SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ येत्यभिग्रहम् । अध्ययैव जिन शक्या, मया भोक्तव्यमन्वहम् ॥२७॥ वार्चयमं नमस्कृत्य, स जगाम निजं पदम् । व्यहाषींद्यतिरन्यत्र, निःसङ्गा मुनयो यतः ॥२८॥ सर्वात्मना शुचीभूय, ततोऽसौ कुसुमैनिजैः । श्रीजिनं पूजयामास, प्रत्यहं भक्तिसङ्गतः ॥२९॥ | कदाचित्कुरुते नृत्य, गुणगानमनोहरम् । कदाचिन्निवृतीभूय, ध्यायत्यन्तर्जिनेश्वरम् ॥३०॥ कदाचिद्विधिपूतात्मा, सृजत्यारात्रिको त्सवम् । कदाचित्पठति स्तोत्रं, पमित्रं पुरतोऽर्हतः ॥३१॥ एवं पूजानुभावेन, क्षयेणाशुभकर्मणाम् । वर्द्धमानश्रियस्तस्य, साधुवादो| ऽभवजने ॥३२॥ वणिजा सोमदत्तेन, तस्य प्रीतिरभूत्सह । विमुच्य मालिकस्थानं, ततस्तस्थौ स तद्गृहे ॥३३॥ विक्रय धान्यराशीनां, तदादेशात्सृजत्यसौ । तत्रापि तुर्यभागेन, व्यवसायविदग्रणीः ॥३४॥ सोऽक्षतैः कुसुमैनित्यं, महत्यर्हन्तमादरात् । खभुक्तिमध्याच्छुद्धात्मा, पात्रदानं तनोत्यसौ ॥३५।। कृत्वान्यदाईतः पूजा, गृहीत्वा मुद्गपोट्टलम् । सोऽचलाख्यपुरे गच्छन् , विशश्राम तरोरधः ॥३६॥ तत्पुण्यप्रेरितस्तत्र, सिद्धपुत्रः पवित्रधीः। आययौ पुस्तिकापाणिव्रजन् ग्रामान्तरे क्वचित् ॥३७॥ विनयं विभ्रता* तेन, नतेन श्रेष्ठिमनुना । पुस्तिकायां किमस्तीति, प्रोचे सिद्धसुतस्तदा ॥३८॥ निमित्तशकुनादीनां, शुभाशुभविचारणा | अस्त्यस्यां | मुनिभिः प्रोच्चैः, (प्राच्यैः) प्रणि(णी)तेत्ययमूचिवान् ॥३९॥ बभाषे दुर्गतोऽप्येवं, कीदृशाः शकुनाः शुभाः। किं स्मृतं च फलं | तेषां विद्वन्मह्यं निवेदय ॥४०॥ A सिद्धसूनुस्ततः प्रोचे, तत्र पूर्व क्षुतः फलम् । यतः शकुनशास्त्रेषु, फलं तस्याः स्मृतं बदः ॥४१॥ (आदौ क्षुतं चेत् शकुनैस्ततः किं, पश्चाक्षुतं चेत् शकुनैस्ततः किम् । जातानजातान् शकुनानिहन्ति, क्षुतं क्षणेनात्र न संशयोऽस्ति ॥४२॥) पुत्वदिसा धुव लाभो, की जलणे हाणी जमालए मरणम् । नेरइए उव्हं, पच्छिमे सबसम्पत्ति ॥४३॥ ततो दुर्गाफलं प्रोचे, सिद्धपुत्रस्तदग्रतः । वामदक्षिणभागेन, **488-8-48-2-24882-8-2483-8- *18-2-848888
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy