SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ॥९७॥ पौत्रप्रतापसिंहस्य, तद्धातुश्च कनीयसः। तत्राहद्देवकुलिके, श्रेयसे द्वे चकार सः॥९८॥ आसराजविहाराख्यं, प्रासादं वृषभप्रभोः । कुमारदेवीविहारनामधेयं च नेमिनः॥ एकस्थंडिलबंधेनोभयं तत्कृतसंश्रयम् । एकं निर्गमनद्वारं, द्विप्रवेशबलानकम् ॥ ॥९९।। अष्टमंडपमुइंडद्विपश्चाशजिनालयम् । आरासनोत्तानपट्टद्वारपत्रपवित्रितम् ॥७००॥ द्विपञ्चनवतिप्रौढध्वजदण्डघटान्वितम् । | स्फुरत्पाश्चालिकाश्रेणितोरणत्रयराजितम् ॥१॥ शत्रुञ्जयोजयन्ताद्रितीर्थयोः प्रतिहस्तकम् । पित्रोः श्रेयाकृते तत्रोत्तुङ्ग कारयतिम सः॥ ॥२॥ चतुर्भिः कलापकम् ।। तद्दाये हट्टिके द्वे तु चतस्रो गेहपाटिकाः । वाटिकामप्यसावेका, ददावेकान्तधार्मिकः ॥३॥ आसराजविहारे च, पित्तलमयमुच्चकैः। असौ चकार समवसरणं कारणं श्रियः॥४॥ वसतीरिह चारित्रपवित्रमुनिहेतवे । पञ्च प्रपञ्चयामास, | भवाम्भोधेस्तरीरिख ॥५॥ जनसाधुनिवासाय, नैकाः पौषधशालिकाः । स तत्र रचयामास, खर्विमानविजित्वरीः ॥६॥ तथा लोकोपकाराय, कूपारामप्रपादिकम् । तटाकवाटिकाब्रह्मपुरीशैवमठादि च ॥७॥ युग्मम् ।। स्वस्वामिहृदयाम्भोधिसमुल्लासेन्दुमण्डलीः । शिवालयादिसत्कृत्यमण्डलीः स व्यधात्पुनः ॥८॥ स्तम्भतीर्थपुरोपान्ते, महीसागरसंगमे, श्रेयसे शंखसङ्ग्रामे पतितानां महीभुKजाम् ॥९॥ युग्मम् ।। तथा-सङ्ख्चे शङ्खमहीपतेः समपतन् ये भृणपालादयो, वीरा विक्रमवृत्तिनिर्मलकथावाचालितोर्वीतलाः । तत्तना मनिरूपणानि स महीतीरे महीयान् दश, स्थाणोदेवकुलानि दुर्जनकुलश्रीबंदिकारोऽकरोत् ॥१०॥ तुङ्गकुट्टिमविश्रान्तद्विजराजकुटुम्ब काम् । अजिह्मधीरसौ ब्रह्मपुरीमेकामकारयत् ॥११॥ तद्वासिवाडवेभ्योऽसौ, वाटकांश्च त्रयोदश । ददौ बभ्राम कीर्तिस्तु, भुवनानि चतुर्दश ॥१२॥ षट्कर्मनिरतेभ्यस्तु,द्विजेभ्यः सुकृताशयः । रामपल्लडिकाग्रामस्तेनादीयत शासने ॥१३।। तत्र पौरोपकाराय चिद्रूपः * कूपकैतवात् । पातालतः सुधाकुंडमेकमाहूतवानयम् ।। तत्र पौरोपकाराय, यशोदातनुजन्मनः। यादवकुलभानोश्च, श्रीकृष्णस्य महा
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy