SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पहाः प्रस्तावः। श्रीवस्तुपाल न्द्रस्य, सूत्रयन् गन्धवारिभिः। चित्रं पवित्रतां निन्ये, खगात्रं तत्क्षणादपि ॥३२॥ अभिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य ।। चरितम् । | भवभवनभित्तिभागान् , भूयोऽपि भिनत्तु भागवती ॥३३॥ एतद् वृत्तं पठन्तोऽथ, श्रावकाः शुद्धवारिणा । सन्तापशान्तये धारां, जिनबिम्बोपरि व्यधुः ॥३४॥ गन्धकाषायिकाख्येन, सिचयेन जिनेश्वरम् । रत्नादर्शमिवोन्मृज्य, व्यधुरुज्ज्वलमार्हताः ॥३५॥ कर्पू॥९ ॥ रकेशरोन्मिश्रचन्दनेन जगद्गुरोः । अङ्गविलेपनं रम्यं, स व्यधाद् बहुभङ्गिभिः ॥३६॥ अष्टप्रकारमभ्यर्च्य, ततः श्रीऋषभप्रभुम् । | अलिखत्तण्डुलैरष्टमङ्गलानि पुरो विभोः ॥३७॥ नैवेद्यं दर्शयामास, सर्वभोज्यसमन्वितम् । नागवल्लीदलान्येष, फलानि विविधान्यपि। | ॥३८॥ तत्रादिदेवस्य नमस्यमूर्तेः, स्नात्रं च पूजां च विधाय मत्री। पुरः कुरङ्गीनयनाः प्रमोदनृत्यन्मना नृत्यमकारयत् सः॥३९॥ विरच्यमाने सचिवेन तेन, पूजाविधौ पूज्यतमस्य तस्य । सत्कुङ्कुमस्नानजलच्छलेन, गलन्निवालोक्यत भोगरागः॥४०॥ न केवलं केवलिचक्रवर्ती, हृचक्रवर्ती सचिवस्य सोऽभूत् । शुश्रूषया पोषविशेषवत्या, तत्याज नान्तःकरणं बदीयम् ॥४१॥ श्रीनाभिसूनुमंगनाभिमुख्यैः, पूजोपचारैः परमैः प्रसन्नः। मन्ये खभावादपि वीतरागः, स स्फीतरागः सचिवे बभूव ॥४२॥ एणीमदागुरूदारघन| सारमनोहरैः । स धूपैधूपयामास, सर्वतः सिद्धपर्वतम् ॥४३॥ परितः सर्वचैत्येषु, प्रपूज्य श्रीजिनावलीः। अथारात्रिकवेलायां, मत्री मण्डपमागतः॥४४॥ कोशागारे जगदम्नो दशशतीस्तुलाः। ददौ जीर्णपतत्स्थानसञ्जीकरणहेतवे ॥४५॥ युग्मम् ॥ विधि विधाय | निःशेषं, मन्त्री लवणवारिभिः। चन्दनखस्तिकं कृता, रत्नस्थाले मनोहरे॥४६॥ पुष्पादिभिस्ततः पूजा, निर्ममे स्वस्तिकोपरि। आरा त्रिके न्यधात्तत्र, काश्चनं सप्तदीपयुम् ॥४७॥ अभ्यर्च्य चन्दनैः पुष्पैः, प्रणम्यैव जगत्पतिम् । विधिनोत्तारयामास, तदसौ सप्रदक्षिणम *॥४८॥वारिधारां ददुःश्राद्धास्तदा भृङ्गारपाणयः। भवसन्तापशान्त्यर्थ, पार्श्वयोरुभयोः स्थिताः॥४९॥ चतुर्भिश्चामरैस्तत्र, चतस्रः सध ॥९ ॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy