________________
श्रीवस्तुपाल चरितम् ।
॥४२॥
444388888888888888888888888888
वदतां वरः । स्वभङ्कं प्रेषयामास सदीकस्य गृहाङ्गणे ॥५३॥ सम्प्राप्यावसथं तस्मै, महेभ्यप्रवराय सः । मत्रिसुत्रामसंदिष्टं, स्माहाशीर्वादपूर्वकम् ||५४ || मन्मुखेन वदत्येवं भवन्तं श्रीमतां गुरुम् । मत्री चौलुक्यभूभर्तुर्वस्तुपालः सतां गुरुः || ५५ ॥ व्यवहारिधुराधार, वीरवर्गपुरंदर। अधुना वसुधायां खं, धनेन धनदायसे ॥५६॥ तव कर्पूरपारीव, कीर्त्तिः श्रीदानसंभवा । सदा या ( वासय) - त्यभितो वेलाकूलानि निखिलान्यपि ॥५७॥ परं सौहार्द्दतः किंचिद्धितं ते निगदाम्यहम् । सर्वस्य हि हितं वाच्यं, महतस्तु विशेषतः || ५८ || विनयो गीयते राजा, गुणेषु निखिलेष्वपि । व्यवहारिवरप्राज्ञैर्ब्रह्मचर्य व्रतेष्विव ॥ ५९ ॥ निर्लावण्यं यथा रूपं, कस्मैचित्स्वदते न हि । चातुर्यादिगुणाः सर्वे, विनयेन विना तथा ॥ ६० ॥ देहिनः सद्गुणश्रेणिं, द्वेषयत्येव दुर्मदः । दुर्वात इव शस्यालीमुल्लसन्तीं समन्ततः ।। ६१।। ततो वैनयिकीं वृत्तिं कृत्वाभ्युदयदायिनीम् । इहागत्य झगित्येव, मां भजस्व भयोजितः || ६२ ॥ अथ कर्णातिथीकृत्य, सदीकस्तदुदीरितम् । अभ्यधादधिकक्रोधसमिद्धवदनद्युतिः ||६३ || भूयांसो भूभुजो जाता, मत्रिणश्च परःशताः । न कोऽपि प्रोचिवानेवं, पुरा मे निष्ठुरं वचः ॥ ६४ ॥ सर्वः कोऽपि समायाति मिलनाय मदालये । अनाहूतोऽपि कार्यार्थी, नदीश्रोत इवाम्बुधिम् ||६५|| नरेन्द्रस्यापि कस्यापि न गच्छामि गृहाङ्गणम् । चक्रवर्तीव रङ्कस्य, वृद्धत्वादखिलर्द्धिभिः ॥ ६६ ॥ कूपमण्डूकमित्रेण, मन्त्रिणानेन दुर्धिया । नवीनोऽयं कथं पन्थाः, पात्यतेऽत्र पुरेऽधुना ॥ ६७ ॥ यद्यद्विलोक्यते तस्य तत्तद्यच्छामि वाञ्छितम् । स्वावासस्थित एवाहं, कल्पशाखीव नन्दने ॥ ६८ ॥ स्तोकयापि श्रिया नीचा, गर्वायन्ते तथा यथा । आखो : शालिकणप्राप्तौ, | व्यापृतिः करयोर्द्वयोः ॥ ६९ ॥ गुणाधिके महापुंसि, मनखिनि यशखिनि । अहङ्कृतिर्विनाशाय, निर्विवेकस्य जायते ॥ ७० ॥ अखर्व - | गर्वसर्वस्वं तिरस्कृत्य ततो निजम् । मिलनाय त्वयागम्यं, रमारम्ये ममालये ॥ ७१ ॥ पुरेऽत्र व्यापृतिर्येन, निःशङ्का भवतो भवेत् ।
EZUDZZQDK-XCBK-XŒDK-XŒ3%-X€ÐKI
चतुर्थः
प्रस्तावः ।
॥४२॥