SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ *688888888888888888888888484 | जायते वृत्ताकारः सद्द्दष्टिसौख्यदः ||१९|| सम्यक्त्वव्रतपूतात्मा, सद्वासैर्वास्यते यथा । ससङ्घगुरुभिस्त्वेष, घनसारादिना तथा ॥ २० ॥ सौवर्णरत्न माणिक्यसम्पृक्तान्मोदकानिमान् । गौर्जरोर्व्यां प्रतिग्रामपुरपत्तनमादरात् ॥ २१ ॥ मत्री समर्पयामास, सद्वात्सल्यविधित्सया । सम्यग्दृष्टिगृहस्थानां, भवनेषु यथाक्रमम् ||२२|| युग्मम् ॥ सद्दर्शनोद्यापनमार्हतेषु, सद्धर्मकार्येषु परं विधाय । ततः पुपूजोत्तमसाधुलोकं, विवेकवानेष विशेषतश्च ||२३|| अथ प्रजाव्रजानन्दकन्दपीयूष वारिदः । श्रीवीरधवलः खामी, मूर्त्तः पुण्योदयः सताम् ||२४|| | कल्पयन् कल्पशाखीव, सेवकानां मनोरथान् । चन्दनद्रवसंसिक्तः कृतपुष्पावतंसकः ||२५|| अगुरुमृगनाभिभ्यां सर्वाङ्गसुरभिस्थितिः । सर्वातिशायिभिर्भोगैः, साक्षादिव पुरन्दरः ||२६|| ग्रीष्मे महोष्मभिर्भीष्मे, सर्वभूतोपतापिनि । धर्मार्त्तश्चन्द्रशालायां, विशालायां निशामुखे ||२७|| मन्त्रीन्द्रधवलव्यूढप्रौढराज्यमहाभरः । राजहंस इव क्रीडन्नमन्दानन्दवारिधौ ||२८|| सद्यस्कपरमा मोदिमृदुमाल्यविराजिनि । सुष्वाप लीलया हेमपल्यङ्के सुखका - रिणि ॥ २९ ॥ आच्छादितमुखाम्भोजो, देवदूष्यानुकारिणा । वस्त्रेणातिपवित्रेण, सौरभ्यभरभारिणा ||३०|| सप्तभिः कुलकम् । लीलानिद्राप्रसुप्तस्य, तस्य भर्त्तर्भुवः पदौ । संवाहयन् खपाणिभ्यां वण्ठः कश्चिच्छठेतरः || ३१ ॥ दृष्ट्वा मणिमयीं मुद्रां, मुद्रिताखिलदुर्दशाम् । आदातुमकरोच्चेतो, लोभक्षोभवशीकृतः ॥ ३२॥ युग्मम् ॥ राज्ञो निद्रागमं ज्ञात्वा ततोऽसौ मोहमूढहृद् । तामादाय मुखाम्भोजे, | जुगोप जगतोऽद्भुताम् ||३३|| लज्जां भयं च मायातु, ममायं नित्यसेवकः । इत्यालोच्य तदा भूमान् निद्राण इव कैतवात् ॥ ३४॥ तस्थौ मौनावलम्बेन, जानन्नपि महाशयः । गरीयांसो भवन्त्यत्र यतः सर्वत्र वत्सलाः ||३५|| युग्मम् || प्रभातेऽसौ गृहं प्राप्य, तां प्रियायै समार्पयत् । नृणां मोहैकमूढानां योषित्स्वेव यतो रहः ॥ ३६ ॥ द्वितीये दिवसे राजा, XC35-XADETEBETEBESED%20B**@D
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy