SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ | सङ्घशाः, पृष्टा हृष्टा जगुर्यथा ॥७२॥ तीर्थद्वयेऽपि मे स्वामिन् , द्रम्मकोटिव्ययोजनि । धर्मार्थ सकलैः कृत्यैरित्यूचे रत्न आहेतः |॥७३॥ समुद्राष्टसहस्राणां, सिद्धाद्रौ रैवते पुनः। लक्षस्यासीद् व्ययो मह्यमिति भीमोऽवदत्तदा ॥७४॥ कृतार्था कोटिरेकासीत्तथा लक्षाणि षोडश । धर्मव्यनेन मे मत्रिन्नाभडसाधुरब्रवीत् ॥७५॥ चत्वारिंशत्सहस्राणि, श्रीशत्रुञ्जयपर्वते । प्रभो! षष्टिसहस्राणि, खते च व्ययो मम ॥७६॥ श्रीदेवपत्तने लक्षव्ययश्च समभृन्मम । आसपालोऽलपत्साधोराभडस्य तनूयः॥७७॥ द्रम्मलक्षव्ययः कस्माद्भद्रासीदेवपत्तने । इत्युक्तो मत्रिराजेन, स पुनःस्माह मुग्धहृद् ॥७८॥ अधीती सर्वशास्त्रेषु, गुरुर्मे ब्राह्मणोऽस्ति यः। स मां वक्ति प्रभा| सेत्र, स्नानदानादितत्परम् ॥७९॥ जैनतीर्थव्ययप्रायश्चित्तार्थ द्रम्मलक्षकम् । प्रक्षाल्य पयसा पूर्व, द्विजेभ्यो यदि दीयते ॥८॥ तदा कारयति स्नानं, विधिना प्रियमेलके । तीर्थे तेनाभवद्भूयान्, व्ययो मे मत्रिपुङ्गव ॥८१।। श्रुखा तस्य गिरं मन्त्री, कर्णक्रकच| सोदराम् । अतीव व्यथितोऽवोचत्तमेवं निष्ठुरोक्तिभिः ॥८२।। अरे दुष्ट दुराचार, कृतित्रातबहिष्कृत । वृथैव भवताऽपाति, निजात्मा * | भवसागरे ॥८३।। शत्रुञ्जयोज्जयन्ताद्रितुल्यं तीर्थ जगत्त्रये । स्वपरागमविख्यातं, नास्ति पापमलापहम् ।।८४॥ यतः-अष्टषष्टिषु तीर्थेषु, यात्रया यत्फलं भवेत् । आदिनाथस्य देवस्य, स्मरणेनापि तद्भवेत् ॥८५|| नमस्कारसमो मत्रः, शत्रुञ्जयसमो | गिरिः । गजेन्द्रपदर्ज नीरं, निर्द्वन्द्वं भुवनत्रये ॥८६॥ पिता तवाधुना सङ्घसर्वभारधुरन्धरः । सुश्रावकशिरोरत्नं, द्रम्मकोटिव्ययं | | व्यधात् ।।८७॥ भवानस्यात्मजो भूत्वा, यात्रां कृत्वापि तीर्थयोः । एवंविधमहापापं, कुरुते कुगुरूक्तितः ॥८८॥ अन्धः कूपे पतत्यन्धे, यथा- * न्धकारसंश्रितः । एवं कुगुरुमूढात्मा, भवकूपेऽपतद्भवान् ॥८९॥ मया तु लोककृत्यानि, क्रियन्ते यत् क्वचित् क्वचित् । चौलुक्येश
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy