SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 48888883838838 48488888888884539889 | क्रीडन्तु कान्तासखाः, कान्तारे वरकासराः सरभसं गर्जन्त्विह स्वेच्छया । अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि कम्पागतिं, कान्तारान्तरसञ्चरव्यसनवान् यावन्न कण्ठीरवः ||५० || भवदीयबले देव, डोडीयान्वयसम्भवः । जेहुलः क्षत्रियज्येष्ठो, जयत्येको - ऽपि तत्रयम् ॥ ५१ ॥ द्वितीयः सोमवर्मास्ति, वीरवौलुक्यचन्द्रमाः । तृतीयस्त्रिजगज्जेता, क्षेत्रवर्मास्ति गोहिल ः || ५२ | | देवस्तु | वर्णनीयः किं, साक्षात्कलियुगार्जुनः । एकोऽप्यनेकवद्भाति, सङ्ग्रामे योऽरिमानसे ॥५३॥ जायमानासु वार्तासु, तयोरेवं परस्परम् । प्रणम्य वसुधाधीशं द्वारपालोऽभ्यधादिति ॥ ५४ ॥ कोऽप्येकः पुरुषः स्वामिन्, द्वारि तिष्ठति वारितः । ईहमानो | महीनाथदर्शनं विश्वपावनम् ||५५|| निर्देशो देवपादानां कीदृशो मम तम्प्रति । समानय समीपं मे, श्रुवेत्यादिष्टवान्नृपः ॥ ५६ ॥ तदादेशात्समागत्य, सोऽवदन्नतिपूर्वकम् । स्वामिन् सामन्तपालाद्यैश् चाहुमान भटैस्त्रिभिः ॥५७॥ षड्भिः शतसहस्रैर्ये, सङ्ग्रहीता भटास्त्वया। तैरात्मानं रणक्षोण्यां, सम्यग् रक्ष क्षितीश्वर ||५८ || भवितासि प्रगेऽस्माकं त्वमेव प्रथमोऽतिथिः । कुमार्यामी - युषां शीघ्रमारेण्यामिति वोकथि ||५९ ॥ त्रिभिर्विशेषकम् ॥ तदुक्तं चुलुकस्वामी, विधाय श्रवणातिथिम् । दवा यथोचितं दानं, तमुवाच स्मिताननः ॥ ६० ॥ प्राप्तमेव रणे प्रातर्यू जानीत मामपि । सर्वेषामपि तत्रैव द्रक्ष्यते भुजसौष्ठवम् ॥ ६१॥ तेषामपि त्वयाख्येय, एवं सन्देशको मम । सोऽपि गल्ला समाचख्यौ तेभ्यस्तद्भूभुजोदितम् ॥ ६२ ॥ समग्राप्यथ सामग्री, राजादेशा| द्वलद्वये । रजन्यामेव राजन्यैर्निर्ममे रणकर्मणे || ६३॥ अथोदिते जगत्कर्मसाक्षिणि द्वादशात्मनि । उभयोः सैन्ययोस्तुल्यं, दध्वान | रणदुन्दुभिः ||६४|| तद्ध्वानश्रवणोद्भूतभुजकण्डूकरालिताः । योद्धुं संवर्मयामा सुस्तत्कालं वीरपुङ्गवाः ॥ ६५ ॥ प्रातःकृत्यं समाधाय, १ रणभूम्याम् । *83%%88% 4838383888888888284
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy