SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ वर्षमतः परम् । दयादानं यतो ख्यातं, हेमवद्धातुपूत्तमम् ॥८८॥ त्रिभिविशेषकम् । इति चुलुकनरेन्द्रोद्दामसाम्राज्यलक्ष्मीपरिमलमुरभिः श्रीवस्तुपालः सहर्षम् । व्यधित विविधविश्वश्लाध्यसत्पुण्यकृत्यैर्जिनपतिमतभावान् सर्वलोकं विवेकी ॥८९॥ इति महामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्यप्रकाशके श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरि श्रीजयचन्द्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षाके सप्तमः प्रस्तावः ।। अथाष्टमः प्रस्तावः। अथार्बुदगिरेमन्त्री, श्रीनागेन्द्रगुरोगिंग । स सुरासुरपूज्यस्य, माहात्म्यं श्रुतवानिति ॥१॥ श्रीजैनशासने शैवशासने च विशेपतः। प्रख्यातोऽस्ति गिरीन्द्रोऽयं तीर्थत्वेनार्बुदख्यातः), सेवितो विविधर्षिभिः ॥२॥ अस्य शृङ्गे पुरा चक्रे चक्रभृद्भरतेश्वरः। हैमचैत्यं चतुरि, वचसा ऋषभप्रभोः ॥३॥ भूमीभृतोऽस्य माहात्म्यं, खण्डिताखिलपाप्मनः । वचोगोचरतां नेतुं, केवलं वेत्ति केवली ॥४तपास्यत्र पुरा कृत्वा, तीर्थेऽनेकमहर्षयः आसाद्य केवलज्ञानं, गताः शिवं समाधिना ॥५॥ दानशीलतपांस्यत्र, कृतानि * शुभभावतः। भूयो भूयो भवाघं च (भवाघसङ्घात), शोधयन्ति विशेषतः ॥६॥ अधित्यकां गिरेरस्य, पुनीते स समन्ततः । प्रपन्नHel प्रतिमः श्रीमान , वर्धमानजगद्गुरुः ॥७॥ ये दीपं कुर्वते वर्षमेकं नामेयवेश्मनि । ते कोटीश्वरतां प्राप्य, मोदन्ते वासवश्रिया ॥८॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy