SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ * पपदैश्वर्यतिलकं पुलकाङ्कितः। सद्यस्ककुङ्कमै रौप्यैरक्षतैः समपूरयत् ॥५४॥ तीर्थकृत्पदवीप्राप्तिस्वयंवरमहावहाम् । सोत्कण्ठश्च तयोः कण्ठे, निदधे कुसुमस्रजम् ॥५५॥ हेमदण्डमयं छत्रं, प्रकीर्णकपुरस्सरम् । ददौ प्रसादं पञ्चाङ्ग, चतुरङ्गचमूयुतम् ॥५६॥ सप्तभिः कुलकम् ॥ ततः सर्वेऽपि सामन्ता, मत्रिणोश्च तयोर्मदा । प्राभृतानि प्रभूतानि, निर्माय प्राणमन् पदौ ॥५७॥ जय जीव चिरं नन्द, सङ्घ* भारधुरन्धर ! । इत्याशिर्ष तयोः प्रीता, ब्रह्मण्या ब्राह्मणा ददुः ॥५८॥ गुरुश्चौलुक्यदेवस्य, भूदेवः स्थितिमांस्ततः । चकार तिलक वेदमत्रोच्चारं सृजस्तयोः ॥५९॥ अनुक्रमं ततः सङ्घश्वराः सर्वेऽपि सस्पृहम् । व्यधुर्वर्धापनश्रेणिं, रचिताखिलमङ्गलाम् ॥६०॥ सानन्दाः सोदराः सर्वा,नवखङ्गेषु युक्तितः । निर्माय तिलकान्युच्चैराशिषः प्रददुः शिवाः ॥६१।। यतः-अंही तीर्थपथाग्रगौ सुवतिनौ दारिद्यसर्वकषौ, पाणी धन्यतमौ जगत्प्रियवचाः कण्ठो भुजौ दुर्द्धरौ । ईदृग्भाग्यभराभिरामलिपिवद्भालं तदेषां क्रमात् , पूजा माङ्ग|लिकेऽहतो दृशि जनैः सद्देशितस्तन्यते ॥६२॥ श्रीनागेन्द्रगणाधीशा, गुरवोऽन्वयसम्मताः । इत्याशिपस्तयोः स्माहुस्तदा भक्तिविन प्रयोः॥६३॥ आदौ श्रीभरतेश्वरप्रभृतिभिः प्रादुष्कृतं यत्क्षितौ, त्रैलोक्येश्वरतापदादपि महद्यद्गीयते तत्त्वतः। सत्यकारनिभं जिनेन्द्र| पदवीप्राप्तः शिवश्रीगृहं, श्रीसङ्घाधिपतेः पदं विजयते सर्वातिशायिस्थिति ॥६४॥ सङ्घाधिपपदारोपतिलकानि खयं व्यधात् । अन्येपामार्हतादीनां, युक्तितः सचिवस्ततः॥६५।। सगौरवं पुनर्मत्री, चतुर्णा व्यवहारिणाम् । तादृग्व्ययसमर्थानां, महाधरपदं ददौ॥६६॥ पवित्रैर्विविधैर्वस्त्रस्ततो विनयपूर्वकम् । मुनीन्द्रान् सपरिवारान् , मत्रीन्द्रः प्रत्यलाभयत् ।।६७॥ सुकृती प्राभृतीकृत्य, रत्नालङ्गतिसन्ततीः। चौलुक्यनृपतेश्चित्तं, प्रेमस्थेममयं व्यधात् ॥६८॥ हेमकुण्डलकेयूररत्नमाणिक्यमुद्रिकाः। भूपादिभ्यो ददौ मत्री, यथायुक्ति
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy