SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ द्वत्सराणां च विंशतिम् ॥६४॥ आदित्य इव तेजस्वी, रत्नादित्यः क्षितीश्वरः। अपालयन्महीमेता, वर्षाणि दश पञ्च च ॥६५॥ वर्षाणि सप्त सामन्तसिंहोऽभूभृपतिस्ततः । इत्यासन भूभुजः सप्तचापोत्कटकुलोद्भवाः॥६६॥ इतश्च-कन्यकुब्जपुरस्वामी, श्रीमद्भूय| डभूपतेः। तनुजन्माऽभवद्भूपः, कर्णादित्यस्तु कर्णवत् ॥६७॥ चन्द्रादित्यः सुतस्तस्य, सोमादित्यस्तदङ्गजः । तत्सूनुर्भुवनादित्यः, एतेऽभूवन्नृपाः क्रमात् ।।६८॥ राजबीनडलक्काख्यास्तत्पुत्राः सोदरास्त्रयः। अजायन्त जगजन्तुजातजीवातुसम्पदः ॥६९॥ तेष्वाद्यो निरवद्यात्मा, विद्यावान् कौतुकी पुनः । भ्रमन् भूमि क्रमात्प्राप्तः, पत्तनं पुरुषोत्तमः ॥७०॥ तस्मै सामन्तसिंहोऽदाद्वाजिकेवलिचमत्कृतः । लीलावतीशिरोरत्नं, लीलादेवीं स्वसोदरीम् ॥७१॥ यतः- अभणन्ताणवि नजइ, माहप्पसुपुरिसाण चरिएण । किं बुल्लन्ति मणीओ, जाओ सहस्सेहिं धिप्पन्ति ॥शा तयोः सनुरनूनश्रीर्मूलराजो महीपतिः । अयोनिसम्भवत्वेन, ख्यातः शम्भुरिवाभवत् ।।७२।। * विक्रमार्कमहीपालान्नवस्वन्दशतेष्वसौ। त्रिधा वीराग्रणीजज्ञे, चौलुक्यकुलचन्द्रमाः ॥७३॥ पञ्चपञ्चाशतं वर्षाण्यकार्षीद्धर्षितप्रजः । | मूलराजो महाराज्यं, स्वाराज्यमिव वासवः ॥७४॥ ततश्चामुण्डराजोऽभून्मार्तण्ड इव तेजसा । त्रयोदशसमा भूमान् , कलाभृत्कान्तिपोषकः ॥७५॥ आसीदासीकृतारातिस्ततो बल्लभभूपतिः। षण्मास्याप्याप यो लोके, वाल्लभ्यं रामवद्गुणैः ॥७७॥ षण्मासैरधिकान्येकादश वर्षाणि सौख्यभृत् । दुर्लभः समभृद्भूपः, कामरूपतरूपमः ।।७८॥ सोमवंशमलङ्कर्तु, पुनर्भीम इवाभवत् । भूपतिस्त्यागिनां सीमा, भीमो भीमपराक्रमः ॥७९॥ द्विचत्वारिंशता परिवंशपरम्पराम् । येनोच्छिद्य कृतं राज्यमेकच्छ मनोहरम् ॥८०॥ एकोनत्रिंशतं तस्य, समाः पट्टमभूषयत् । नृदेवः कर्णदेवस्तु, सकर्णत्रिदशद्रुमः ॥८१|| अभिग्रहविशेषेण, श्लाघ्यः सुमनसामपि । देवभक्तिरसो यस्य, मानसं व्यानशेऽमितः॥८२॥ ततः श्रीजयसिंहोऽभृद्भूभारपुरुषोत्तमः । न चक्रे बलिबन्धाय,
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy