SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः। श्रीवस्तुपाल रुच्यते । काष्ठस्येवातिदुभेदो, दुश्च्छेदो निबिडस्थितिः ॥३२॥ कृतान्तरकरणं वानिवृत्तकरणेन तत् । विरलीकृत्य मिथ्याख, वेदनीयं चरितम् । यदग्रतः ॥३३॥ आन्तमौहूर्तिकं सम्यग् , श्रद्धानं स्वेष्टराज्यवत् । प्राप्नुवन्ति यत्तदोपशमिकं ग्रन्थिभेदनात् ॥३४॥ इदं नैसर्गिक प्रोक्तं, स्वादाधिगमिकं तु तत् । गुरूपदेशाद्यद्ग्रन्थिभेदे सञ्जायतेङ्गिनः॥३५॥ जीवस्योपशमश्रेण्यां, मोहे शांते तु यद्भवेत् । द्विती॥६॥ यमौपशमिक, तन्मोहोपशमोद्भवम् ॥३६॥ मिथ्यात्वाभिमुखो वान्तसम्यग्दर्शनपायसः । उदीर्णानन्तानुबन्धी, जीवस्तत्स्वादसन्निभम् ॥३७॥ सम्यक्त्वस्य परीणाममुत्कृष्टं यत् षडावलिः । जघन्यमेकसमय, धत्ते सास्वादनं च तत् ॥३८॥ युग्मम् । तार्तीयिकं तु सम्यक्त्वं, पुद्गलोदयवेदिनः । भवेज्जीवस्य मिथ्यात्वमोहक्षयशमोद्भवम् ॥३९॥ क्षपकश्रेणिमारूढः, क्षीणानन्तानुबन्धकः । मिथ्या त्वमिश्रयोः कृतक्षयः क्षायिकसम्मुखः ॥४०॥ क्षीणप्रायं च सम्यक्त्वं, यजीवश्चरमांशकम् । वेदयत्युच्यते तेन, चतुर्थ वेदकं पुनः॥ Joke||४१॥ प्रागयुक्त्या सप्तके क्षीणे, क्षायिकं पञ्चमं भवेत् । सम्यक्त्वाख्यं कथं शुद्धपरिणामाद्यपाततः ॥४२॥ सम्यक्त्वं पञ्चधाप्येतत् , प्रत्येकं स्यात् त्रिधा गुणैः । रोचकं दीपकं चैव, कारकं सान्वयाभिधम् ॥४३॥ दृष्टान्तादिविना तीव्रा, या श्रद्धा तद्धि रोचकम् । | अन्येषां दीपकत्वेन, दीपकं विमलात्मनः ॥४४॥ पञ्चाचारक्रियाकृत्त्वात्कारकं तत्प्रकीर्तितम् । एतन्मध्येऽन्यतमं स्यान्मुक्तिश्रीवशतावहम् ॥४५।। तपःसुतीर्थयात्रादि, सर्व सम्यक्त्वपूर्वकम् । पुण्यानुबन्धिसौख्याप्तिपर्याप्तं गीयते जिनः ॥४६॥ यतः-व्रतानि | दानानि जिनार्चनानि, प्रासादबिम्बादिविधापनानि । सुतीर्थसेवासुतपःक्रियाश्च, सम्यक्त्वयुक्तानि महाफलानि ॥४७॥ नाभेयदेवप्र| मुखा जिनेन्द्राः, श्रीपुण्डरीकप्रमुखा मुनीन्द्राः । सौमङ्गलेयप्रमुखा नरेन्द्रा, मुक्तिं गता बोधिभवप्रभावात् ॥४८॥ नारायणश्रेणिकमुख्यभूपा, जिनेन्द्रतीर्थे विदितस्वरूपाः। तीर्थङ्करखं प्रतीपाल्य मुक्तिं, यास्यन्ति सम्यक्त्वगुणेन सम्यक् ॥४९।। सम्यक्त्वरत्नमासाद्य, ॥६३॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy