SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ *888% 84888888328468% 188448837 वासांस्ततो नृपः । चमूं विरचयित्वा च (चमूविरचनां कृत्वा), तस्थौ मन्त्रिपुरस्कृतः ॥४०॥ तदा तु वामनस्थल्यां, वनस्थल्यामिवोद्धतौ । गजेन्द्र धनगर्वेण, सोदरौ दरवर्जितौ ॥ ४१ ॥ साङ्गणः प्राङ्गणं लक्ष्म्याचामुण्डश्च प्रचण्डरुक् । भूभुजः शालकौ राज्यं कुरुतः करुगोज्झितौ ||४२ ॥ युग्मम् ॥ तयोर्वाचिकमाख्यातुं, सस्नेहालापकोमलम् । भट्टः प्रकटवाक् त्रैषि, नृपमापृच्छ्य मन्त्रिणा ||४३|| ततः सभामुपासीनं, साङ्गण राणकेश्वरम् । अन्वितं भूभृतां वृन्दैरनुजेन विराजितम् ||४४ || गला स भट्टराडाह, नत्वा वाक्पटुरञ्जसा । श्रीवीरधवलश्चन्डदोर्दण्डः सेनयान्वितः ॥ ४५ ॥ [ गत्वा स भट्टराजोऽपि समीपं सुप्रन्नवाक् । आनन्द्याशीः प्रदानेन, कार्यमेवमभाषत ॥ श्रीवीरधवलस्वामी, स्वामिन् कवलयभरीन् । अदण्डदण्डनोद्दण्डे, दोर्दण्डः सेनयान्वितः ॥ ४६ ॥ ] मंत्रिणा वस्तुपालेन वायुनेव हुताशनः । दुस्सहोत्र पुरासने, स्थितः स्थितिमतां गुरुः ॥४७॥ अभङ्गभञ्जनोजस्वी, दण्डयन् दुष्टभूभुजः । भवतः प्राभृतं प्रौढं, | चेतः प्रीत्यै समीहते ॥ ४८ ॥ त्रिभिर्विशेषकम् ॥ इत्याकर्ण्य वचस्तस्य, भृकुटिस्य पुटाननः । अवादीन्मेदिनीपालः कूर्चालुकुलकेशरी ॥ ४९ ॥ वणिग्बलमदोन्मत्तः प्रमत्त इव संयतः । भ्रष्टस्थितिर्भवद्भूपः, किं वदत्यधमोचितम् ॥५०॥ क्षुद्रदण्डनसञ्जातपापजातावृतात्मने । असिरेष गुरुस्तस्मै, प्रायश्चित्तं प्रदास्यति ॥ ५१ ॥ एतावन्ति दिनानि त्वं सम्बन्धिखादुपेक्षितः । इदानीमागतो मंत्रिकीटकेनोत्सुकीकृतः ॥ ५२ ॥ सञ्जीभवाजये शीघ्रं दूरीभव पुरोऽथवा । मदीयवचनादेवं गत्वा वाच्यः प्रभुर्निजः ॥ ५३ ॥ इत्युक्त्वा मुक्तमानेन दानेनानन्द्य तं नृपः । विससर्ज स्वयं युद्धसामग्रीमसुसूत्रयत् ॥ ५४ ॥ पश्चादागत्य भट्टोऽपि मत्रियुक्ताय भूभुजे । व्याजहार तदीयोक्तं, तत्कीर्तिव्यक्तिपूर्वकम् ॥ ॥५५॥ अथाग्रमहिषी राज्ञः श्रुत्वा तद् बन्धुमोदितम् । नाना जयतला देवी, विचारचतुराशया ॥ ५६ ॥ नृपादेशं समासाद्य, सद्यः *1888 188% 100% 2033 2032 203%
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy