SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ चरितम् । पश्चमः |प्रस्तावः। श्रीवस्तुपाला Total तवान् तेषु स्वहस्तेन च ॥३००॥ कर्पूरकेशरविमिश्रितचन्दनेन, सुश्रावकावलिमसौ सुरभीचकार । पूगीफलामलदलैर्गुरुनागवल्लीपत्रैः सुरङ्गसुभगैश्च ततः सरङ्गम् ।। *॥२॥ एवं श्रीसङ्घवात्सल्यं, विधाय विधिना सुधीः । गृहाश्रमद्रुमं चक्रे, सश्रीकं स फलेग्रहिम् ॥३॥ श्रीसर्वज्ञमताकाशप्रकाशनरवि॥७१॥ विषः। ततो मुनीश्वरश्रेणीरभ्यर्च्य सिचयादिभिः ॥४॥ श्रीसङ्घलोकं निःशेष, दुकुलैललितापतिः । विविधैर्वसुधासारैरुदारः पर्यधापयत् ॥५॥ युग्मम् । तथा सौवर्णमाणिक्यतिलकैः पुलकाङ्कितः। मत्री विभूषयामास, सुश्राद्धालकमण्डलीः ॥६॥ अत्रान्तरे कविः कश्चिद्विपश्चित्सूरिशालिनि । समाजे व्याजहारश्रीवस्तुपालस्तुतिं यथा ॥६॥ सन्ततिः परलोकाय, विवेकाय सरखती। लक्ष्मीः परोप काराय, सोमवंशेऽभवत्पुनः ॥८॥ तस्मै लक्षत्रयं मन्त्री, तत्त्वत्रयपवित्रितः । द्रुतं विश्राणयामास, द्रम्माणां प्रीतमानसः ॥९॥ विचार्य * बहुधा धर्ममार्ग मार्गकवेदिभिः । सम्यक्तत्वपरिज्ञानादादर्श इव निर्मलः ॥१०॥ सम्यक्त्ववर्णिकां मत्री, साक्षाद्दर्शयितुं सताम् । सम्यक्त्वोद्यापनं चक्रे, शक्रस्यापि स्पृहावहम् ॥११॥ युग्मम् ।। यथा-पूर्व सत्तत्वयोगेन, मिथ्यात्वाणुचयो यथा । गोधूमानां तथा | राशिः पयसा विशदो भवेत् ॥१२॥ असारं स्थूरमाधूय, मिश्रपुञ्जासमन्ततः । पटशुद्धिर्भवेत्तेषु, शुद्धा सम्यक्त्वपुञ्जवत् ॥१३॥ सत्तचत्रयसंयोगे, यथा सद्दष्टिरुच्यते । शर्करापटशुद्धाज्ययोगेऽसौ मोदको भवेत् ॥१४॥ नानासद्धर्मकृत्येषु, सद्दष्टे रुचिरुल्लसेत् । आस्वादिते तथैवामिन् , भव्यस्याप्यङ्गिनो यथा ॥१५॥ नवतवपरिज्ञानाद् , दृष्टि-प्रतरा भवेत् । नवधाफलसंयोगात्तथासौ खदतेऽधिकम् ॥१६॥ सम्यक्त्वं लभते प्राणी, ग्रन्थिभेदे कृते यथा । तथा प्रन्थिकभेदेन, भवेदेषोऽपि मोदकः ॥१७॥ स्वर्गसौख्यं यथा पुष्पं, सदोधिपृथिवीरुहः । तथायं देवकुसुमैः, संयुक्तो रुचिमावहेत् ॥१८॥ सद्वृत्तः शोभते जन्तुर्यथा सम्यक्त्ववानिह । तथायं ॥७१॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy