SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठितानां बिम्बानां, यत्पूर्व दर्शनेने । फलं पुण्यानुबन्धि स्यात्तत्सङ्ख्यां वेत्ति केवली ॥५४॥ शत्रुञ्जयादितीर्थेषु, प्रासादान प्रतिमाश्च ये । कारयन्ति हि तत्पुण्यं, ज्ञानिनो यदि जानते ॥५५॥ एकाङ्गुष्ठादिसत्सप्तशतांगुष्ठमितानि यः। कारयत्यत्र भावेन, सर्वपापैः स मुच्यते ॥५६।। अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब, वीरावसानऋपभादिजिनेश्वराणाम् । स्वर्गे प्रधानविपुलर्द्धिसुखानि भुङ्क्त्वा , पश्चादनुत्तरपदं समुपैति धीरः॥५७।। ज्ञानं विना हि संसारो, ज्ञानेन शिवसङ्गमः । सिद्धान्ताराधनं तच्च, तद् द्विधा द्रव्यभावतः ॥५८॥ पुस्तकेषु विचित्रेषु, श्रीजिनागमलेखनम् । कारयिखा च स्थाप्यानि, भाण्डागारेषु तानि हि(तत्पूजावस्तुभिः पुण्यद्रव्याराधनमुच्यते । श्रवणं श्रद्दधानं च पठन पाठनं तथा । तद्विदामतिभक्तिश्च भावपूजनमिष्यते ॥) ॥५९॥ मुनिभ्यश्च प्रदेयानि, ज्ञानाभ्यासविवृद्धये । यथा करतले क्रीडा, मोक्षलक्ष्म्या विधीयते ॥६०॥ इत्थमागमपूजेयं,भवजाडथविघातिनी । केवलज्ञानजननी, Hd कृता भवति भाविनाम् ॥६१।। ज्ञानाराधनतः प्राणी, चक्रिशकमुखान् भवान् । लब्ध्वा तीर्थेशवद् ज्ञानं, लोकाग्रमधिगच्छति ॥६॥ यतः श्रुतज्ञानवशेन वेत्ति, जीवादितत्त्वानि हिताहिते च । ततः प्रबुद्धो विरतिं प्रयाति, तयार्पिता तूर्णमुपैति मुक्तिम् ॥६३॥ लौ-100 किका अप्याहुः-पापामयौषधं शास्त्रं. शास्त्रं पुण्यनिवन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ॥६४॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन! । ज्ञानाग्निः सर्वकर्माणि, भस्मसात्कुरुते तथा ॥६५॥ यावदक्षरसंख्यानं, विद्यते शास्त्रसञ्चये । तावद्वर्षस-11 हस्राणि, स्वर्ग विद्यापरो भवेत् ॥६६॥ यावत्यः पश्यस्तत्र, पुस्तकेऽक्षरसंश्रिताः। तावतो नरकात्कल्पानुवृत्य नयते दिवि ॥६७।। चतुर्विधस्य सङ्घस्य, पूजनं पर्युपासनम् । चतुःक्षेत्रमिदं प्राहुलोकोत्तरसुखप्रदम् ॥६८॥ चिन्तामणिः करे तस्य, कल्पवृक्षस्तदङ्गणे । कामधेनुः पुरस्तस्य, सङ्घोऽभ्येति यदालयम् ॥६९॥ फलताम्बूलवासोभिर्भोजनैश्चन्दनैः सुमैः। श्रीसङ्घः पूजितो येन,तेन प्राप्तं जनु:
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy