे हृष्टोऽसि नैवं कलिदलितरुचिः सत्यमाकर्ण्यतां | तत् । ध्वस्तः शत्रुः कलिर्मे रचितमुपचितं वस्तुपालेन तेजो, यात्रामासूत्र्य शत्रुञ्जयशिरसि कृतो मण्डपश्चोत्सवाय ||४६ ॥ चक्रे कल्पतरुः करे विरचितश्चिन्तामणिर्मानसे, नीता कामगवीपदं निजगवी स्वेनैव दधे निधिः । तेने मन्दिरमिन्दिरामयमयं धर्मोऽधमर्णीकृतस्तेनाखण्डलमण्डपं प्रथयता तीर्थश्रियो मण्डनम् ||४७|| अस्मिन्निन्द्रविमानचामरसितच्छत्रादिसम्पन्मयं, गीतस्फीतमवार्य तूर्यरसितं सोल्लासहल्लीसकम् । वीक्ष्य स्वर्गिसमानमानवनवस्त्रात्रक्रमोपक्रमम्, धत्ते मन्त्रिनिमन्त्रितः क्षणमिव द्वैराज्यशङ्कां हरिः ॥ ॥४८॥ तत्रादिनाथतीर्थेन्दोरसौ चैत्यपुरो भुवि । प्रतोलीं कारयांचक्रे, सह प्राकारबाहया ॥ ४९ ॥ मुधाकृतसुधाकुण्डं, कुण्डं गजपदा| भिधम् । सूत्रयामास मन्त्रीन्द्रस्तत्र स्नात्रकृतेऽर्हताम् ॥५०॥ सौवर्णदण्डयुग्मं च प्रासादद्वितये न्यधात् । श्रीकीर्त्तिकन्दयोरुद्यन्नूतना| रसोदरम् ||५१|| कुन्देन्दुसोदरग्रावपावनं तोरणद्वयम् । इहैव श्रीसरस्वत्योः, प्रवेशायेव निर्ममे || ५२|| अङ्कपालितकं ग्राममिह पूजाकृते कृती । श्रीवीरधवलक्ष्मापाद्दापयामास शासने ॥ ५३ ॥ स्वज्येष्ठयोलूणीगमल्लदेवयोर्मूर्त्ती पृथग्मण्डपिकाहयस्थे । स कारयामास युगादिदेवतागृहप्रवेशाध्वनि वामदक्षिणे || ५४॥ द्वारि युगादिजिनेन्दोस्तोरणमारासनीयमतिविशदम् । व्यरचयदयमिह सुमहत् पद्यामिव शिवपदारोहे ॥ ५५ ॥ जगत्रितय सौन्दर्य श्रीविलोकनदर्पणम् । त्रिलक्षतोरणं नाम्ना, गीयते यत्सुरैरपि ॥५६॥ यत्र पाञ्चालिकाव्याजात्तस्थुर्देवाङ्गना अपि । सङ्घाधिराजसौभाग्यसम्पदः किं दिदृक्षया || ५७|| उद्योषवतीहस्ता, यदासाद्य सुराङ्गनाः । सानन्दास्तीर्थमाहात्म्यं, गायन्तीव दिवानिशम् ||५८ || अभितोरणमुत्तुङ्गमत्तवारणमण्डिताम् । जगतीं रचयामास, सेनामिव निजामयम् ॥ ५९ ॥ तत्रादिनाथस्य पुरः प्रशस्तिचतुष्किकायुग्ममसावकार्षीत् । विलोकयन्त्या इव तोरणं तचैत्यश्रियो नेत्रयुगं चकास्ति ।
483% 483%883% 483*%*€3% 488**
Page #214
--------------------------------------------------------------------------
________________
षष्ठः प्रस्तावः।
श्रीवस्तुपाला
Natl६०॥ तत्रादिनाथधानो, बलानकमण्डपे सतां विशताम् । दक्षिणपक्षे ललितादेव्याः पुण्याय निजसर्मिण्याः॥६१॥ सत्यपुराढू चरितम् ।
| तीर्थ, वीरसनाथमकृत सुकृती सः। नानाजिनबिम्बावलिविराजितं मण्डपैः सहितम्(ब्रह्मशान्तियुतम् ) ॥६२॥ युग्मम् ॥ तत्रैव वाम
पक्षे, सौख्यलतानामधेयधन्यायाः । अपरस्याः प्रेयस्याः , श्रेयोऽर्थमनर्थदलनसहम् ॥६।। अश्वावबोधतीर्थ, मुनिसुव्रततीर्थना॥१०॥
यकसनाथम् । समवसरणाश्वशकुनीवटमुनियुग्मृगयुमृत्तियुतम् ॥६४॥ जितपत्रुशिलामेपक्षितिपतिवणिजां सुदर्शनादेव्याः। खस्य |च सौख्यलतायाः, सह मूर्तिभिरातनोदेषः ॥६५।। त्रिभिर्विशेषकम् ॥ तत्पुरतः प्रपितामहचन्द्र(प्रचण्ड)प्रसादपुण्याय । विजयी सोजितसम्भवजिनयुगलं कारयामास ॥६६॥ ललितादेव्याः स्वस्य च, श्रेयोऽर्थ देवकुलिकायुगलम् । तत्रैव सचिवोऽकारयदुदङ्मुखं स्फटिकद्वारयुतम् (ललितादेव्याः स्वस्य च मन्त्र्योस्तत्रैव मण्डपे मन्त्री । देवकुलिकामकारयदुदङ्मुखीं स्फाटिकद्वाराम् ॥७१॥
चतस्रश्च चतस्रश्च, दक्षिणोत्तरपत्रयोः। अकारयदसावादिजिनचैत्ये चतुष्किकाः॥६८॥ नाभेयमलचैत्येत्र, काश्चनं कलशं न्यधात् । मरुदेव्या गृहे चापि, हैमदण्डसमन्वितम् ॥६९॥ युगादिदेवायतनेज कुम्भत्रयं त्रयाणामपि मण्डपानाम् । प्रतापसिंहाभिधपौत्रपुण्यकृतेऽकृत स्वर्णमयं कृती सः॥७०॥ शर्केश्वरावतारं, सारं श्रीपार्श्वजिनमृर्त्या । तेजःपालो विदधे, दयितापुण्याय
पुण्याभम् ॥७१॥ तत्रेन्द्रमण्डपासन्न, तेजःपालोऽस्य चानुजः। कीर्तनं विदधे कीर्तिनन्दी नन्दीश्वराभिधम् ॥७२॥ स्वसो*दरीणां सप्तानामपि कल्याणवृद्धये । कुलीनो देवकुलिकास्तदुपान्ते विनिर्ममे ॥७३॥ श्रेयसे देवकुलिकाश्चतस्रस्तत्र कारिताः। तिस्रallथापि यशोराजश्रेष्ठिनः सुहृदोऽमुना ।।७५॥ युग्मम् ।। अनुपममतिरयमनुपमदेव्याः स्वस्यापि पुरुषमानेन । आरासनीयमस्मिन् ,
॥१०॥
Page #215
--------------------------------------------------------------------------
________________
**EDE-SODEXOBESKEDEXEDRE
मूर्त्तियुगं कारयामास || ७६ ॥ व्यधादनुपमप्रियानुपमपुण्य संसिद्धये, सुधीरनुपमा सरस्तदुपकण्ठकुण्डान्तरे । तटेऽस्य जिनपूजनव्य| तिकराय किञ्चिद्धुसद्वनाभिनयनाटिकामकृत वाटिकामप्यसौ ॥७७॥ सरःक्षीरार्णवस्यास्य, तीरेऽत्रैषा वितेनिवान् । वेलाशैलं कप|म्बादेवतालय कैतवात् ॥ ७८ ॥ पद्यबन्धमसौ तत्र, तटाकतिलकोपरि । कपर्द्दियक्षशैलश्रीसीमन्तसदृशं व्यधात् ॥ ७९ ॥ शैलेऽमुत्र | कपर्द्दियक्षभवनं श्रीवस्तुपालः पुनः, पूर्व जर्जरमुद्दधार विदधे वामाग्रतस्तोरणम् । किञ्चैतत्परिधौ चकार जगतीमारासनीयां व्यधाद्, द्वारं गर्भगृहस्य खत्तकमहो तेनैव पार्श्वप्रभोः ॥८०॥ सौवर्णतारघन विद्रुममौक्तिकेन्द्रनीलाश्ममूर्त्तिभिरलङ्कृतमध्यदेशम् । अष्टापदं व्यरचयत्सचिवाधिपोऽत्र, प्रोतुङ्गतोरणमनोहरमद्भुताभम् ॥ ८१ ॥ कषपट्टस्तम्भावनिरुदारसारा विराजते यस्मिन् । सौवर्णराजिरुचिरा, | घनमालेवाचिरायुक्ता ||८२|| अस्ति श्रीवाग्भटप्रपा, शत्रुञ्जय गिरेरधः । तत्र सङ्घतृषावारि, न वारि समभूत्पुरा ||८३|| मत्वैतत्पुरतः पुरस्य ललितादेवीप्रियाश्रेयसे, चक्रेऽसौ ललितासरोऽतिविपुलं श्रीवस्तुपालः कृती | स्फुर्जद्वारिविराजितं गतमलं हंसालिसंशोभितं, यद् | दृष्ट्वा जनमानसे भ्रममहो श्रीमानसस्याभवत् (स्फारद्वारविराजितस्य कुरुते क्रौञ्चाचलस्य भ्रमं भूम्ना तोरणमात्तमानसरुचेर्यस्य प्रवेशावनौ || ) ||८४|| रविशङ्करसावित्रीवीरजिनाम्बाकपर्द्दियक्षाणाम् । धामानि धार्मिकोऽसौ चक्रे ललितासरः सेतौ ॥ ८५ ॥ वस्तुपालगि| रिशंसिता (संज्ञिता) मसावश्मबद्धपृथुकूपबन्धुराम् । आदिनाथजिनपूजनार्थमासूत्रयत्कुसुमवाटिकामिह ॥ ८६ ॥ शत्रुञ्जय महातीर्थघण्टा - पथविभूषणम् । वल्लभ्यामुद्दधारासौ, युगादिजिनमन्दिरम् ||८७|| कूपं तत्र सुधाकुण्डरूपं विस्तृतपङ्कजम् ( चिद्रूपचन्द्रमाः) । प्रपां च पाश्चजन्याभकीर्त्तिः कारितवानयम् ||८८|| वटकूपकमण्डपिकास्थित केन समं चकार सचिवोऽऽयम् । शत्रुञ्जयसाङ्ग्रामं, वालाकं | झुण्डपद्राख्यम् ||८९ || वस्तुपालविहारं स, ग्रामे वीरेज्यनामनि । प्रपासत्रे च विदधे, यात्रिकाणां सुखाय च ॥ ९० ॥ स वीरेज्या
48888888888888888888888888
Page #216
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥१०१॥
*888888888888888X8X88XX838
भिधग्रामसर्वादायं महत्तमम् । श्रीशत्रुञ्जयपूजायै दत्तवान् भक्तिभावितः ॥९१॥ मठानां पञ्चकं तत्र, प्रतोलीवप्रसंश्रितम् । सङ्घो - तारकसौख्याय, व्यधात्सौख्यलतापतिः ||१२|| अन्नदानं परं ख्यातं, दानेषु निखिलेष्वपि । तीर्थभूमौ विशेषेण, सत्फलायोपयु| ज्यते ॥९३॥ इति मत्त्रा व्यधात्तत्र, सत्रागारद्वयीमसौ । नानासद्भोज्यसामग्रीपूरितां दूरितश्रमाम् ॥ ९४ ॥
अन्नदानानि दीयन्ते, यथारुचि सगौरवम् । तीर्थयात्रिकजन्तूनां तीर्थसाराविधायिनाम् ॥ ९५ ॥ धर्मार्थ जनकस्य जैनभवनं पुण्याय मातुः प्रपां पित्रोः पुण्यसमृद्धिहेतुकमथो सत्रं पवित्राशयः । स्वश्रेयःकृतये सरः पुरभिदो देवस्य हर्म्य तथा, पान्थावासकु| टीमथायमकृत ग्रामेङ्कीपालीयके ॥ ९६ ॥ तथा - येनाष्टादशकोटयो निधिपदे पाखण्डसङ्ख्यास्तथा, लक्षाश्चात्र गिरौ सुरासुरनरश्रेणीस| मक्षं कृताः । नानार्हगृहविम्बकीर्त्तनशतान्याधाय धर्मार्थिना, स श्रीमान् सचिवाग्रणीर्विजयतां श्रीवस्तुपालः क्षितौ ॥९७॥ श्रीउजयन्ताचलतीर्थभूमौ सद्धर्मकृत्यानि कृतानि यानि । मत्रिद्वयेनाद्भुतभाग्यभाजा, सङ्क्षेपतस्तान्यधुना ब्रवीमि ॥९८॥
रैवताचलचूलायां, पृष्ठे श्रीनेमिवेश्मनः । शत्रुञ्जयपतेश्चैत्यमात्मश्रेयोऽभिवृद्धये ॥९९॥ मन्त्री वास्तोष्पतेर्वस्तुपालो विध्वस्तक| ल्मषम् | वस्तुपालविहाराख्यमकार्षीदेष कीर्त्तनम् || ७०० ॥ चञ्चत्काञ्चनकान्तकुम्भकलितं प्रेङ्खत्पताकान्वितं कैलाशाचलसोदरं दिविषदामप्यद्भुतस्यास्पदम् । प्रासादं नयनातिथिं विरचयन् श्रीमद्युगादिप्रभोरानन्दं हृदये बभार परमं कस्को मनस्वी न हि ॥ १ ॥ मूर्त्तिः कार्तिकसोममण्डलदलान्यादाय किं निर्मिता, किं वा दुग्धपयोधिमध्यलहरीसारैरुदारैः प्रभोः । दृष्टा दृष्टिमहोत्सबैकजननी श्रीनाभिभूमिभृतः पुत्रस्यातिपवित्रकान्तिकलिता दत्ते विकल्पानिति ॥२॥ निजपूर्वजश्रेयोऽर्थ, मन्त्री तत्र न्यधात्स्वयम् । बिम्बरूपं स्वयं भक्त्याऽजितेशं वासुपूज्यकम् (निजपूर्वजयोश्चन्द्रचण्डप्रासादाख्ययोः सुकृताय । तत्कमलीभित्तियुगेऽतिष्ठिपद जितं च वासुपूज्यं
88088888888888888888884632
षष्ठः प्रस्तावः ।
॥१०१॥
Page #217
--------------------------------------------------------------------------
________________
*%88% %88% 488888888®®**$***8
1
च || ) ||३|| तन्मण्डपे चण्डपसंज्ञितस्य, महत्प्रमाणप्रमितां विधाय । मूर्त्तिं तथा वीरजिनेन्द्र विश्वमथाम्बिका मूर्त्तिमसावकार्षीत् ||४|| तत्र गर्भगृहद्वारदक्षिणोत्तरपक्षयोः । स्वं च स्वमनुजं चैष, गजारूढमतिष्ठिपत् ||५|| ललिता देवीश्रेयः कृते च तस्यैष पक्षके वामे । पूर्वजमूर्त्तिसमेतं, सम्मेतं कारयामास || ६ || सौख्यलतासुकृतायाष्टापदमथ तस्य दक्षिणे भागे । निजजनीनिजभगिनीमूर्त्तियुतं निर्ममे | सैषः ||७|| प्रासादत्रितयस्यास्य, जगत्रितयचित्रकृत् । तोरणत्रितयं चक्रे, स विद्यात्रितयाश्रयः ॥ ८ ॥ वस्तुपालविहारस्य, पृष्ठेऽनुत्तरसन्निभम् । कपर्द्दियक्षायतनमकारयदयं कृती || ९ || मातुर्युगादिदेवस्य मरुदेव्या निकेतने । गजस्थमूर्त्तिं तत्रैव मातुर्भक्तः स तेन - वान् ॥१०॥ तोरणत्रयमातेने, तेनेन्दुविशदाश्मभिः । त्रिद्वारमण्डपद्वारगतं श्रीनेमिवेश्मनि ॥ ११॥ द्वारं यत्किल दक्षिणामनुगतं यच्च प्रतीच्यां स्थितं यत्कौबेरदिगाश्रितं च भवने श्रीनेमिनाथप्रभोः । कामं मण्डयति स्म तानि सचिवोत्तंसः स वैस्तोरणैर्दृष्टिस्तद्विभवं विभाव्य जगतो नान्यत्र विश्राम्यति ||१२|| त्रिके श्रीनेमिचैत्यस्य, दक्षिणोत्तरपक्षयोः । पितुः पितामहस्यापि, मूर्त्ती वाजिस्थिते | व्यधात् ||१३|| स्वपित्रोः श्रेयसे च श्रीनेमिचै त्यत्रिकावनौ । स कायोत्सर्गिणौ चक्रेऽजितशान्तिजिनेश्वरौ ॥१४॥ अर्हत्नात्रकृते दृष्ट्वा सङ्कटं तत्र मण्डपे । इन्द्रमण्डपमातेने, विशालं चण्डपान्वयी ॥ १५॥ यत्र स्नात्रकृतो दृष्ट्वा, नेममूर्त्तिं महाद्भुताम् । भजन्ते कलितानन्दाः, क्षणं ब्रह्मसुखासिकाम् ||१६|| पुण्यवन्त्यो गतातङ्का, नृत्यन्त्यो लीलया पुनः । स्वभर्तृरूपसौभाग्यं, संहरन्ते सुरस्त्रियः ||१७|| मुनयो विनयोद्युक्ता, वन्दमाना जिनावली: । भवकोटिकृतं पापं, प्रणितन्ति प्रणेमुषः ॥ १८ ॥ युग्मम् ॥ एतत्तीर्थो - पमं तीर्थ, वर्तते न जगत्रये । स्तम्भस्था हस्तमुद्दिश्य, पाञ्चाल्यो निगदन्त्यहो ॥ १९ ॥ खवंश्य मूर्त्तिभिः श्रीमान्, नेमिनाथेन चान्वितः । मुखोद्घाटनकस्तम्भो वस्तुपालेन निर्ममे ॥२०॥ आशराजस्य पितुः पितामहस्यापि सोमवंशस्य । मूर्त्तियुगमत्र
*8888888888888888888883***
Page #218
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
****
चरितम् । ॐ
प्रस्तावः।
॥१०२॥
मत्री, व्यधापयत्तुरगपृष्ठस्थम् ॥२१॥ प्रपामठस्य सविधे विदधे जिनानां, तिस्रः स देवकुलिकाः कुलकैरवेन्दुः। वाग्देवताप्रतिमया सहिताः प्रशस्तियुक्ता युताश्च निजपूर्वजमूर्तियुग्मैः ॥२२॥ श्रीनेमिमण्डपे तुङ्गे, कुले च विपुले निजे । कल्याणकलशं दिष्ट्या, स धीमानध्यरोपयत् ॥२३॥ अम्बिकायाश्च सदने, मण्डपोऽनेन कारितः। आरासनीयाहद्देवकुलिका चात्र सूत्रिता ॥२४॥ अम्बिकायाः | | परिकरश्चारुरारासनाश्मना । विशदेन निजेनेव, यशसा तेन कारितः ॥२५॥ तदीयशिखरे नेमि, चण्डपश्रेयसे च यः । मूर्ति रम्यां | तदीयां च, मल्लदेवस्य च व्यधात् ॥२६॥ चण्डप्रसादपुण्यं वर्द्धयितुं योऽवलोकनाशिखरे । स्थापितवान्नेमिजिनं, तन्मृत्ति स्वस्य मृत्ति | च ॥२७॥ प्रद्युम्नशिखरे सोमश्रेयसे नेमिनं जिनम् । सोममूर्ति तथा तेजःपालमृत्तिं च योऽतनोत् ॥२८॥ यः शाम्बशिखरे नेमि, जिनेन्द्र श्रेयसे पितुः । तन्मूर्ति मातृमूर्ति च, कारयामास भक्तितः ॥२९॥ श्रीनेमिनाथभवनं, कल्याणत्रितयसंज्ञया विदितम् । तेजःपालसचिवो, विदधे विमलाश्मभिस्तुङ्गम् ।।३०।। सप्तशत्या चतुःषष्ट्या, हेमगद्याणकैनवम् । तन्मौलौ कलशं प्रौढं, न्यधादेष विशेषवित् ॥३१॥ तत्र नेमीश्वरः स्वामी, त्रिरूपेण स्वयं स्थितः । प्रणतो दुर्गति हन्ति, स्तुतो दत्ते च निवृतिम् ॥३२॥ तत्र श्रीनेमिनाथस्थ, स्नात्रं पञ्चामृतैः सृजन् । प्राणी परभवे प्रौढां, प्राप्नोति पदवीं पराम् ॥३३॥
उपवासत्रयेणात्र, कायोत्सर्गेण तिष्ठतः । स्वरूपं दर्शयेनेमिः, स्थितस्तत्र बलानके ॥३४॥ पयःकुण्डानि सर्वाणि, तत्र मत्रीश्वरो व्यधात् । उदन्यादैन्यमालोक्य, तीर्थयात्रिकदेहिनाम् ॥३५।। अधस्तादुजयन्तस्य, तेजःपालपुरं नवम् । नवहट्टप्रपावापीसचेशगृहशोभितम् ॥३६॥ तेजःपालाभिधस्तस्यावरजो विरजस्तमाः। अमायः सङ्घवात्सल्यसत्रागाराण्यकारयत ॥३७॥ युग्मम् ॥ अत्र श्रीदोपमा लोकाः, सर्वदा करवर्जिताः। वसन्ति सङ्घवात्सल्यकारिणः सुकृतान्विताः॥३८॥ आसाराजविहारसंज्ञितमसौ श्रीपार्श्वचैत्यं पितुः,
॥१०२॥
Page #219
--------------------------------------------------------------------------
________________
|श्रेयोऽर्थ वसतिं च पुष्कलतरामस्यान्तरे तेनिवान् । तद्वाह्ये च कुमारदेवीसर इत्युल्लोलकल्लोलवत , मातुः पुण्यकृते कृती विरचयाचक्रे वि| शालं सरः॥३९॥ मम्माणिखानिनव्येन्दुकान्तिकान्ताश्मनिर्मितम् । श्रीपार्श्वप्रतिमां प्रौढां तत्र चैत्ये न्यधादयम्॥४०॥श्रीपार्श्वनाथपूजा
र्थमुद्यानमतिकोमलम् । असूत्रयदसौ तत्र, मुद्यानमतिकोऽमलम् ॥४१॥ स्वपुरीवामनपुरीप्रान्तरे पान्थदुस्तरे । व्यधाद्वापी, प्रधानापी वस्तुपालानुजस्ततः॥४२॥ वसतिं वामनस्थल्यां, कौमुदं तन्वतीमयम् । सदायामवनीचन्द्रोदयचारुमकारयत् ॥४३॥ कुहेडीत्यभिधग्राममभिरामं द्रुमादिभिः। तपोधनत्रा निर्माय, व्यवस्थापूर्वकं सुधीः॥४४॥ मत्री वस्त्रापथे सङ्घलोकस्य व्रजतो गिरिम् । अमोचयनराधीशशासनाद् दुष्करं करम् ॥४५॥ युग्मम् ।। उपद्वारवतीभृमिगोमतीवाद्धिसङ्गमे श्रीनेमिचैत्यमुत्तुङ्गं, निर्ममे मत्रिपुङ्गवः॥४६॥ शङ्खोद्धाराभिधे द्वीपे, मन्दिरं प्रथमार्हतः। मिथ्याग्बोधिबीजार्थ, विदधे सचिवानुजः॥४७॥ उद्दधार धराधीशस्वान्तसन्तोषहेतवे । शङ्केश्वरगृहं तस्मिन्नाहतोऽप्यश्वराजसूः ॥४८॥ सत्रागारमठश्रेणिसङ्घोत्तारगृहावलीः । रैवताचलचूलायां, व्यधान्मत्रिवराधिपः (रचयामास धीसखः)। | ॥४९॥ अन्नदानं यथाकाममभ्यागतशरीरिणाम् । सत्रागारेषु सर्वेषु, दापयामास तत्र सः॥५०॥ अन्नदानं महातीर्थे, सुपात्रेषु भवेद्यपि । तदा कराम्बुजे प्राप्ताः, स्वयमेव शिवश्रियः ॥५१॥ अभ्यर्च्य देवानिति साधुमण्डलीमाराध्य शुद्धाशनपानकादिभिः । उद्धृत्य दीनानुपकृत्य धार्मिकान् , यो यात्रया प्राप परां पवित्रताम् ॥५२॥ अत्र सङ्ग्रह श्लोकाः-कोटयो द्वादश साधिकाः सुकृतिना लक्ष| स्त्र्यशीत्या गुरुद्रम्माणां जिनबिम्बमन्दिरमठावासादिनिर्माणतः । येन श्रीगिरिनारतीर्थशिखरे कोशीकृताः श्रेयसे, जन्मन्यत्र स | वस्तुपालसचिवः श्लाघास्पदं कस्य न ॥५३॥ गोहिलावलिभूपालै ठद्भिर्भूमिमण्डले । सत्कृतोऽसौ कृतानेकपाभृतेर्भृत्यकैरिव ॥५४॥ अम्बिकाकृतसान्निध्यो, निधानाधिपतिप्रभः । मत्री युतोऽथ सङ्घन, चचाल स्वपुरम्प्रति ॥५५॥ पुरः पुरः पूरयिता पयांसि, घनेन
Page #220
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥१०३॥
BETUBEXHDX-XAREXUDE-DE-DE-TEXE
| सांनिध्यकृता कृतीन्द्रः । स्वकीर्त्तिवद्भव्यनदीददर्श, ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ ॥ ५६ ॥ इति प्रतिज्ञामिव नव्यकीर्त्तिप्रियः प्रया| गैरतिवाक्यवीथीम् । आनन्दनिस्पन्दनिधिर्विधिज्ञः पुरं प्रपेदे धवलक्ककं सः ॥५७॥ समं प्राप्तानन्दाखिलपुरजनैर्वीरधवलप्रभुः प्रत्युद्यातस्तदनु सदनं प्राप समहम् । युतः सङ्खेनासौ जिनपतिमथोत्तार्य रथतस्ततः सङ्घस्याचमशनवसनाद्यैर्व्यरचयत् ||५८|| भटालीव गृहश्रेणिरग्रतोरणशालिनी । बभूव पौरलोकानां तत्प्रवेशोत्सवे तदा ॥ ५९ ॥ वेल्लध्वजाङ्किता रेजुः सर्वेऽपि त्रिदशालयाः । सन्नन्दना इवानन्ददायिनः पृथुलक्षणाः || ६०|| राकाकाश इवोद्दीप्रचन्द्रोद्योतमयोऽभवत् । राजमार्गः समग्रोऽपि सदा नक्षत्रमण्डितः ॥ ६१ ॥ पताका भूषयामासुरापणानि समन्ततः । नभोगस्थितिशालिन्यः कृपणानां यथा श्रियः ॥ ६२ ॥ सुश्रावकजनश्रेणी, प्रीणितार्थिजनावलिः । गङ्गापगेव पुण्यैकपरमोदकतां गता || ६३ || पञ्चभिः कुलकम् । समं समग्रसङ्गेन, ततः सचिवपुङ्गवम् । बन्धुभिः कलितं | सर्वैः, श्रीवीरधवलो नृपः ॥६४॥ आहूय बहुमानेन, स्वबान्धवमिव स्वयम् । पवित्रे धवलागारे, भोजयामास युक्तिभिः ||६५॥ युग्मम् ॥ प्रतिपत्तिं परां दृष्ट्वा, विष्टपेश्वरनिर्मिताम् । भोजनावसरे तत्र, दध्यौ सङ्घः सविस्मयः ||६६ || अहो सङ्घस्य वात्सल्यमहो विनयनम्रता । चौलुक्य नृपतेः कीदृगहो औचित्यचारिता ॥ ६७॥ धन्यमूर्द्धन्य एवायं नृपतिः सुकृतात्मनाम् । प्रथमः परमं बोधिवीजमत्राप्तवान् ध्रुवम् ||६८ || यतः - सङ्घ तित्थयरम्मिय, सरिसूरिसीसेसु गुण महग्घेसु । जेसिं चिय बहुमाणं, तेसिं चित्र दंसणं सुद्धं ॥ ६९ ॥
भोजनानन्तरं भूमान् भूम्नः पुण्यस्य वाञ्च्छया । सङ्घलोकं विवेकेन, प्रपूज्य कुसुमादिभिः ॥ ७० ॥ पट्टकुलादिभिर्वस्त्रैः, सर्वसङ्घेश्वरान्वितम् । सबन्धुं सचिवं ज्यायोगौरवात्पर्यधापयत् ॥७१॥ अथ श्रीवस्तुपालेन, कियान् वः श्रीव्ययोऽभवत् । यात्रायामिति
1808888888888888888888888
षष्ठः प्रस्तावः ।
॥१०३॥
Page #221
--------------------------------------------------------------------------
________________
| सङ्घशाः, पृष्टा हृष्टा जगुर्यथा ॥७२॥ तीर्थद्वयेऽपि मे स्वामिन् , द्रम्मकोटिव्ययोजनि । धर्मार्थ सकलैः कृत्यैरित्यूचे रत्न आहेतः |॥७३॥ समुद्राष्टसहस्राणां, सिद्धाद्रौ रैवते पुनः। लक्षस्यासीद् व्ययो मह्यमिति भीमोऽवदत्तदा ॥७४॥ कृतार्था कोटिरेकासीत्तथा लक्षाणि षोडश । धर्मव्यनेन मे मत्रिन्नाभडसाधुरब्रवीत् ॥७५॥ चत्वारिंशत्सहस्राणि, श्रीशत्रुञ्जयपर्वते । प्रभो! षष्टिसहस्राणि, खते च व्ययो मम ॥७६॥ श्रीदेवपत्तने लक्षव्ययश्च समभृन्मम । आसपालोऽलपत्साधोराभडस्य तनूयः॥७७॥ द्रम्मलक्षव्ययः कस्माद्भद्रासीदेवपत्तने । इत्युक्तो मत्रिराजेन, स पुनःस्माह मुग्धहृद् ॥७८॥ अधीती सर्वशास्त्रेषु, गुरुर्मे ब्राह्मणोऽस्ति यः। स मां वक्ति प्रभा| सेत्र, स्नानदानादितत्परम् ॥७९॥ जैनतीर्थव्ययप्रायश्चित्तार्थ द्रम्मलक्षकम् । प्रक्षाल्य पयसा पूर्व, द्विजेभ्यो यदि दीयते ॥८॥
तदा कारयति स्नानं, विधिना प्रियमेलके । तीर्थे तेनाभवद्भूयान्, व्ययो मे मत्रिपुङ्गव ॥८१।। श्रुखा तस्य गिरं मन्त्री, कर्णक्रकच| सोदराम् । अतीव व्यथितोऽवोचत्तमेवं निष्ठुरोक्तिभिः ॥८२।। अरे दुष्ट दुराचार, कृतित्रातबहिष्कृत । वृथैव भवताऽपाति, निजात्मा * | भवसागरे ॥८३।। शत्रुञ्जयोज्जयन्ताद्रितुल्यं तीर्थ जगत्त्रये । स्वपरागमविख्यातं, नास्ति पापमलापहम् ।।८४॥ यतः-अष्टषष्टिषु तीर्थेषु, यात्रया यत्फलं भवेत् । आदिनाथस्य देवस्य, स्मरणेनापि तद्भवेत् ॥८५|| नमस्कारसमो मत्रः, शत्रुञ्जयसमो | गिरिः । गजेन्द्रपदर्ज नीरं, निर्द्वन्द्वं भुवनत्रये ॥८६॥ पिता तवाधुना सङ्घसर्वभारधुरन्धरः । सुश्रावकशिरोरत्नं, द्रम्मकोटिव्ययं | | व्यधात् ।।८७॥
भवानस्यात्मजो भूत्वा, यात्रां कृत्वापि तीर्थयोः । एवंविधमहापापं, कुरुते कुगुरूक्तितः ॥८८॥ अन्धः कूपे पतत्यन्धे, यथा- * न्धकारसंश्रितः । एवं कुगुरुमूढात्मा, भवकूपेऽपतद्भवान् ॥८९॥ मया तु लोककृत्यानि, क्रियन्ते यत् क्वचित् क्वचित् । चौलुक्येश
Page #222
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
*8888888888888888888% 2888
| मनःप्रीत्यै, स्वधर्मस्थिरताकृते ॥९०॥ तं द्विजातिमथाहूय, निर्धर्माणां निदर्शनम् । संतर्ज्य परुषैर्वाक्यैः सोऽब्रवीत्पुरुषोत्तमः ॥ ९१ ॥ आसपालस्य रे विप्र ! प्रायश्चित्ते गुरुर्भवान् । द्रम्मलक्षगृहीता च, लोभक्षोभान्धलोऽभवत् ॥९२॥ सगुरुं यजमानं च दण्डयाम्यधुना यदि । तदा मे जायते लोकेऽवर्णवादविपर्ययः ॥ ९३ ॥ ब्राह्मणोऽपि परं धत्से, लोकद्वयविरुद्धताम् । यत्प्रतार्य जनं मुग्धं, क्षिपस्यंधे भवा
॥१०४॥ वटे ॥९४॥ अतः परमपक्तेिय, आसपालो दुराशयः । गुरुणापि त्वया दृष्टौ नागन्तव्यं कदापि मे ॥ ९५ ॥ यः प्रदास्यति मूढात्मा, प्रायश्चित्तमतः परम् । प्रभासप्लवने शत्रुञ्जयादिव्ययशोधनम् ॥ ९६ ॥ कर्तव्योऽयमपाङ्क्तेयः, सर्वत्रापि द्विजादिभिः । तत्र विप्रादि| भिर्मन्त्री, व्यवस्थामित्यकारयत् ॥ ९७॥ युग्मम् || आसपालं क्रमान्मन्त्री, तदीयजनकाग्रहात् । द्रम्मलक्षव्ययाजैनमते पङ्कौ न्यवेशयत् ॥ ९८|| सम्प्रेष्य निखिलं सङ्घम्, यथास्थानं सगौरवम् । न्यक्षेणाभ्यर्च्य वासोभिः स श्रीखण्डसुमादिभिः ॥ ९९ ॥ राजव|र्गान्वितं वीरधवलं निजवेश्मनि । सम्भोज्य स्वादुभिर्भोज्यैर्ज्यायोभक्तिपुरस्सरम् ||८०० || पूजयित्वा नवाङ्गेषु, रत्नैर्नवभिरद्भुतैः । शङ्खं प्रदक्षिणावर्त, प्राप्तं वारांनिधेः पुरा ॥ १ ॥ मत्रीशः प्राभृतीकृत्य, वाजिराजिं महखिनीम् । भृशं सन्तोपयामास, वस्त्राद्यैः सपरिच्छदम् ||२|| तीर्थयात्रामिपाद्येन, कुर्वता दिग्जयोत्सवम् । पराभवो विपक्षस्य, बलिनोऽपि कलेः कृतः ||३|| पुण्डरीकोजयन्ताद्रितीर्थवन्दनवासरे । शत्रुञ्जयावताराख्ये, चैत्ये धवलकमण्डने ||४|| उज्जयन्तावतारे च, मजनोत्सवपूर्वकम् । उपवासं स्वयं कुर्वन्, सानुजः शीलवानयम् ||५|| वर्षमेकं व्यधात्सङ्घवात्सल्यं पारणाहनि । पवित्रवस्तुदानेन, मुनीनामचनं तथा ||६||
एवं तीर्थयुगादिवन्दनविधिं सम्यक् सृजन्नात्मना, तीर्थालोकदिने सहर्षहृदयः कृत्वाभिषेकोत्सवम् । तचैत्यद्वितये महाध्वजमसौ चैत्येषु सर्वेष्वदाच्चक्रे चार्हतसन्ततेर्गणभृतामप्यर्चनं विस्तरात् ||७||
黑丸粉杯凍3¥88米彩彩果米88米米粉条
षष्ठः
प्रस्तावः ।
॥१०४॥
Page #223
--------------------------------------------------------------------------
________________
0000RA
gesse-N-00-00-00-00-00-00-00-00-00-00-00-NORNSESEN-INFORMERSTOONRENDERAROSARORARENDRDERED इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि
श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षा के षष्ठः प्रस्तावः ॥ Sese-srasRORRENESS-8-88-00-00-00-00-00-00-34-30-00-00-00 0000-00-00-00-0000--30-04-RE-Re-se-10-80--DERess
अथ सप्तमः प्रस्तावः। अथ प्रातः समाधाय, शौचाचारं स्वसंसदि । सिंहासनमलङ्कत्य, निविष्टं नृपलीलया ॥१॥ सेव्यमानं महीपालैर्मन्त्रिभ्यां पार्श्वयोवृतम् । चरा विज्ञपयामासुः, श्रीचौलुक्यनरेश्वरम् ॥२॥ युग्मम् ॥ उत्तरस्यां दिशि ख्याता, सङ्ख्यातिगगुणास्पदम । समस्तसम्पदा धाम, नामतो योगिनीपुरी ॥३॥ नदीनाः पुण्यलावण्यगभीरा धीवरप्रियाः । समुद्राः पुरुषाः सर्वे, जनका यत्र सम्पदः ॥४॥ मोजदीनः क्षितीशोऽस्ति, नदीन इव दुस्तरः । भूयःसत्त्वाश्रयः श्रीमान् , वाहिनीभिवृतोऽभितः ॥५॥ जवनैर्वाजिभिया॑यान, यवनाग्रेसरेश्वरः। निजजातिस्वभावेन, दुर्नयानां परोऽवधिः ॥६॥ युग्मम् ॥ मार्गणा अर्जुनस्येव, सुभटा यस्य कोटिशः। आस्तृणन्ति रणक्षोणी. क्षणादपि जवाधिकाः ॥७॥ सेनया सेनया यस्य, रणवस्ता द्विपद्गणाः। कृपयेव विमुच्यन्ते, जीवन्तस्तृणभक्षणात पाय
दीयवाहिनीवाहैः, प्रवाहैरिव वारिधेः। चलाचलैरियं स्वामिन्नचला प्लाव्यतेऽभितः ॥९॥ वेगवान् पृतनापूरः, शूरभपव्रजोल्बणः । * तदादेशादिहागच्छन्नस्ति गुर्जरभूमिकाम् ॥१०॥ चरवाचो निशम्यैवं, भूपतिश्चिन्तयान्वितः । श्रीवस्तुपालमन्त्रीशं, कान्दिशीकोऽवदमतदा ॥११॥ दिल्लीपुरनरेशस्य, सैन्यं दैन्यदयोज्झितम् । आगच्छत्स्वचरैः ख्यातं, निजदेशोपरि द्रुतम् ॥१२॥ प्रवाहमिव जाहव्या, Hel
Page #224
--------------------------------------------------------------------------
________________
सप्तमः प्रस्तावः।
श्रीवस्तुपाल अस्य वेगं घनोल्बणम् । धत्तुं धरातले कोऽपि, न हीष्टे विष्टपाधिपः॥१३॥ सिद्धविद्याग्रणीगर्दभिल्लो यवनकुञ्जरैः । समूलमुदमूलि. चरितम् । द्राग्, सरिद्रुम इवोन्मदैः॥१४॥ सूर्यमण्डलनिर्गच्छदुच्चैस्तरतुरङ्गमम् । आरुह्यासह्यतेजा यो, वाजिकेलिमशीलयत् ॥१५॥ सोऽपि
भूपावलीसेव्यः, शिलादित्यो नरेश्वरः । उदच्छेदि यवस्तम्बवजवाद्यवनवजैः ॥१६॥ युग्मम् ॥ योजनानां शतान्युया, सप्त सप्ताश्व॥१०५॥
| तेजसः । यस्याज्ञा राजहंसीव, लीलामाकलयत्यहो ॥१७॥ राजा जयन्तचन्द्रोऽसौ, चन्द्रोज्ज्वलयशाः पुनः । असुरैराशुगैः क्षिप्रं, | क्षयं नीतः क्षणादपि ॥१८॥ युग्मम् ।। निबद्ध्य विंशतिवारान् , धर्मद्वारा मुमोच यः । सहाबुदीननामानं, सुरत्राणं रणाङ्गणे ॥१९॥ | पृथ्वीराजोऽप्यसौ तेन, क्षत्राचारवतां धुरि। विख्यातो रावणेनेव, बबन्धे कार्तवीर्यवत् ॥२०॥ युग्मम् ॥ ततोऽतिदुर्जया एते, देव
रपि दुराशयाः । मन्त्रिन्! किमत्र कर्तव्यमुपायं वद धीनिधे ! ॥२१॥ अथावदन्महामन्त्री, नात्र चिन्ता विधीयताम् । मयाप्यमी * विजेष्यन्ते, तवादेशप्रभावतः ॥२२॥ सप्रसादं नृपादेश, प्राप्यासौ वीरकेसरी । चतुरङ्गचमभारात्कम्पयन् काश्यपी ततः॥२३॥
पदे पदे ददद्दान, शकुनर्जयवादिभिः । अचलञ्जययात्रार्थ, दनुजोपरि साहसी ॥२४॥ रणकण्डूलदोर्दण्डत्रासितानेकशत्रवः। भूपाः सामन्तपालाद्यास्तस्यासन् सहगामिनः ॥२५॥ ततो ब्रजन् प्रजातकप्रतिकर्ता सतां मतः । श्रेयोर्थी श्रेयसां मूलं, स श्रीपार्श्वजिने |श्वरम् ॥२६॥ साक्षानागेन्द्रसंसेव्यं, सेवकाभीष्टदायकम् । पुरं सेरीसकं प्राप्य, पुपूज प्रौढपूजया।।२७।। युग्मम् ॥ तच्चत्ये काञ्चनं
कुम्भ, न्यधान्मन्त्री कृतोत्सवम् । चतुष्किकाचतुष्कं च, धर्मशाला पुनर्व्यधात् ॥२८॥ मन्त्री तत्र जिनाधीशपूजार्थ वाटिकां नवाम् ।। ok वापीप्रपायुतं सत्रागारं च विदधे सुधीः ॥२९॥ धर्मार्थ तत्र निर्माय, द्रम्मलक्षव्ययं पुरम् । मन्त्री पत्तनमायासीदुच्छ्रितध्वजभूषि
| तम् ॥३०॥ तत्र भाग्यभराकृष्टा, निशि निद्रामुपेयुषम् । इत्याख्यत्वममध्ये तं, देवी महणलाभिधा ॥३१॥ चिन्तां मा त्वं कृथा
॥१०५॥
Page #225
--------------------------------------------------------------------------
________________
वत्स !, दानवेन्द्रचमद्भवाम् । भाग्य जागर्ति चौलुक्यभभुजो भवतोऽपि च ॥३२॥ यवना वेगवत्तुङ्गतुरगैः शीघ्रगामिनः । अर्बुदाचलमार्गेण, प्रवेक्ष्यन्ति क्षितिं मम(तिहः) ॥३३॥ तत्सेनालचितास्तत्र, घट्टिका दुर्गमास्वया । रोधनीया नृपैः सर्वा, वीरप्रष्ठैः प्रयनतः॥३४॥ स्कन्धावारे यदा वासस्वीकारव्याकुला अमी। निःशङ्का कुर्वते सर्वेऽप्यन्नापाकादिकाः क्रियाः॥३५॥ तदा युद्धाय | संरम्भो, विधेयो धीमता बया । सर्वाभिसारतोऽकस्मानासीरस्थितिशालिना ॥३६॥ ममानुभावतो मन्त्रिन् !, जयश्रीस्वत्कराम्बुजे । लीलया राजहंसीव, निवासं द्राक् करिष्यति ॥३७॥ एवं देवतयादिष्टमधिगत्य झगित्यसौ । प्रतिबुद्धः समुत्तस्थौ, पल्यङ्कान्मङ्गलखनैः ॥३८॥ विधायावश्यकाचारं, समभ्यर्च्य जगद्गुरुम् । अचलत्प्रवलोत्साहस्ततोऽर्बुदगिरि प्रति ॥३९॥ प्रभुं प्रह्लादनागारे, प्राप्य || प्रह्लादनं पुरम् । प्रह्लादी परया भक्त्या, श्रीवामेयं ननाम सः॥४०॥ हैमकुम्भत्रयं तत्र, निवेश्य जिनवेश्मनि । अतिष्ठिपद् बृहद्विम्बं, श्रीनेमे मखत्तके ॥४१॥ उद्दधार पुनमन्त्री, तबलानकमण्डपम् । पूगीफलापणश्रेणिदायं पूजार्थमार्पयत् ॥४२॥ धारावर्षनरेन्द्रेण, गिरीन्द्रैश्वर्यशालिना। प्रत्युद्यातस्ततः प्रापत , पुरी चन्द्रावतीमसौ ॥४३॥ प्राभृतैः प्रीणयामास, तमवंदगिरीश्वरः। म्लेच्छसैन्यागमोदन्तं, सोऽपि तस्मै न्यवेदयत् ॥४४॥ अथासुरवलं घोरं, कल्पान्तार्णवदुस्तरम् । अन्धीकुर्वदिशाः सर्वा, रजोभिर्गगनोच्छ्रितः॥ ॥४५॥ अनुपर्वतमायात, चरैर्जाखा स सैन्ययुग् । तत्रत्यभूभुजा साकमगमत्सम्मुख रयात् ॥४६॥
देव्यादिष्टविधानेन, विदधे युद्ध मुद्धतैः । स वीरो दानवैः साकं, पाकशासनविक्रमः ॥४७॥ धारावर्षनृपः पृष्ठौ, मुखे च सचि*वेश्वरः। निर्दयं निघ्नतः शाखिसेनां भीमार्जुनाविव ॥४८॥ चिरं चक्रन्द सा सेना, बालेव मृगलोचना । मन्त्रिणा सनरेन्द्रेण, पीड्य
माना महौजसा ॥४९॥ तुरुष्काः कुर्वते तोबां, तदा बुम्बारवान्विताम् । वराका बदनाम्भोजे, सृजन्तोऽङ्गुलिमात्मनाम् ॥५०॥ वीराणां
Page #226
--------------------------------------------------------------------------
________________
श्रावस्तुपाल चरितम् ।
॥१०६॥
पादयोः केचित् , पतन्ति ब्रीडयोज्झिताः । अर्पयन्ति निजाखाणि, वखाण्यपि परे पुनः॥५१॥ वीरवर्गकबन्धाली, नन पतिता भुवि । खर्गनारीमुखाम्भोजामोदेन मुदिता किल ॥५२॥ काचिद्वीरवधुः सौवप्राणनाथाननाम्बुजम् । चुचुम्ब लुठितं भूमौ, मूर्छ
सप्तमः
प्रस्तावः। * माना मुहुर्मुहुः ॥५३॥ भर्तुः कबन्धमाधाय, निजोत्सङ्गेऽथ रागतः। अगायतावदातालीः, कापि नारी पतिव्रता ॥५४॥ स्वस्वामिवदने ।
काचिन्मोहमूढा वराङ्गना । करम्भं दाधिकं शीतं, पतितेऽपि न्यचिक्षिपत् ॥५५॥ क्रमौ ममर्द भक्क्या स्वभर्तुरुया निपेतुषः । मृदुना पाणिपझेन, सान्वयन्तीव काप्यहो॥५६॥ विमुखं खपति प्रेक्ष्य, रणक्षोण्या मृगेक्षणा । कटाक्षैः क्षेपयामास, काचित्तीक्ष्ण रुषारुणा ॥५७॥ आयसैराशुगैः काचित्सुभटी यवनाङ्गना । ववर्ष द्वेषिवीराणामुपरि प्रेतवेष्टिता ॥५८॥ कर्पूरवासितं वारि शीतलं शीलशालिनी। अपीप्यत्स्वप्रियं काचिद्विषमे यदियं सखा ॥५९॥ सङ्ग्रामप्राङ्गणे वीक्ष्य, लक्षशो वीरशाखिनः। विरराम रणादेष, | | पुण्यकारुण्यपूरितः॥६०॥ आजिक्षोणिं परित्यज्य, हतशेषैस्तु शाखिभिः । मुष्टिमध्ये समाधाय, प्राणानाशु प्रणेशिरे ॥६१॥ ततो
देवीप्रसादेन, पाणौ कृखा जयश्रियम् । वाजिवर्मायुधान्येष, शतशोऽपि तदा ददौ ॥६२॥ अमानैः प्रसरन्मानैर्दानैरानन्द्य नीतिवित् । परमारनराधीशं, सखायं रणकर्मणि ॥६३॥ वाद्यमानधनातोद्यनादत्रासितशात्रवम् । तोरणध्वजसंशोभि, स प्रापत्पत्तनं पुरम् ॥६४॥ युग्मम् ।। सुसौरभभृतः पौराः, प्रौढप्राभृतपाणयः। प्रणेमुस्तं मुदागत्य, सत्कृत्येषु सतां गुरुम् ॥६५॥
तत्र पञ्चासरावानं, चैत्यमुद्धृत्य मूलतः । नवीनं विदधे मन्त्री, हेमकुम्भविभूषितम् ॥६६॥ आसराजविहाराख्यं, गजाश्वरचनान्वितम् । द्वासप्ततिजिनागारैरुत्तुङ्गैः परितो वृतम् ॥६७॥ कर्पूरपूरगौराभश्रीशान्तिप्रतिमान्वितम् । सप्तसप्ततिसौवर्णकलशाढ्यमसौ तथा ॥६८॥ अजितस्वामिनस्तस्य, वामभागे सुधोज्ज्वलम् । कुमारदेवी पुण्यार्थ, पुण्यचैत्यं व्यधापयत l
॥१०६॥
Page #227
--------------------------------------------------------------------------
________________
**********
*
| ॥६९॥ युग्मम् ॥ मातुः कुमारदेव्यास्तु, गजारूढातिनिर्मला । मूर्तिस्तत्र क्रमात्तेजःपालेन विदधे पुनः ॥७०॥ गाङ्गेयरसितं सप्तधटीताम्रमयं तथा। कुमारपालभूपालचैत्येऽसौ कलशं न्यधात ॥७१॥ चैत्येऽथाहडदेवस्य, निर्मिते मुखमण्डपे । न्यधात् श्रीनेमिनाथस्य, मृत्तिं धातुमयीमसौ ॥७२॥ कोरटावालगच्छीयचैत्ये चन्द्रप्रभं जिनम् । सण्डेवालवसतौ, कायोत्सर्गिजिनद्वयम् ॥७३॥ श्रीसान्तूबसतो जीर्णोद्धारं मन्त्री व्यधादयम् । हेमकुम्भं च तत्रैव, शिखरे समरोपयत् ॥७४॥ मल्लिनाथजिनाधीशवेश्मनो नव्यतां ददौ । सोऽतिष्ठिपद् बृहद्विम्बमूकेशवसतौ तथा ॥७५॥ वीराचार्यजिनागारे, गजशालामसौ व्यधात । | अष्टापदावतारं च, तन्मध्ये चैत्यमुन्नतम् ॥७६॥ काञ्चनान् कलशान् राजविहारेष्वखिलेष्वपि । अचीकरदसौ नव्यान् , मूलनाथजि
नांस्तथा ॥७७॥ शीलशालिमुनीन्द्राणां, निवासार्थ शिवाय सः। धर्मशाला विशालास्तु, शतशोऽपि व्यधापयत् ॥७८॥ नागेन्द्रग-|| |च्छसाधूनां, निश्रयाश्रितवत्सलः । स त्रिभूमिमयं धर्मसौधं प्रोत्तुङ्गमातनोत् ॥७९॥ मत्री दीनार्तजन्तूनां, क्षुत्पिपासार्तिशान्तये । ok तत्र सत्रालयश्रेणिं, निर्ममे युक्तिशालिनीम् ॥८०॥ तथा श्रीसङ्घवात्सल्य, सतां श्लाघ्यं विधाय सः । सर्वेषामपि साधूनां, विदधे प्रतिलाभनाम् ॥८१॥ स्तूयमानो जनैर्मार्ग, कृतवर्धापनोत्सवः । उच्छ्रितध्वजमासाद्य, ततोऽसौ धवलक्ककम् ॥८॥ ननाम वीरध- | | बलाधीशं स्मेरमखाम्बुजम् । दैत्याजिमन्थनप्राप्ततत्तत्याभूतपूर्वकम् ॥८३॥ प्रसादं तस्य पञ्चाङ्गं, निर्माय प्रीतमानसः। श्रीचौलक्यनृपोऽवादीत्तदानीमिति संस्तुतिम् ॥८४॥ अध्वानं तु तथा (निध्वानं तनुषे) न यासि विकटं नोच्चैर्वहस्याननं, दर्पान्नोलिखसि क्षितिं | खुरपटै वज्ञया वक्ष्यसि । किं तु त्वं वसुधातलैकतिलकं स्कन्धाधिरूढे भरे तीर्थान्युच्चतटीविटङ्कविषमान्युल्लयन् लक्ष्यसे ॥८५।। राजाज्ञया राजगजेन्द्रगामी, चामीकरच्छत्रविराजितश्रीः । ततः स पौरव्रजपूज्यमानः, स्वधाम क्लप्तोत्सवमाससाद ॥८६॥ चक्रुर्वर्धा
*4838*4839*-*-89
Page #228
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥१०७॥
888838% 24083-848384888888888888
Trasy
पनान्यस्मै, सोदर्यः स्नेहमन्थराः । मनोरथातिगैर्दानैः सोऽपि ताः समतूतुषत् ॥ ८७॥ राजवर्गः समग्रोऽपि पौरैः सह प्रमोदिभिः । प्राभृतैः प्रीणयामास तं प्रजातङ्कहारिणम् ||८८ || द्रम्मेणापि तदा पुष्पं, तत्र मंत्रिमहोत्सवे । नैव प्रापि जनैः क्वापि, कटरे मन्त्रि| वैभवम् ॥ ८९ ॥ श्रीवस्तुपालेन बलान्निरस्तां तां दुस्तरामापदमाकलय्य । महोत्सवानामकृत प्रवृत्तिं, वीतोपसर्गः पुरवासिवर्गः ॥ ९० ॥ गृहे गृहे धातुरसानुलेपाः समन्ततः स्वस्तिकपङ्किमन्तः । विरेजिरे तूर्यवानुकूलाः, कुलाङ्गनामङ्गलगीतयश्च ॥ ९१ ॥ बभूव देवेषु विशेषपूजा, राजन्यमार्गेषु निषेकशोभा । विशेषहर्षः पुरपूरुषेषु, विशेषवेषश्च वधूजनेषु ॥९२॥ कवीश्वराणां प्रीणति (?) स्म वाणी, कर्णद्वयं कर्णसमस्य तस्य । सोऽपि प्रमोदं हृदयेषु तेषामुदारपाणी रचयाञ्चकार ।। ९३ ।।
888888888888888888833
दत्ते स्म तेभ्यः सचिवः कविभ्यः, प्रभूतमत्यद्भुतकीत्तिरर्थम् । आदत्त चिद्रूपतया निगूढमप्यर्थलेशं न तदुक्तमुक्तात् ॥९४॥ | कवीन्द्रशैलेन्द्र सरस्वतीनां विनिर्गतानां प्रसृतान् प्रवाहान् । आरुह्य भूमण्डलमासमुद्रमियत्तिं मन्त्रीश्वरकीर्त्तिहंसी ॥ ९५ ॥ गुरुत्वादन्यदा मन्त्री, वर्ण्यमानो मनीषिभिः । लज्जयाऽवाङ्गिराः सोमेश्वरेणाभाणि तद्यथा ॥ ९६ ॥ एकस्वं भुवनोपकारक इति श्रुखा सतां जल्पितं, लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्षसे वेद्मि तत्। वाग्देवीवदनारविन्दतिलक श्रीवस्तुपालप्रभो !, पातालाद्वलिमुद्दिधीर्षुर- | सकृन्मार्ग ध्रुवं, मृग्यसि (१) ॥९७॥ तत्पारिपार्श्विकश्रेणेर्दत्वा वर्षासनान्यसौ । तस्मै समर्पयलक्षं, द्रम्माणां प्रीतितस्तदा ॥९८॥ अथालङ्कारिणां मुख्याःः श्रीमन्माणिक्यसूरयः । समये तीर्थयात्राया, आहूता अपि मन्त्रिणा ||१९|| काव्यप्रकाश सङ्केतनिर्मितिव्यग्रमानसाः । नेयुः स्वयं न च प्रैषि, तैः कश्चिन्निजसंय्यतः ॥ १००॥ युग्मम् ।। तेषां लेखस्तदा प्रैषि, तेजःपालेन मन्त्रिणा आदेशाद्वस्तुपालस्य, किञ्चिद्वक्रोक्तिगर्भितः ॥ १ ॥ उत्प्लुत्योत्प्लुत्य पुनर्निपतति तत्रैव तत्रैव । वटकूपकूपमध्ये, निवसति माणिक्यमण्डूकः ॥२॥
सप्तमः
प्रस्तावः ।
॥१०७॥
Page #229
--------------------------------------------------------------------------
________________
तदुक्तिविस्मितास्तेऽपि, भृशं निःस्पृहवृत्तयः। खलेखं प्रेषयामासुस्तयोः श्रावकपाणिना ॥३॥ गुणालिजन्महेतूना, तुलानां हृद्विपाटयन् । वंशाधिपरिस्फुर्त्या, किं हि जन विजृम्भसे ॥४॥ तदुक्त्यान्तभृशं विद्धो, मन्त्री तद्दर्शनोत्सुकः । तदीयं पौषधागारं, स्त|म्भतीर्थपुरे रहः ॥५॥ लुण्टयिखाखिलं वस्तु, कृबैकत्र न्यवेशयत् । श्रुखा तस्यागमं तेऽपि, दूनान्तःकरणा स्यात् ॥६॥ युग्मम् ।। श्रीमन्त्रीगुरुभिः साकमुदयप्रभसरिभिः। समीपं मन्त्रिणः प्राप्य, जगुराशीर्वचो यथा ॥७॥ तीर्थोद्धारधुरन्धर त्रिजगतीचिन्तैकचिन्तामणे, श्रीचौलुक्यनरेन्द्रराज्यरचनाविर्भावदीक्षागुरो । श्रीमन्त्रीश्वरवस्तुपाल ! नृपतिव्यापारभारक्षमे, किं धर्मस्थितिविप्लवोजनि जने भृजानितुल्ये खयि ॥८॥ उवाच सचिवः स्मिखा, भगवन् भवतः पुनः । धर्मकार्यदिदृक्षातो, विप्लवोऽयमजायत ॥९॥
निजानागमने हेतो, तैरुक्ते च यथास्थिते । क्षमिखा निखिलं वस्तु, मन्त्री तेषां समार्पयत् ॥१०॥ ततो नैकविधैः शुद्धः, | सिचयैः सचिवेश्वरः । सोऽथ पूजां व्यधात्तेषां, सन्तो नाश्चन्त्यनौचितम् ॥११॥ एकं वासः सुरेशैः कृतसुकृतशतैर्जन्मकाले जिनानां, | दत्तं दीक्षाक्षणे वा ध्वजवसनमथो एकमेवाम्बरं च । सूर्यादीनां ग्रहाणां पुनरपि विधिना दत्तमस्मिन् क्षणेऽसौ, सत्पात्रे भूरि यच्छन्नधरितमघवा नन्दताद्वस्तुपालः ॥१२॥ इत्युपदेशतस्तुष्टस्तेषां शास्त्रविदामसौ । सर्वेषां धर्मशास्त्राणामेकमादर्शमर्पयत् ॥१३॥ तस्मिनवसरे दीनो, द्विजातिः कश्चिदागतः । वस्त्रं देहि ममाप्येकं, तं ययाचे दयोदधिम् ॥१४॥ तदादेशात्तदासाद्य, वस्त्रे वस्त्राधिकारिणः। | एकमेवोद्धृतं स्थूलमिति तुष्टाव मन्त्रिणम् ॥१५॥ क्वचित्तूलं क्वचित्सूत्रं, क्वचित्कर्षासमेव च । देव ! बदरिनारीणां, कुटीतुल्या पटी मम ॥१६॥ मन्त्र्यादेशादसौ सप्तदश कृत्वा बभाण तत् । तावमुम्मसहस्राणि, सोऽदात्तस्मै प्रसत्तिमान् ॥१७॥ अन्यदा सचिवाधीशं, बालचन्द्रः कवीश्वरः। किश्चित्कार्यविशेषार्थी, तुष्टाव नृपसंसदि ॥१८॥ गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्वं पुन त्या त्वं
Page #230
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
सप्तमः प्रस्तावः।
॥१०८॥
|च समुल्लसद्गुणगणः किं वा बहु ब्रूमहे । श्रीमन्त्रीश्वर नूनमीश्वरकलायुक्तस्य ते युज्यते, बालेन्दु चिरमुच्चकै रचयितुं त्वत्तोपरः कः | क्षमः॥१९॥ तदुक्तिप्रीणितः श्रीमान् , समक्षं सर्वभूभुजाम् । पदोपवेशनं तेषां, निर्ममेऽसौ कृतोत्सवम् ॥२०॥ इतश्च-सपादलक्षदे| शश्रीशृङ्गारतिलकोपमे । पुरे नागपुरे पुण्ये, पुन्नागप्रवरोदये ॥२१॥ श्रीमानूकेशवंशेऽभृद्भूतलानन्दिवृत्तवान् । घुमौक्तिकं महातेजा, | मण्डनं क्षितियोषितः ॥२२॥ साधुदेहात्मजो ज्यायान् , पूणाहः साधुरुत्तमः । सुमन श्रेणिसंसेव्यो, नाकिनाथ इवान्वहम् ॥२३॥ मोजदीनसुरत्राणपट्टपत्न्यातिगौरवात् । स्वीकृतोबान्धवत्वेन, भङ्गुरेतरभाग्यभृत् ॥२४॥ चतुर्भिः कलापकम् ॥ अश्वाधीशगजाधीशनराधीशमहीभुजः । किङ्करा इव तिष्ठन्ति, यद्वेश्मद्वारि वारिताः ॥२५॥ येन पुण्यात्मना तीर्थयात्रा नेत्रोत्सवप्रदा । शास्त्रोक्तवि(वसतिर्वि)धिनाकारि, चिच्चेरनगरे पुरा ॥२६॥ पातसाहनृपादेशाद्राजचिह्नरलङ्कतः। प्रौढैः सङ्घाधिपः साकं, निःस्वानारवबन्धुरम् ॥२७॥ शत्रुञ्जयोजयन्ताद्रितीर्थयात्राचिकीर्षया । आगच्छन् स पुनः प्रापद्देशे चौलुक्यभूभुजः ॥२८॥ युग्मम् ॥ राजधानीपथं मुक्त्वा, स | शाखीश्वरविद्विषः । शङ्कया नृपतेस्तस्य, जगाम सरलाध्वना ॥२९॥ तत्स्वरूपं परिज्ञाय, विवेकविकसन्मतिः। विममर्श विखिन्नात्मा, वस्तुपालो निजे हृदि ॥३०॥ अहो कुकर्मणां प्रादुर्भावोजनि ममाधुना । यदेतन्नगरं त्यक्त्वा, श्रीदेवगुरुशोभितम् ॥३१॥ ____ सङ्घोऽस्ताघगुणाम्भोधिर्मान्यस्तीर्थकृतामपि । व्रजत्यन्याध्वना भीत्या, मन्येवत्याधिकारिणाम् ॥३२॥ धिगस्तु जीवितं पुंसा| मधिकारकजीविनाम् । येभ्यः सन्तोऽपि शङ्कन्ते, शाकिन्या इव दुधियः ॥३३॥ अत एव स्मृता शास्त्रे, दुर्गतिस्तु नियोगिनाम् । द्रुह्यन्ते यदमी प्रायः, पापाः पुण्यकशालिने ॥३४॥ न भयं भूपतेः क्वापि, लीलयैश्वर्यशालिनः। दुष्टाधिकारिणः किन्तु, लोकक्षुद्रगवेषिणः ॥३५॥ महतोऽपि महानेष, श्रीसङ्घस्तीर्थवम॑गः । पूजनीयो विशेषेण, दूरदेशागतः पुनः ॥३६॥ श्रीसङ्घस्तीर्थयात्रायां,
॥१०८॥
Page #231
--------------------------------------------------------------------------
________________
व्रजन सर्वगुणाकरः। पुनीते चरणाम्भोजैधन्यस्यैव गृहाङ्गणम् ॥३७॥ यतः-कदा किल भविष्यन्ति, मद्गृहाङ्गणभृमयः। श्रीसङ्घचरणाम्भोजरजःपुञ्जपवित्रिताः॥३८॥ नित्यभक्तं समाहूय, तेजःपालं सहोदरम् । ततोऽसौ प्रेषयद्वेगात , श्रीसङ्घाहानहेतवे ॥३९॥ वायुवेगैर्वजन्नेष, रथैरतिरथप्रभः। आससाद क्षणादेव, सङ्घमध्यमनुद्धतः॥४०॥ पूर्णसिंहस्तमालोक्य, लोकनेत्रेन्दुसन्निभम् । प्रमोदं परमं प्रापच्चकोर इव तत्क्षणे ॥४१॥ अन्योन्येन समाश्लिष्टौ, संशोभतेस्म तौ तदा । यथा विश्वाद्धताकारी, प्रद्युम्नपुरुषोत्तमौ ॥४२॥ प्रतिपत्त्या गरीयस्या, तेजःपालस्तमाग्रहात्(तमागृह्य गृहं श्रियः) । ततोऽसौ सङ्घसंयुक्तं, राजधानीमनीनयत् ॥४३॥ तेजःपालाग्रणीः श्रुत्वा, तमायातं पुराद् बहिः । जगाम सम्मुखं वल्गद्वाजिराजिविराजितः॥४४॥ रेणुपूरः स्फुरत्यस्यां, दिशि सङ्घोद्भवो महान ।
तद्दम्यतां पथानेनेत्यवादीत्कोऽपि तं तदा ॥४५॥ तमुवाच ततो मन्त्री, यस्याङ्गं पुण्यपुञ्जवत् । इदं स्पर्शति तस्याशु, घोरं पापरजो as व्रजेत् ॥४६॥ यतः-श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु च भ्रमणतो न भवे भ्रमन्ति। तीर्थव्ययादिह नराः स्थिरसम्पदः | स्युस्तीर्थेश्वरार्चनपरा जगदर्चनीयाः ॥४७॥
घनोदयं जगजन्तुतापोपशमनक्षमम् । सङ्घाग्रणीस्तमालोक्य, केकीव मुमुदेतराम् ॥४८॥ पादन्यासैः सृजन्नूवींमुत्फुल्लाम्बुजशालिनीम् । ननाम मत्रिणं पूर्णसिंहः पूर्णमनोरथम् ॥४०॥ अश्वरत्नं परित्यज्य, मत्री तं बहुमानतः । समालिलिङ्ग सस्नेह, हृदन्तः स्थापयन्निव ॥५०॥ सङ्घप्रष्ठा गुणैर्येष्ठाः, पुण्यैज्येष्ठतमं भुवि । दर्शनोत्कण्ठितस्वान्ता, नेमुरन्येऽपि तं क्रमात् ॥५१॥ ततः श्रेयो* मयालापं, क्षणं निर्माय मत्रिराट् । तमुत्तार्य सरस्तीरे, सर्वर्तुद्रुमशालिनि ॥५२॥ निमन्त्र्य भोजनाद्यर्थ, मत्री स बहुमानतः । आज
गाम निजं धाम, धर्मात्मजसमप्रभः ॥५३॥ युग्मम् ।। सर्वे रसवतीभेदाः, सर्वाश्च शाकजातयः। निष्पन्ना मत्रिणो वेश्मन्येकस्मिन्न
Page #232
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥१०९॥
2848888888888888888888888
हनि क्षणात् ॥ ५४ ॥ मण्डपो भुक्तये तेषां, रत्नेन्दुद्योतभासुरः । उच्छ्रितैः केतुभिर्दिव्यै, रम्यस्तद्भवनेऽजनि ॥ ५५ ॥ सिक्ताः सचन्द नाम्भोभिर्धूपोद्ग्राहसुगन्धिताः । भ्रूमयो रेजिरे तस्य, पुष्पस्रग्भिरलङ्कृताः ॥ ५६ ॥ पुरप्रतोलीमारभ्य, मन्त्रीश्वरगृहावधि । एकच्छायोऽ| भवत्पन्था, नव्योल्लोचैस्तदोच्छ्रितैः ॥५७॥ प्रातराकारिताः सर्वे, राजहंसा इवोज्ज्वलाः । विशुद्धोभयपक्षास्ते, सङ्घशाः सपरिच्छदाः ॥ |||५८ || सदाचाराः समं प्रापुरष्टादशशतानि ते । पद्माकरतया ख्यातं, मन्त्रिराजगृहाङ्गणम् ॥ ५९॥ युग्मम् ॥ मुक्ताफलैः फलैर्लाजैः, | सलज्जा ललिता सती । सङ्घ वर्धापयामास, निजगेहाङ्गणागतम् ||६०|| प्रत्येकं सचिवस्तेषां सर्वेषां मुदितस्तदा । दुग्धैर्गन्धोदकैः कोष्णैः, पदाम्भोजानि धौतवान् ॥ ६१॥ पादप्रक्षालनाकर्म कुर्वतोऽस्य महात्मनः । वेलातिक्रममालोक्य, नित्यभक्तोऽनुजोऽवदत् ।। ॥६२॥ उत्सूरो जायते भ्रातर्दुःखश्रान्तिसुधासरः । भवतो भोजनाद्यर्थं, सङ्घभक्तिविधायिनः ॥ ६३॥ अंहिप्रक्षालनं कुर्वे, शेषसङ्घातावले: । ममापि जायतां पुण्यं प्रसादेनाधुना तव ||६४ || गुरुणापि तदाभाणि, नरचन्द्रेण धीसखः । सत्पुण्यसंविभागोऽत्र, तेज:| पालाय दीयताम् ||६५ || वस्तुपालस्ततोऽवादीन्निश्छद्मोत्साहवान् गुरुम् । नैतत्पुण्यं प्रभो कुर्वे, खण्डशोऽहं कथञ्चन ॥ ६६ ॥ यतः - | अस्थिरेण वपुषा स्थिरमाद्यं, वीतरागपदमर्चयतो मे । किं वृथा मनसि विभ्रति खेदं, धर्मकल्पतरवो गुरवोऽमी ॥६७॥ अद्य मे फलवती पितुराशा, मातुराशिषि शिखाङ्कुरिताद्य । यद्युगादिजिनयात्रिकलोकं, पूजयाम्यहमशेषमखिन्नः ॥ ६८ ॥ एवंविधस्तु संयोगः, सुकृतैरेव लभ्यते । न हि चिन्तामणिः प्रायो, निष्पुण्यस्य गृहे वसेत् ॥ ६९ ॥ ततोऽसौ सर्वसङ्घस्य, विदधे विधुतागसः । स्वय| मेव तदा भक्ति, पादप्रक्षालनादिना ॥ ७० ॥ निरीक्ष्य मन्त्रिणो भक्ति, निर्व्याजविनयोज्ज्वलाम् । सङ्घेशा विस्मयं प्रापुः परमं विगतस्मयाः ॥ ७१ ॥
888888888888888888888803-2
सप्तमः प्रस्तावः ।
॥१०९॥
Page #233
--------------------------------------------------------------------------
________________
B8%8438-84882848888488888888322
ततो नानाविधैभोज्यैः, सदाज्यैर्हृदयङ्गमैः । सर्वसङ्घाधिपानेष, सगौरवमभोजयत् ॥७२॥ भुञ्जानान् वीजयामास, विनयी खयमेव तान् । श्रीखण्डद्रवसंसिक्तबालकव्यजनैरयम् ॥ ७३ ॥ सर्वेषामप्यसौ तेषामेकपङ्गिनिवेशिनाम् । सोदराणामिवालोक्य, विममर्श सविस्मयः || १४ || पक्षोभयविशुद्धानां विवेकविशदात्मनाम् । अमीषां राजहंसानां, सद्गतौ नैव संशयः ॥ ७५ ॥ क्वापि शीलं क्व कुलं, क्वापि वित्तं तु केवलम् । कुलशीलवित्तवन्तः, स्तोका एवाङ्गिनः कलौ ||७६ || भोजनानन्तरं मन्त्री, तानभ्यर्च्य सुमादिभिः । | नानाविधैदुकूलैश्व, न्यक्षतः पर्यधापयत् ॥७७॥ तत्र चैत्येषु सर्वेषु, मञ्जनोत्सवबन्धुरम् । अकार्षीत्पूर्णसिंहोऽपि, ध्वजारोपादिस|त्क्रियाः ॥ ७८ ॥ व्यदधद्वस्तुपालस्तु, सङ्घाधिपपदोत्सवम् । पूनस्य स्वहस्तेन, तिलकन्यासपूर्वकम् ||७९ || अदापयन्महामानं, श्रीचौलुक्यमहीभुजा । तस्य नानाविधातोद्यध्वजच्छत्रादिदानतः ॥ ८० ॥ युग्मम् ॥ ततः श्रीपूर्णसिंहेन, समं श्रीसचिवेश्वरः । चचाल तीर्थयात्रायै, स्वयं सङ्घाऽधिपोऽपि च ॥८१॥ क्रमात् शत्रुञ्जयं प्राप्य, सङ्घभक्तिं सृजन् पथि । मन्त्री स्त्रात्रोत्सवं कुर्वन् मूलनेतुः | सविस्तरम् ||८२|| मज्जनोत्सुकलोकौघकलशाश्लेषशङ्कया । नासिकास्थगनं दृष्ट्वा, हृदि चिन्तामिति व्यधात् ॥ ८३॥ युग्मम् ॥ कदाचिन्मूलनाथस्य, विश्वविश्वाद्भुतद्युतेः । अमङ्गलं भवेत्किञ्चिन्निमित्तेनात्र केनचित् ॥ ८४ ॥ तदीदृशं महाज्योतीरत्नविम्बं कथं भवेत् ॥ शीघ्रमेव नवं सम्यग्दृष्टिदृष्टिसुधाञ्जनम् ||८५ ॥ गिरिर्नैव भवेदेष, विशेषाद् हर्ष भृर्नृणाम् । विना श्रीमूलनाथेन, महत्यपि यथा चमूः ||८६|| ततो नव्यं मया विम्बं प्रागप्येवंविधं यदि । कार्यते न तदा तीर्थे, भवेत्पूजान्तरायकम् ||८७॥ सचिवः स्पष्टमाचष्ट, | पूर्णसिंहं ततस्तदा । मम्माणिबिम्बमानेतुमेतत्तुल्यं स्पृहास्ति मे ||८८ || सिद्धिर्मनोरथस्यास्य, साहाय्यं भवतः परम् । अपेक्षते क्षिती - शार्ण्य, परकार्यधुरन्धर || ८९ || मोजदीनः सुरत्राणो, भवन्तं भाग्यशालिनम् । ज्येष्ठबन्धुपदे न्यस्य, मन्यते यत्सगौरवम् ॥९०॥
2038 2038888888888888888888
Page #234
--------------------------------------------------------------------------
________________
श्रीवस्तपाल चरितम् ।
सप्तमः प्रस्तावः।
॥११॥
तदुक्तिप्रीणितस्वान्तः, पूनडः प्रतिपद्य तत् । श्रीनेमिं रखते नत्रा, ततो नागपुरं ययौ ॥११॥ राजधानी समासाद्य, मन्त्रिराजो रजोऽतिगः । राजानं रञ्जयन् पृथ्वी, पालयामास सद्गुणैः ॥१२॥ ऋणातॊ वामनस्थल्यां, निवासी कविपुङ्गवः । तुष्टाव सचिवाधीशमन्यदा नृपसंसदि ॥९३।। विद्वद्दौःख्यहरः प्रपूजितसुरः सौजन्यरत्नाकरः शश्वनीतिवरः प्रियंवदवरः प्रोद्यत्रिवर्गस्थिरः । दानोपेतकरः | सुरितदरः (सुहृद्धितकरः) कल्कावलीकातरः, प्रीतिप्रीतनरः सुधर्मरुचिरः सत्योऽस्तु मन्त्रीश्वरः ॥९४॥ तदनुप्राससङ्ख्यानि, लक्षाणि वितरंस्तदा । तस्मिन् प्रीत्याश्रयन्मन्त्री, भोजराज इति श्रुतिम् ॥९५॥ भृगुकच्छमहातीर्थे, यात्रार्थमन्यदागमत् । तेजःपालो महामात्यः, सङ्घन महतान्वितः॥९६॥ श्रीसुव्रतजिनाधीश,मजनोत्सवपूर्वकम् । अभ्यर्च्य विधिना साधून , ववन्दे तत्र संस्थितान् ॥१७॥
तसिन्नवसरे स्माहुस्तं वायडगणाधिपाः। एकं सन्देशक मन्त्रिन , श्रुत्वात्मानं कृतार्थय ।।९८|| आदिश्यतां मुनिस्वामिन्नेवं वादिनि मन्त्रिणि । ते जगुयुवती काचिनिश्यस्मानित्यभाषत ॥९९॥ तेजःपाल कृपालुधुर्य विमलप्राग्वाटवंशध्वज, श्रीमन्नम्बडकीतिरद्य वदति त्वत्सम्मुखं मन्मुखात् । आजन्मावधि वंशयष्टिकलिता भ्रान्ताहमेकाकिनी, वृद्धा सम्प्रति पुण्यपुञ्ज भवतः सौवर्णदण्डस्पृहा ॥२०॥ श्रुत्वेति मुदितस्वान्तः, सद्गाङ्गेयमयानसौ । अमात्याम्बडदेवस्य, विहारे पापहारिणि ॥१॥ न्यधाद् द्वासप्ततौ देवकुलिकासु तदैव च । उद्दण्डध्वजदण्डाढ्यान् , कलशान् विलसद्युतीन् ॥२॥ युग्मम् ।। विधाय विधिना चैत्यपरिपाटीमसौ ततः। सवात्सल्यं मुनीन्द्राणां, सङ्घपूजोत्सवं व्यधात् ॥३॥ सोपारकमहातीर्थस्नात्रपूजाभवं फलम् । इति तत्रैव शुश्राव, मन्त्री श्रीगुरुस- | निधौ ॥४॥ सोपारके युगादीशं, जीवन्तस्वामिनं जिनम् । विशुद्धश्रद्धया सम्यग्दृष्टिरर्चति योऽष्टधा ॥५॥ सप्ताष्टभवमध्येऽसौ, मुक्तिमासादयेद् ध्रुवम् । न पुनर्दुर्गतिं यायात् , कस्मिन्नपि हि जन्मनि ॥६॥ यतः शत्रुञ्जयस्यैव, तीर्थभूमिरियं स्मृता । अधित्यका
॥११०॥
Page #235
--------------------------------------------------------------------------
________________
488888038 203% 88388838888888
जिनाधीशशासने पापनाशिनी ॥ ७॥ दृष्टेऽप्यत्र युगादीशे, यद्यानन्दो भवेद् हृदि । जन्मकोटिकृतं पापं तदा निःशेषतो व्रजेत् ॥ ॥८॥ पञ्चक्रोशमिते क्षेत्रे, तीर्थेऽत्र परितः पुनः । न कस्याप्यङ्गिनो देहे, सम्मूर्छन्ति त्रसाङ्गिनः ||९|| नागेन्द्रप्रमुखैरत्र, सूरिभिः श्रीयुगोत्तमैः । ऋषभस्वामिनो मूर्त्तिरियं पूर्वं प्रतिष्ठिता ॥ १० ॥ एकरात्रं वसन्नत्र, ब्रह्मचारी जितेन्द्रियः । एकातपत्रमैश्वर्य, प्रानो - त्यागामिजन्मनि ॥ ११ ॥ इत्याकर्ण्य गुरोर्वाचं, सचिवो वृषभध्वजम् । व्रजति स्म नमस्कर्तु सोपारकपुरम्प्रति ॥ १२ ॥ श्रीयुगादिजिनाधीशं तत्राभ्यर्च्य सविस्तरम् । महाध्वजं ददौ हैमं, मन्त्री तचैत्यमूर्द्धनि ॥ १३ ॥ प्रार्थितार्थप्रदानेनानन्द्य मार्गणमण्डलम् । स देवकुलिके नव्ये, दक्षिणोत्तरपार्श्वयोः || १४ || निर्माय काञ्चनं कुम्भत्रयं तत्र न्यवीविशत् । स्नात्रपीठे न्यधाद्धातुबिम्बं मज्जनहेतवे ॥ | ||१५|| युग्मम् || नागेन्द्रादिमुनीन्द्राणां लेपमय्योऽत्र मूर्त्तयः । प्रतिष्ठाप्य स्वगुरुभिः, स्थापिताः समहोत्सवम् ॥ १६ ॥ नवसारी पुरे | पुण्यं, पार्श्वधाम नवं व्यधात् । स द्विपञ्चाशता जैनकुलिकाभिर्विराजितम् ||१७|| घनदिव्यां पुरि प्रौढं, नेमिचैत्य मचीकरत् । सूर्यादित्यपुरे हर्म्य, ऋषभस्य प्रभोरयम् ॥ १८ ॥ श्रीमत्पार्श्व नमस्कृत्य, स्तम्भतीर्थपुरे ततः । कृतानेकोत्सवां मंत्री, राजधानीं समाययौ ॥१९॥ हजयात्रार्थिनी माता, मोजदीनासुरेऽशितुः । योगिनिनगरात्प्राप्ता, स्तम्भतीर्थ पुरेऽन्यदा ||२०|| कृतस्थिती रहोवृत्या, नौवित्तेश्वरवेश्मनि । प्रतीक्षमाणा तत्सार्थ, भूरिभूतिसमन्विता ॥ २१॥ युग्मम् ॥ तत्राप्तां तां परिज्ञाय, ततो मत्री व्यचिन्तयत् । मातेयं योगिनी भर्तुर्मान्या मे स्वष्टसिद्धये ||२२|| स्तम्भतीर्थपुरं प्राप्य ततोऽसौ विदुराग्रणीः । अलुण्टयद्धनं सर्व, तस्या आत्मजनैस्तदा ||२३|| जरती गतसर्वस्वा, रुदन्ती करुणवरम् । आगत्य वस्तुपालाय, सा स्वरूपं स्वकं जगौ ||२४|| सोऽपि कर्णातिथीकृत्य, तदुक्तं दुःखमान्तरम् । मायया दर्शयंस्तस्या, बहुमानं परं ददौ ||२५|| सत्पुत्र इव वात्सल्यं, तस्याः कुर्वन्नसौ ततः । सर्व समर्पयामास, वाल
88884838283888838% 283%20B%8
Page #236
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥१११॥
****3% XE3DE XEDE SEBE-DE-DE-14
| यित्वा शनैः शनैः ||२६|| भूयसा परिवारेण, समं गत्वा स शक्तिमान् । पर्युपास्ति सृजन्नतां, हजयात्रा मकारयत् ||२७|| धर्मचक्रपदद्वारे, तोरणं तत्र मन्त्रिणा । आरासनाश्मनो दिव्यं, जगन्नेत्रोत्सवप्रदम् ||२८|| निवेश्य द्रम्मलक्षाणि त्रीणि तत्र व्ययं व्यधात् । यतः परस्य सन्तोषकृते सन्तः कृतोद्यमाः ||२९|| युग्मम् ।। पुनः स्ववेश्मन्यानीय, मानयत् जननीमिव । सगौरवं दशाहानि, स्थापयामासिवान् स ताम् ||३०|| स्थूलमुक्ताफलस्फारसारहारप्रदानतः । चचाल विजयी मन्त्री, योगिनीनगरीं प्रति ||३२|| पदे पदे स्तूयमानः, सस्पृहैः कविकुञ्जरैः । पूज्यमानो महीपालैः, सर्वत्र विनयालुभिः ||३३|| दिल्लीपरिसरे प्राप्तो, भीमवन्निर्भयोऽप्ययम् । तस्या निदेशतस्तस्थौ, योधैर्युद्धोद्धतैर्वृतः ॥ ३४ ॥ सुरत्राणकृतोदाममहोत्सवपरम्पराम् । राजधानीमलञ्चक्रे, शाखीन्द्रजननी ततः ॥ ३५ ॥ प्रणम्य चरणाम्भोजं, मोजदीनोऽवदत्प्रसूम् । मातर्यात्रा कथं चक्रे, श नाक्रम्य वर्त्मनि ||३६|| अदीनवदनेन्दु श्रीस्तंमेवं जननी | जगौ । वत्स स्वच्छाशय श्रीमान्, यथा तं मे तनूद्भवः ||३७|| समर्थः सर्वकार्येषु त्वत्तः समधिकः श्रिया । सहायोऽशेषजन्तूनां, | वसन्त इव भूरुहाम् ||३८|| मन्त्री चौलुक्यभूभर्तुर्वस्तुपालाभिधः सुधीः । धर्मपुत्रः पवित्रोऽस्ति तथान्यकृतितत्परः || ३९ ॥ त्रिभि विशेषकम् । निर्ममे तेन या भक्तिस्त्वन्मातरि मयि स्फुटम् । वक्तुं सहस्रजिह्वोऽपि, नैव शक्नोति तामहो ||४०|| ततः कृतज्ञा मत्रीशस्वरूपं तु यथास्थितम् । निवेद्य हृदयोल्लासजननं विरराम सा ॥४१॥ तथा मुक्तामयं हारं, सुधासारमिवोज्ज्वलम् । सा तस्मै दर्शयामास, मत्रीश्वरसमर्पितम् ||४२|| तद् दृष्ट्वा विस्मितः स्माह, शाखीन्द्रो निजमातरम् । कस्मादत्र त्वया मातर्नानीतोऽसौ गुणोदधिः ||| ४३ ॥ विधाय दर्शनं तस्य, विश्वविश्वोपकारिणः । भवामि कृतकृत्योऽहं येन प्रत्युपकारतः ॥ ४४ ॥ सावादीदत्र राजेन्द्र !, स मन्त्री | साहसोदधिः । प्राप्तोऽस्ति निकटे पूर्या, मदाहूतोऽतिगौरवात् ॥ ४५ ॥ स कर्णाञ्जलिनाखाद्य, गिरं मातुः सुधाश्रवाम् । जगाम सम्मुखं
*888840BK4332888888888881
सप्तमः प्रस्तावः ।
॥१११॥
Page #237
--------------------------------------------------------------------------
________________
तस्य, चतुरङ्गचमूवृतः॥४६॥ तमागच्छन्तमाकर्ण्य, मन्त्री नीतिबृहस्पतिः । स्वसेनां सज्जयामास, न विश्वासो यतोरिषु॥४७॥ पूर्णसिंहः क्षणे तस्मिंस्तत्रागत्य नृपाज्ञया । ननाम मन्त्रिणं प्रीतिप्राग्भारनिभृतः सुधीः ॥४८॥ यथोचितप्रतिपत्त्या, तमानन्ध नरेश्वरम् । प्रणम्य प्रीणयामास, प्राभृतैस्तद्विरा ततः॥४९॥ दिग्गजेन्द्रतिरस्कारिधुर्यधैर्यान् द्विपान् दश । वाजिनां शतमेकं च, माणिक्यपदक तथा ॥५०॥ विलोक्य प्राभृतं प्रीतः, स्वयमालिंग्य भूपतिः । तदा श्रीमन्त्रिराजस्य, गौरवं विदधे महत् ॥५१॥ युग्मम् ।। तिष्ठन् दिनाष्टकं तत्र, मन्त्री पूनडवेश्मनि । यथावस्तुदानेन, प्रीणयन् राजमण्डलम् ॥५२।। योगिनीनगरासन्नं, गोमया(विवरा)कारमार्हतम् । मोजदीननृपादेशाद्विदधे चैत्यमुन्नतम् ॥५३॥ तत्र भक्तामरस्तोत्रमन्त्रजापवशीकृता । सम्मेतशिखराद्ववबिम्बमानीय तत्क्षणात् ॥५४॥ चक्रेश्वरी महादेवी, स्थापयामास सोत्सवम् । सतां धर्मानुभावेन, दुःसाध्यं नास्ति किञ्चन ॥५५॥ युग्मम् ॥ तत्र प्रदीपपूजायै, शाकमण्डपिकाकरम् । मन्त्रिराजप्रमोदाय, ददौ दनुजभूपतिः ॥५६॥ चलनावसरे तस्य, सन्तुष्टो योगिनीपतिः । वरं वृणीष्व मन्त्रीन्द्र!, स्वाभीष्टं कश्चनाब्रवीत् ॥५७॥ तव देव समं प्रीतिरस्तु चौलुक्यभूभुजा । खजन्मावधि निश्छद्म, प्रजानन्दविधा(प्रदा)यिनी ॥५८॥ मम्माणिखानिपाषाणपञ्चकं निस्तुषं तथा। देहि मे मेदिनीनेतरिति तं सचिवोजगौ ॥५९॥ युग्मम् ॥ स्मितस्मेराननः किञ्चित्स भूपः प्रतिपन्नवान् । तथेति प्रतिभूस्तत्र, पूनडोऽभून्महाधरः ॥६०॥ सत्कृतो भूभुजा तेन, तन्मात्राथ प्रपूजितः। आगाद्गोपगिरिं मन्त्री, श्रीमद्वीरनिनंसया ॥६१॥ दृष्ट्वाष्टादशगाङ्गेय-भारैराममहीभुजा । निर्मितां जिनमूर्ति च (तं शर्मणे स्वस्य), मन्त्रीशो मुमुदेतराम् ॥६२॥ तत्र स्नात्रमहोत्सवं सुरनरश्रेणेः स हर्ष सृजंश्चके शक्रसमानकान्तिकलितः श्रीवस्तुपालस्तथा । पूजां लक्षधनव्ययेन विदधे विश्वकविस्मापिनी, श्रीमद्वीरविभोः शुभोदयपदं श्रीपूर्णसिंहान्वितः ॥६३॥
Page #238
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
सप्तमः प्रस्तावः।
॥११२॥
कृखा महाध्वजारोपाद्युत्सवान् सचिवेश्वरः। शृङ्गे तस्य न्यधाद्वैमकलशं दण्डमण्डितम् ॥६४॥ आमभूपतिसरोवरपालौ, शान्ति| नाथजिनमन्दिरमुच्चैः । धर्मचक्रसहितं स्वहितार्थ, धातुबिम्बकलितं विदधे सः ॥६५॥ तत्र जैनमुनीन्द्राणां, निर्ममे प्रतिलाभनाम् । | श्रीसङ्घलोकवात्सल्यपूर्वकं युक्तितस्तथा ॥६६॥ ततो नागपुरं प्रापत्तत्रत्यपृथिवीभुजा । आहूतः पुरहूतेन, पुमानाद्य इवेष्टदः ।।६७॥ स राजमण्डलं तत्र, भास्वानिव विनिर्ममे । महोदयकलाशालि, जित्वा तद्द्वेषिणोऽखिलान् ॥६८॥ अन्नदाता यतो लोके, प्राणदातैव संस्मृतः । इतीव सचिवश्चक्रे, तत्र सत्रालयद्वयम् ॥६९॥ अन्नदानानि दीयन्ते, नियुक्तैर्भक्तितोङ्गिनाम् । यत्सर्वत्रोपकुर्वन्ति, गरीयांसो यथारुचि ॥७०॥ तत्र श्रीपार्श्वनाथस्य, नवीनं मन्दिरं पुनः । चतुर्विंशतितीर्थेशप्रतिमाभिरलङ्कृतम् ॥७१।। पूजनं सर्वसङ्घस्य, दानं दीनादिदेहिनाम् । अकार्षीन्मन्त्रिराजेन्द्रः, स्वजन्मसफलीकृते ॥७२॥ युग्मम् ॥ सत्कृत्य सुकृती तत्र, पूर्णसिंह विसृष्टवान् । |चित्रकूटपुरं प्रापत्ततो भूलोचनोपमम् ॥७३॥ तत्र कोटीध्वजेभ्यालीवेश्मध्वजविराजिनि। श्रीयुगादिजिनागारमुदारं पर्वतोपरि ॥७४॥ मेखलायां शिवामनुचैत्यं चन्द्रांशुनिर्मलम् । लक्षलक्षेश्वरावासमण्डितायां व्यधादसौ॥७५॥ युग्मम् ॥ तत्रापि सङ्घवात्सल्यसाधुपूजा, दिकर्मजैः । पौरान् सौरभयामास, स्वयशोभिरसौ भृशम् ॥७६॥ ततः कपिलकोट्टस्य, भूपालं कालपौरुषम् । जागराञ्चकुवानेष, | निःस्वानप्रतिनिःस्वनैः ॥७७।। ससैन्यः प्रास्तदैन्यस्तं, विगृह्यासह्यविक्रमः । निर्जित्यासौ रणक्षोण्या, द्रम्मकोटिमदण्डयत् ॥७८॥ | ततो नागहृदादीनि, तीर्थानि विविधान्यपि । भूषयन्नर्हतां चैत्यैः, पूजयन् विधिपूर्वकम् ॥७९॥ क्वचिद्वेश्म जिनेन्द्राणां, क्वचित् शैवा*लयादिकम् । धर्मशालां क्वचिन्नव्यां, क्वचित्सन्यासिनां मठम् ॥८०॥ सरः सवापिकं क्वापि, सत्रागारं क्वचित्पुरे। तत्रत्यजनस
न्तोषहेतवे पथि कारयन् ॥८१॥ आजगाम पुनमन्त्री, मोदिताखिलसज्जनः । पत्तनं नगरं नाम, प्रतिधामस्फुरन्महम् ॥८॥ चतुर्भिः
॥११२॥
Page #239
--------------------------------------------------------------------------
________________
कलापकम् । तस्मिन् कुटुम्बमाहूय, सहायं धर्मकर्मणाम् । सर्वेषां ज्ञातिलोकानां, गौरवं कृतवानयम् ॥८३॥ श्रीवर्धमानसूरीशसमीपे | | तत्र मन्त्रिणा । शङ्खश्वराहत(रमहा)स्तीर्थमाहात्म्यमिति शुश्रुवे ॥८४॥ चिरन्तनमिदं तीर्थ, सेव्यमानं महर्षिभिः । सेवयाऽस्य शिवं | * प्रापुरनेके मुनयः पुरा ॥८५॥ जनार्दनजरासिंधुसंग्रामसमये पुरा । श्रीनेमिवचसा विष्णुतपसा च महीतलात् ॥८६॥ प्रादुरासीत्स्वयं
मृत्तिरेषा पार्श्वजिनेशितुः । शाश्वतप्रतिमाप्राया, तेनासौ गीयते किल ।।८७॥ युग्मम् ॥ अस्याः स्नात्रपयः सेकाजरोपप्लवतापिता। * वासुदेवचमूः सर्वा, जिजीव जयमाप च ।।८८।। अत्र शङ्खः पुराऽपूरि, नेमिना परमौजसा । मह्यामस्यां भुवि ख्याता, तेन शङ्के
श्वराभिधा ।।८९॥ प्रतिपर्व स्वयं नागराजः पद्मावतीसखः । अत्रागत्य व्यधात्पूजा, मूर्तेरस्य शिवावहाम् ॥९०|| ध्यानादस्या विलीयन्ते, व्याधयो विषमा अपि । सम्पद्यन्ते मनोऽभीष्टाः, सम्पदश्च पदे पदे ।।९१॥श्रीनेमिः समवासादित्रानेकमहर्षियुग । श्रीकृष्णः कारयामास, चैत्यमुच्चैस्तरं तथा ॥९२।। षण्मासी यः सृजत्यस्मिन्नेकाग्रहृदयोऽर्चनाम् । लभतेऽसौ मनोऽभीष्टां, फलश्रेणिमनुत्तराम् ।। ॥९३॥ इत्याकर्ण्य ततो मत्री, श्रीसङ्घन पुरस्कृतः । शङ्केश्वरजिनाधीश, वन्दितुं विधिना ततः॥९४॥ तत्र श्रीपार्श्वनाथस्य, स्नात्रं कला सविस्तरम् । सङ्घाधिपस्य कृत्यानि, सोऽतनोदखिलान्यपि ॥१५॥ श्रीपाश्वचैत्यमुद्धृत्य, तथासौ विदधे नवम् । तदेवकुलिका| स्वेष, हेमकुम्भान्न्यवीविशत् ।।९६।। राजधानी ततः प्राप्य, श्रीवीरधवलप्रभुम् । ननाम नयनानन्ददायिनं सचिवेश्वरः ॥१७॥ | अकण्ठदर्शनोत्कण्ठोत्कण्ठितेन महीभुजा । स्वयमालिङ्गय मन्त्रीशं, भृशमासादि निवृतिः ॥९८।। दिल्लीगमनवृत्तान्तं, स पुरा श्रुतपूake wपि । मत्रीन्द्रवदनाम्भोजात् , पुनः शुश्राव भूपतिः ॥९९॥ ततोऽधिकं प्रसन्नेन, हेमलक्षायुतार्पणात् । राज्ञानन्ध विसृष्टोऽथ, धी- Make
सखः स्वगृहं ययौ ॥३००॥ अर्वागेव गृहात्सर्व, तत्सुवर्ण नृपार्पितम् । दीनादीनां कवीनां च, दयावान् स ददौ पुनः॥१॥ पौर
Page #240
--------------------------------------------------------------------------
________________
सप्तमः प्रस्तावः।
श्रीवस्तुपाल
लोकः समग्रोऽपि, नानाप्राभूतपूर्वकम् । अहम्पूर्विकयाऽऽयासीत्तमानन्तुं प्रभास्पदम् ॥२॥ सत्कृतस्तेन सर्वोऽपि, लोकः सुश्लोकशाचरितम् । | लिना । औचित्यं हि न च क्वापि, विस्मरन्ति मनीषिणः ॥३॥ कवयस्तु स्तुवन्त्येनं, तं तदा दलितापदम् । भट्टसोमेश्वरप्रायाः, स्वेष्ट
| सिद्धिसमीहया ॥४॥ दुर्गः स्वर्णगिरिः स कल्पतरुभिर्भेजे न चक्षुदिवि, तस्थौ कामगवी जगाम जलधेरन्तः स चिन्तामणिः । काले॥११३॥
ऽस्मिन्नवलोक्य याचकचमू तिष्ठेत कोऽन्यस्ततः, स्तुत्यः सोऽस्तु न वस्तुपालसचिवो दानैकवीरः कथम् ।।५।। विजित्य करणग्राम, | योगिनेव नियोगिना । अनेनोपार्जयाञ्चक्रे, परमार्थमहामहः ॥६॥ श्रीमन्ति दृष्ट्वा द्विजराजमेकं, पमानि सङ्कोचमहो भजन्ति । समाFE | गतेऽपि द्विजराजलक्षे, सदा विकाशी तव पाणिपद्मः ॥७॥ उच्चाटने विद्विषतां रमाणामाकर्षणे खामिहृदश्च वश्ये । एकोऽपि मत्री| श्वर वस्तुपाल!, सिद्धस्तव स्फुत्तिमियर्ति मन्त्रः ॥८॥ दलान्यत्युज्ज्वलानीयुर्मन्त्रिणो वेश्मनि क्रमात् । पश्चापि प्रेषितानि श्रीपूर्णसिंहेन साधुना ।।९।। कर्पूरपूरगौराभं, वीक्ष्य तद्दलपञ्चकम् । स प्रमोदं परं प्रापच्चकोर इव शीतगुम् ॥१०॥ ऋषभः पुण्डरीकाद्रौ, निममे मूलनायकः। गणभृत्पुण्डरीकश्च, कपर्दी यक्षराट् तथा ॥११॥ चक्रेश्वरी महादेवी, तेजःपालपुरे पुनः । चैत्यार्थ पार्श्वनाथश्च, | तेन तेभ्यो(ताभ्यां) यथाक्रमम् ॥१२॥ युग्मम् ॥ | श्रीनागेन्द्रगणाधीशसविधे सचिवोऽन्यदा । जगच्चन्द्रमुनीन्द्राणां, श्रुतवानिति वैभवम् ॥१३॥ मन्त्रीन्द्रं चन्द्रशाखायां, स्तम्भ
| तीर्थपुरेऽधुना । वृद्धगच्छाधिपाः सन्ति, श्रीजगच्चन्द्रसूरयः॥१४॥ प्रथमा ज्ञानचारित्रतपःशीलक्रियावताम् । निःसङ्गवृत्तयः सम्यग्, se सदाचाम्लतपोरताः ॥१५॥ सस्थावरजन्तूनां, सृजतां पालनं त्रिधा। पश्चाचारवतां पञ्चसमितिप्रयतात्मनाम् ॥१६॥ चतुर्दापि
सदा पिण्डं, समयाद्यनुसारतः । विशुद्धं गृह्यतां तेषां, न कोऽपि सदृशो यतिः ॥१७॥ युग्मम् ॥ श्रुत्वेति तद्गुणाकृष्टः, स्तम्भतीर्थ
॥११३॥
Page #241
--------------------------------------------------------------------------
________________
पुरम्प्रति । तमानन्तुमना मन्त्री, प्राचलद्भरिसङ्घम्युम् ।।१८॥ ववन्दे वस्तुपालोऽथ, तान् यथास्थितसद्गुणान् । तपःशोषितसर्वाङ्गानङ्गोपाङ्गार्थवेदिनः॥१९॥ वाचकेश्वरशृङ्गारदेवभद्रगणीशितुः । सन्निधावागमार्थस्य, गृह्णानानुपसम्पदम् ॥२०॥ तस्मै सद्भक्तिनम्राय, | दबा धर्माशिषं ततः। ते व्यधुर्देशनामेवं, भवक्लेशविनाशिनीम् ।।२१॥ लक्ष्मीश्चेत्(में) सुकृतेन यद्यपि गृहे न्यस्ता तथाप्येतया, ना| नास्थाननिवासशीलमनवं दुर्मोचमित्यग्रधीः । सत्राहगृहबिम्बपुस्तकवसत्युद्यापनाचैरिदं, तस्याः पुष्यति वश्यवीजमपरं भावानुवृत्तेन | हि ॥२२॥ स व्यधाद् द्वादशावर्त्तवन्दनं विधिना ततः। भक्तिरागं वहन्नुच्चैस्तदीयपदपद्मयोः ॥२३॥ तथा निरीक्ष्य हृष्टात्मा, स दुस्सहतपःस्थितिम् । तेषामनन्यसामान्यां, मान्यां सुमनसामपि ॥२४॥ सोत्सवं वृद्धगच्छस्य, पश्चाष्टरविसम्मिते । तपागच्छ इति | ख्यातं, सत्यार्थ नाम निर्ममे ॥२५॥ यतः-हुं नन्देन्द्रियरुद्रकालजनितः पक्षोऽस्ति राकाङ्कितो (११५९), वेदाभ्रारुणकाल औष्टि-| कभवो (१२०४) विश्वार्ककालेञ्चलः (१२१४)। षट्व्यर्केषु च सार्द्धपूर्णिम इति (१२३६) व्योमेन्द्रियार्के पुनर्वर्षे त्रिस्तुतिको
(१२५०)ऽक्षमङ्गलरवौ गाढातप(ढक्रिय)स्तापसः (१२८५)॥२६॥ आचारी यादृशो यस्मिन् , मुनीनां दृश्यतेऽधिकम् । तदा तदाशाख्यया ख्यातः, स गच्छो जायते जने ॥२७।। अभृतां भूतलख्यातो, तच्छिष्यो गणिसम्पदा । श्रीदेवेन्द्रगुरुर्ष्यायानन्यः श्रीविजये
न्दुकः ॥२८॥ दुष्पमासमयोद्भूतमाहात्म्यादनयोरभूत् । सामाचारीविभेदेन, पृथग्गच्छस्थितिः क्रमात् ॥२९॥ भीमः सीमा समर्थानां, | सदाचारवतां गुरुः । सौवर्णिकाख्यशाखायां, कल्पशाखीव विश्रुतः ॥३०॥ प्रपन्नवान् गुरुत्वेन, श्रीदेवेन्द्रमुनीश्वरान् । श्रीमत्पार्श्व* जिनाधीशप्रतिमादेशतस्तदा ॥३१॥ सद्धर्मदेशनां तेषां, पायम्पायं सुधोपमाम् । मन्त्री श्रीवस्तुपालोऽभूत् , सम्यग् श्रीजिनधर्म- I
वित् ॥३२॥ पञ्चमीव्रतमाहात्म्यमश्रौषीदयमन्यदा । नागेन्द्रगणभृत्पार्श्वे, मनोऽभीष्टफलावहम् ॥३३॥ उपवासं त्रिधा शुद्ध, शुक्लायां
Page #242
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
सप्तमः प्रस्तावः।
॥११४॥
पञ्चमीतिथौ । पश्च वर्षाणि मासांश्च, सदाचारपरायणः ॥३४॥ सदृष्टिर्यः करोत्यहद्गुरुभक्तितरङ्गितः। पञ्चमज्ञानमासाद्य, स याया| त्पश्चमी गतिम् ॥३५।। युग्मम् ॥ पालनीयं त्रिधा शीलं, वर्जनीया कुसङ्गतिः। पूजनीयं श्रुतज्ञानं, पञ्चमीपर्वणि ध्रुवम् ॥३६॥ द्विरावश्यककृत्यानि कर्त्तव्यानि मनीषिणा । श्रुतज्ञानवतां भक्तिर्विधेया पञ्चमीदिने ॥३७॥ मुन्यादीनां यथायोग,संविभागविधानतः । पञ्चम्या उपवासस्य, विधेयं पारणं सदा ॥३८॥ यथाविधि सृजन्नेवमखण्डं पञ्चमीतपः। विश्वातिशायिसौभाग्यसम्पदं लभते नवम् ॥३९॥ पञ्च पञ्च प्रशस्यानि वस्तूनि विविधान्यपि। सद्गुरोरुपदेशेन, श्रुतज्ञानस्य कल्पयन् ॥४०॥ उद्यापनं करोत्येष, सम्पूर्ण पञ्चमीव्रते श्रीदेवगुरुसत्श्राद्धभक्तिं कुर्वन् यथाविधि ॥४१॥ युग्मम् ॥ श्रुत्वैवं सचिवस्वामी, भूरिभिः श्रावकैः समम् । पञ्चमीव्रतमानन्दात् , प्रपेदे सोत्सवं तदा ॥४२॥ विधिना शास्त्रपूतेन, स कृता पश्चमीतपः। तदुद्यापनमातेने, विश्वविश्वातिशायिकम् ॥४३॥
रत्नस्फटिकवैडूर्यहेमादिप्रतिमा नवाः । निर्मिता मन्त्रिणा तत्र, पञ्च पश्च पृथक् पृथग् ॥४४॥ प्रोत्तुङ्गपञ्चचैत्यानि, स्तम्भतीर्थपुरादिषु । हेमकुम्भान्वितान्युच्चैस्तोरणैर्मण्डितानि च ॥४५॥ धर्मशाला विशालास्तु, पुरेषु पत्तनादिषु । धातुदिव्याश्मनां पञ्चस| मवसृतयस्तथा ॥४६।। त्रिभिर्विशेषकम् ।। लेखिता भारतीकोशाः, षण्मतग्रन्थपूरिताः। द्वादशद्रम्मकोटीनां, सप्त तेन व्ययादहो॥ | ॥४७॥ माणिक्यैः पूजयामास, पञ्चभिः पुस्तकान्यसौ । पञ्चाहतान् ददौ भक्क्या, पञ्च वर्षासनानि च ॥४८॥ पञ्च कोटीश्वराः श्राद्धाः, पञ्च लक्षेश्वरास्तथा । सदृष्टयः कृतास्तेन, स्वधनार्पणतः पुनः॥४९॥ पद्मरागमयान्यहद्भालेषु तिलकानि सः । न्यधात्पश्च मणिस्वर्णमुकुटान् जिनमौलिषु ॥५०॥ पञ्चभिः पञ्चभिः श्लाघ्यैरन्यैरपि सुवस्तुभिः । निजशक्त्या तदा भक्ति, जिनार्चानामसौ व्यधात् ॥५१॥ समग्रसङ्घलोकस्य, गौरमूर्तेः स गौरवम् । विदधे बहुधा पात्रवस्त्राद्यैश्च तपखिनाम् ॥५२॥ एवं निर्माय सद्युक्त्या,
॥११४॥
Page #243
--------------------------------------------------------------------------
________________
पञ्चम्युद्यापनं परम् । मन्त्री प्रभावयामास, शासनं श्रीमदहताम् ॥५३॥ कालिकोत्कालिकाशेषयोगोद्वहनपूर्वकम् । सूत्रार्थोभयभेदैः श्रीजिनेन्द्रागमवेदिनाम् ॥५४॥ समयाद्यनुसारेण, पञ्चधाचारधारिणाम् । षट्त्रिंशला गुरुगुणयुतानामनगारिणाम् ॥५५॥ आचार्या| दिपदारोपोत्सवं ये निजसम्पदा । विधिना कारयन्त्यहच्छासने विश्वपावने ॥५६॥ त्रिभिविशेषकम् । तेषां पुण्यात्मनां नित्यं, वर्द्धते
सुकृतोच्चयः। आचार्यादिकृतानेकपुण्यकार्यानुमोदनात् ॥५७॥ इत्यालोच्य खयं मत्री, जिनधर्मविदग्रणीः। सुमुहूर्ते स सामग्री, गुर्वा| देशादकारयत् ।।५८|| ततोऽनेकपुरग्रामवास्तव्याहतसन्ततिम् । आहूय बहुमानेन, श्रीधवलक्कपत्तने ॥५९॥ श्रीनागेन्द्रगणाधीशैविधा | मत्री क्षमाभृताम् । प्रत्यक्षं कारयामास, सविशेषमहोत्सवम् ॥६०॥ उदयप्रभसूरीणां, पूरिताङ्गिमनोरथाम् । श्रीआचार्यपदारोपप्रतिष्ठा | विष्टपाद्भुताम् ॥६१॥ त्रिभिर्विशेषकम् । शतानि त्रीणि सूरीणां, तदुत्सवदिदृक्षया । समं वकीयसङ्घन, तदायुमंत्रिवेश्मनि ॥२॥ | तेषां सपरिवाराणां, सङ्घपूजामहोत्सवम् । विधिवद्विदधे मत्री, विशुद्धसिचयादिभिः ॥६३।। अशेषश्रावक श्रेणीः, सम्भोज्योत्तमभ|क्तिभिः । पञ्चवर्णदुकूलानि, गौरवात्पर्यधापयत् ॥६४॥ हेमरत्नाधलङ्कारैरभ्यर्च्य नृपमण्डलीः । अथिनः प्रीणयामास, स मनोरथ| पूरणात् ॥६५।। ध्वजारोपोत्सवं कृखा,पुरचैत्येषु मत्रिराट् । आनर्च स्वगुरून् भक्त्या, ततोऽनेकसुवस्तुभिः ॥६६॥ चतुर्विंशतिमाचा|यपदानीत्युत्सवैर्व्यधात् । मत्री सद्गुरुयोग्यानां, नानागच्छानगारिणाम् ॥६७॥ काव्यमेकं कविः कश्चिद् , दूरदेशान्तरागतः । निरुद्धो द्वारपालेन, तद्दर्शनचिकीरपि ॥६८॥ विप्रस्य कस्यचिद्धस्तांबुजेन ऋजुमानसः। देवार्चा कुर्वते तस्म, प्राभृतीकृतवान् किल ॥६९॥ युग्मम् ।। सावधं पद्यमेकेन, कविनेदं समर्पितम् । देवावधार्यतामेवं, सोऽप्यागत्य तमब्रवीत् ॥७०॥ वस्तुपालस्य राज्ञश्च, ज्ञैरेव परिभुज्यते । पारिजातस्य सौरभ्यममरैरेव नेतरैः ॥७१।। इति तत्पद्यमालोक्य, मत्री ब्रूते स्म तं द्विजम् । नास्त्यत्र दूषणं किश्चिन्मुधा
Page #244
--------------------------------------------------------------------------
________________
सप्तमः प्रस्तावः।
श्रीवस्तपाल भ्रान्तिस्तवाभवत् ॥७२॥ तत्रैवाकार्य तं मन्त्री, प्रीणयन्नथ गोरसः । दशहेमसहस्राणां, दानेन समतूतुषत् ॥७३॥ अन्यदा तु कविः | चरितम् । कश्चिद् , दारियेणातिपीडितः । अभाणीत्सचिवाधीश, प्रतिविद्वत्सुरद्रुमम् ॥७४॥ स्नेहः साधुजने न भोजनविधौ वासः कुटीकोटरे,
देहस्यावरणे न पुष्पमधिकं नेत्रे न केशोचये । अर्थः सूत्रितनव्यकाव्यनिकरे ग्रन्थौ न मन्त्रीश्वर!, स्याद् वृत्तिः पठने न जीवनविधौ ॥११५|| | प्रायः कवीनां कलौ ॥७५।। तदुक्तं मत्रिराट् श्रुखा, तत्कदुःखजिहासया । द्रम्माणां त्रीणि लक्षाणि, त्रीणि वर्षासनान्यदात् ॥७६॥
वाजीनां यानपात्रेषु, तीरे प्राप्तेषु भूरिषु । वारिधेस्तटमायासीत्सोऽन्यदा तद्दिदृक्षया ॥७७॥ उत्तार्यमाणा यत्नेन, यानपात्राजनादिभिः । तेजस्विनस्तदा जाता, वाजिनो मत्रिडक्पथे ॥७८॥ तानालोक्य कवीनेष, दानवीराग्रणीजगौ। प्रावृट्काले पयोराशिः, कथं | गर्जितवर्जितः ॥७९॥ सोमेश्वरस्तदा शीघ्रं, कविस्तां समपूरयत् । अन्तःसुप्तजगन्नाथनिद्राभङ्गभयादिव ॥८०॥ षोडश प्रददौ तस्म, | कवये कविकुञ्जरः । समस्यापूरणात्प्रीतो, वाजिनो वेगराजिनः ॥८१॥ पुनः कवीनां सोल्लासः, समस्यायाः पदं पुरः । तेजःपालाग्रजोऽपाठीत , काकः किं वा क्रमेलकः ॥८२॥ येनागच्छन्ममाख्यातो, येनानीतश्च मे पतिः। प्रथमं सखि कः पूज्यः, काकः किंवा क्रमेलकः ॥८३॥ (तेनेत्यपूरि वेगेन समस्येयं ततो ददौ । तस्मै स पोडश स्वर्णसहस्राणि प्रसत्तिमान् ॥) अत्रान्तरे कविः कश्चित्तमेवं
सस्पृहोऽवदत् । स्तौति त्वां ब्रह्मणः पुत्री, धर्मपुत्राशया प्रभो ! ॥८४॥ स्वस्तिश्रीधर्मपुत्रं त्रिभुवनजननी श्रीमती ब्रह्मपुत्री, धात्र्यां | श्रीवस्तुपालं कुशलयति सदा कार्यमेतन्निवेद्य । योऽभूत्कल्पद्रुकल्पः सकलतनुमतां नोऽधुना भोजराजस्तत्सीदन्तस्त्वयैते जगति तनु| भृतो रक्षणीयाः प्रयत्नात् ॥८५।। इति वाग्वादिनीकाव्यं, निशम्य मुदितः किल । तं लक्षद्रम्मदानेन, प्रीणयित्वा दयोदधिः ॥८६॥ * मन्त्री सीदजनाधारमुद्दिश्या(दित्सया)भिग्रहं ललौ । सीदल्लोकसमाध्यर्थ, द्रम्मकोटीव्ययो मया ॥८७॥ विभवे सति कर्तव्यः, प्रति
॥११५॥
Page #245
--------------------------------------------------------------------------
________________
वर्षमतः परम् । दयादानं यतो ख्यातं, हेमवद्धातुपूत्तमम् ॥८८॥ त्रिभिविशेषकम् । इति चुलुकनरेन्द्रोद्दामसाम्राज्यलक्ष्मीपरिमलमुरभिः श्रीवस्तुपालः सहर्षम् । व्यधित विविधविश्वश्लाध्यसत्पुण्यकृत्यैर्जिनपतिमतभावान् सर्वलोकं विवेकी ॥८९॥
इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि
श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाके सप्तमः प्रस्तावः ।।
अथाष्टमः प्रस्तावः।
अथार्बुदगिरेमन्त्री, श्रीनागेन्द्रगुरोगिंग । स सुरासुरपूज्यस्य, माहात्म्यं श्रुतवानिति ॥१॥ श्रीजैनशासने शैवशासने च विशेपतः। प्रख्यातोऽस्ति गिरीन्द्रोऽयं तीर्थत्वेनार्बुदख्यातः), सेवितो विविधर्षिभिः ॥२॥ अस्य शृङ्गे पुरा चक्रे चक्रभृद्भरतेश्वरः। हैमचैत्यं चतुरि, वचसा ऋषभप्रभोः ॥३॥ भूमीभृतोऽस्य माहात्म्यं, खण्डिताखिलपाप्मनः । वचोगोचरतां नेतुं, केवलं वेत्ति केवली
॥४तपास्यत्र पुरा कृत्वा, तीर्थेऽनेकमहर्षयः आसाद्य केवलज्ञानं, गताः शिवं समाधिना ॥५॥ दानशीलतपांस्यत्र, कृतानि * शुभभावतः। भूयो भूयो भवाघं च (भवाघसङ्घात), शोधयन्ति विशेषतः ॥६॥ अधित्यकां गिरेरस्य, पुनीते स समन्ततः । प्रपन्नHel प्रतिमः श्रीमान , वर्धमानजगद्गुरुः ॥७॥ ये दीपं कुर्वते वर्षमेकं नामेयवेश्मनि । ते कोटीश्वरतां प्राप्य, मोदन्ते वासवश्रिया ॥८॥
Page #246
--------------------------------------------------------------------------
________________
अष्टम: प्रस्तावः।
श्रीवस्तुपालeel
चैत्राष्टमीदिने लक्षतण्डुलान् फलसंयुतान् । प्रभोः पुरो ददानोत्र, लक्षग्रामाधिपो भवेत् ॥९॥ प्रतिष्ठितो युगादीशः, श्रीनागेन्द्रादिचरितम् । * मरिभिः । षण्मासीसेवया दत्ते, षट्खण्डैश्वर्यसम्पदम् ॥१०॥ यात्रिकान् वञ्चयन्त्यत्र, तीर्थे कूटप्रयोगतः। भवान्तरे भवन्त्येव, *
हीनाङ्गा हीनयोनयः ॥११।। गिरेरधित्यकावन्या, भूषणं गतदूषणा । अस्ति चन्द्रावतीनाम, पुरी गुणगरीयसी ॥१२॥ आसीद्दण्डा॥११६॥ धिपस्तत्र, प्राग्वाटान्वयमण्डनम् । विमलः कमलाखामिसन्निभो भुजलीलया ॥१३॥ सम्यग्दृष्टिशिरोरत्नं, सपत्नद्रुमकुञ्जरः । श्रीभीम
गौर्जराधीशप्रसादस्य परोऽवधिः ॥१४॥ युग्मम् ॥ येन सिन्धुधराधीशसङ्ग्रामे दारुणे पुनः । व्यधायि वीररत्नेन, साहाय्यं निजभूभुजः ॥१५॥ परमारनरेन्द्रोऽपि, यस्यावस्कन्दशङ्कया । राजधानीसुखं त्यक्त्वा, गिरिदुर्गमशिश्रियत् ॥१६॥ मालवीयमहीपालकालसङ्क्रामकर्मणि । सेनानीपदमासाद्य, साहसी भीमभूभृतः॥१७॥ पञ्चानन इवोदामस्थामधाम द्विपावलीः। भञ्जयन् लीलया लेभे, |य आजौ विजयश्रियम् ॥१८॥ युग्मम् ॥ भोजनाभिग्रहेणैव, योऽवस्कन्ध त्रिभिर्दिनैः । स्थट्टाख्यनगराधीश, बबन्धे बलिवद्धरिः
॥१९॥ यस्मै सिंहासनं हैमं, नढुलनगराधिपः । ददौ छत्रं पवित्रं च, योगिनीनगरीपतिः ॥२०॥ चतु:कोट्याः सुवर्णस्य, व्ययेन विमलाचले। सङ्घाधिपपदं लेभे, येन यात्रापुरस्सरम् ॥२१॥ नामतो गुणतश्चास्य, श्रीरासीद्दयितामृता । रोहिणीव सदाचारा, न वक्रस्थितिभाक् परम् । ॥२२॥ शीललावण्यशालिन्या, पयोद इव दण्डभृत् । एकयैव तया पत्न्या, शुशुभे विद्युतेव सः॥२३॥ कल्पव
ल्लीव सा नित्यं, स्वजनाभीष्टदायिनी। परं निजकुलाधारसत्पुत्रफलवर्जिता ॥२४॥ अर्बुदाचलचूलायां, विधापयितुमाईतम् । प्रासादं * विमलस्यासीदेका चिन्तानिशं हृदि ॥२५॥ सुकलत्रात् श्रियो देव्याः, पुत्र प्रद्युम्नसन्निभम् । प्राप्तुमीहा द्वितीयाभूत्स्ववंशोन्नतिहे-*
तवे ॥२६॥ ततः श्रीनेमिनाथस्य, प्रतिमां प्रीतिकारिभिः । पुष्पादिभिः समभ्यर्च्य, विमलो विमलोदयः ॥२७।। सकलत्रां महादेवी
॥११६॥
Page #247
--------------------------------------------------------------------------
________________
माराधयितुमम्बिकाम् । विधिवत्सकलत्रोऽभूत् , प्रयतः सुहितेन्द्रियः ॥२८॥ युग्मम् ॥ उपवासत्रयस्यान्ते, सा प्रत्यक्षाभवत्तयोः। | सुराः सत्ववतां यस्मात्, प्रसीदन्त्यचिरादपि ॥२९॥ अवादीदम्बिका देवी, तमदीनमुखद्युतिम् । वरं वृणु महाभाग!, प्रसन्नास्मि | तवाधुना ॥३०॥ दण्डाधिपो जजल्पाथ, सर्वप्रार्थितपूरके । वंशाधीपं सुतं देहि, चैत्यं चोधिरोपरि ॥३१॥ तादृक्पुण्योदयाभावा
नास्ति प्राप्तिद्वयं तव । एकं वृणु वरं मत्रि-नित्याचष्ट सुरेश्वरी ॥३२॥ ततोऽसौ देवतादेशमित्याकर्ण्य विमृष्टवान् । पुत्रं वा प्रार्थये | पुण्य, प्रासादं वाञ्चलोपरि ॥३३॥ अथवा खलु संसारवृद्धिमात्रफलं सुतः। प्रासादस्तु जिनेंद्रस्य, लोकद्वयसुखप्रदः ॥३४॥ संप्रा|प्तोऽप्यथवा पुत्रः। सुकृती न भवेद्यदि । विषांकुर इवायातं, तदा सर्वत्र दुःखभूः॥३५।। आस्तां समधिकः पुण्यैः, पितुः पुत्रः पवित्रधीः ।
प्रायस्तुल्योऽपि कस्यापि, जायते सुकृताद्यदि ॥३६॥ तदसारं परित्यज्य, पुत्रप्राप्तिमनोरथम् । प्रासादं प्रार्थये देवी, भाग्यावधिफलं | यतः ॥३७॥ यतः-महत्युपायेऽपि कृते, फलं भाग्यानुसारतः । पीयूषरुचिपानेऽपि, राहो वांगपल्लवाः ॥३८॥ सेवितोऽपि चिरं |ale | स्वामी, विना भाग्यं फलं न हि । भानोराजन्मभक्तोऽपि, पश्य निश्चरणोऽरुणः ॥३९॥ पप्रच्छानुमतिं ज्ञातुं, ततोऽसौ प्राणवल्लभाम् । प्रायः शक्रोऽपि कार्यार्थी, योषोत्संमुखमीक्षते ॥४०॥ सतीमतल्लिका स्माह, प्राणेशं सा कृताञ्जलिः । भवाङ्करनिभं पुत्रं, मुक्त्वाईन्मदिरं वृणु ॥४१॥ पुत्रमातृकलत्रादि सम्बन्धा भ्रमतो विभो । भवे भवे बभूवांसो, भूयांसो हि शरीरिणः ॥४२॥ परं सत्कृत्य| सामग्री, भवकोटयापि दुर्लभा । संसारसागरे घोरे, प्राप्तिश्चिन्तामणेरिव ॥४३॥ इत्याकूतं ततः पल्या, ज्ञात्वा ज्ञातभवस्थितिः। | तथैव प्रार्थयामास, स देवी दलितापदम् ॥४४॥ अम्बाऽभाषिष्ट तुष्टात्मा, तवेष्टस्य समागमः । भावी पुण्यात्मनां प्रष्ठ, प्रतीक्षस्व क्षणं | परम् ॥४५॥ यावताहमधिष्ठाच्या, भूधरस्यास्य संमतम् । श्रीमातुः पुनरादाय, समायामि तवान्तिकम् ॥४६॥ ध्यानलीनमनास्तस्थौ,
Page #248
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
॥११७॥
>* *83XX4338838284638% 3% 88883
विमलोsपि ततः स्थिरम् । अम्बिकापि जवादेत्य, तमाचष्टेति तद्यथा ॥४७॥ सुगंधिविकसन्माल्या, दृष्ट्वा गोमथमंडलीम् । प्रासा| दाईभुवं विद्याः, श्रीमातुर्भवनान्तिके ॥ ४८ ॥ इत्युदीर्याम्बिका देवी, तिरोऽभूदंडभृत्पुनः । सुपात्रदानशेषान्नैर्व्यधादष्टमपारणम् ॥४९ ॥ ततोऽसौ तादृशीं भूमिं प्रियंगुद्रुमसन्निधौ । दृष्ट्वा हृष्टमनाश्चक्रे, प्रासादोपक्रमं गिरौ ॥ ५०॥ अथ मिध्यादृशः क्रूरस्वान्ता, शैवतपोधनाः । अचलेशादितीर्थेषु, नियुक्ताः प्राक्तनैर्नृपैः ॥ ५१ ॥ प्रासादोपक्रमं तस्य कुर्वतस्तत्र भूभृति । इत्थं विकत्थनां व्यर्था, प्रथयन्तः सभासदाम् ||५२ || अत्राचलेश्वरो दत्ते, देहिनामचलं पदम् । सरिन्मन्दाकिनीतीर्थं, मथ्नाति भवमन्दताम् ॥ ५३॥ वसिष्ठस्य ऋषे| रस्मि - नाश्रमो वा नयत्यलं (वासयत्फलम् ) । स्वर्गाङ्गणे जनश्रेणिं, कुण्डस्नानक्रियादिभिः ॥५४॥ अथार्बुद महाशक्तिर्व्यनक्ति | निजवैभवम् । श्रीमाता जगतां माता, भूधरस्वामिनी पुनः ॥ ५५ ॥ तेनेदं शोभनं (शांभवं ) तीर्थमापृथोः पार्थिवादपि । अभिज्ञानाद्यभावेन, नार्हतं कर्हिचित्पुरा ॥५६॥ अन्तरायं सृजन्ति स्म, दुर्विदग्धा दुराशयाः । इति वदन्तस्ते दुष्टा (अवघ्यस्थितयो लोके), निर्वि | वेकजना गाः ||५७|| सप्तभिः कुलकम् । तस्मिन्नवसरे भाग्या- कृष्टा श्रीअम्बिका सुरी । आसुरीभावमाधाय, ब्रूते स्म नभसि स्थिता ॥५८॥ पुराप्यस्ति गिरावत्र, प्रतिमा प्रथमार्हतः । नागेन्द्रादिकसूरीशचतुष्केण प्रतिष्ठिता || ५९ || अभिज्ञाने जिनाधीश - तीर्थस्य प्रत्ययो न चेत् । तरोरधः खनित्वाऽस्य, प्रेक्षध्वं विधिना भुवम् ॥ ६०॥ ततस्तथा कृते तत्र, मन्त्रिणा बलिपूर्वकम् । प्रादुरासीत्क्षणा| देव, देवः श्रीनाभिनन्दनः ॥ ६१ ॥ अम्बिकाक्षेत्रपालाभ्यां युतां मूर्ति निरीक्ष्य ताम् । प्रकंपितहृदो नखा, प्रासादानुमतिं ददुः ॥६२॥ तानानन्द्य ततो मन्त्री, किञ्चिदायपदार्पणात् । अचीकरगिरेः शृङ्गे, चैत्यं श्रीऋषभप्रभोः ॥ ६३ ॥ दिव्यधातुमयी तत्र, प्रतिमा काञ्चनद्युतिः । महनीया महेन्द्रौघै - रघसंघातघातिनी ||६४ || विक्रमादित्यभूपालादष्टाष्टदशवत्सरे (१०८८) । विमलेन पुराकारि, श्रीम
9%8888888888888 208% 308% 883%
अष्टमः
प्रस्तावः ।
॥११७॥
Page #249
--------------------------------------------------------------------------
________________
दादिजिनेशितुः॥६५।। युग्मम् । प्रतिष्ठा विदधे तत्र, बृहद्गच्छाधिपादिभिः । सद्रत्नाद्ब्रह्म)मूरिभिर्मन्त्रिविनिर्मितमहोत्सवम् ॥६६॥ | यतः-श्रीमद्गौजरभीमदेवनृपतेर्धन्यः प्रधानाग्रणीः, प्राग्वाटान्वयमण्डनं स विमलो दण्डाधिपः सप्रियः। अष्टाशीत्यधिके सहस्रगणिते
संवत्सरे वैक्रमे, यः प्रासादमचीकरन्निरुपम श्रीअम्बिकादेशतः ॥६७। कोट्योऽष्टौ व्ययिताः किलार्बुदगिरौ श्रीअम्बिकादेशतो, | येनोत्तुङ्गविहारपित्तलबृहद्विम्बादिसत्कर्मभिः । स श्रीमान् विमलो मलोज्झितमनाः कस्यापि नो विस्मयं, कुर्याद्वाजिवराश्रितो जिनपतेरग्रे स्थितो लीलया ॥६८॥ दृष्टो दृष्टिफलं पुंसां, प्रणतो वासवश्रियम् । स्तुतस्तीर्थकरैश्वर्य, दत्तेव विमलेश्वरः ॥६९॥ अर्बुदोऽपि | गिरिलेमे, विमलो (लाचलतुल्यताम् )विमलात्मताम् । विमलेशस्य साहाय्यान्मरुमण्डलमण्डनम् ॥७०॥ तेन श्रीनेमिनश्चैत्यं, विधा* पयितुमर्हसि । गिरावत्रैव मन्त्रीश!, श्रीमच्चौलुक्यभूभुजः॥७१॥ पुण्यानुभावात्प्रभुतामवाप्य, सत्पुण्यकार्य स्वपदानुरूपम् । करोति * यो नैव किल प्रमादात , कथं पृथिव्यां स भवेत् कृतज्ञः ॥७२।। अस्मिन् विनिर्मितं चैत्यं, रैवताचलसन्निभम् । भविता तु(नु) महा
मात्य !, स्थिरस्थायि स्थिरातले ॥७३॥ एवं गुरुभिरादिष्टं, श्रुत्वा सोमान्वयी तदा । एवं मनोरथं स्वान्तसौधमध्येऽध्यरोपयत् ॥७॥ तथाहि-चत्वारो भ्रातरोऽभूम, जैनधर्मविदो वयं । दैवात् शैशव एवोभौ, तत्राभूतां सुरोत्तमौ ॥७५॥ नाम्ना तु मल्लदेवस्य, कीर्तनानि कियन्त्यपि । कारितानि क्षितौ सन्ति, सतामानन्दकारणम् ॥७६।। यतः
श्रेयसे मल्लदेवस्य, मन्त्री शत्रुञ्जये गिरौ । विदधेऽष्टापदं तीर्थ, साक्षादष्टापदोपमम् ॥७७॥ लूणिगश्रेयसे किन्तु, कीर्तनं नास्ति कारितम् । वश्चनीयो न हि कापि, सोदरः सुकृतस्थितौ ॥७८॥ तन्नाम्नातः परं कार्या, वसतिर्नेमिनो मया। गिरिनारगिरीन्द्रस्यावतारस्य प्रकाशिनी ॥७९॥ इत्यालोच्य स्वयं चित्ते, तेजःपालाय मन्त्रिणे। अनुजाय विनीताय, तं वृत्तान्तमसौ जगौ ॥८०॥ तेनापि
Page #250
--------------------------------------------------------------------------
________________
अष्टमः प्रस्तावः।
श्रीवस्तुपाल
| तत्तथा मेने, मेनेशतनुजे गिरौ । उत्साहं नेमिनश्चैत्यचिकीर्षास्तस्य तन्वता ।।८।। ज्येष्ठादेशं ततः प्राप्य, स प्रौढैः पार्थिववृतः ।। चरितम् ।। | चन्द्रावत्यां स्वयं प्रापद्धारावर्षनृपालयम् ॥८२॥ राज्यभारधुराधारं, तेजःपालं समागतम् । वीक्ष्योत्थाय च सस्नेहमालिलिङ्ग नरेश्वरः
||८३॥ विधाय वसुधाधीशस्तं मृगेन्द्रासनास्थितम् । सत्कृत्यागमहेतुं च, पप्रच्छाथ जजल्प सः ॥८४॥ अर्बुदाधित्यकायां श्रीजिन॥११८॥ चैत्यं चिकीरसौ । साहाय्यं वो महीशानां, ज्येष्ठबन्धुः समीहते ॥८५॥ धारावर्षोऽब्रवीद्राजा, भ्रातस्तव गरीयसः । सेवकोऽस्मि महा
* मात्य !, नियोज्यः सर्वकर्मसु ॥८६॥ अद्य मे सफलं राज्यं, प्रशस्या च गृहस्थितिः । मन्त्रिचिन्तामणियत्त्वं, स्वयमेवागतो गृहे ॥८७॥ | भवतो दर्शनं मन्विन् !, विना भाग्यन लभ्यते । जिनोक्तवर्त्मवद्विश्वजीवजातसुखावहम् ॥८८॥ अतोत्र भवता कार्यः, कृतार्थः स्वम| नोरथः । अस्मिन् कार्ये तवादे(शादुर्येवास्मि)शवशोऽस्म्यहं महामते ! ॥८९॥ ततो दानैस्तमानन्ध, सहायीकृत्य भूभुजम् । आरुरोह गिरेः शृङ्ग, स मत्री सङ्गतो नृपः ॥९०॥ भूमिभृतोपमांस्तत्र, राष्ट्रिकान् दुर्गसंस्थितान् (दुष्टचेष्टितान्) । पुरुहूत इवाहूय, गोगलिप्र| भृतीनसौ ॥११॥ उपायैः सदुपायज्ञः,सामदानादिभिः पुनः। सन्तोष्य विदधे धीमान् , निजकार्यनिवेदनम् ॥१२॥ युग्मम् ।। ऊचुस्त मुदितस्वान्ता, मन्त्रिराजपुरःस्थिताः। भृत्या इव करिष्यामस्वत्प्रयोजनमादरात् ॥९३॥ द्रम्माणां मूटकास्त्रिंशच्चैत्यभूमिजिघृक्षया। पतितान्वयतोषार्थ, तीरितास्तेन तद्विरा ॥९४॥ प्रीतस्वान्तास्ततः प्रोचुर्मन्त्रिणं ते तपोधनाः । श्रीमातुरुपदेशेन, तदौदार्येण विस्मिताः ॥९५।। एवं सर्वो गिरिमन्त्रिन्!, ग्रहीतुं शक्यते खया। भक्तिमूल्येन सर्वोऽयं,ततोऽस्माभिस्तवार्पितः ॥९६॥ ततः प्रसादात् श्रीमातुः, प्राप्तप्रासादभूमिकः। वयमारासणं गखा, सचिवोम्बानिदेशतः ॥९७॥ ततो निष्कासयामास, चैत्याई दलवाटकम् । चन्द्रमण्डलसकाश, तत्पुण्योदययोगतः ॥९८॥ युग्मम् ॥ ततोऽसौ सुगमस्थाने(निकषोम्बरिणीस्थान), कृता पद्यां नवां गिरौ। पशूनां च नराणां
॥११८॥
Page #251
--------------------------------------------------------------------------
________________
BY XBXX£3% -2483888338838881
च, सुखारोहाय ऋद्धिमान् ॥९९॥ उभयोः पार्श्वयोर्हद्वपङ्क्ति पूर्णां सुवस्तुभिः । प्रतिक्रोशमसौ चक्रे, स यावत्पञ्चयोजनीम् ॥१००॥ युग्मम् || अधित्यकां गिरेरस्य, व्योमाग्रोल्लेखिनः क्षणात् । तदध्यारोपयत्सर्वं सप्रभ: सचिवानुजः ॥ १ ॥ ज्ञात्वा विमलचैत्येऽसौ, मिथ्यादृक्करसंस्थितिम् । प्रार्थितार्थार्पणात् शैवमुनीन् संतोष्य युक्तिमान् ||२|| श्रीमातां विपुलैर्भोगैरानन्द्य क्षेत्रदेवतां । देवदायान् समुच्छिद्य, निःशेषान् शक्तियुक्तितः ॥ ३॥ कूर्मचक्रं निवेश्याधो, मुहूर्त्ते बलिपूर्वकम् । प्रासादयोग्यभूपीठं, स ततोऽबन्धयद् दृढम् |||४|| त्रिभिर्विशेषकम् | शोभनप्रमुखान् सूत्रधारान् पञ्चशतीमितान् । यथार्हयुक्तिसंतुष्टान् कर्मस्थाने नियोज्य सः ||५|| चन्द्रावतीं पुनः प्राप्य, चम्पकस्य गृहेऽगमत् । कार्यार्थं विनयं कुर्वन्, साञ्जसं तमुवाच च ॥६॥ युग्मम् । कारयामो वयं चैत्यमर्बुदोर्वीधरेऽधुना । भवांश्च नगरश्रेष्ठी, सुश्रावकशिरोमणिः ||७|| पूजासारादिसान्निध्यं कुरुषे यदि सोद्यमः । तदा ब्रजामो निश्चिन्तहृदयाः | स्वगृहं प्रति ||८|| सोऽपि दाक्षिण्यवान् दक्षस्तदुक्तिं प्रतिपन्नवान् । नाङ्गीकुर्वन्ति के वाचं, पुंसस्तादृग्विधस्य हि ॥ ९ ॥ सर्वेषां सूत्रधाराणां कर्मस्थाना (या) धिकारिणम् । ऊदाख्यं श्रावकं कृत्वा, निजपत्न्याः सहोदरम् ||१०|| तत्रार्बुदगिरौ धीमांस्तेजः पालोऽथ मन्त्रिराट्र ( राजधानीं क्रमात्प्राप्तः स प्रणम्य सहोदरम् ) । चैत्यकृत्यादिवृत्तान्तं, समग्रं समवेदयत् ॥ ११॥ युग्मम् ॥ कपपट्टाश्मनोऽरिष्टनेमिबिम्बं विधाय सः । तच्चैत्यहेतवेऽरिष्टशतध्वंसि वृहत्तमम् ॥ १२॥ सुरग्ने च प्रतिष्ठाप्य, सोत्सवं निजसूरिभिः । अनुजेन समं प्रैषी| दर्बुदोधरोपरि ||१३|| युग्मम् ॥ गर्भमण्डपमात्रं तन्निष्पन्नं बहुभिर्दिनैः । निरीक्ष्य नेमिनश्चैत्यमूदाकं सोऽब्रवीदिति ॥१४॥ अद्या| प्येतन्महाभाग !, स्वल्पमेव कुतोऽभवत् । तस्मै निवेदयाभास, सोऽपि निर्विण्णमानसः ॥ १५ ॥ सूत्रधारा अमी देव, प्रेरिता बहुशो मया । न खरन्तेऽचिरश्रान्ताः, कर्मस्थायेऽत्र कर्हिचित् ॥ १६ ॥ आदायादाय दायादा, इव प्राग् हठतो बहून् । द्रम्मान् विनाशयन्त्येतत्, स्तोक
1488% 488% 3% 883% 4G8K8088*4
Page #252
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल ॐ चरितम् ।
॥११९॥
*8488888888888888888% 88881
88888888888888888888888888
अष्टमः
मेव ततोऽजनि ॥ १७॥ इति श्रुतिकटु श्रुत्वा तदुक्तं सचिवोऽवदत् । द्रम्माः किं क्वथिता एते, शटिता वाऽभवन् किमु ॥ १८॥ यद्विनष्टा अमी सर्वे, चतुरीभूय मे पुनः । भवानिह स्वयं भद्र, रारटीति पटुस्वरम् ||१९|| लोकानामुपकाराय, चैत्यकृत्याधिकारिणाम् । प्रस्तावः । आगच्छन्तो व्रजन्त्येते, भृशमक्षीणकोशताम् ||२०|| द्रम्माः सूत्रभृतां देयास्तदमीषां यथारुचि । यदुदाराशयैर्भाव्यं धर्मकार्ये विवेकिभिः ||२१|| कार्पण्यं धर्मकार्येऽपि ये सृजन्ति कुबुद्धयः । धनं भूयोऽपि सम्प्राप्तं, न तद्भोगाय जायते ||२२|| यतः - कृत्वा क्षयं स्नेहदशागुणानां, प्रदीपले खेव पलायते श्रीः । अवश्यमेकं त्ववशिष्यते तन्मालिन्यमस्मिन् जनितं तया यत् ||२३|| चत्वारो धनदायादा, धर्मचौरा निपार्थिवाः । ज्येष्ठेऽपमानिते पुंसां, हरन्त्यन्ये बलाद्धनम् ||२४|| तेजः पालेऽन्यदा नेमिपूजानिर्मितितत्परे । पश्यन्ती सूत्रधाराणां कर्मस्थायेषु मन्दताम् ||२५|| जगादानुपमादेवी, चातुर्येण सरस्वती । शोभनं शिल्पिनामग्रेसरं शास्त्रविदां वरम् ॥ २६ ॥ ॥ युग्मम् ॥ एकस्मिन्नपि भो भद्र, स्तम्भोद्धारणकर्मणि । एतावान् भवतां कालविलम्बश्रेद्भविष्यति ॥२७॥ तदाऽत्र पर्वते चैत्यं, कदा सिद्धिं प्रयास्यति । निगद्यते यतः प्राज्ञैर्धर्मस्य त्वरिता गतिः ||२८|| को जानाति क्षणः कीदृगू, भावी कोऽपि शरीरिणाम् । अचिरेव | चला लक्ष्मीरायुर्वायुरिवास्थिरम् ||२९|| निर्विलम्बं ततः कार्यं, पुण्यकार्यं विवेकिना स्वजन्म सफलीकर्तुं, विशेषान्त्वधिकारिणा ॥३०॥ तामुवाच ततो वाग्मी, शोभनः शोभनाशयः (याम् ) । स्वामिन्युर्वीधरः सोऽयं, दुरारोहः सुरैरपि ॥ ३१ ॥ यत्र शीतं पतत्युग्रं, प्रातः कृत्यविघातकृत् । तुषारशीतलो वायुर्मर्माविद्वातिसंततम् ||३२|| मध्याह्ने क्रियते सूत्रधारैः प्रत्येकमात्मना । भोजनोपक्रमः कष्ट, दुर्भरोदरपीडितैः ||३३|| भोजनानन्तरं कर्म, यावद्देवि विधीयते । तावत्सायं पुनः शीतं, प्रत्यनीकमिवोदयेत् ॥ ३४ || भवेत्सूत्रभृतां नित्यं शाकगोरसवर्जितं । भोजनं तेन देहेषु न शक्तिरपि तादृशी ||३५|| स्तोकं स्तोकं ततः कर्म, सञ्चरत्यत्र भूभृति । साम
॥ ११९॥
Page #253
--------------------------------------------------------------------------
________________
ग्रीमन्तरा कार्यसिद्धिर्न स्याद्धनैरपि ॥३६॥ इत्यन्योन्यं तयोर्वाता, श्रुत्वागत्य बहिर्जवात् । सर्वसूत्रभृतामाद्यं, शोभनं सचिवोऽभ्यधात् ॥३७॥ किं ब्रूतेऽनुपमादेवी, भवन्तं भाग्यशालिनी । तेनोक्तं देवपादैर्यत् , श्रुतिभ्यामवधारितम् ॥३८॥ ततः प्रणयिनी प्रोचे, | सचिवः सस्मिताक्षरम् । त्वया किमुक्तमेतेषां, सत्कर्मस्थितिवद्धिनि ॥३९॥ सलज्जा तद्वचःपुष्पैः, शुचिभिः पर्यपूजयत् । स्वामिन्नैवोचितः कर्तु, विलम्बश्चैत्यकर्मणि ॥४०॥ न वर्धते यतस्तेजः, सर्वदा महतामपि । सायं सूर्योऽपि निस्तेजाः, पतत्यर्णववारिणि ॥ | ॥४१॥ व्यापारप्रभुता चैषा, प्रदीपकलिकोपमा । सम्पदोऽपि पदं नैव, शाश्वतं दधते क्वचित् ॥४२॥ यतः-लक्ष्मीः सर्पति नीचम
वपयःसङ्गादिवाम्भोजिनीसंसर्गादिवकण्टकाकुलपदा न क्वापि धत्ते पदम् । चैतन्यं विषसन्निधेखि नृणामुज्जासयत्यञ्जसा, धर्मस्थाननियोजनेन सुधिया ग्राह्य तदस्याः फलम् ॥४३॥ श्रियो वा स्वस्य वा नाशो, येनावश्यं भवेदिह । श्रीसम्बन्धे मुधा स्थैर्यबुद्धिं
बध्नन्ति तत्र किम् ॥४४॥ वृद्धानाराधयन्तोऽपि, तर्पयन्तोऽपि पूर्वजान् । पश्यन्तोऽपि गतश्रीकानहो मुह्यन्ति जन्तवः ॥४५॥ भूपII भ्रपल्लवप्रान्तनिरालम्बविलम्बिनीम् । स्थेयसीं बत मन्यन्ते, सेवकास्तामपि श्रियम् ॥४६॥ इतो विपदितो मृत्युरितो व्याधिरितो
| जरा । जन्तवो हन्त पीड्यन्ते, चतुभिरपि संततम् ॥४७॥ सुधासेकोपमं वाक्यं, निशम्येति तयोदितम् । तेजःपालोऽवदत्पद्मदलदीर्घाक्षि सन्मते ॥४८॥ एवं वक्तुं न जानाति, खां विना कश्चन ध्रुवम् । ताम्रपर्येव सूते स्म, नान्या मुक्तामणीन् सरित् ॥४९॥ है | ताम्रपर्णीतटोत्पन्नमौक्तिकैरिक्षकुक्षिजैः । बद्धस्पभिरा वर्णाः, प्रसन्नाः स्वादवस्तव ॥५०॥ गृहचिन्ताभरहरणं, मतिवितरणमखिलपात्रसत्करणम् । किं किं फलति न कृतिनां, गृहिणी गृहकल्पवल्लीव ॥५१॥ सिद्धिः श्रीनेमिचैत्यस्य, निर्विलम्बं भवेदिह । तं ब्रूहि | परिणामैकशुद्धबुद्धे ममाधुना ॥५२।। भर्तुरादेशमासाद्य, सा ततो मुदिताऽवदत् । सूत्रधारा विधीयन्ते, पृथगति पृथग्निशि ॥५३॥
Page #254
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल 2 | कटाहिः कार्यते तत्र, भोज्यन्ते शिल्पिनोऽखिलाः । पीयूषोपमभोज्यानि, सर्वदापि यथारुचि ॥५४॥ अभ्यङ्गस्नानविश्रामविधानार्थ
अष्टमः चरितम् ।
पृथक् पृथक् । प्रत्येकं सूत्रधाराणां, क्रियते जनयोजना ॥५५॥ निर्विलम्बं ततो धर्मकृत्यानि स्युर्महीतले । सर्वः सन्तोषमायातः, प्रस्तावः।
सोत्साहः स्यात्क्रियासु यत् ॥५६॥ श्रुत्वेति वचनं तस्याः, स सर्वत्र तथाऽकरोत् । कान्तकान्तोपदेशोऽयं, सुस्वादुरमृतादपि ॥५७॥ ॥१२०॥
| निमिता मन्त्रिणा तेन, रीतिं सर्वत्र तादृशीम् । दृष्ट्वा हृष्टाशयाः सर्वे,सूत्रधारादयो जनाः ॥५८॥ सत्कृत्यानि सृजन्ति स्म, त्वरमाणाः |
सयौक्तिकम् । उदारमनसां येन, वसुधैव कुटुम्बकम् ।।५९।। युग्मम् ।। ततश्चन्द्रावतीं प्राप्य, समं दयितया तया । साधर्मिकाणां | वात्सल्यमतुल्यं सचिवो व्यधात् ॥६॥ तन्निवासिजनश्रेणिं, भोजनाच्छादनादिभिः । तथा सन्तोषयामास, समं तत्रत्यभूभुजा ॥६॥ | युग्मम् ।। प्रापत् प्रह्लादनाधीश, श्रीपार्श्व प्रणिपत्य सः । ततः सत्यपुरे श्रीमद्वीरबिम्बनिनंसया ॥६२॥ श्रीवीरं तत्र गाङ्गेयं, प्रपू|ज्य विधिना सुधीः । आर्हतानां च वात्सल्यं, मुनीनां पूजनं व्यधात् ॥६३॥ ततः शङ्खश्वराधीशमभ्यर्च्य पन्नगध्वजम् । धवलकपुरं * प्रापदतुच्छोत्सवपूर्वकम् ॥६४॥ सोऽथ निष्पन्नमाकर्ण्य, नेमिमन्दिरमव॒दे । हेमटङ्कायुतं पुंसे, ददौ वर्धापनाकृते ॥६५॥ श्रीवीरधवलाधीश, सान्तःपुरपरिच्छदम् । द्विसप्तराणकोपेतं, सममादाय सम्मदी ॥६६॥ प्रासादप्रतिमादीनां, प्रतिष्ठार्थ कुटुम्बयुम् । अबुदोर्वी| धरं प्रापद्वस्तुपालः ससोदरः ॥६७॥ युग्मम् ॥ श्रीजावालिपुरस्वामी, नदुलनगरेश्वरः । चन्द्रावतीपुरीनेता, त्रयोऽमी मण्डलेश्वराः ॥
६८|| अन्येऽपि शतशस्तत्र, पुरग्रामाधिकारिणः । तदाहूतास्तदाऽऽजग्मुः, परिवारेण संयुताः ॥६९।।आगादुदयसिंहस्य, राज्यभारMake धुरंधरः । यशोवीर इति ख्यातो, मन्त्री वाक्पतिसनिमः ॥७०॥ महाजनास्तथा सर्वे, श्राद्धानण्यश्च लक्षशः। आययुर्विहितोत्साहा-*
|स्तदुत्सवदिदृक्षया ॥७१॥ चतुर्भिः कलापकम् ।। श्रीमद्विजयसेनाद्याः, सूरयः शीलशालिनः । सप्रतिष्ठाः प्रतिष्ठार्थमैयरुर्मुनिभि-II ॥१२०॥
Page #255
--------------------------------------------------------------------------
________________
80888838888888888888888888
88888888888888888888888
वृताः ॥७२॥ सहस्राः सप्त साधूनां नानागच्छनिवासिनाम् । तस्मिन्नवसरे मन्त्रिगृहे प्रापुर्गरीयसि ॥७३॥ उदारचेतसा भाव्यं, सस्कार्यं कुर्वता सता । सर्वाङ्गीणश्रियः प्राप्तिर्भवेत्परभवे यतः ॥ ७४ ॥ धर्मकार्य तथा कार्य, प्रभुत्वं प्राप्य धीमता । बोधिलाभो भवेद्येन, प्रायो मिथ्यादृशामपि ॥ ७५ ॥ ततः प्रतिष्ठासामग्री, समग्रां श्रावकोत्तमाः । सचिवादेशतश्चक्रुस्तत्तग्रन्थानुसारतः ॥ ७६ ॥ अष्टादशजिनस्त्रात्रयोगवस्तूनि वेगतः । गङ्गाम्भोधिशतस्थानपयांसि विमलानि च ॥७७॥ रौप्यपट्टस्तथा हेमशलाका रत्नमण्डिता । कस्तूरीघनसारौघ श्रीखण्डद्रवसञ्चयः ||७८ || अनेकभोज्यजातानि फलानि विविधानि च । अतिपूतस्तथा नन्दावर्त्तार्होपस्करो महान् ॥७९॥ कर्पूरमिश्रिता वासा, धूपः पापभरापहः । प्रेङ्खधवारकश्रेणीपञ्चगव्यानि भूरिशः ॥८०॥ पुष्पाणां पञ्चवर्णानां राशयः पर्व - तोपमाः । पञ्चरत्नानि कौसुम्भवासांसि प्रवराणि च ॥ ८१ ॥ त्रिषष्ट्याभ्यधिका सारक्रयाणकशतत्रयी। गौरोचनाप्रियंग्वादिहस्ताले पो गतोपमः ||८२ ॥ नेत्रोन्मीलनकार्यार्थ, चन्द्रकान्ताश्मभाजनम् । बभ्रुवुर्घृतसम्मिश्रं सौवीराञ्जनमद्भुतम् ||८३|| सप्तभिः कुलकम् ॥ आसन् सुश्रावकास्तत्र, कुलशीलगुणोज्ज्वलाः । समुद्रपाणयोऽव्यङ्गदेहा दिव्याङ्गसम्पदः ॥ ८४॥ तदीयपाणिपद्मानि रत्नगाङ्गेयक| ङ्कणैः । मत्रीशो भूषयामास, विश्वभूषणमात्मना ॥ ८५ ॥ मङ्गल्योदारशृङ्गाराः, सद्घाटयुगलावृताः । ललितानुपमासौख्यलताद्या मृलोचनाः ॥ ८६ ॥ प्रतिष्ठापुण्यगीतानि, गायन्त्यो मधुरखराः । आसन् सन्निहितास्तत्र, देवप्रोङ्खणकर्मणि ||८७|| युग्मम् ॥ नव्यहे - | मातपत्राणि, प्रतिप्रतिममादधुः । शीर्षेषु पार्श्वयोश्चारुचामराण्यार्हतोत्तमाः ॥ ८८ ॥ एवं विश्वातिशायिन्या, सामय्या सानुजस्ततः । मन्त्री परः सहस्राणि विम्बानि श्रीमदर्हताम् ||८९ || प्रौढोत्सवं प्रतिष्ठाप्य समं श्रीनेमिवेश्मना । गुरुभिर्विधिना शृङ्गे, हैमकुम्भं न्यवीविशत् ॥ ९० ॥ प्रासादप्रतिमादीनां प्रतिष्ठाया महोत्सवम् । सम्यग्दृशः सुरा दृष्ट्वा, ववर्षुः कुङ्कुमाम्भसा ॥ ९१ ॥ तचैत्ये परितो
Page #256
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम् ।
॥१२१॥
£LIRE SIDE-SEDEXEDE DE DE TAXES
प्रीणयामा
| देवकुलिकासु महाध्वजम् । स दत्त्वा विदधे दीपं मङ्गलोपपदं ततः ॥ ९२ ॥ दिव्यभोज्यैः शुभराज्यैरार्हतानां परम्पराम् । सतुर्भक्त्या, मन्त्रिणौ युक्तितस्ततः । ९३ ॥ यथाकामान्नसम्भुक्त्या, सुहितात्माखिलो जनः । इहापि निर्वृतिं लेभे तदा कष्टं विना| प्यहो ||१४|| विशुद्धैरन्नपानाद्यै गौरवं यतिसन्ततेः । विदधे ललितादेव्या, देव्यानुपमया तथा ||९५|| दिव्यरत्नाद्यलङ्कार | नुपदीचक्रतुः क्रमात् । तौ वीरधवलादीनां यथायुक्ति महीभुजाम् || ९६|| यशोवीरादिमत्रीन्द्रमण्डलस्य मनोहरान् । उदारस्फारशृङ्गारान्, दुष्प्रापान् सदामपि ||१७|| आर्हतानां विशेषेण सर्वेषामन्यदेहिनाम् । पञ्चवर्णदुक्कूलानि ददतुस्तौ यथागुणम् ॥९८॥ युग्मम् ॥ पूरयामासतुर्दानवीरौ तौ वीरशासने । प्रार्थितार्थप्रदानेन, मार्गणानां मनोरथान् ॥ ९९ ॥ यतः-निर्मायाद्भुतनेमिनाथ वसतौ प्रौढप्रतिष्ठोत्सवान् कुर्वन्नर्बुदभूधरस्य शिखरे मङ्गल्यदीपं तदा । लक्षाणि प्रददौ जिनेन्द्रपुरतो द्वाविंशतिं मार्गणश्रेणेर्विस्मितसर्वभूपतिरहो श्रीवस्तुपालः किल ॥ २००॥ चक्रतुः सचिवौ सर्वमुनीनां प्रतिलाभनाम् । विशुद्धोर्णायुवस्त्राद्यैः, स्वयं भक्त्या समर्पितैः ॥ १॥ वस्तु| पालयशोवीर तेजःपालास्त्रयोऽप्यमी । तदा त्रिजगतीशोभाकारिसौभाग्यसम्पदः ॥ २ ॥ एकत्र मिलिताः श्रीमन्नेमिदृष्टौ सुधामुचि । विदधुर्विस्मयं तत्र, न केषां भूभुजामपि ||३|| तच्चातुर्यगुणाकृष्टहृदयः स्तुतिमातनोत् । वस्तुपालो यशोवीरमत्रिणः सद्गुणोदधिः ॥४॥ बिन्दवः श्रीयशोवीर मध्ये शून्या निरर्थकाः । सङ्ख्यावन्तो निगद्यन्ते त्वयि केन पुरस्कृताः ||५|| यशोवीर ! लिखत्याख्यां, यावचन्द्रं विधिस्तव । न माति भुवने तावदाद्यमप्यक्षरद्वयम् || ६ || सन्तः समन्तादपि तावकीनं, यशो यशोवीर बत स्तुवन्ति । जाने जगत्सजन लज्जमानः प्रविश्य कोणे खमतः स्थितोऽसि ||७|| प्रकाश्यते सतां साक्षाद्, यशोवीरेण मत्रिणा । मुखेन्दुज्योतिषा ब्राह्मी, करे श्रीः स्वर्णमुद्रया ||८|| यशोवीर उवाच - श्रीमत्कर्णपरम्परागत भवत्कल्याणकीर्त्तिश्रुतेः प्रीतानां भवदीयदर्शनविधौ
88888888883%8D%2838
अष्टमः प्रस्तावः ।
॥१२१॥
Page #257
--------------------------------------------------------------------------
________________
--84837% -8483KX483888883%€8% 8888
नास्माकमुत्कं मनः । श्रुत्यप्रत्ययिनी सशङ्कहृदया (सदा ऋजुतया) ह्या (वा) लोकविश्रम्भिणी, दाक्षिण्यैकनिधानकेवलमियं दृष्टिः समुत्कण्ठते ||९|| तेजःपाल उवाच
लब्धं जन्मफलं कृतं कृतयुगाचारोचितं साम्प्रतं, लक्ष्मीः प्राप फलं कुलं समभवत् श्लाघ्यं सतामप्यहो । श्रीमन्नेमिजिनेन्द्रमन्दिरमहोल्लासिप्रतिष्ठाक्षणे, प्राप्तस्त्वं यदनेकनिर्मल गुणस्त्रविद्यावाचस्पतिः ॥ १० ॥ एवं तत्राभवंस्तेषां कथाः पृथुरसप्रथाः । पृथात्मजोपमश्रीणां विश्वप्रीणकसम्पदाम् ||११|| यशोवीरमहामाध्यममात्य पुरुषोत्तमः । प्रासादगुणदोषादिस्वरूपं पृष्टवांस्तदा ||१२|| सोपानलघुतापृष्टिपूर्वज स्थापनादिकम् । दूषणं स जगौ तत्र, दुर्लङ्ख्या भवितव्यता ||१३|| चैत्यपूजादिदायादिगोष्ठिकानां व्यवस्थितिः । व्यधायि मन्त्रिणा तत्र, समक्षं सर्वभूभुजाम् ||१४|| वेदाष्टभानु (१२८४ ) सङ्ख्येऽत्र, वर्षे श्रीनेमिवेश्मनि । अकारि फाल्गुने मासे, | प्रतिष्ठा तेन मन्त्रिणा || १५ || परमारनरेन्द्रेण, सोमसिंहेन शासने । दत्तो देवाडिकाग्रामः, पूजार्थं नेमिनस्तदा ॥ १६ ॥ भुण्डपद्राभिधग्रामः, श्रीचौलुक्यमहीभुजा । सुवृत्तये तदाऽदायि, चैत्यपूजाधिकारिणाम् ||१७|| अत्र प्रशस्तिः - तेजःपाल इति क्षितीन्दुसचिवः शङ्खोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिन्दुकुन्दविशदं नेमिप्रभोर्मन्दिरम् । उच्चैर्मण्डपमग्रतो जिनवरावासद्विपञ्चाशतं, तत्पार्श्वे च (पु) बलानकं च पुरतो निष्पादयामासिवान् ||१८|| तेजःपालविनिर्मितेऽर्बुद गरौ श्रीनेमिनो मन्दिरे, चञ्चत्तोरणमत्तवारणघटास्तक्षोर|णीकौतुकम् । नानामण्डपमण्डलीविरचनाश्चन्द्रांशुशुद्धाश्मनां दृष्ट्वा दृष्टिफलं सदाप्यविकलं लेभे विदम्भं जनः || १९|| विसृज्य सकलं सङ्घ, सत्कृत्योचितभक्तितः । प्रीणयित्वा तथा भोगैर्नभोगमचलेश्वरम् ||२०|| ततः पश्चासरं पार्श्व, नत्वा श्रीमति पत्तने । आययौ, भूभुजा सार्क, सोत्सवं स स्वके पुरे ॥ २१ ॥ युग्मम् ॥ तेजःपालान्वितो वस्तुपालोऽर्बुदगिराविह । चक्रेऽचलेश्वरविभुमण्डपं
米粉米米粉步器米米粉米米步器米銀步米粉粉粉
Page #258
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
चरितम् ।
॥१२२॥
2838708037-8488989K9K48+
चण्डपान्वयी ||२२||
1884488888888888888463% *8%
अष्टमः
श्रीमातुः सदने जीर्णे, न्यूनं च यदभूत्पुरा । उद्धर्तुमिच्छतात्मानं, तत्सर्वममुनोद्धृतम् ||२३|| दण्डेशविमलोपज्ञे, तेने तेन प्रस्तावः । जिनौकसि । श्रेयसे मल्लदेवस्य, मल्लिदेवस्य खत्तकम् ||२४|| कैलासादपि निर्मलं मलयतोऽप्याविर्भवत्सौरभं, हेमाद्रेरपि तुङ्गशृङ्गमभितः शीतं हिमाद्रेरपि । श्रीमन्नेमिजिनेन्द्र मन्दिरमिदं लावण्यसिंहाभिधाभाजो भ्रातृवरस्य (जः खागरहस्य) पुण्यकृतये श्रीतेजपालो व्यधात् ||२५|| विमलदण्डपतिर्विमलाचलाधिपजिनालयमारचयत्पुरा । इह गिरावकौ तु सकौतुकं व्यधित रैवतदैवतमन्दिरम् ॥ ||२६|| प्रद्युम्नाम्बासाम्बावलोकनाख्यानि तानि चत्वारि । इह सानूनि स नूनं, व्यतनोदन्यूनलक्ष्मीकः ||२७|| आसीच्चण्डप इत्यमुष्य तनुजश्चण्डप्रसादस्ततः सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूणिगमल्लदेवसचिव श्रीवस्तुपालाभिधास्तेजः पालसमन्विता जिनमतारामोल्लसन्नीरदाः ||२८|| श्रीमश्रीश्वरवस्तुपालतनयः श्रीजैत्रसिंहा भिधस्तेजः पालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिधः । एतेषां दश मूर्त्तयः करिवधूस्कन्धाधिरूढा इह, भ्राजन्ते जिनदर्शनार्थमयतां दिग्नायकानामिव ||२९|| अनुदिनमिह रङ्गक्षोणिरङ्गन्नट स्त्रीप्रति कृतिपरिपाटी भङ्गिमाटीकनेन । स्फटिकपटलराजन्मण्डपक्रोडचूडामणिवलयविशालः शालभञ्जिीसमूहः ॥ ३० ॥ पाताले निखिलेऽपि खेलति दिवि देशान्तरे दीव्यति, क्रोडे क्रीडति भृतलस्य रमते काष्ठासु चाष्टास्वपि । आसाराजतनूजकीर्त्तिरियमित्येतत्समन्तादयं, वातान्दोलितकेतुहस्तचलनैराख्याति साक्षादिह ||३१|| भट्टः प्रकटबाकू कश्चिदायातो दूरदेशतः । निषीदात्रेति सस्नेह, जगदे मन्त्रिणान्यदा ||३२|| स्थानाभावान्महामात्य, कुत्रोपविश्यते मया । कथं नास्तीत्यवग्मन्त्री भट्टोऽप्याचष्ट कौतुकी ॥३३॥ अन्नदानैः पयःपानैर्धर्मस्थानैश्च भृतलम् । यशसा वस्तुपालेन, रुद्धमाकाशमण्डलम् ||३४|| पुनर्निगद्यतामेतद्वाचं तन्वति मन्त्रिणि।
॥१२२॥
Page #259
--------------------------------------------------------------------------
________________
सप्त कृत्वा त्वसौ तस्थौ(भणिखाऽसौ),मौनेनैव च मन्युभृत् ॥३५॥ अस्यैतद्वर्त्तते भाग्यमिति ध्यात्वा समार्पयत् । स तस्मै सप्त लक्षाणि सप्त वर्षासनानि च ॥३६॥ अश्रौषीदन्यदा धर्मदेशनाममृतश्रवाम् । स्तम्भतीर्थपुरे मन्त्री, श्रीदेवेन्द्रमुनीशितुः ॥३७॥ विशतिस्थानकैरेतैर्विधिना विहितैः सुधीः । लभते त्रिजगच्छ्लाघ्या, तीर्थकृत्पदवीमिह ॥३८॥ यतः-अरिहन्तसिद्धपवयणगुरुथेरबहुस्सुए तवस्सीसु । वच्छलया ए(ल्लयाय)एसिं, अभिक्खनाणोवओगे अ॥३९॥ दंसणविणए आवस्सएसु सीलव्वए निरईयारे(रो)। खणलवतवचियाए, वेयावच्चे समाहिए(अ)॥४०॥ अपुव्वनाणग्गहणे, सुअभत्तीपवयणे पभावणया। एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो
॥४१॥ सर्वेषु स्थानकेष्वद्भक्तिः कार्या विवेकिना । सम्यग्दर्शनशुद्ध्यर्थ, त्रिसंध्यं श्रीजिनार्चनात् ॥४२।। जिणपूअणं तिसंझं, कुseणमाणो सोहएअ सम्मत्तं । तित्थयरनामगोत्तं, बन्धइ सेणिअनरिन्दन ॥४३॥ तत्राद्ये स्थानके मत्रिन् !, विशेषात् श्रीमदर्हताम् । * भक्तिः कार्या त्रिधा शुद्ध्या, तन्नामस्मरणादिना ॥४४॥ द्रव्यभावविभेदाभ्यां, जिनभक्तिर्द्विधा स्मृता। तत्राद्याहगृहप्रौढबिम्बपूजोEa सवैभवेत् ॥४५॥
जिनाज्ञापालनं सम्यग् , भावभक्तिर्बुधैर्मता । अनयाऽन्तर्मुहूर्तेन, प्राप्यते पदमव्ययम् ॥४४॥ यतः-उक्कोसं दव्वत्थुयमाराहिय श जाइ जाव अच्चुयं । भावथुएणं पावइ, अंतमुहुत्तेण निव्याणम् ॥४७॥ सामान्यतोऽथवा भक्तिः, पञ्चधा या स्मृता परा । पुष्पाद्य*_दिभेदेन, भवभीतिविभेदिनी ॥४८॥ आद्ये पदे विधेया सा, भक्तिः शक्त्यनुसारतः। विधिपूर्वाहतां भक्तियद्वीज बोधिसम्पदः ॥ * ॥४९॥ तृणाग्निनोपमाभेदै-रष्टधा सार्थवाहताम् । प्रकाशतारतम्येन, तत्त्वबोधनिबन्धनम् ॥५०॥ यतः-तृणगोमयकाष्ठदीपकानलरत्नोLal दुरवीन्दुभानिभा । जिनभक्तिरिहार्द्धपुद्गलात्तनुते मुक्तिसुखानि तद्भवे ॥५१॥ राजसी तामसी भक्तिः, सात्विकीति विधाऽर्हताम् ।
Page #260
--------------------------------------------------------------------------
________________
॥१२३॥
श्रीवस्तपाल राजसी छबना लोकरञ्जनाथ जिनार्चना ॥५२॥ कषायकलुषस्वान्तः, किश्चित्फलसमीहया । जापार्चनादिका भक्तिर्या सा ख्याता तु
अष्टमः चरितम् ।। तामसी ॥५३।। या द्रव्यक्षेत्रकालादीननपेक्ष्य शुभाशयात् । फलाशंसोज्झिता भक्तिः, सात्विकी सा शिवावहा ॥५४॥ स्नात्रोत्सवम- प्रस्तावः।
हापूजाध्वजारोपादिसत्क्रियाः । कुर्वता सर्वथा शुद्धभावभावितचेतसा ॥५५।। इत्युक्तानेको भक्तिरर्हता विश्वतायिनाम् । प्रथम स्थानके मनिन्, कर्तव्या शिवसाधनम् ॥५६॥ युग्मम् ॥ ये पञ्चदशधा सिद्धाः, सिद्धानन्तचतुष्टयाः । कर्माष्टकविनिर्मुक्ता, लोकाग्रे च प्रतिष्ठिताः ॥५७॥ तेषां भक्तिद्वितीये स्यात्तद्ध्यानप्रतिमार्चनैः। तत्स्वरुपसमावेशात्तन्नमस्कारजापतः ॥५८॥ भक्तिः प्रवचने कार्या, | तृतीयेऽथ पदेऽनघा । चतुर्विधोऽपि श्रीसङ्घो, ज्ञेयं प्रवचनं बुधैः ॥५९॥ चतुर्थे स्थानके सम्यग्गुरोभक्तिर्विधीयते । तीर्थकृत्कर्मणो
बीजं, गुरुभक्तिर्यतः परम् ॥६०॥ वयःपर्यायसिद्धान्तस्त्रिधा वृद्धवाः प्रकीर्तिताः । तद्भक्तिः पञ्चमे कार्या, तीर्थकृत्सम्पदः पदम् ॥६१॥ Makal षष्ठे भक्तिस्तथा कार्या, बहुश्रुतेषु साधुषु । विकृष्टतपसाढथेषु, सप्तमे च तपस्विषु ॥६२॥ अष्टमे सततं कार्या. सम्यग्ज्ञानोपयोगिता। late
सम्यक्त्वं नवमे शुद्धं, पालनीयं विशेषतः ॥६३॥ दशमे विनयः कार्यः, सद्गुणश्रेणिशालिषु। जिनेन्द्रपदवी येन प्राप्यते लीलयाद्भुता ॥६४॥ एकादशे विधेयः स्यात् , पशिधावश्यकोद्यमः। द्वादशे निरतीचारं, ब्रह्म धार्य दिवानिशम् ॥६५॥ क्षणे क्षणे शुभध्यानं, विधातव्यं लवे लवे । आरोप्य समतायां खं, मानसं तु त्रयोदशे ॥६६॥ चतुर्दशे तपोवृद्धिविधेया तु विवेकिना । देयं पञ्चदशे पात्रदानं सद्भक्तिपूर्वकम् ॥६७॥ वैयावृत्यं विधातव्यं, षोडशे तु जिनादिषु । समाधिकरणं सप्तदशे सङ्घजनेऽखिले ॥६८॥ अपूर्वज्ञानग्रहणं, भवत्यष्टादशे पुनः । एकोनविंश के स्थाने, श्रुतभक्तिः शुभोदया ॥६९॥ विंशे तु जिनतीर्थस्य, कार्या प्रौढप्रभावना । स्नात्रोत्सवसङ्घपूजा, नानाश्रावकगौरवैः ।।७०॥ ध्रुवं जिनेश्वररेतान्याराध्यन्तेऽखिलैरपि । तीर्थकृत्पदकारीणि, तपोभिर्विविधैः पुरा ॥१२३॥
Page #261
--------------------------------------------------------------------------
________________
७१॥ इत्याकर्ण्य गुरोः पार्श्वे, मत्री सुधर्मसेवधिः। प्रपेदे विंशतिस्थानतपः प्रौढोत्सवैस्तदा ॥७२॥ उपवासैस्ततस्तानि, विंशतिस्था
नकान्यसौ। विधाय विधिना सम्यग् , जिनभक्तितरङ्गितः ॥७३॥ निर्ममे समहं तत्कतपउद्यापनं महत् । सर्वश्रीसङ्घवात्सल्यगुरु* पूजापुरस्सरम् ॥७४॥ युग्मम् ॥ तद्यथा-विंशति तत्र चैत्यानि, हेमकुम्भाङ्कितानि सः । पुरेषु श्रीजिनेन्द्राणां, कर्णावत्यादिषु व्यधात*
७५।। तावती (तावन्त्यः) प्रतिमा नव्याः, पञ्चवर्णमनोहराः । निर्माय निदधे तेषु, चैत्येष्वेष कृतोत्सवम् ॥७६॥ चतुर्विंशतितीगर्थेशचरित्राणां पृथक् पृथक् । आदर्शास्तावतो मत्री, श्रुतभक्तरलेखयत् ॥७७।। द्वादशवतसंयुक्तान् , विंशतिश्रावकांस्तथा । वात्स
ल्यपूर्वकं द्रम्मलक्षरेष पुपूज च ॥७८॥ श्रीयुगादिजिनेन्द्रेणोपदिष्टां भरतेशितुः । चतुर्दशी महापर्व, पुण्यकोटिफलप्रदम् ॥७९॥ विज्ञाय विदधे तत्रोपवासं स चतुर्विधम् । सबन्धुः श्रेयसे मत्री, वत्सराणि चतुर्दश ॥८॥ युग्मम् ॥ वात्सल्यमाहेतश्रेणेस्तत्पारण-11
कवासरे । वस्तुपालो व्यधान्नूभं, नानाभोज्यपुरस्सरम् ।।८१।। कुर्वतानेकशस्तेन, सत्पुण्यानीति मन्त्रिणा । निजैश्वर्यरमा चक्रे, कृतार्था Pe जन्मना सह ॥८२।। श्रीवीरधवलाधीश, कश्चित्कर्णजपोऽन्यदा । पापोऽन्यविघ्नसन्तोषी, रहस्येवमुवाच सः ॥८३॥ स्वामिन् श्रीवस्तु
पालस्य, सर्वैश्वर्यसुखस्पृशः । निसारके पतत्यह्नि(ह्वा), भुक्त्वोच्छिष्टोऽतिथिवजैः ॥८४॥ शाल्योदनोच्चयो यावान् , तावानपि नृपालये । सर्वेषां राजपुत्राणां, भवेद्भुञ्जानक(विका)क्षणे ॥८५।। एतदाकर्ण्य वर्णानां, गुरुः कोपभरोद्धरः । अंतरन्तःपुरं तस्थौ, कला
वपुरपाटवम् ।।८६॥ ततः कार्पटिकाकारवेषं निर्माय भूपतिः । मन्त्रीश्वरगृहाचारं, कर्तु लोचनगोचरम् ।।८७॥ भोजनाय समायाse सीत्तीर्थवासिजनः सह । केदारकङ्कणोद्दीप्रपाणिः कोपकराल(कडार)दृक् ।।८८॥ निविष्टेषु तदा तेषु, रक्तवासोविराजिषु । तेजसा
भूयसा भूमान् , राजेव विरराज सः ॥८९॥ सर्वादरेण सर्वेषां तेषां सौख्यलता प्रिया । प्रियाणि भोज्यवस्तूनि, सानन्दा पर्यवेष
Page #262
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल
यत् ॥९०॥ लीलया ललिता देवी, मोदकांस्तु प्रमोदिनः । मुमोच नृपतेः स्थाले, विशाले सिंहकेसरान् ॥ ९१ ॥ भुङ्क सर्वेऽपि सोत्साहं, चरितम् । | नानाभोज्यान्यधोमुखाः । इतस्ततो महीजानिर्भुञ्जानांस्तु निरीक्षते ||१२|| क्वचिदेशान्तरायात श्रावकांस्तत्र संस्थितान् (कान्पावकान्भुवः) । क्वचित्सुश्राविकाः पुण्यदेवता इव सुव्रताः || ९३ || अश्नानान् परया युक्त्या, भोज्यानि विविधान्यपि । यतिनो यतिनीः क्वापि, भ(यु) क्या विहरतस्तथा ।। ९४ || क्वापि दैगम्बरीः श्रेणीर्यथेष्टं कुर्वतीश्वरीम् । स्वच्छन्दं कुर्वतीः क्वापि, मनोज्ञं भोजनं पुनः ॥ ९५ ॥ चतुर्भिः कलापकम् ।
इतश्च-विहृत्यर्थागतानेकसाध्वावर्जनतत्परा । जवादनुपमादेवी, कस्यचिद्यतिनस्तदा ॥ ९६ ॥ सर्पिषा पूरयत्पात्रमभितोऽपि यथातथा । सस्नेहा भूमिरप्यासीद्गलद्भिर्धृतबिन्दुभिः ||१७|| युग्मम् ॥ नीचलोकोपहासाय, पात्रमेतद्भविष्यति । विमृश्येत्युन्मृजाश्चक्रे, सा पुनश्वीरवाससा ||९८|| साधुः स्माह तदा बाढमिदं चीनांशुकं तव । देवदुष्योपमं स्नेहाद्विनश्यति महाशये ! ॥ ९९ ॥ मषीवासस्तदादाय पात्रमेतद्विशुद्धये । विशुद्धधर्ममार्गज्ञे युचितं (नह्य तत्) शोभते जने || ३०० || जजल्पानुपमाप्येवं, मैवं वद तपोधन ! । श्री चौलुक्य नरेन्द्रस्य, वयं कर्मकरा यतः ॥ १ ॥ चीवरेषु लगत्येतदस्माकं च भवेद् ध्रुवम् । सर्वं पुण्यमिदं सौवस्वामिनस्तु विधीयते ॥२॥
कदाचित्कर्मयोगेन जाता कांदविकालये । अभूवं मे तदा वासो भवेत् स्नेहमलीमसम् ||३|| प्रक्षाल्य पामरश्रेणेर्भाजनानि दिने दिने । अभविष्यं शुनीवाह, परोच्छिष्टान्नभुक् तथा || ४ || श्री वीरधवलखामिप्रसादानो गृहाङ्गणे । इयांस्तु विस्तरो लक्ष्म्या, विश्वोपकरणक्षमः ||५|| ततो भृत्या अमी सर्वे, वयं तस्य महीभुजः । वर्द्धयामोऽधुना पुण्यं, नानासत्कार्यनिर्मितेः ॥ ६ ॥ सत्क्षेत्रं | सुकुले जन्म, सदाचारोज्ज्वलाः श्रियः । सौम्यदृम्भूपतिश्चैव लभ्यन्ते सुकृतोदयात् ॥७॥ यत्किञ्चित् क्रियते श्रेयः, परवद्भिस्तु
॥१२४॥
284888888883% 88888888888888
अष्टमः प्रस्तावः ।
॥ १२४॥
Page #263
--------------------------------------------------------------------------
________________
| सेवकैः । प्रसादस्तत्र भृभर्तुः, कारणं परमं स्मृतम् ।।८॥ इत्याकर्ण्य वचस्तस्या, गीर्देव्या इव वास्तवम् । भुञ्जानो जगतीजानिर्विसितोऽन्तर्व्यचिन्तयत् ॥९॥ अहो मधुरता पाचामहो गम्भीरता हृदः । अहो विनयशालित्वं, शीलस्याहो परा स्थितिः॥१०॥ यथावस्थितसद्भावप्रकाशप्रकटोदया। अहो निष्कृत्रिमा खामिभक्तिरस्या हृदि स्थिता ॥११॥ साक्षाद्देवतयेवोक्तमनया विनयाद्वचः। तदेषा वर्णिनी नूनं, कुलत्रितयपावना ॥१२॥ ततः प्रशान्तकोपात्मा, भुक्त्वाऽऽचान्तः शुभाम्बुभिः । आस्वाद्य स्वादु ताम्बूलं सुरभिश्चन्दनद्रवैः ॥१३॥ तस्या ज्योत्कारमाधाय, विस्मेरवदनोऽवदत् । कस्य सारङ्गनेत्रेयं, वामाङ्गस्थितिशालिनी ॥१४॥
तमुवाच जनः कश्चिद्वेश्मसर्वस्खदेवता । तेजःपालमहामात्यदयिता विदिता गुणैः॥१५॥ लक्षणैरुपलक्ष्याथ, तं चौलुक्यक्षितीश्वरम् । परिवारजनो मत्रियुगलाय न्यवेदयत् ॥१६।। ससम्भ्रमं समागत्य, सानुजः सचिवाग्रणीः । नत्या प्रसादयामास, विनयाश्चितया नृपम् ।।१७।। व्याजहार धराधीशस्तदै(2)वं प्रीतिपूरितः। भवन्तावेव मूर्धन्यौ, धन्यौ च गृहमेधिषु ।।१८॥ वेश्मशृङ्गारमाणि-| क्यकल्पा कल्पलतोपमा। मध्येगेहं वसत्येषा, सर्वाभीष्टार्थसाधनी ॥१९॥ अस्याः सद्वाक्यपीयूषास्वादशीतलचेतसः । आसीत पिशुनभूकोपतापोपशमनं तनौ ॥२०॥ ततः सिंहासने हैमे, हेमाद्रिसदृशे नृपम् । निवेश्य सचिवोऽपृच्छद्गुहागमप्रयोजनम् ॥२॥ तस्मै यथास्थितं सौवं. स्वरूपं जल्पतस्तदा। सबन्धुर्दर्शयामास, मत्री भक्तिमनुत्तराम् ।।२२॥ पञ्चरत्नाभिधं वाजिरत्नं रत्नावलीयुतम् । प्राभृतीकृत्य तं मत्री, प्रीणयामास साञ्जसम् ॥२३।। अन्यदा सचिवं साह, हसन् चौलुक्यभूपतिः। सभासिंहासनारूढः(वाजिशाला-| मुपासीनः), सामन्तश्रेणिभिर्वृतः ॥२४॥ वस्तुपालमहामात्य, मत्तोऽपि भवतो व्ययः । अधिकः क्रियते कस्माद्, धनकोटीभिरन्वहम् ॥२५॥ बलानामिह सर्वेषां, गरीयः सम्पदा बलम् । तदभावे गृही लोके, समर्थोऽपि तृणायते ॥२६॥ निर्गुणोऽपि गुणाढ्यानां,
Page #264
--------------------------------------------------------------------------
________________
अष्टमः प्रस्तावः।
श्रीवस्तुपाल के धुर्येवात्र निधीयते । विधीयते गृहे यस्य, निर्भरं सम्पदा पदम् ॥२७॥ यतः-आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां, मृचरितम् । | कवं मितभाषितां वितनुते मौग्ध्यं भवेदार्जवम् । पात्रापात्रविचारभावविरहो यच्छत्युदारात्मता, मातर्लक्ष्मि तव प्रसादवशतो दोषा
* अपि स्युर्गुणाः ॥२८॥ ततो नैवाधिकः कार्यः, क्वापि कार्ये धनव्ययः । भवतैवं भुवः पत्या, प्रोक्तो मन्त्रीश्वरोऽवदत् ।।२९।। यत्राहं ॥१२५॥ | विदधे धर्मस्थानमानन्दतो भुवि । नव्यं दिव्यानुभावेन, तत्र प्रादुर्भवेनिधिः ॥३०॥ अन्यच्च-यत्र कुत्रापि मे भालच्छाया पतति
तरिक्षतौ । तत्राप्याविर्भवत्येव, निधानं प्रायशो विभो ! ॥३१॥ इत्याकर्ण्य वचः कर्ण्य, तस्याऽखानि महीभुजा । भूमिर्भालस्थलोद्योतकिञ्जल्कितरजोबजा ॥३२॥ कपर्दियक्षसान्निध्यानिधानं तत्र तत्क्षणे । आविर्बभूव भृभर्तुः, प्रीतये हेमपूरितम् ॥३३॥ तदालोक्य |क्षमाखामी, निश्चिकाय निजे हृदि । भाग्यं श्रीवस्तुपालस्य, निरालस्यतयाऽद्भुतम् ॥३४॥
अन्यदा पुण्डरीकाद्रौ, कपर्दिसुरमन्दिरम् । नवीनं विदधाने श्रीवस्तुपाले जना जगुः ॥३५।। निधिरत्र कथं प्रादुर्भावी मध्येऽश्मनोऽधुना । एवं निगदतां तेषां, तत्राभृत्प्रकटः फणी ॥३६॥ तं विलोक्य जना रौद्र, भीतात्रेसुरितस्ततः । अद्राक्षीत्सचिवः किन्तु,
तत्र रत्नावली पुनः ॥३७॥ तामादाय करे मत्री, सचित्रीकृततजनान् । दर्शयन्त्रिजभाग्यालिं, साक्षात्तत्स्तुतिमब्रवीत् ॥३८॥ चिन्ताॐ मणिं न गणयामि न कल्पयामि, कल्पद्रुमं मनसि कामगवीं न वीक्षे । ध्यायामि नो निधिमधीतगुणातिरेकमेकं कपर्दिनमहर्निश
मेव सेवे ॥३९॥ दानलीलायितं श्रुखा, तस्य विश्वातिशायिकम् । तत्रागादन्यदा वैरिसिंहः सत्कविपुङ्गवः ॥४०॥ तं कविं सचिवो * वीक्ष्याब्रवीत्त्वं कुत आगतः । देवपत्तनतो देव, प्राप्तोऽहं सोऽवदत्पुनः ॥४१॥ उमामहेशयोस्तत्र, सुखसागरमग्नयोः । अस्ति स्फा-1
तिमती प्रीतिरिति मन्त्रिणि वादिनि ॥४२॥ तत्कालप्रतिभोत्पन्नकाव्यमेतत्कवीश्वरः । व्याजहार सुधासारश्रवं मन्त्रिप्रसत्तये ॥४३॥
॥१२५॥
Page #265
--------------------------------------------------------------------------
________________
XXXXXXXERTERS BAB
त्वं जानीहि मयास्ति चेतसि धृतो विश्वोपकारवती, किं खामिन् (नामा) भविता स शीतकिरणो नो स्वर्गिवृक्षो न हि । पर्जन्यो न हि चन्दनो न हि ननु श्रीवस्तुपालस्त्वया ज्ञातं सम्प्रति शैलपुत्रिशिवयोरित्युक्तयः पान्तु वः ||४४ || पुनर्वदेति तेनोक्तः, स कवीशस्त्रिरत्रवीत् । मन्त्री तस्मै ददौ प्रीत्या, द्रम्मलक्षत्रयं ततः ॥४५॥ चक्रेऽथ ललितादेवी, नमस्कारफलाभिधम् । उद्यापनं तपः पूतं, जैनशासनदीप्तये || ४६ || तथा च-तत्र नामाकृतिद्रव्यभावभिन्नार्हतां धुरि । कर्केतनैर्महारतैः स्थूलमुक्ताफलादिभिः || ४७|| वलये | प्रथमे शुद्धभक्तये विस्मिताङ्गिभिः । अष्टाषष्टिमितैः पूर्व, द्वितीये वलये तथा ॥४८॥ माणिक्यैर्दीप्तिभिर्दीयैः सिद्धभेदैरिवानषैः । सिद्धानां भक्तये पञ्चदशभेदात्मनां पुनः || ४९ || षट्त्रिंशत्प्रमितैर्हेमटङ्कर्दीनारनामभिः । तृतीयवलये सूरिभक्त्यै गोमेधसंयुतैः ॥५०॥ द्वादशप्रमितैः पाचिरत्नैर्वैडूर्यमिश्रितैः । द्वादशाङ्गीभृतां भक्त्यै, वाचकानां चतुर्थके ॥५१॥ स्फुरत्प्रभैर्मरकतैः सप्तविंशतिसम्मितैः । साधूनां गुणसिन्धूनां पञ्चमे वलये तथा ॥ ५२ ॥ चूलिकाक्षरसङ्ख्यानैर्नालिकेरादिभिः फलैः । पक्वान्नैर्मोदकाद्यैश्च सा तदा विस्तरं | व्यधात् ||५३|| सप्तभिः कुलकम् | आरात्रिकोत्सवं तत्र, कृत्वा मङ्गलदीपकम् । जैत्रसिंहो व्यधान्मन्त्री, प्रीणितार्थिवजः पुनः ॥ |||५४ ॥ श्रीसङ्घलोकवात्सल्यमतुल्यं विदधे तया । अष्टषष्टिमितश्राद्धशतानां सिचयार्पणम् ॥५५॥ एकादशापि साधूनां शतान्यम्बरदानतः । प्रीणयन्त्या तया चक्रे, गुरुता जिनशासने || ५६॥ अथानुपमया देव्या, शास्त्रोक्तविधिना तपः । कृत्वा नन्दीश्वरद्वीपचेत्याराधनसञ्जया || ५७ ॥ पूर्णे तपोविधौ तस्मिन्नुद्यापनमहो महान् । श्रीदेवगुरुसङ्घादिपूजागौरवपूर्वकम् ||५८॥ व्यधायि विस्मिता| नेकलोकः सुश्लोकपूतया । तेजःपालमहामात्यसुखसाम्राज्यमग्नया ॥ ५९ ॥ त्रिभिर्विशेषकम् । तथा द्विपञ्चाशत्पवित्राणि, जादरस्य ढात्मनः । उदारप्रतिमावन्ति, भरितानि विभक्तिभिः ||६० || दीव्यत्समवसरणान्यास्पदं शिवसम्पदः । शुभध्यानासनानीव, दन्त
ZUBEHERE SEEK HELEDE
Page #266
--------------------------------------------------------------------------
________________
अष्टमः प्रस्तावः।
श्रीवस्तुपाल
सिंहासनानि च ॥६॥ रत्नमाणिक्यबिम्बानि, तावन्ति गणधारिणाम् । अजिह्मब्रह्मनिष्ठानां देवतावसराय च ॥६२॥ चतस्रः प्रतिमाः | चरितम् ।।
सालङ्काराः श्रीशाश्वताईताम् । चन्द्राननवारिषेणवर्द्धमानर्षभाभिधाः ॥६३॥ आशापल्ल्यां महापुयाँ, हेमकुम्भावलीयुतम् । नन्दीश्व
रावताराख्यं, चैत्यं चन्द्राश्मगर्भितम् ॥६४॥ तिलकानि जिनेन्द्राणां, रत्नहेममयानि च । निर्मितानि तया सत्या, तदुद्यापनहेतवे ॥ ॥१२६॥ ॥६५॥ षड्भिः कुलकम् । पक्कान्नानि च सर्वाणि, फलानि निखिलान्यपि । सर्वधान्यानि धन्यासौ, प्रासादे श्रीजिनाग्रतः ॥६६॥
ढोकयामास सद्युक्त्या, श्रीसङ्घानन्दवृद्धये। तत्र स्नात्रोत्सवश्चक्रे, तथा श्रीसचिवादिभिः ॥६७॥ युग्मम् ॥ सोत्सवं श्रीजिनागारेध्वजारोपपुरस्सरम् । आरात्रिकं व्यधान्मन्त्री, प्रदीपं मङ्गलाय च ॥६८॥ कृखाऽथ सङ्घवात्सल्यं, सङ्घपूजादिसत्क्रियाः। दुकूलैः श्राव
कश्रेणिं, श्राविकाश्च पुपूज सा ॥६९।। नमस्कारमहामन्त्रकोटीजापपुरस्सरम् । कोटितण्डुलसंयुक्तं, कोटिमुक्ताफलोच्चयम् ॥७०॥ श* तकृतः शतसङ्ख्यैर्नालिकेरादिभिः फलैः । भृङ्गारéमदीपैश्च, परितः किल मण्डितम् ।।७१।। शत्रुञ्जयावताराख्ये, प्रासादे पुरतोऽर्हतः । * निधाय भूषितं हेमध्वजेनाम्बरलेखिना ॥७२॥ प्रिया सौख्यलता देवी, कोट्युद्यापनमद्भुतम् । विदधे विधिना देवगुरुसङ्घार्चनोसवैः ॥७३॥ चतुर्भिः कलापकम् ।। ___ श्रीवीरधवलस्यासीदसीमतमविक्रमः । वीसलः प्रथमः सूनुरनूनमहिमोदधिः ॥७४॥ भ्रमतो भृशमन्यायतपनात्तापिताभितः ।
विशश्राम, यद्भजादण्डमण्डपे ॥७५॥ अन्यस्तु वीरमः श्रीमान् , वीरश्रेणिशिरोमणिः । यस्य नाम्नापि भज्यन्ते, दुर्दान्ता वैरिणो रणे ॥७६॥ भूभृवंशप्रसूतानां, धनुषां विद्विषां च यः । जीवापकर्षणं चक्रे, समं समरसीमनि ॥७७॥ अथ श्रीसचिवाधीशे, राज्यभारधुरन्धरे। श्रीवीरधवलः प्रापद् , वृद्धिं सर्वाङ्गसम्पदा ॥७८॥ वीरमेणान्यदा कश्चिद्वणिग्धर्मनयालयः । एकादशीव्रते वृक्षा
॥१२६॥
Page #267
--------------------------------------------------------------------------
________________
888888888883% XPK XGK8888888
मलकी भ्रमणात्मनि ॥ ७९ ॥ हैमाच्छनाणक श्रेणिं, मुञ्चंस्तस्य तरोरधः । मुञ्चता षट्फलान्येव, नन्दनेनापि भूभुजः ॥८०॥ ईर्ष्यालुना सरोषेण, चपेटालकुटादिभिः । ताड्यमानो द्रुतं प्राप्तः, पूत्कुर्वन् करुणध्वनि ॥ ८१ ॥ शरणं सर्वजन्तूनां श्रीकरुणालयस्थितम् । कान्दिशीको व्यधाद्वस्तुपालं शरणमात्मनः ||८२ ॥ चतुर्भिः कलापकम् ॥
ज्ञात्वा तदीयवृत्तान्तं मत्रिणा न्यायगामिना । सुधापाकोपमैर्वाक्यैर्निषिद्धो नृपनन्दनः || ८३ | | ततोऽनेकविधाखर्वगर्वान्धीकतलोचनः । मन्त्रिणोरुपरि द्वेष, दुष्टधीर्वीरमो दधौ ॥ ८४ ॥ तमुदन्तं नृपो ज्ञात्वा, कुतश्चित्सेवकोत्तमात् । अंतःखान्तं दधौ चिन्तामेवं न्यायविदग्रणीः || ८५ ॥ न च भोगान्न च त्यागान्नचाधेर्नैव विग्रहात् । प्रजासन्तापनान्नूनं क्षीयन्ते क्षितिपश्रियः ॥ ८६ ॥ यतः| दुर्बलानामनाथानां, बालवृद्धतपखिनाम् । अन्यायैः परिभृतानां सर्वेषां पार्थिवो गतिः ॥८७॥ तमात्मजं तदाहूय, विधूय स्नेहमा - न्तरम् । स क्रुद्ध (सकोप) हृदयोऽवादीदितीवपरुषाक्षरम् ||८८ || रेरे दुष्ट दुराचार, सदाचारजनार्दन । अस्माकं न्यायमार्गस्य, नैव स्मरसि | दुर्मते ! ||८९ ॥ वणिजो मी नयाधारा, राज्यसारतया मताः । गीयन्ते जङ्गमाः कोशा, नरेन्द्रभवने क्षितौ ॥९०॥ यतः - जङ्गमाः स्थावराश्चैव द्विधा कोशा महीभृताम् । जङ्गमा वणिजो ज्ञेयाः, स्थावरा धनसञ्चयाः ॥ ९१ ॥ कोशहीनोऽपि भूभर्ता, निश्चिन्तः स्यात्सदा सुखी । यद्राज्ये स्युर्वणिक्प्रष्ठा, नानादायविधायिनः ॥ ९२ ॥ यतः - वणिग्भिर्व्यवसायः स्यात्, सङ्ग्रामः क्षत्रियैस्तथा । कारुभिः कर्मनिर्वाहो, भक्षणं याचकैः पुनः || ९३ || केनामी परिभूयन्ते मयि जीवति भूभुजि । पुंसोऽन्यस्य करच्छेदं, निश्वितं विदधाम्यहम् ||१४|| भवतो निजपुत्रस्य परं किं नु करोम्यहम् । निघ्नतो निष्ठुरं न्यायधर्मभाजं वणिग्वरम् ॥ ९५|| अतः परं तु दृष्ट, नागन्तव्यं खया कदा, राजधानीमिमां मुक्त्वा, याहि ग्रामान्तरं क्वचित् ॥ ९६ ॥ एवं नृपापमानेन, दूनो मानधनाग्रणीः । निर्जगाम
83%%88% 3% 888% 8038 2033 2032
Page #268
--------------------------------------------------------------------------
________________
चरितम् ।
अष्टमः प्रस्तावः।
श्रीवस्तुपाल
| ततो वीरमानी वेगेन वीरमः ॥९७॥ निवेश्य वीरमग्राममभिरामं गुणश्रिया । शुभस्थाने सर:कूपवापीकाननमण्डितम् ॥९८॥ तस्थौ राज्यस्थिति विभ्रद्भूपालैः कतिभिर्वृतः । मत्रिणोरुपरि द्वेष, वहन्नेष दुराशयः ॥१९॥ युग्मम् ॥ आसीत्कंस इवात्यन्तं, स तातस्योपता- |
पकः । कुपुत्रा ईदृशा एव, भवन्ति कुलपांशनाः ॥४००॥ श्रीराम इव सन्नथायनिष्ठः शिष्टजनप्रियः । पितृभक्तौ च निष्णातः, सत्प॥१२७॥ | क्षोदयवान् सुधीः ॥१॥राज्याधारतया मत्रिमानसे राजहंसवत् । विशलो(निश्चलो) विश्वसन्तोषी,सदा लीलामशिश्रियत् ॥२॥ युग्मम्॥
| वर्षयन् (विधाय) वसुधाराभिर्धाराधर इवानिश(नीरन्ध्रादिरनेकशः)म् । वसुधां पालयन् श्रीमान् , प्रीणयित्वाऽथिनोऽखिलान् ॥३॥
| श्रीवीरधवलस्वामी, रजोऽतीतगुणस्थितिः। आकस्मिकरुजाक्रान्तः, क्रमेण त्रिदिवं ययौ ॥४॥ तस्मिन्नवसरे राज्यप्राप्त्यर्थं वीरमो BI नृपः । मिलनव्याजतस्तत्र, सम्प्रापत्सैन्यसंयुतः ॥५।। दुरभिप्रायतां तस्याधिगत्य सचिवेश्वरः । गजाश्वस्वर्णकोशेषु, रक्षा स्वीय(रक्षा
| माप्त)भटैर्व्यधात् ॥६॥ अष्टादशशतैर्युक्तः, सुभटैः सुभटा(पदा)ग्रणीः । सावधानतया तस्थौ, गुप्तवर्मधरः स्वयम् ॥७॥ युग्मम् ॥ तेजः-| | पाल: पुनस्तस्थौ, कृतान्त इव दुस्सहः । नरेन्द्रधवलागारे, सिंहद्वारमधिष्ठितः ॥८॥ असमर्थस्ततः कर्तु, वीरमः स्वमनीषितम् । भ्रष्टफाल इव द्वीपी, विलक्षः स्वपदं ययौ ॥९॥ दिवं गतेऽथ भूनाथे, श्रीचौलुक्यनृपे तदा । शोकाद्वैतमयं जज्ञे, निखिलं भूमिमण्डलम् ॥१०॥ प्रससार तमोराशिर्नेत्रान्धीकरणक्षमः । क्षमाधारवियोगेन, प्रजायाः प्रतिमन्दिरम् ॥११॥ अन्तःपुराश्रुधारास्तु, निरा. धारं धरातलम् । समन्तात्प्लावयामासुः, सामन्तमन्त्रिभिः समम् ॥१२॥ अस्तोकलोकशोकस्य, राजधानीव तत्क्षणे । वभूव राजधानी | सा, धिगस्तु भवनाटकम् ॥१३॥ चितारोहस्तदा चक्रे, समं तेन महीभुजा । अनेकैः सेवकैः स्वामिधर्मसत्यापनोत्सुकैः॥१४॥ दुःखपारमपश्यन्त्यः, पुरस्तादात्मनो भुवि । अन्तःपुर्यः पुनर्वहौ, प्रवेशं सदसा व्यधुः॥१५॥ शोकेन विवशीभूतः, सचिवः काष्ठभक्ष
॥१२७॥
Page #269
--------------------------------------------------------------------------
________________
णम् । चिकीर्षुर्वारितो राज्यपूज्यवृद्धहितैषिभिः ॥१६॥ | शोकावेगव्यथामनमुद्धर्तुमिव धीसखम् । सोमेश्वरस्तदावादीद्गुरुश्चौलुक्यभृभुजाम् ॥१७॥ श्रीचौलुक्यप्रभुः स्वामिन् , खयि *जीवति जीवति । सर्वराज्यधुराधारे, विश्वधाराधरोपमे ॥१८॥ निर्माथापि सनाथास्ति, राज्यलक्ष्मीर्महामते! । अद्यापि गौजरेन्द्रस्य,
खयि शासति मेदिनीम् ॥१९॥ पूर्णा मनोरथाः सर्वे, दुर्जनानां दुरात्मनाम् । खयि लोकान्तरे प्राप्ते, भविष्यन्ति विसंशयम् ॥२०॥ ततोऽसौ विरतो मृत्युसाहसान्मतिमान् पुनः । सभासमक्षं शोकातः, प्राह मेति सगद्गदम् ॥२१॥ आयान्ति यान्ति च परे ऋतवः | क्रमेण, सञ्जातमत्र ऋतुयुग्ममगत्वरं तु । वीरेण वीरधवलेन विना नितान्तम् , वर्षा विलोचनयुगे हृदये निदाघः ॥२२॥ ततो निः
श्वस्य सर्वेऽपि, मन्त्रिसामन्तभूभुजः । कृला यथोचित कृत्य, स्वं स्वं धाम समागताः॥२३॥ राज्ञा विशलदेवेन, प्रेत्य कृत्यानि तन्वता । || श्रीवीरधवलस्वामिसुकृताय महात्मना ॥२४॥
वस्तुपालो महामात्यः, स कृतज्ञशिरोमणिः । कोटिमेकां सुवर्णस्य, धर्मव्ययमचीकरत् ॥२५॥ युग्मम् ।। तमागच्छन्तमाकर्ण्य, | सकर्णः सोमवंशभूः । अष्टमीन्दुसमाकारे, विशाले भालमण्डले ॥२६॥ स्वयं तिलकमाधाय, प्रौढोत्सवमनोहरम् । राज्ये निवेशयामास, | विशलं विश्ववत्सलम् ॥२७॥ राज्यपूज्यनरश्रेणिसांमत्यहृदयङ्गमम् । सोमेश्वरगुरुप्रष्ठकृतशान्तिकमङ्गलम् ॥२८॥ त्रिभिविशेषकम् ।
सप्तस्वङ्गेषु राज्यस्य, रक्षां निर्माय सर्वतः । तं राजानं सहादाय, सद्वृत्ताखण्डमण्डलम् ॥२९॥ सर्वाङ्गसज्जया युक्तः, सेनया चतु| रङ्गया। नासीरतां स्वयं बिभ्रत , पौरुषाधिक्यतेजसा ॥३०॥ तेजःपालादिभिवीरः, परितः परिवारितः। सम्मुखो वीरमस्याभूत , साहसी सचिवस्ततः ॥३१॥ सैन्ययोरुभयोरासीदसीमः समरोत्सवः । ततः क्षोणिक्षयारम्भभ्रमभ्रान्तीकृतामरः ॥३२॥ क्षणाद्वित्रास
Page #270
--------------------------------------------------------------------------
________________
अष्टमः प्रस्तावः।
श्रीवस्तुपाला
यामास, मन्त्री वीरवराग्रणीः। बाणैः प्राणहरैः शत्रून् , व्याधीन् धन्वतरिर्यथा ॥३३॥ तेजःपालो जघानाशु, कृपालुरपि तत्क्षणात् । चरितम् । मातुलं वीरमस्यैव, सहायं परमं तदा ॥३४॥ बुधेनेन्दुमिवालोक्य, मन्त्रिणा दुर्जयं नृपम् । राहुवत्क्रूरकर्मापि, वीरमो रणभूमिकाम् ।।
॥३५॥ विहाय कतिभिभूपैः, संश्रितस्तेजसोज्झितः । जावालिदुर्गमासाद्य, श्वशुरं शरणं व्यधात् ॥३६॥ युग्मम् ।। तत्रोदयादिसिंहा॥१२८॥
ख्यश्चाहुमानकुलांशुमान् । जामातुः प्रददौ स्थानं, कियग्रामसमर्पणात् ॥३७॥ तद्वलेन स्थितस्तत्र, दुरात्मा वीरमस्ततः । अवस्कन्द| प्रदानेन, देशं मथ्नाति भूभुजः ॥३८॥ योगिनीनगरीमार्गवणिक्सार्थमनारतम् । पापैः प्रवर्द्धितोत्साहो, द्रुतमागत्य लुण्टति ॥३९॥ युग्मम् ॥ तद्भयेन प्रजाः सर्वा, नैकग्रामपुरादिषु । न क्वापि लभते स्वास्थ्यं, श्रीचौलुक्यमहीपतेः ॥४०॥ अभिप्रायं परिज्ञाय, ततोऽसौ श्वशुरो नृपः। मन्त्रिणः सनरेन्द्रस्य, सलेखैश्चरपूरुषैः ॥४१॥ अनन्यगतिकत्वेन, वीरमं वीरकुञ्जरम् । विश्वास्य मारयामास, जामातरमपि क्रमात् ॥४२॥ युग्मम् ॥ ततो विशलदेवस्य, राज्यं निष्कण्टकं भुवि बभूव प्रीणिताशेषप्रजामात्यनृपव्रजम् ॥४३॥
मन्त्रिराजप्रतापेन, भास्वतेव विभास्वता । निर्जितानेकराजेन, खद्योता इव निष्प्रभाः ॥५४॥ प्राभृतीकृत्य सर्वेऽपि, रत्नाश्वद्विरदादिकम् । प्रणेमुस्तं महीपालं, भूपालाः पालितप्रजम् ॥४५॥ युग्मम् ।। अजस्रमभ्यासमुपागताभ्यां, मन्त्रीश्वराभ्यां कविसद्गुरुभ्याम् । दिनेशवद्वीशलदेव उच्चैर्दिने दिने प्राप विभाप्रकर्षम् ॥४६॥ निजनाम्ना निवेश्योा , नगरं मन्त्रिणा नवं । श्रीवीशलनृपो. ऽनेकधर्मस्थानमनोहरम् ।।४७॥ अकम्प्रधर्मवप्रेभ्यो, विप्रेभ्यो वासहेतवे । परितो द्वादशग्रामाभिरामं सुकृती ददौ ॥४८॥ युग्मम् ।। सत्यशौचदयानिष्ठा, विशिष्टाचारतत्पराः । वसन्ति ब्राह्मणास्तत्र, पवित्रा वेदपाठतः॥४९॥ नरेन्द्रशासनप्राप्तस्थानाच्छादनभोजनाः। षट्कर्मनिरता नित्यं, निश्चिन्ता निष्परिग्रहाः ॥५०॥ युग्मम् ।। प्रासादं ब्रह्मणस्तत्र, जगत्सौन्दर्यजित्वरं । गजवाजिनरोदाररचनाराजितं |
॥१२८॥
Page #271
--------------------------------------------------------------------------
________________
ल ॥५१॥ नरेन्द्रशासनान्मत्री, वस्तुपालानुजः पुनः । श्रीवीरधवलोशिसुकृतार्थमचीकरत् ॥५२॥ युग्मम् ॥ तथा तीर्थाधिरा
जस्य, वर्धमानजिनेशितुः। हैमकुम्भाञ्चितं चैत्यं, निर्ममेऽसौ नगोपमम् ।।५३।। अथ डाहलभूपालः, श्रीकर्णक्षितिपान्वयी। देवः Jalor: श्रीनरसिंहाख्यः, सिंहः प्रत्यर्थिदन्तिषु ॥५४॥ नवीननृपतेधत्ते, चुलुकान्वयभाखतः। मौलौ माल्यपदे नाज्ञां, शर्ववद्गर्वपर्वतः॥५५।।
दत्त विभेददुर्बुद्धिमन्येषामपि भूभुजाम् । चौलुक्येशांहिसेवाक(तदहिसेवाहेवाक)शालिनां दुर्मतिः पुनः ॥५६॥ त्रिभिविशेषकम् ।। सामवाचा ततः शिक्षा, वस्तुपालेन मन्त्रिणा । हितैषिणा समादेशि, लेखेन जनपाणिना ॥५७॥ राजन् ! धर्मनयाधार, निजश्रेयो
भिलाषिणा । शिरस्पदं खया कार्य, शासनं गौ रेशितुः ॥५८॥ प्रेषणीयं रयादेव, किञ्चित्प्राभृतमुत्तमम् । अन्येषां भृभुजां नैव, प्रSe देया भेददुर्मतिः॥५९॥ अन्यथा भवतो भावी, भ्रंशः साम्राज्यसम्पदः । यतो गरीयसा स्पर्धा, नार्थाय महते भवेत् ॥६॥ * इत्याकाधिकं क्रुद्धः, समृद्धो डाहलेश्वरः। निःस्वानध्वनिभि|रर्भापयन् दिग्गजानपि ॥६१॥ वाहिनीभिरनेकाभिः, कम्पयन
कुलपर्वतान् । स्वयमेवाययौ शीघ्रं, सेनया गौजरोपरि ॥६२॥ स्वदेशसीनि सम्प्राप्तं, तमन्तकमिवान्तकम् । ज्ञाखा विशलदेवोऽवक्, मन्त्रीशं व्याकुलाशयः ॥६३॥ तमोग्रह इव क्रूरः, शत्रुरेष समागतः । सङ्ग्रामसिंहपुत्राद्यैरुवीशैः प्रेरितोऽधिकम् ॥६४॥ ततोऽधुना महामात्य !,किं कर्त्तव्यं निवेदय । सस्मितास्योऽवदन्मन्त्री, तमेवं वीरकेशरी ॥६५॥ मा राजेन्द्र ! भयं कार्षीः, केऽमी क्षुद्रा अरातयः। जयन्त्यद्यापि पुण्यानि, श्रीचौलुक्यगुरोस्तव ॥६६॥ ततो नरेन्द्रमन्त्रीन्द्रादेशाद्देशाधिपान्वितः। तेजःपालो महातेजाः, सम्मुखं तस्य जग्मिवान् ॥६७॥ मन्त्रिणा विदधे युद्धं, डाहलो/भुजा ततः। भयभ्रान्तीकृताशेषत्रिदशोरगमण्डलम् ॥६८॥ निर्भर ताडितानेकरणातोद्यमहारवैः । समन्ताद् व्यानशे रौद्ररोदसीकन्दरोदरम् ॥६९॥ परस्परं समाह्वानपूर्वकं वीरकुञ्जरैः । अन्यैरपि तदा योद्धं,
Page #272
--------------------------------------------------------------------------
________________
चरितम् ।
अष्टमः प्रस्तावः।
॥१२९॥
श्रीवस्तुपाल Jaal स्वामिभक्तैः प्रचक्रमे ॥७०॥ मन्त्रिनिर्मुक्तनाराचदुर्दिनेन प्रसर्पता । निस्तेजास्तत्क्षणाजज्ञे, भानुवद् डाहलाधिपः ॥७१।। मन्त्रिवाचा
| ततस्तेन, भयभ्रान्तेन निर्ममे । मन्त्रिराजाय गाङ्गेयलक्षप्राभृतमञ्जसा ॥७२।। ततो जयश्रियं पाणी, कृत्वा मन्त्रीश्वरानुजः । धवल|ake कपुरं प्रापदुच्छ्रितध्वजराजितम् ॥७३।। श्रीमद्विशलदेवेन, स्वयमालिङ्गय गौरवात । पितेव पूजितस्तेजःपालः पालितसत्पथः ॥७४।।
तद्धेम निखिलं तस्मै, दत्त्वा प्रीत्या नरेश्वरः । अन्तःसभं व्यधादेवं, स्वयमेव तदा स्तुतिम् ॥७५।। श्रीमांस्तेजःपालः, सचिवश्विरकालमस्तु तेजस्वी । येन जना निश्चिन्ताश्चिन्तामणिनेव नन्दन्ति ॥७६।। अनुजे दनुजारातिमन्त्रिजैत्रमतिप्रमे । जैत्रसिंहे स्वपुत्र च, न्यस्य राज्यधुरं ततः॥७७॥ शत्रुञ्जयोजयन्ताद्रितीर्थयात्रां सविस्तरम् । विधाय वस्तुपालेन, तद्धेम व्ययितं ध्रुवम् ॥७८॥ सङ्घ-पू
जोत्सवे तत्र, चित्रिताशेषविष्टपे । उपदेशं ददुस्तस्मै, श्रीमद्देवेन्द्रसूरयः ।।७९।। प्राणित्राणप्रकारैर्जगदुपकृतिभिर्भक्तिभिः श्रीजिनानां, * सत्कारैर्धार्मिकाणां स्वजनजनमनःप्रीणनैः पात्रदानैः । जीर्णोद्धारैर्यतिभ्यो वितरणविधिना शासनोद्भासनैश्च, प्रायः पुण्यैकभाजां भ
जति सफलतां श्रीरियं भाग्यलभ्या ॥८०॥ श्रीवीरधवलस्यासीद् , यावान् साम्राज्यविस्तरः। तावानेवाभवत्तस्य, क्रमान्मन्त्रिप्रभावतः ।।८१।। केवलं भृभुजा लब्धप्रसरेण महीतले । तेन श्रीवस्तुपालोऽपि, दृष्टो लघुतया हहा ॥८२।। सिंहनामाऽभवत्तस्य, भूभृतो मातुलः पुनः । अधिकारी तदादेशात् , समर्थः पार्थिवाग्रणीः ।।८३॥ प्रेरितो भूपतिस्तेन, पापेन पिशुनात्मना। मुद्रारत्नमुपादाय,
तेजःपालकराम्बुजात् ॥८४॥ नागरस्य गरस्येव, लोकसंहारकारिणः । न्यधात्प्रसादमाधाय, पाणौ नागडमन्त्रिणः ।।८५।। युग्मम् ॥ * सत्त्वोल्लासात्करे तस्य, शुशुभे पुलकाङ्किते । मुद्रिका कल्पवल्लीवारूढा बब्बृलपादपे ।।८६।। स्वगुरोः पौषधागारं, पुरे तत्र विनि
ममे । मन्त्रिणा भक्तिमुग्धेन, सप्तभौम नगोपमम् ॥८७॥ कस्यचिदनगारस्यागीतार्थस्य प्रमार्जतः। उपरिष्टाद्भवं तस्य, रयात्पौषध
॥१२९॥
Page #273
--------------------------------------------------------------------------
________________
- 2032038
8988063%
1
वेश्मनः ||८८|| तदधो गच्छतः शीर्षे, रजःपुञ्जोऽपतद्भृशम्। मातुलस्यान्यदा राज्ञः सिंहनाम्नो महीपतेः । ८९ ॥ युग्मम् ।। क्रो धान्धोऽसौ ततः साधु, तर्जनैस्तमताडयत् । निर्दयं मदमत्तानां न विवेको यतो हृदि ॥९०॥ मन्त्री मन्युभराक्रान्तस्वान्तो वीरेण केनचित् । ततो दुरात्मनस्तस्य, करच्छेदमचीकरत् ॥ ९१ ॥ ज्येष्टुकक्षत्रियप्रष्ठसिंहेन प्रबलौजसा । ततो जैनमद्वेषं विभ्रता हृदयेऽधिकम् ||१२|| विरोधो वस्तुपालस्य, समं तेन महीभुजा । बभूव राजपूज्येन, विषमोऽदृष्टयोगतः ॥ ९३ ॥ विशलोऽप्यभवत्तस्य, पक्षे दाक्षिण्यदीक्षितः । ततस्तेन ससैन्येन, रुद्धं मन्त्रीशमन्दिरम् ||१४|| मन्त्रिणः सुभटैर्युद्धमुद्धतैर्विदधेऽधिकम् । भयभ्रान्तो भवद्राजधानीलोकोऽखिलोsपि च ॥ ९५ ॥ राजापि नितरां क्रुद्धः, स्वयं युद्धोद्यमं चिकी: । स्वसैन्यं सज्जयामास वासवस्यापि भीतिदम् ॥९६॥ | तत्स्वरूपं परिज्ञाय, सचिवोऽतिरथिप्रभः । सन्नाहं बन्धुभिर्वीरैः समेतः स्वयमग्रहीत् ||९७|| अत्रान्तरे समागत्य, 'तगृहं नृपतेर्गुरुः । कृतज्ञावधिराचख्यौ, सचिवं समरोत्सुकम् ॥९८॥ किमेतद्भवताऽकारि, मन्त्रिराज महामते ! | महान् सङ्ग्रामसंरम्भः, कुतोऽसौ स्वल्पकारणे ॥९९॥ ज्येष्टुकान्वयजाः सर्वेऽखर्वगर्त्र भरोद्धुराः । एकत्र मिलिता योद्धुं त्वया सह महौजसः ॥ ५००॥ तत्स्वाजन्यान्नृपोऽप्यासीत्कृतान्त इव कोपतः । तत् शम्यतां यथा सन्धिः, कार्यते तैः समं तव ॥ १ ॥ तमाख्यत्सचिवोऽसह्यतेजसा| दित्यवज्ज्वलन् | क्षत्रियापसदाः केऽमी, मदग्रे ज्येष्टुकान्वयाः || २ || न तिरस्क्रियते क्वापि, तेजोऽन्यैरश्वराजजम् । तमोभिः परिभूयन्ते, भानवः किं हि भास्वतः ||३|| यद्यङ्गीकृत्य तत्पक्षं, क्षितीशोऽपि युयुत्सते । सर्वेषामपि संहारस्तदाद्यैव भविष्यति ||४|| परं | पराभवो जैनमुनीनां दुस्सहोऽधिकम् । व्यापृतं सर्वतः स्वैरं दत्तं विलसितं यतः ||५|| जीवितैकफलमुद्यमार्जितं, लुण्टितं पुरत एव यद्यशः । ते शरीरकपलालपालनं कुर्वते वत कथं मनस्विनः ||६|| इत्यादिवचसा झाला, तं मृतौ कृतनिश्चयम् । गला सोमेश्वरः
|
--363848888832883%D8%
Page #274
--------------------------------------------------------------------------
________________
श्रीवस्तुपाल चरितम् ।
स्माह, सुधाशीतगिरा नृपम् ॥ ७॥ देवासौ म्रियते नूनं परं मारयतेऽथवा । अस्मिन् व्यतिकरे वीरकुञ्जरोऽजयवीर्यवान् ॥८॥ राजन् ! साम्राज्यदीक्षायामयमेव गुरुस्तव । पितेवार्हति सन्मानं, विश्वविश्वोपकारकः || ९ || स किं प्रशस्यते सद्भिः कृतज्ञाग्रेसरः प्रभुः । जीर्णभृत्यकृतान् मन्तून्, यो द्वित्रा क्षमते न हि ॥ १० ॥ अन्येषामपि भृत्यानां मादृशां कीदृशी तव । मनस्याशा सदा सेवापराणां ॥१३०॥ | खलु भाविनी ॥ ११ ॥ इत्यादिमधुरास्वादां वाचं तस्य निशम्य ( निपीय) सः । प्रशान्तहृदयो भूत्वा राजा राजगुरुं जगौ ॥ १२ ॥ धीरां प्रदाय सन्मान्य, स समानीयतामिह । येन तस्मै यथायोग्यं, गौरवं दीयते पुनः ॥ १३ ॥ गत्वा सोऽपि नृपादेशाद्गुरुर्मन्त्रिगुरोगृहम् । नृपोपदिष्टमाचख्यौ तयोर्युक्तियुजा गिरा ॥ १४॥ वस्तुपालस्ततः प्रापत्समं तेन नृपान्तिकम् । सावधानः परं वीरप्रवरैः परितो वृतः || १५ || हृदि स्मरन् नृपस्तस्य, विविधोपकृतीः कृती । जनकस्येव सन्मानं, तदा प्रादात्प्रसत्तिमान् ॥ १६ ॥ उपशान्तस्ततो मन्त्री तं ननाम नरेश्वरम् । उत्थायालिङ्गि तेनापि, स्वार्धासननिवेशितः || १७ || पादाम्बुजेऽखिलास्तस्य, पातिता मातुला निजाः । अन्योन्यं कारितः सन्धिर्मन्त्रिमातुलयोः पुनः ॥ १८ ॥ युग्मम् || मन्त्री जगाद राजानमम्लानवदनद्युतिः । तव प्रसादतः स्वामिन् !, न किञ्चिन्न्यूनमस्ति मे ||१९|| परं देवगुरुद्वेषी, यो भविष्यति दुष्टधीः । तस्य शिक्षां करिष्यामि, समक्षं भवतः प्रभो ! ॥ २० ॥ ततो नरपतिः प्राह, सर्वेषां शृण्वतामिति । मुनीनां केन कर्त्तव्यं, न विरूपं मनागपि ॥ २१॥ सत्यशीलतपोनिष्ठा, गरिष्ठा जगतोsप्यमी । पूजनीया जनैः सर्वैः सर्वज्ञमतभानवः ||२२|| ततो गरीयसी जज्ञे, जिनधर्मप्रभावना । हृष्टोऽथ स्वगृहं प्रापन्नृपादेशेन मन्त्रिराट् ||२३|| मिलिता बन्धवः सर्वे समे च व्यवहारिणः । उत्तम्भिता ध्वजाः सौधे, भवद्वर्द्धापिनोत्सवे ||२४|| शत्रुजयावतारे श्रीजिननात्रमहोत्सवम् । विधाय पूजितस्ताभ्यां श्रीमान् सङ्घश्चतुर्विधः ॥ २५ ॥ अन्यदा सचिवाधीशं सानुजं
1833803888388888888888888
338-3438-XEDE-SEDEXED-BL-EB
अष्टमः प्रस्तावः ।
॥१३०॥
Page #275
--------------------------------------------------------------------------
________________
विशलो नृपः। समराख्यप्रतीहारप्रपञ्चप्रेरितोऽभ्यधात् ॥२६॥ मन्त्रीश्वर ! धनं सर्व, राजसम्बन्धि दीयताम् । दत्त्वा यथास्थितं | मन्त्रिनागडस्य स्वलेखकम् ॥२७॥ ऊचतुः सचिवौ राजन्नस्माभिरखिलं धनम् । श्रीवीरधवलाधीशनिर्देशविवशात्मभिः॥२८॥ शत्रुञ्जयो
जयन्ताद्रिप्रमुखेषु सुखेच्छुभिः । यथाप्राप्तं सुतीर्थेषु, व्ययितं विविधेष्वपि ॥२९॥ पवित्रेषु च पात्रेषु, दीनदुःस्थितदेहिषु । चौलुक्य| श्रेयसे न्यस्तं, मार्गणानां गणेष्वपि ॥३०॥ युग्मम् । अत्राथै दीयतां तर्हि, किश्चिदिव्यं नृपोऽलपत् । सोमेश्वरो जगौ काव्यमेतत्त| स्मिन् क्षणे यथा ॥३१।। यस्मा(मासान् )न्मांसलपाटलापरिमलव्यालोलरोलम्बतः, प्राप्य प्रौढिमिमां समीर महतीं हन्त खया किं | | कृतम् । भास्वच्चन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत् , पादस्पर्शसहं विहायसि रजः स्थाने तयोः स्थापितम् ॥३२॥ श्रुत्वेति | नृपतिः प्रीतो, दिव्यकृत्यानयवर्तत । विसृष्टौ तेन सन्मान्य, तौ पुनर्गृहमागतौ ॥३३॥ साधर्मिकेषु वात्सल्यमकाऱ्यां बहुविस्तरम् । सर्वेषामपि साधूनां, वस्त्राद्यैश्च प्रपूजनम् ॥३४॥ ततः पश्चासराधीशप्रमुखाश्चैत्यसन्ततीः। नमस्कर्तुमना मन्त्री, प्रापद्वौर्जरपत्तने ॥३५॥ न्यक्षेणाभ्यर्च्य भावेन, तत्र सर्वजिनावलीः । मन्त्री सर्वेषु चैत्येषु, ध्वजारोपानचीकरत् ॥३६।। साधर्मिकेषु वात्सल्यं, सर्वगच्छर्षिपूजनम् । कृत्वा शर्केश्वरे सोज्गानन्तुं वामात्मजं जिनम् ।।३७।। अष्टाहिकोत्सवं कुर्वस्तत्र स्थित्वा स मत्रिराट् । नमस्यबैकतीर्थानि, मार्गे प्रापन्निजं गृहम् ॥३८॥ वस्तुपालोऽन्यदा किञ्चिज्ज्वरेण विधुरीकृतः। पुत्रपौत्रैः समायुक्तं, तेजःपालं सहोदरम् ॥३९॥ स्वपुत्रं जैत्रसिंहं च, समाहूय रहस्यवक् । वत्साः श्रीनरचन्द्राख्यगुरुभिर्मलधारिभिः॥४०॥ मन्वष्टभानु(१२८७)प्रमिते, | वर्षे भाद्रपदे तथा । दशमीदिवसे स्वर्गसम्प्राप्तिसमये निजे ॥४१॥ इत्यादेशि त्रिकालज्ञसंसदग्रेसरै रहः । अष्टनन्दरवौ (१२९८) वर्षे, स्वर्गारोहो भविष्यति ॥४२॥ भवतोऽपि महामात्य, जिनेन्द्रमतभास्वतः । इति तेषां गिरो नूनं, न चलन्ति कदाचन ॥४३॥ पञ्चभिः
Page #276
--------------------------------------------------------------------------
________________
चरितम् ।
अष्टमः प्रस्तावः।
पोमांरितम् ।
श्रीवस्तुपाल कुलकम् ॥ ततो वयं गमिष्यामः, श्रीशत्रुञ्जयपर्वते । सर्वपापविनिर्मुक्त्य, सर्वतीर्थशिरोमणौ ॥४४॥ गुरुभिषग् युगादीशः, प्रणिधानं
* रसायनम् । सर्वभूतदया पथ्यं, सन्तु मे भवरुग्भिदे ॥४५॥ लब्धाः श्रियः सुखं स्पृष्टं, मुखं दृष्टं तनूरुहाम् । पूजितं दर्शन जैनं, न *
मृत्योर्भयमस्ति मे ॥४६॥ यतः-लब्ध्वा जन्म कृतं न तीर्थगमनं नो पूजिताः साधवः, प्रासादा न समुद्धृता जिनपतेनों निर्मिता * ॥१३१॥ | मूर्तयः । दत्तं पात्रजनाय नैव किमपि श्रेयोऽनपानादिकं, जायन्ते खलु ते कुचेलवपुषों नित्यं नरा दुःखिताः ॥४७॥ इत्युक्तं वस्तु
* पालेन, श्रुखा सत्यतया तदा । निश्चित्य सकुटुम्बेन, तेजःपालेन मन्त्रिणा ॥४८॥ सिद्धाद्रिगमनाद्यर्थ, सामग्री विदधेऽखिला । यात्रायै
मत्रिणा साकं, श्रीसङ्घोऽप्यमिलन्महान् ॥४९॥ तदानीं मिलनाद्यर्थ, सामन्तश्रेणिसंश्रितः । श्रीमान् विशलदेवोऽपि, मत्रिमन्दिरमा| ययौ ॥५०॥ सन्तोष्य प्राभृतैः प्रौढेरापृष्टो मन्त्रिणा नृपः । श्रीशत्रुञ्जययात्रायै, तेनादेशि सगौरवम् ॥५१॥ तव प्रसादाद्राजन्यराजी निर्जित्य दुर्जयाम् । तातपादैः कृतं राज्यमखण्डैश्वर्यपूरितम् ॥५२॥ यन्मन्त्रीश ! मयासादि, राज्यं सप्ताङ्गसुन्दरम् । अवसादः प्रसादस्तु, हेतुस्तत्र तवैव हि ॥५३॥ तदमूः सम्पदः सर्वा, भवतः सन्ति मन्त्रिराट् । पूर्ववत्सर्वकार्येषु, त्वया योज्या यथारुचि ॥५४॥ विधाय तदिमां यात्रां, पात्रायत्तीकृतश्रियम् । स्वावासं शीघ्रमागत्य, कर्तव्या व्यापृतिः पुनः ॥५५॥ इत्युदीर्य भवत्सहं, हेमलक्षत्रयं ततः । दत्त्वा ययौ निजावासं, प्रणतो मन्त्रिणा नृपः ॥५६॥ स्वयं मन्त्रीश्वरो वेश्म, नागडस्य ततोऽगमत् । तेनापि सत्कृतो भक्त्या, प्रौढासनप्रदानतः ॥५७॥ तं बभाषे महामात्य !, महाभाग वयं पुनः । भवान्तरविशुद्ध्यर्थ,तीर्थे श्रीविमलाचले ॥५८॥ यियासवो जिनाधीश, प्रणन्तुं बन्धुभिः समम् । मुनयोऽमी ततो जैना, ऋजवो रजसोज्झिताः ॥५९॥ दुष्टलोकात्त्वया सम्यग् , रक्षणीयाः प्रयत्नतः । येनामी जगदाधारधर्माधारधुरन्धराः ॥६०॥ त्रिभिर्विशेषकम् । गौर्जरोामिदं राज्यं, वनराजात्प्रभृत्यपि । स्थापितं जैन
मलिरा
॥१३॥
Page #277
--------------------------------------------------------------------------
________________
8248328488883%83% *&* *483889
1
मन्त्रेण, धर्मद्वेषी न नन्दति ॥ ६१ ॥ मन्त्रिणा नागडेनोचे, विनयं बिभ्रता ततः । विधास्ये गौरवं जैनयतीनां निजशक्तितः ॥६२॥ न चिन्ता भवता कार्या, कार्याय प्रयतो भव । स्वस्त्यस्तु भवते नित्यं पुनरस्तु समागमः || ६३|| यथा - तव वर्त्मनि वर्ततां शिवं, पुनरस्तु खरितं समागमः । अयि साधय साधयेप्सितं, स्मरणीयाः समये वयं वयः ॥ ६४ ॥ इति तद्वचसा प्रीतो, मन्त्री स्वगृहमा| गतः । ततश्चचाल यात्रायै, शत्रुञ्जयगिरिं प्रति ॥ ६५ ॥ सुखासनसमारूढो, व्रजन्मार्गे समाधिमान् । प्राप्तः कापालिके ग्रामे, सुकष्टोऽजनि मन्त्रिराट् ||६६ || आहूय सकलं सङ्घ, सूरीन् ब्रह्मभृतस्तथा । सावधानमनाः सम्यग् विधायाराधनां सुधीः ॥ ६७॥ सप्तलक्षसुवर्णस्य, सप्तक्षेत्र्यां व्ययं सृजन् । विधिना धर्मकर्माणि, निर्माय निखिलान्यपि ॥ ६८|| जगृहेऽनशनं जैनपीनध्यानपरायणः । सर्वेपामपि सूरीणां शृण्वन्नियमणागिरः || ६९ || त्रिभिर्विशेषकम् । अतिक्रान्ते ततो यामे, स्वात्मारामविरामधीः । धाराधिरूढसंवेगरङ्गो | मन्त्रीश्वरो जगौ ॥ ७० ॥ न कृतं सुकृतं किञ्चित् सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः ॥ ७१ ॥ यन्मयोपार्जितं पुण्यं, जिनशासनसेवया । जिनशासनसेवैव तेन मेऽस्तु भवे भवे ॥ ७२ ॥ | या रागिणि विरागिण्यः, स्त्रियस्ताः कामयेत कः । तामहं कामये मुक्ति, या विरागिणि रागिणी ॥ ७३ ॥ | शास्त्राभ्यासो जिनपतिनतिः सङ्गतिः सर्वदार्यैः, सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्वे, सम्पद्यन्तां मम भवभवे यावदाप्तोऽपवर्गः ॥ ७४ ॥ एवं भणन् क्षणादेव, मन्त्री | जैनमतांशुमान् । अस्तं गतो जगञ्जन्तुसुदिनोदयकारणम् ॥७५॥ तदा निर्ग्रन्थसार्थेन, भृशं पूत्कारकारिणा । अरोदि रोदिताशेषजीवलोकशरीरिणा ॥ ७६ ॥ रुरुदुः कत्रयोऽप्युच्चैः, सोदराणां तु का कथा । विललाप पुनर्मन्त्री, तेजः पालोऽतिदुःखितः ॥ ७७|| आह्लादं | कुमुदाकरस्य जलधेर्वृद्धिं सुधास्यन्दिभिः, प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् । एतत्सर्वमनादराढ्यहृदयोऽनादृत्य राहुहा,
83XX838-84888888888888888838283%
Page #278
--------------------------------------------------------------------------
________________
- अष्टमः प्रस्तावः।
श्रीवस्तुपाल
कष्टं चन्द्रमसं ललाटतिलकं त्रैलोक्यलक्ष्म्याः पपौ ॥७८|| अलपजैत्रसिंहोऽपि, शोकावेगवशंवदः । रुदन्नुच्चैःस्वरं दुःखी, रोदिता चरितम् । | खिलबान्धवम् ॥७९॥ खद्योतमात्रतरला गगनान्तरालमुच्चावचाः कति न दन्तुरयन्ति ताराः। एकेन तेन रजनीपतिना विनाद्य,
| सर्वा दिशो मलिनमाननमुद्वहन्ति ॥८०॥ सर्वाधारमहामात्यवियोगविधुराशयाः। कवयोऽपि जगुर्योगक्षेमचिन्ताविसंस्थुलाः ॥८॥ ॥१३२॥ | मन्ये मन्दधियां विधे त्वमवधिर्वैराय सेवार्थिनां, यद्वैरोचनशातवाहनबलिश्रीमुञ्जभोजादयः। कल्पान्तं चिरजीविनो न विहितास्ते * विश्वजीवातवो, मार्कण्डध्रुवलोमशाश्चमुनयः कृप्ताः प्रभूतायुषः ॥८२॥
लोकाः शोकातुराः सर्वे, निराधारा धरातले । रुदन्तस्तु वदन्ति स्म, तदान्योन्यं महातयः ॥८३।। शुष्कः कल्पतरुयंदाङ्गणगत| चिन्तामणिश्चाजरत् , क्षीणा कामगवी च कामकलशो भग्नो हहा दैवतः । किं कुर्मः किमुपालभेमहि किमु ध्यायाम कं वा स्तुमः,
कस्याग्रे स्वमुखं स्वदुःखमलिनं सन्दर्शयामोऽधुना ॥८४॥ तेजःपालादिभिश्चक्रे, ततस्तदेहसंस्कृतिः । जगत्रयपवित्रोर्वीपीठे शत्रुञ्जयो| परि ॥८५॥ चन्दनागुरुकर्पूरकस्तूरीमलयाकरैः । सुगन्धिवस्तुभिर्दिव्यैः, कपर्यादेशतः शुभैः ॥८६॥ युग्मम् ।। स्वर्गारोहाभिधं चैत्यं, तत्र त्रलोक्यसुन्दरम् । आरासाश्मभिरुद्दीप्रं, तेजःपालेन निर्ममे ॥८७॥ तत्र श्रीजिनपूजाय, चौलुक्येश्वरशासनात् । तेनार्कपालिकग्रामो, देवदाये कृतस्ततः ॥८८॥ जगत्प्रदीपनामानं, श्रीनामेयं जगत्प्रभुम् । सपर्याभिरनेकाभिरभ्यागुतभक्तितः ।।८९॥ जैत्रसिंहादिभिः साकं, धवलक्ककमागतः । वस्तुपालानुजः क्षेमान्ननाम नृपपुङ्गवम् ॥९०॥ युग्मम् ॥ श्रुत्वा श्रीवस्तुपालस्य, नाकीशपदसम्पदम् । तीबदुःखमहाम्भोधौ, ममज नृपतिश्विरम् ॥९१।। औदार्यधैर्यगाम्भीर्यप्रमुखा गुणसम्पदः । स्मरंस्तस्यानिशं राजा, विरराम न हि क्वचित् ।।९२॥ कष्टसाध्येषु साम्राज्यकार्येषु विविधेष्वपि । वस्तुपालं महीपालः, सस्मार प्रतिवासरम् ॥९३॥ तेजःपालं
॥१३२।।
Page #279
--------------------------------------------------------------------------
________________
प्रजापाला, सन्मान्यानन्यतुल्यभं । अस्थापयद्गुणाधारं(अतिष्ठिपद्गुणाधारे), लक्ष्मीकोशाधिकारिणम्(लघुश्रीकरणे पदे) ॥९४॥ पेटलाद्रपुरैश्वर्य, जैत्रसिंहाय मत्रिणे । पराक्रमगुणक्रीतः, प्रसन्नोऽदात्ततो नृपः ॥९५॥ दश वर्षाणि कुर्वाणस्तत्पदं सम्पदां पदम् । तथैव विदधे दानं, तेजःपालोऽर्थिनां पुनः॥९६।। शकेश्वरजिनाधीश, व्रजन्नन्तुं कुटुम्बयुक् । तेजःपालोऽगमत्स्वर्ग, चन्द्रोन्मानपुरे क्रमात | ॥९७॥ तत्र श्रीजैत्रसिंहेन, गजाश्वरचनाश्चितम् । सतोरणं जिनाधीशमन्दिरं मन्दरोपमम् ॥९८॥ सरोवरं तथा धर्मशालासत्रालय
द्वयम् । विदधे श्रेयसे तस्य, मत्रिणो नृपशासनात् ॥१९॥ युग्मम् ।। सर्वज्ञशासनाकाशभाखत्यस्तं गते सति । वस्तुपाले महामात्ये, | धर्माधारधुरन्धरे ॥६००॥ दिवस्पतिपदं प्राप्ते, वर्द्धमानजिनेशितुः । क्रूरदोषान्धकाराणां, व्याप्तिमालोक्य शासने ॥१॥ श्रीवर्धमान
सूरीशा, अजिमब्रह्मवेदिनः। विशेषोत्पन्नसंवेगरङ्गा निस्सङ्गवृत्तयः ॥२॥ वृद्धगच्छगणाधीशास्तदा संविग्नपाक्षिकाः । वर्द्धमानतपश्चक्रु*राचाम्लैरेवकेवलम् ॥३॥ चतुर्भिः कलापकम् । शद्धेश्वरमहातीर्थनमस्करणपूर्वकम् । अस्माभिः पारणं कार्य, समाप्तौ तपसः पुनः॥४॥* Jes सङ्घलोके च सर्वस्मिन् , कुर्वाणे पारणाग्रहम् । निरपेक्षाः शरीरेऽपि, तेऽभिग्रहमिति व्यधुः ॥५॥ युग्मम् ॥ ससङ्घास्तीर्थयात्रायै, *चलन्तस्तेऽथ वर्त्मनि । अतीव तपसाक्लान्ता, दिवं प्राप्ताः समाधिना ॥६॥श्रीशङ्खश्वरतीर्थेशाधिष्ठायकतया तदा । आसन्नसिद्धयोऽप्या| संस्तादृग्ध्यानविशेषतः ॥७॥ पश्यन्नपि ततो नाकी, निजज्ञानोपयोगतः। स गतिं वस्तुपालस्य, न जानात्यवबोधतः ॥८॥ प्रावि
देहं ततो गखा, स नखा भक्तिपूर्वकम् । श्रीसीमन्धरमहन्तमप्राक्षीन्मत्रिणो गतिम् ॥३॥ आदिदेश जिनाधीशस्तदा संसदितं सुरम् ।। | वस्तुपालो महामन्त्री, पवित्रः पुण्यकर्मभिः ॥१०॥ अत्रैव पुष्कलावत्यां, विजयायामजायत । नगर्या पुण्डरीकिण्या, पुण्डरीक इव श्रियः ॥११॥ कुरुचन्द्राभिधो राजा, राजन्यावलिवन्दितः। सम्यग्दृष्टिशिरोरत्नं, सत्कीर्तिसुरभिस्थितिः॥१२॥ त्रिभिर्विशेषकम् ।।
Page #280
--------------------------------------------------------------------------
________________
*
**
अष्टमः
**
प्रस्तावः
***
*
**
*
*
श्रीवस्तुपालक
* उत्सृज्य प्राज्यसाम्राज्यं, स प्रान्ते प्राप्य संयमम् । देवो दिव्योदयो भावी, विमाने विजये महान् ॥१३॥ ततश्युतः पुनः प्राप्य, चरितम् ।
| साम्राज्यपदवीमसौ । चारित्रयोगतोऽत्रैव, मुक्तिमेष्यति केवली ॥१४॥ दयिताऽनुपमादेवी, तेजःपालस्य मत्रिणः । अत्रैव श्रेष्ठिनः
पुत्री, पवित्राजनि जन्मतः ॥१५॥ साष्टवर्षवया बाला, शिश्रिये संयमश्रियम् । अस्माकं सविधे धृतघनघातिरजोवजा ॥१६॥ केव॥१३३॥
लज्ञानसम्पूर्णा, सुपर्वश्रेणिवन्दिता । पूर्वकोटिं समाराध्य, देशोनां संयमस्थितिम् ॥१७॥ मुक्तिमेष्यति निःशेषमलमुक्ता महासती ।
सुखं निषेदुषी सैषा, वरकेवलिपर्षदि ॥१८॥ युग्मम् ।। क्रमेण प्रथमे कल्पे, तेजःपालोऽपि मत्रिराट् । सदृष्टिस्त्रिदशो भावी, सम्पदा * वासवोपमः ॥१९॥ चतुरङ्गां ततः प्राप्य, सामग्री कंमतोद्भुताम् । यास्यत्येषोऽपि निर्वाणं, चतुर्थे जन्मनि ध्रुवम् ॥२०॥
इत्यहद्देशनां श्रुखा, प्रीतो नत्वा जगत्पतिम् । साध्वीमनुपमां चात्र, सुपर्वोज्गानिज पदम् ॥२१॥ तस्मिन्नवसरे नागपुरे ऊ(पु| रादू )केशवंशभूः। सद्वृत्तः सद्गुणः श्रीमान् , सुभटः साधुरार्हतः ॥२२॥ श्रीशङ्खशजिनाधीश, नमस्कर्तुम भिग्रही । आयासीत् खकु| दुम्बेन, समं भोगादिवस्तुयुक् ॥२३॥ युग्मम् ।। चौररुपद्रुतो मार्गे, मनाग्नमनाः पुनः। श्रीपार्श्वप्रतिमा भक्त्या, प्रपूज्यासौ व्यजि* ज्ञपत् ॥२४॥ तव देवाधिको लोके, महिमा महितोऽभितः। सर्वदेवप्रभाजैत्रस्त्रिदशैरपि गीयते ॥२५॥ विश्वविश्वप्रभो नूनं(पासि), |वं विश्वे (श्व) प्रणतोऽपि च । कुरुषे सम्पदः सर्वाः, संरुद्ध्य(रुणद्धि) विपदः पुनः ॥२६॥ नाम्नापि हि विलीयन्ते, व्याधयो विविधा | अपि । सहोदरन्ति सर्वत्र, चौराः क्रूरा अपि प्रभो! ॥२७|| जगतोऽपि जगन्नाथ, रक्षायामसि दीक्षितः । परंखवेश्मरक्षायै,देव ! मन्दा* यसे कुतः ॥२८॥ नन्तुं भवन्तमानन्दान्ममैवागच्छतः सतः । तव पूजादिसामग्री, लुण्टिता तस्करैः पथि ॥२९॥ ततः कामिततीर्थ
त्वख्यातिर्जाता वृथा तव । यो गृहे लघुतां प्राप्तः, स वातैर्नीयते बहिः ॥३०॥ भक्तिमुग्धस्य तस्येति, श्रुत्वा वाचो यथास्थिताः ।।
**6
*
*
*
*
*
| ॥१३३॥
*
**
*
Page #281
--------------------------------------------------------------------------
________________
888% 888888888888888888888
| तदानीमागतः सोऽपि, सुरः प्रत्यक्षमत्रवीत् ||३१|| अन्यस्येवास्ति निःशेषं, वस्तु पूजोचितं तव । उपालम्भं सुधा दत्से, परं भक्त्या - हतोत्तम ! ॥३२॥ तत्रागत्य क्षणे तस्मिन् वनुस्तस्मै न्यवेदयत् । तद्वस्तुप्राप्तिमानन्दात् शृण्वति त्रिदशे तदा ||२३|| बभाषे तं सुरं श्राद्ध:, किमेतद्देवपुङ्गव ! । स्वरूपं सोऽवदत्सर्वं, विदेहगमनादिकम् ||३४|| तत्तत्स्थानमधिष्ठाता देवता सावधानहृद् । भक्तिमतां मनो| sभीष्टफलानि कुरुते खलु ||३५|| कृतकृत्याः शिवे प्राप्ता, वीतरागा इमे जिनाः । स्तुतिभिर्नैव तुष्यन्ति, न च रुष्यन्ति निन्दया ॥ | ||३६|| सोपयोगोऽनुकूलश्च तदाधिष्ठायकः सुरः । तुष्टस्तद्भक्तितो दत्ते, फलं पुण्यानुसारतः ||३७|| श्रीसीमन्धरसर्वज्ञसमीपे गतवा| नहम्। तदा श्रीवस्तुपालस्य, ज्ञातुकामो भवस्थितिम् ||३८|| तेन भोगादिसद्वस्तु, हृतं चौरेण वर्त्मनि । इदानीमिह सम्प्राप्तस्तदानीय | तवार्पयम् ॥३९॥ ततोऽसौ वस्तुपालादेर्गतिं ज्ञात्वाऽर्हताग्रणीः । श्रीपार्श्व पूजयामास, पूजया भक्तिसञ्जया ॥४०॥ सङ्घाधिपार्हकृत्यानि, सश्राद्धो निखिलान्यपि । विदधे विधिना तत्र, शासनोद्योतसम्पदे ॥ ४१ ॥ ततो भवस्थितिं ज्ञात्वा वस्तुपालस्य मन्त्रिणः । सानन्दः सुभटः सोऽपि ( स गृहं प्रापत्), सङ्घाग्रेऽकथयत्समाम् (सुभटः सुत्रताग्रणी :) ||४२ ॥ अथ श्रीवस्तुपालस्य, तेजःपालस्य मन्त्रिणः । सर्वसत्कार्यसंख्यानं, यथाश्रुतमहं बुवे ||४३|| येन त्रयोदशशतानि नवीन जैनधाम्नां त्रयोदशयुतानि च कारितानि । भूमौ शतत्रययुतत्रिसहस्रमानं, जैनेन्द्रजीर्णसदनानि समुद्धृतानि ॥ ४४ ॥ सपादलक्षा जिनबिम्बसंख्या, गिरीशलिङ्गानि तथैकलक्षम् । मिथ्यादृशां | देवगृहाः सहस्रत्रयीसमेता हि शतद्वयेन || ४५ || पञ्चाशता सप्तशती समेतास्ता ब्रह्मशालाः सुतरां विशालाः । एकाधिका सप्तशती | तपस्विस्थानानि सत्राणि शतानि सप्त || ४६ || निर्मापिता चतुरशीतियुता यतीनां रम्या नवा नवशती किल पुण्यशालाः । द्वात्रिंशद| श्ममयनूतनतुङ्गदुर्गाश्चारूण्यथो चतुरशीतिसरोवराणि ॥ ४७॥ शतानि चत्वारि च पुष्करिण्यः, पुण्याश्चतुःषष्ट्यधिकाः स्वकीयै ।
AR-3835-4@BRT@DEVEDESEDE 1838-1
Page #282
--------------------------------------------------------------------------
________________
अष्टमः प्रस्ताव
श्रीवस्तुपाल
| कोशाः शतं च श्रुतदेवतानां, कृतात्रिषष्टिः समरास्तथैव ॥४८॥ यात्रास्त्रयोदश कृताः सुकृताभिलाषा, लेमे जिनेश्वरमिता बिरुदा
वलीं च । श्रीवस्तुपालसचिवः कलिकालकालः, सोऽयं लिलेख निजनाम शशाङ्कबिम्बे ॥४९॥येन भूमिवलयेऽश्मनिर्मिताः, कारिताः
* शतमिताः प्रपाः पुनः। इष्टिकाविरचिताः शतत्रयी, श्रावकैर्गलितपूतवारिका ॥५०॥ बङ्गारकेण सहिताश्ममयीमशीतिः, श्रीस्तम्भतीर्थ॥१३॥
पुरि तेन कृता कृतिना (रैद्वयलक्षजाता)। काराप्य तोरणमसौ सचिवो हजायामस्थापयन्मलिनवैभवकारणेन ॥५१॥ वर्षासनानां च * सहस्रमेकं, तपस्विनां वेदमिताः सहस्राः । दत्ताश्चतुर्विंशतिवास्तुकुम्भहेमारविन्दोज्ज्वलजादराणाम् ॥५२।। अन्ये चैवं-सत्रागारशतानि
सप्त विमला वाप्यश्चतुःषष्टयः, उच्चैः पोषधमन्दिराणि शतशो जैनाश्च शैवा मठाः । विद्यायाश्च तथैव पञ्चयतिकाः प्रत्येकतः प्रत्यहं, | पञ्चत्रिंशशतानि जैनमुनयो गृह्णन्ति भोज्यादिकम् ॥५३॥ श्रीसङ्घपूजाखिलसंयतानां, वर्षम्प्रति त्रिः सह सङ्घभक्क्या। स्नात्रार्थकुम्भाक्षतपट्टसरिसिंहासनानां न हि कापि संख्या ॥५०॥
अथ प्रकीर्णकाधिकारः-आशापल्यामुदयनविहारे वीरशान्तियुग् । श्रेयसे स्वाङ्गजस्यायं, खत्तकद्वितयं व्यधात् ॥५५॥ सान्तुवसत्यामात्मीयमातुः पुण्योदयाय सः। वायटीयवसत्यां च, विदधे मूलनायकम् ॥५६॥ सुधियोऽनुपमादेव्याः, श्रेयसे मूलनायकम । थारापद्रजिनागारे, तेजःपालो न्यवीविशत ॥५७॥ तथोमारसिजग्रामे, वस्तुपालः प्रपा व्यधात् । प्रकटीकृतकारुण्यपथः पान्थकुटीमपि ।।५८॥ सेरीसापार्श्वभवने, खत्तके नेमिवीरयोः । मल्लदेवपूर्णसिंहपुण्यायायमकारयत् ॥५९॥ वीजापुरे च श्रीवीरनामेयजिनमन्दिरे । मल्लदेवस्य पुण्यार्थ, हेमकुम्भाकिते व्यधात् ॥६०॥ श्रीकुमारविहारेऽसौ, तारङ्गानगमण्डने । नामेयनेमिजिनयोजनयामास खत्तके ॥६१॥ नगरस्य समुद्धृत्य, नगरम्यं जिनालयम् । भारतीस्नुनाऽनेन, भारतीकीतिरुद्धृता ।।१२।। उद्दधार जिनागारं,
॥१३४॥
Page #283
--------------------------------------------------------------------------
________________
| शिवागारैरसौ समम् । स्वजन्मभूमिकां साध्वालयाख्यमखिलं पुरम् ॥६३॥ असावादिजिनेन्द्रस्य, मण्डल्यां वसतिं व्यधात् । मोढा | हद्वसतौ मूलनायकं च न्यवीविशत् ॥६४॥ श्रीकुमारविहाराख्यमुद्दधार जिनालयम् । असौ नगमिवोत्तुङ्गं द्रङ्गरूपाभिधेपुरे । व्याघ्र| रोलाभिधे ग्रामे पूर्वजानां जिनालयम् । ध्वजाभुजालतोत्क्षिप्तताण्डवं विदधे नवम् ॥६५।। आसराजसुतः पश्चासराख्ये जिनमन्दिरे। | अणहिल्लपुरोत्तंसेऽतिष्ठिपन्मूलनायकम् ॥६६॥ भीमपल्ल्यां जिनरथं, चक्रे राजेव सम्पतिः। स राजमानः कृतिनां, चक्रे राजेव | सम्प्रति ॥६७॥ प्रह्लादनपुरीचन्द्रावतीपुर्योवितेनिवान् । वसती निजपुण्यश्रीकामिनीकुण्डले इव ॥६८॥ वसन्तस्थानकावन्तिनाशिक्य| जिनवेश्मसु । जिनबिम्बयुगं चाहत्खत्तकानामकारयत् ॥६९।। श्रीनाभेयजिनेन्द्रस्य, मन्दिरं खदिरालये । वस्तुपालो व्यधात्तेजः| पालस्तु त्रिशलाभुवः ॥७०॥ जा(घा)वटे नगरे नेमिवेश्मासौ विदधे नवम् । देवपल्ल्यां तथा खेटे, जिनचैत्यं पृथक् पृथक् ॥७१॥ | श्रीशङ्खाख्यपुरे शान्तिनाथगेहमसौ व्यधात् । साम्बवसतौ नामेयभवनं भुवनोत्तमम् ॥७२॥
कृताः प्रभूता अपि तीर्थयात्राः, पात्राणि वित्तैश्च कृतार्थितानि । विनिर्मिता येन परोपकाराः, कारा निरस्ता च भवाभिधाना॥ ॥७३॥ एवं तनिर्मितानेकधर्मस्थानपरम्पराः । जानाति भगवानेव, सङ्ख्यातुं न्यक्षतः क्षितौ ॥७४॥ यतः-तेन भ्रातृयुगेन या प्रतिपुरग्रामाध्वशैलस्थलं वापीकूपनिपानकाननसरःप्रासादसत्रादिका । धर्मस्थानपरम्परा नवनवा चक्रे च जीर्णोद्धृता, तत्संख्यापि न बुध्यते | यदि परं तद्वेदिनी मेदिनी ॥७५॥ तथा-शम्भो श्वासगतागतानि गणयेद्यः सन्मतियोऽथवा, नेत्रोन्मीलनमीलनानि कलयेन्मार्कण्ड* नाम्नो मुनेः। संख्यातुं सचिवद्वयीविरचितामेतामपेतापरव्यापारः सुकृतानुकीर्तनतति सोऽप्युजिहीते यदि ॥७६।। नानाबहुश्रुतमुखा
दधिगत्य किश्चित्तत्तत्प्रबन्धरचना अवचिक्य किश्चित् । श्रीवस्तुपालचरितं रचितं मयैतत्पुण्यानुभावकलितं कलिलितापहारि ॥७७॥
Page #284
--------------------------------------------------------------------------
________________
*
*
श्रीवस्तुपाल चरितम् ।
अष्टमः। प्रस्ताव:
*
नानाचिरन्तनकविव्रजगुम्फमध्यादादाय सारमखिलं सुकृतानुसारि । श्रीमत्रिराजयुगलाद्भुतकीर्तनेत्र, क्षिप्तं मया यदधिकं किल | तत्क्षमध्वम् ॥७८॥ निर्माय निर्मायगुरोः प्रसादाद्यवृत्तमेतत्सुकृतं मयापि । तेनाभवं विश्वजनोपकारे, भूयात्प्रसक्तिः शिवसौख्यबीजम् ॥७९॥ सीमनन्दिगणिः शिष्यो, विनयी विदुराग्रणीः । गुरुभक्त्या लिलेखास्य, वृत्तस्य प्रथमा प्रतिम् ॥८०॥ श्रीचौलुक्यनृपेन्द्रराज्यकमलासर्वाधिकारस्थितिव्यापारकधुरन्धरस्य चरितं श्रीवस्तुपालप्रभोः। तेजःपालमहामतेश्च सरसं हर्षाङ्कमेतत्कविप्रष्टैनन्दतु वाच्यमानमवनौ यावज्जिनानां मतम् ॥८१॥
*
॥१३५॥
**
48**
*
gesse-N-IN-IN-se-se-Resesses-se-50-5000- RINORINONDONDS-3200-80-90DPRESSWORDERESENGER-INइति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसरि
श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाङ्के अष्टमः प्रस्तावः ॥
*
**
*48**
॥१३५।।
*
Page #285
--------------------------------------------------------------------------
________________
:-883888888888888888888888888
तपोगच्छेऽभवद्भूम्ना, महिम्ना विश्वविश्रुतः । जगच्चन्द्रगुरुः श्रीमान्, सम्यग् ज्ञानक्रियानिधिः ॥१॥ श्रीदेवेन्द्रगुरुस्तस्य, पट्टभूत्प्रकटप्रभः । यदेशनासमाजेऽभूद्वस्तुपालः सभापतिः ||२|| तच्छिष्याः क्षितिविख्याता, विद्यानन्दमुनीश्वराः । अजायन्त जगत्पूज्या, ज्यायोज्ञानक्रियागुणैः ||३|| तत्पट्टोदय भास्वानासीनिस्सीमतेजसां राशिः । श्रीधर्मघोषगणभृत्सच्चक्रानन्दिगोविभवः || ४ || ततश्च - श्रीसोमप्रभ इत्यासीत्सूरिः सीमा महात्मनाम् । व्यधाद्युगोत्तमं वीरशासनं यो युगोत्तमः ॥ ५ ॥ ततः शतक्रतुस्तुत्यः, श्रीसोमतिलकाह्वयः । सूरिभूरियशा जज्ञे, विज्ञेषु प्रथितो धुरि ||६|| श्रीदेवसुन्दरगुरुर्गरिमाम्बुराशिर्वित्रासितारिरभवद्भुवनातिशायी । तत्पट्ट| पङ्कजरविः पविपाणितेजा, भृजानिवन्दितपदः शिवमार्गदर्शी ||७|| सुरियुगोत्तमसमोऽजनि तस्य पट्टे, श्रीसोमसुन्दरगुरुर्गुरुभाग्यशाली । यं श्रीसुधर्मगुरुणा गणभृत्पुरोगं, सर्वाङ्गचङ्गिमगुणैस्तुलयन्ति सन्तः ||८|| तच्छिष्यः प्रथमः समर्थमहिमा त्रैविद्यगोष्ठीगुरुः, सूरिः श्रीमुनिसुन्दरः सुरगुरुः ख्यातः क्षितौ प्रज्ञया । अस्ति प्रास्ततमोभरस्तदपरः सूरिस्तु भूरिप्रभाशाली श्रीजयचन्द्र इत्यभिधया | सर्वत्र लब्धोदयः ||९|| त्रैविद्यगोष्ठीगुरुरात्मवेत्ता, येषां विनेयो जिनमण्डनाख्यः । श्रीवाचकेन्द्रोऽजनि जन्तुजातजीवातुवाग्वादिघ| टामृगेन्द्रः ॥ १० ॥ विक्रमार्कान्मिते वर्षे, विश्वनन्दर्षिसंख्यया (१७९३) । चित्रकूट पुरे पुण्ये, श्रीजिनेश्वरसद्मनि ॥ ११ ॥ जिनहर्षगणिः शिष्यः, श्रीजयचन्द्रसद्गुरोः । जिनेन्द्रशासनौन्नत्यहेतुवृत्तमिदं व्यधात् ॥ १२॥ इति ॥
0=0
॥ समाप्तम् ॥
888888888888888888888888881
Page #286
--------------------------------------------------------------------------
________________ श्रीवस्तुपालचरित्रं समाप्तम् // 樂樂樂樂樂樂樂樂燒鵝 禁类美 影集彩影来来来来来来来来来来来来来来来来来来