________________
श्रीवस्तुपाल
चरितम् ।
॥१२२॥
2838708037-8488989K9K48+
चण्डपान्वयी ||२२||
1884488888888888888463% *8%
अष्टमः
श्रीमातुः सदने जीर्णे, न्यूनं च यदभूत्पुरा । उद्धर्तुमिच्छतात्मानं, तत्सर्वममुनोद्धृतम् ||२३|| दण्डेशविमलोपज्ञे, तेने तेन प्रस्तावः । जिनौकसि । श्रेयसे मल्लदेवस्य, मल्लिदेवस्य खत्तकम् ||२४|| कैलासादपि निर्मलं मलयतोऽप्याविर्भवत्सौरभं, हेमाद्रेरपि तुङ्गशृङ्गमभितः शीतं हिमाद्रेरपि । श्रीमन्नेमिजिनेन्द्र मन्दिरमिदं लावण्यसिंहाभिधाभाजो भ्रातृवरस्य (जः खागरहस्य) पुण्यकृतये श्रीतेजपालो व्यधात् ||२५|| विमलदण्डपतिर्विमलाचलाधिपजिनालयमारचयत्पुरा । इह गिरावकौ तु सकौतुकं व्यधित रैवतदैवतमन्दिरम् ॥ ||२६|| प्रद्युम्नाम्बासाम्बावलोकनाख्यानि तानि चत्वारि । इह सानूनि स नूनं, व्यतनोदन्यूनलक्ष्मीकः ||२७|| आसीच्चण्डप इत्यमुष्य तनुजश्चण्डप्रसादस्ततः सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूणिगमल्लदेवसचिव श्रीवस्तुपालाभिधास्तेजः पालसमन्विता जिनमतारामोल्लसन्नीरदाः ||२८|| श्रीमश्रीश्वरवस्तुपालतनयः श्रीजैत्रसिंहा भिधस्तेजः पालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिधः । एतेषां दश मूर्त्तयः करिवधूस्कन्धाधिरूढा इह, भ्राजन्ते जिनदर्शनार्थमयतां दिग्नायकानामिव ||२९|| अनुदिनमिह रङ्गक्षोणिरङ्गन्नट स्त्रीप्रति कृतिपरिपाटी भङ्गिमाटीकनेन । स्फटिकपटलराजन्मण्डपक्रोडचूडामणिवलयविशालः शालभञ्जिीसमूहः ॥ ३० ॥ पाताले निखिलेऽपि खेलति दिवि देशान्तरे दीव्यति, क्रोडे क्रीडति भृतलस्य रमते काष्ठासु चाष्टास्वपि । आसाराजतनूजकीर्त्तिरियमित्येतत्समन्तादयं, वातान्दोलितकेतुहस्तचलनैराख्याति साक्षादिह ||३१|| भट्टः प्रकटबाकू कश्चिदायातो दूरदेशतः । निषीदात्रेति सस्नेह, जगदे मन्त्रिणान्यदा ||३२|| स्थानाभावान्महामात्य, कुत्रोपविश्यते मया । कथं नास्तीत्यवग्मन्त्री भट्टोऽप्याचष्ट कौतुकी ॥३३॥ अन्नदानैः पयःपानैर्धर्मस्थानैश्च भृतलम् । यशसा वस्तुपालेन, रुद्धमाकाशमण्डलम् ||३४|| पुनर्निगद्यतामेतद्वाचं तन्वति मन्त्रिणि।
॥१२२॥