SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 888888883863% 8882848888888888 ऽभवत् ||१०|| भयभ्रान्तैस्ततो भूपैः प्राभृतानि वितेनिरे । वाजिराजिमणिग्रामप्रमुखैः सारवस्तुभिः ॥ ९१ ॥ महामात्यबलोपेतं, श्रीवीरधवलम्प्रति । समुद्गते प्रभाधीशे, को हि नार्थ प्रयच्छति ॥९२॥ युग्मम् || प्रतापश्रुलुकेन्द्रस्य, कराक्रान्तमहीभृतः । प्रासरत्परितो नित्यं विश्वविश्वोपकारिणः || ९३ ॥ इत्थं सृजन्नरिनरेन्द्रजयं यशस्वी, राजन्यराजिषु जगजनहर्षवर्षी || श्रीवस्तुपालसचिवे - श्वरराजमानो, लेमे कलामनुपमां चुलुकान्वयेन्दुः ||९४ || ---------------------~~~-~ ॥ इति श्रीमहामात्यश्रीवस्तुपालचरित्रे धर्ममाहात्म्य प्रकाशके तपागच्छाधिपश्रीसोमसुन्दरसूरि श्रीजयचन्द्रसूरि श्रीमुनिचंद्रसूरिशिष्यपण्डितश्रीजिनहर्षगणिकृते हर्षा द्वितीयः प्रस्तावः ॥ तृतीयः प्रस्तावः । इतश्चास्त्यवनी भालशृङ्गारतिलकोपमम् । गोधानामपुरं धाम, रामणीयकसम्पदः ॥ १ ॥ महेन्द्रीतटिनीवीचिबाहुभिर्मृदुशीतलैः । यदालिङ्गति कान्तेव, तटपल्यङ्कसंस्थितम् ||२|| स्थाने तत्तद्भटाङ्गानां पतितानां रणाङ्गणे । अत्राभूवन् स्वयम्भूनि, शम्भुलिङ्गान्य| नेकशः ॥ ३ ॥ इत्याद्यैश्वित्रदैश्वित्रप्रवादैर्बिरुदावली । यत्रागन्तुकलोकानां चेतो रमयति स्फुटम् ||४|| युग्मम् || गुर्जरत्राव| नीपान्थसार्थानां मालवम्प्रति । व्रजतां जायते यतु, विश्रामाय श्रमापहम् ॥५॥ तत्रास्ति घूघुलो घोरकर्मा धर्मातिगस्थितिः । *@3%%88888888888 188% 4683 कैरी
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy