SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 88888888888388838 1838283328 " चितः । एकातपत्रमैश्वर्य, दत्ते क्षेत्रानुभावतः ॥ ९५॥ यद् द्रव्यं व्यथितं भव्यैरत्र क्षेत्रानुभावतः । कोटाकोटिगुणां वृद्धिं तदाप्नोति दिने दिने ॥ ९६ ॥ एतत्तीर्थं नमस्कर्तुं गच्छतां स्वच्छचेतसाम् । नमस्कृत्य पुनः सम्यग् व्रजतां स्वगृहं प्रति ॥९७॥ भक्तिः कृता भवेत्कोटिगुणा निश्छद्मचेतसा । अन्याङ्गिगौरवान्नूनमनन्तगुणतोऽधिका ॥ ९८ ॥ युग्मम् || सुवर्णकोटिदानेनान्यत्र तीर्थेषु यत्फलम् । एकवस्त्रप्रदानेन जायते तदिह ध्रुवम् ॥ ९९ ॥ एकैकस्मिन् पदे दत्ते, शत्रुञ्जयगिरिं प्रति । लभते यात्रिको न्यायी, पण्मास तपसः फलम् ||५०० || इत्यादिदेशनां कृत्वा स श्रीमानृषभप्रभुः । गिरिं प्रदक्षिणीकुर्वन्, विजहार सुरार्चितः ||१|| प्रथमं श्रीजिनाधीशं, ततः श्रीभरतेश्वरः । पुण्डरीकादिसाधूनां, परिवारेण राजितम् ||२|| अत्र तीर्थोत्तमे ज्ञात्वा गिरीन्द्रे समवसृतम् | अनन्तसिद्ध सत्क्षेत्रे तरुराजादनीतले || ३ || प्रासादं कारयामास, वासवादेशतत्परः । जातरूपमयं पुण्यं, सुमेरुशिखरोपमम् ||४|| सुवर्णमणिमाणिक्यप्रतिमाभिरलङ्कृतम् । पञ्चशतधनुर्मानमयीभिः प्रथमाहतः || ५ || भाविनामजितादीनामर्हतां प्रतिमास्तथा । प्रातिष्ठिपत्केवलिना, विश्वश्लाघ्यमहोत्सवैः ॥ ६ ॥ पञ्चभिः कुलकम् ।। द्वात्रिंशता सहस्रैर्भूपालैर्मुकुटधारिभिः । कल्पशाल इवाभीष्टं, पूरयन् जगतामपि ॥७॥ तत्र यात्रां, ततश्चक्रे, चक्रभृत्प्रथमो गिरौ । आश्चर्यपात्रं त्रैलोक्या, आद्यः सङ्घाधिपाग्रणीः ||८|| युग्मम् || द्वात्रिंशतं सहस्राणि, सुवर्ण| मणिमण्डिताः । विरेजुर्भूर्भुजामुच्चैर्यत्र देवालयाः पुनः ||९|| माणिक्यनिर्मितस्तत्र, पवित्रचित्रितः सुरैः । त्रैलोक्यसुन्दरश्रङ्गोत्तुङ्गशृङ्गो जिनालयः ||१०|| सूर्येन्दुकान्तरत्नानामष्टोत्तरशतेन च । संशोभमानः सत्कुम्भैरासीद्भरतचक्रिणः ॥ ११॥ युग्मम् ॥ श्रीमदादिजिनेन्द्रस्याऽप्रतिमाः प्रतिमाः पुनः । देवालयेषु सर्वेषु, रेजुस्तेषु रजोऽपहाः ||१२|| प्रतिष्ठासमये तासां, त्रिदशश्रेणिसंश्रितः । आगत्य त्रिदशाधीशो, भरताधीशसद्मनि ॥ १३॥ सङ्घाधिपपदैश्वर्यस्थापनं विधिवद् व्यधात् । नृत्यद्देवाङ्गनावृन्दकौतुकाक्षिप्तपूर्जनम् ॥१४॥ 88888888888888888463% %88%
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy