SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सप्तमः प्रस्तावः। श्रीवस्तुपाल लोकः समग्रोऽपि, नानाप्राभूतपूर्वकम् । अहम्पूर्विकयाऽऽयासीत्तमानन्तुं प्रभास्पदम् ॥२॥ सत्कृतस्तेन सर्वोऽपि, लोकः सुश्लोकशाचरितम् । | लिना । औचित्यं हि न च क्वापि, विस्मरन्ति मनीषिणः ॥३॥ कवयस्तु स्तुवन्त्येनं, तं तदा दलितापदम् । भट्टसोमेश्वरप्रायाः, स्वेष्ट | सिद्धिसमीहया ॥४॥ दुर्गः स्वर्णगिरिः स कल्पतरुभिर्भेजे न चक्षुदिवि, तस्थौ कामगवी जगाम जलधेरन्तः स चिन्तामणिः । काले॥११३॥ ऽस्मिन्नवलोक्य याचकचमू तिष्ठेत कोऽन्यस्ततः, स्तुत्यः सोऽस्तु न वस्तुपालसचिवो दानैकवीरः कथम् ।।५।। विजित्य करणग्राम, | योगिनेव नियोगिना । अनेनोपार्जयाञ्चक्रे, परमार्थमहामहः ॥६॥ श्रीमन्ति दृष्ट्वा द्विजराजमेकं, पमानि सङ्कोचमहो भजन्ति । समाFE | गतेऽपि द्विजराजलक्षे, सदा विकाशी तव पाणिपद्मः ॥७॥ उच्चाटने विद्विषतां रमाणामाकर्षणे खामिहृदश्च वश्ये । एकोऽपि मत्री| श्वर वस्तुपाल!, सिद्धस्तव स्फुत्तिमियर्ति मन्त्रः ॥८॥ दलान्यत्युज्ज्वलानीयुर्मन्त्रिणो वेश्मनि क्रमात् । पश्चापि प्रेषितानि श्रीपूर्णसिंहेन साधुना ।।९।। कर्पूरपूरगौराभं, वीक्ष्य तद्दलपञ्चकम् । स प्रमोदं परं प्रापच्चकोर इव शीतगुम् ॥१०॥ ऋषभः पुण्डरीकाद्रौ, निममे मूलनायकः। गणभृत्पुण्डरीकश्च, कपर्दी यक्षराट् तथा ॥११॥ चक्रेश्वरी महादेवी, तेजःपालपुरे पुनः । चैत्यार्थ पार्श्वनाथश्च, | तेन तेभ्यो(ताभ्यां) यथाक्रमम् ॥१२॥ युग्मम् ॥ | श्रीनागेन्द्रगणाधीशसविधे सचिवोऽन्यदा । जगच्चन्द्रमुनीन्द्राणां, श्रुतवानिति वैभवम् ॥१३॥ मन्त्रीन्द्रं चन्द्रशाखायां, स्तम्भ | तीर्थपुरेऽधुना । वृद्धगच्छाधिपाः सन्ति, श्रीजगच्चन्द्रसूरयः॥१४॥ प्रथमा ज्ञानचारित्रतपःशीलक्रियावताम् । निःसङ्गवृत्तयः सम्यग्, se सदाचाम्लतपोरताः ॥१५॥ सस्थावरजन्तूनां, सृजतां पालनं त्रिधा। पश्चाचारवतां पञ्चसमितिप्रयतात्मनाम् ॥१६॥ चतुर्दापि सदा पिण्डं, समयाद्यनुसारतः । विशुद्धं गृह्यतां तेषां, न कोऽपि सदृशो यतिः ॥१७॥ युग्मम् ॥ श्रुत्वेति तद्गुणाकृष्टः, स्तम्भतीर्थ ॥११३॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy