SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ an८५॥ चनकचपलवल्लान् भावितान् भावनाभिर्मरिचलवणहिडप्रायवस्तुब्रजस्य । रचितरुचिविशेषान् भोजयामास युक्त्या, स कृत रुचिविशेष पुण्यकृत्येषु सङ्घम् ॥८६॥ सर्वधर्मपरमोत्तमजैनधर्मयुक्तजनताकृतभोगम् । पायसं त्रिभुवने परमानीभावमाप तदतीवमनोज्ञम् ॥८७॥ मण्डनं जगतोप्येष, सद्गुणश्रेणिमण्डितः । इतीव श्राद्धलोकाय, विवेकामललोचना ॥८८॥ लीलया ललितादेवी, गौरवात्पर्यवेषयत् । खण्डक्षोदसुगन्धाज्यसुस्वादां मण्डकावलिम् ॥८९॥युग्मम् ॥ सुपक्कैः शालिभिः शुभैस्तस्मै सौरभशालिभिः। सर्वाङ्गीणगुणश्रेणिशालिने विमलात्मने ॥९॥ मुदाहितस्थितिं धर्मे, विभ्रते सुकृताङ्गिनाम् । भक्तिं मुद्गदलैरुष्णैरनुष्णोऽपि तथा व्यधात् ।। | ॥९१॥ युग्मम् ॥ आज्यैः प्राज्यतमः पुण्यैः, सद्यस्कैश्च सुगन्धिभिः। भक्तिं श्रीसङ्घलोकस्य, पुण्यप्रौढस्य स व्यधात् ॥९२॥ पाकपूतैस्तथा शाकैर्नानायुक्तिसुसंस्कृतैः। आदेशकालसम्भूतै, रुचिभाजो रुचिं पुनः ॥९३॥ युग्मम् ॥ अत्रान्तरे शीतलनीरपूरं, सुची | नया शर्करया रसालम् । कोपोपशान्त्या किल शीतलोऽपि, निपीय लोकोऽजनि शीतलाङ्गः ॥९३।। तापः प्रयात्यस्य सुयुक्तिभक्त्या, loke भवान्तरेऽपीति स मत्रिराजः । सुतालवृन्तोद्भवशीतवातैरत्रान्तरे तं विदधे वितापम् ॥९४॥ कर्पूरपूराद्भुतसौरभेण, करम्बकेन स्मितगोरसेन । तस्मै ततो गौरवमाततान, सत्तत्त्वसौरभ्यभृताय मत्री ॥९५।। अयं दधिः श्रीजिनधर्मलक्ष्म्या, निधिश्व शान्तस्य महारसस्य । ततो न्यधात्सद्दधिपूरितानि, स्थालानि भक्क्या सचिवानुजः साक् ॥९६।। सामुद्रं लवणं तत्र, सर्वदोषापहं न्यधात् । मन्त्री तस्य समुद्रस्य, प्रीत्यै दोषापहारिणः ॥९७॥ अरिष्टं शिष्टलोकानां, पिनष्ट्यस्मद्विधिः किल । ततोऽमी श्रावकाः केचिदरिष्टं केवलं पपुः ॥१८॥ आचान्ता निर्मलैर्वारिपूरैः सौरभपूरितैः । उत्तस्थुस्ते शुचीभूय, विश्वपावित्र्यहेतवः ॥९९॥ विश्वश्रीतिलकोपमा निजगुणैरेते खलु श्रावकारतेनैषां तिलकानि कुङ्कुमरसैर्भालेषु मन्त्री न्यधात् । एतद्भक्तिभृतो भवन्ति वशगा विश्वाक्षताः सम्पदस्तस्मादक्षतमण्डलीनिहि * *1883* *83** *** * * **
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy