SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपालमाननं परिणतं पश्चाङ्गुलिच्छद्मतो, जग्मुर्दक्षिणपञ्चशाखमयतां पश्चापि देवद्रुमाः। वांछापूरणकारणप्रणयिनां जिद्वैव चिन्तामणिर्जाता षष्ठः चरितम् । * यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ॥६४॥ प्रत्येकं प्रददौ लक्षं, द्रम्माणां खर्दुमोपमः । धर्मोन्नतिकृते तेषां, सर्वेषां सचि-* प्रस्तावः । * वेश्वरः ॥६५॥ यतः-कुर्वन्मङ्गलदीपमार्हतमताकाशप्रकाशांशुमान् , श्रीशत्रुञ्जयपर्वते जिनपतेः श्रीनाभिसूनोः पुरः । द्रम्माणां किल ||* ॥९॥ I विंशतिं युगयुतान् लक्षान् कवीनामहो, प्राग्वाटान्वयमण्डनं सचिवराट् श्रीवस्तुपालो ददौ ॥६६॥ एक एव विभो दीपस्वमसि त्रिजगत्यपि। इत्युच्चरन् व्यधादेष, दीपं मङ्गलपूर्वकम् ॥६७॥ ववन्दे विधिना मन्त्री, ततः श्रीवृषभप्रभुम् । प्रणिधानं परं बिभ्रदवादीत त्रिजगत्पतिम् ॥६८॥ आस्यं कस्य न वीक्षित वन कृता सेवा न के वा स्तुतास्तृष्णापूरपराहतेन विहिता केषां च नाभ्यर्थना ।। तत्रान्तर्विमलाद्रिनन्दनवनाकल्पैककल्पद्रुम, त्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ॥६९॥ स कृत्वा परितश्चैत्यपरिपाटीं |* कृतोत्सवम् । नमश्चकार सूरीशान् , सर्वान् सर्वमतस्थितीन् ॥७०॥ तस्मै विनयनम्राय, नरचन्द्रमुनीश्वराः। आनन्दरसनिस्पन्दमुपदेशं ददुर्यथा ॥७१॥ तवोपकुर्वतो धर्म, तस्य त्वामुपकुर्वतः । वस्तुपाल द्वयोरस्तु, युक्त एव समागमः ॥७२॥ उपोषितः शुचिस्वान्तस्तमखिन्यामसौ पुनः । महापूजां विनिर्माय, चैत्येषु निखिलेष्वपि ॥७३॥ कर्पूरागुरुकस्तूरीधूपेन विमलाचलम् । सर्वतो वासयन्नुच्चै र्वासनावासिताशयः ॥७४॥ ध्यानलीनमनास्तिष्ठन् , पुरः श्रीऋषभप्रभुः। आससाद चिदानंदास्वादसोदरसम्पदम् ॥७५॥ त्रिभिविशेषकम् ॥ निधाय हेममाणिक्यमुकुटं प्रकटप्रभम् । तेजःपालः प्रभोमौली, भाखबिम्बानुकारिणम् ॥७६।। नवाङ्गेषु व्यधात्पूजा, | रत्ननवभिरद्भुतैः । द्रम्माणां नवलक्षाणि, ददौ चार्चकसन्ततेः ॥७७॥ जैत्रसिंहो न्यधाद्रत्नकुण्डले कर्णयोर्विभोः । हारं तु ललितादेवी, मौक्तिकं विजयाह्वयम् ॥७८॥ माणिक्यतिलकं भाले, लक्षमूल्यं जगत्पतेः। निदधेऽनुपमादेवी, सतीतिलकसंनिभा ॥७९॥ ॥११॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy